पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०२१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२० पद्मपुराणम्
अध्यायः ०२१
वेदव्यासः
अध्यायः ०२२ →

नारद उवाच-
सगरस्यात्मजा वीराः कथं जाता महाबलाः
विक्रांताः षष्टिसाहस्रा विज्ञानेश्वर तद्वद १
श्रीपार्वतीपतिरुवाच-
द्वे पत्न्यौ सगरस्यास्तां तपसा दग्धकिल्बिषे
और्वस्ताभ्यां वरं प्रादात्तोषितो मुनिसत्तमः २
षष्टिंपुत्रसहस्राणि एका वव्रे तरस्विनाम्
एका वंशधरं त्वेकं यथेष्टं वरशालिनी ३
तत्रैका सुषुवे तुंब्यां पुत्रान्शूरान्बहूनथ
ते तु सर्वेऽपि धात्रीभिर्वर्द्धितास्तु यथाक्रमम् ४
कपिलानां तु दुग्धानां तेषां तत्र महात्मनाम् ५
तेनैव दुग्धयोगेन ववृधुस्ते महात्मनः
एकः पंचजनो नाम पुत्रो राजा बभूव ह ६
ततः पंचजनस्यासीदंशुमान्नाम वीर्यवान्
दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ७
यस्तु गंगासरिच्छ्रेष्ठामानयामास सुव्रतः
समुद्र मानयित्वैनां दुहितृत्वमकल्पयत् ८
नारदउवाच-
कथं गंगा समानीता किं तपस्तेन वै कृतम्
तत्सर्वं मे समाचक्ष्व सुव्रतोऽसि दयानिधे ९
महादेव उवाच-
पूर्वजानां हितार्थाय गतोऽसौ हैमके गिरौ
तत्र गत्वा तपस्तप्तं वर्षाणामयुतं तदा १०
आदिदेवः प्रसन्नोऽभूद्योऽसौ देवो निरंजनः
तेन दत्ता इयं गंगा आकाशात्समुपस्थिता ११
तत्र विश्वेश्वरो देवो यत्र तिष्ठति नित्यशः
गंगां दृष्ट्वाऽगतां तेन गृहीता जाह्नवी तदा १२
जटाजूटे च संधार्य वर्षाणामयुतं स्थितम्
न निःसृता तदा गंगा ईशस्यैव प्रभावतः १३
विचारितं तदा तेन क्व गता मम मातृका
स ध्यानेन विचार्यैवं गृहीता चेश्वरेण तु १४
ततः कैलासमगमत्स तु भगीरथो नृपः
तत्र गत्वा मुनिश्रेष्ठ ह्यकरोदुल्बणं तपः १५
आराधितस्तदा तेन दत्तवानहमापगाम्
एकं केशं परित्यज्य दत्ता त्रिपथगा तदा १६
स गृहीत्वा गतो गंगां पाताले यत्र पूर्वजाः
अलकनंदा तदा नाम गंगायाः प्रथमं स्मृतम् १७
हरिद्वारे यदायाता विष्णुपादोदकी तदा
तदेव तीर्थं प्रवरं देवानामपि दुर्ल्लभम् १८
तत्तीर्थे च नरः स्नात्वा हरिं दृष्ट्वा विशेषतः
प्रदक्षिणं ये कुर्वंति न चैते दुःखभागिनः १९
ब्रह्महत्यादि पापानां राशयः संत्यनेकशः
विलयं यांति ते सर्वे हरेर्दर्शनतः सदा २०
एकदा केशवस्थाने हरिद्वारे ह्यहं गतः
तस्मात्तीर्थप्रभावाच्च जातोऽहं विष्णुरूपवान् २१
ये गच्छंति नरश्रेष्ठास्ते वै यांति ह्यनामयम्
चतुर्भुजास्तु ते लोकाः नरा नार्यश्च सर्वशः २२
वैकुंठं यांति ते सर्वे हरेर्दर्शनमात्रतः
ममाप्यधिक तीर्थं तु हरिद्वारं सुशोभनम् २३
तीर्थानां प्रवरं तीर्थं चतुर्वर्गप्रदायकम्
कलौ धर्मकरं पुंसां मोक्षदं चार्थदं तथा २४
यत्र गंगा महारम्या नित्यं वहति निर्मला
एतत्कथानकं पुण्यं हरिद्वाराख्यमुत्तमम् २५
उक्तं च शृण्वतां पुंसां फलं भवति शाश्वतम्
अश्वमेधे कृते यागे गोसहस्रे तथैव च २६
तत्पुण्यं लभते विद्वान्हरेर्दर्शनमात्रतः
गोहंता ब्रह्महा चैव ये चान्ये पितृघातकाः २७
एवंविधानि पापानि बहून्यपि च वै द्विज
विलयं यांति सर्वाणि हरेर्दर्शनमात्रतः २८
इति श्रीपाद्मेमहापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे उमापति नारद संवादेहरिद्वार माहात्म्ये गंगोत्पत्तिपूर्वकं हरिद्वारमाहात्म्यं नाम
एकविंशोऽध्यायः २१