पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १४५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४४ पद्मपुराणम्
अध्यायः १४५
वेदव्यासः
अध्यायः १४६ →

श्रीमहादेव उवाच
ततो गच्छेः महत्तीर्थे संगमेश्वरमुत्तमम्
यत्र हस्तिमती पुण्या साभ्रमत्या हि संगता १
शापं कौडिन्यमुनितः प्राप्य शुष्काभवन्नदी
बहिश्चर्येति नाम्ना वै लोके ख्यातिमुपागता २
तत्तीर्थं संप्रवक्ष्यामि पुण्यं त्रैलोक्यविश्रुतम्
सर्वपापहरं पुण्यं त्रैलोक्ये चापि विश्रुतम् ३
यत्र तीर्थे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम्
मुच्यते सर्वपापेभ्यो रुद्रलोकं प्रगच्छति ४
शृणु देवि प्रवक्ष्यामि एतच्छापस्य कारणम्
यथैह शुष्करूपा हि जाता शापस्य कारणात् ५
यत्र साभ्रमती पुण्या गंगा नाम महानदी
तत्र हस्तिमती नाम गंगया सह संगता ६
तत्रारब्धं च मुनिना तपो वै परमं महत्
एवं बहुगते काले ऋषिणा परमात्मना ७
आराधितो हृषीकेशो नारायणनिरंजनः
तस्यास्तटे तु देवेशि वर्षाणि च बहून्यपि ८
गतानि च विशेषेण मुनेस्तस्य तु पार्वति
कदाचिद्दैवयोगाच्च वर्षाकालः समागतः ९
नदी तत्र तु संपूर्णा कालयोगेन सुव्रते
तत्कौंडिन्येन ऋषिणा स्थानं त्यक्तं तदा निशि १०
रात्रौ दुःखं महज्जातं हाहेति करुणो रुदन्
किं कर्तव्यमिति ध्यायन्नतिचिंतापरोऽभवत् ११
आश्रमो हि महादिव्यो ऋषिणैव समायुतः
स गतो वारियोगेन हस्तिमत्यां सुरोत्तमे १२
फलानि चैव मूलानि पुस्तकानि बहून्यपि
तानि तस्यां गतान्येव वारियोगेन सुंदरि १३
स कौंडिन्यो ऋषिश्रेष्ठः शशाप तां नदीं किल
उदकेन विना त्वं च भविष्यसि कलौ युगे १४
एवं स दत्त्वा वै शापं हस्तिमत्या महेश्वरि
गतोऽसौ विप्रप्रवरो विष्णुलोकं सनातनम् १५
अद्यापि वर्तते तीर्थं संगमेश्वरसंज्ञकम्
यं दृष्ट्वा मुच्यते पापी ब्रह्महत्यादि पातकात् १६

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर संवादे सोमेश्वरतीर्थमहिमानाम पंचचत्वारिंशदधिकशततमोऽध्यायः १४५