पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०८२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०८१ पद्मपुराणम्
अध्यायः ०८२
वेदव्यासः
अध्यायः ०८३ →

पार्वत्युवाच-
वैष्णवानां लक्षणं च कीदृशं प्रतिपादितम् ।
महिमा कीदृशश्चैव वद विश्वेश्वर प्रभो १।
महादेव उवाच -
विष्णोरयं यतः प्रोक्तो ह्यतो वै वैष्णवो मतः ।
सर्वस्यादिस्तु विज्ञेयो ब्रह्मारूपधरस्ततः २।
यतः सकाशात्संजाता ब्राह्मणा वेदपारगाः ।
ते वैष्णवास्तु विज्ञेया नैवान्ये तु कदाचन ३।
शौचसत्यक्षांतियुक्तो रागद्वेषविवर्जितः ।
वेदविद्याविचारज्ञो यः स वैष्णव उच्यते ४।
अग्निहोत्ररतो नित्यं नित्यं चातिथिपूजकः ।
पितृभक्तो मातृभक्तः स वै वैष्णव उच्यते ५।
दयाधर्मेण संयुक्तस्तथा पापपराङ्मुखः ।
शंखचक्रांकितोयो वै स वै वैष्णव उच्यते ६।
कंठे मालाधरो यस्तु मुखे रामं सदोच्चरेत् ।
गानं कुर्यात्सदा भक्त्या स नरो वैष्णवः स्मृतः ७।
पुराणेषु रता नित्यं यज्ञेषु चरताः सदा ।
ते नरा वैष्णवा ज्ञेयाः सर्वधर्मेषु संमताः ८।
तेषां निंदां प्रकुर्वंति ये नराः पापकारिणः ।
ते मृतास्तु कुयोनिं वै गच्छंति च पुनः पुनः ९।
गोपालनाम्नीं मूर्तिं च येऽर्चयंति द्विजाः सदा ।
धातुमात्रमयीं कृत्वा चतुर्हस्तां सुशोभिताम् १०।
पूजां कुर्वंति ये विप्रास्ते ज्ञेयाः पुण्यभाजिनः ।
कृत्वा पाषाणजां मूर्तिं कृष्णाख्यां रूपसुंदरीम् ११।
पूजां कुर्वंति ये विप्रास्ते ज्ञेयाः पुण्यमूर्त्तयः ।
शालग्रामशिला यत्र यत्र द्वारवती शिला १२।
उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः ।
मूर्तिं मंत्रेण संस्थाप्य पूजनं क्रियते यदि १३।
तदर्चनं कोटिगुणं धर्मकामार्थमोक्षदम् ।
नवधा तत्र वै भक्तिः कर्तव्या च जनार्दने ।
अतः पाषाणजा मूर्तिस्तथा धातुमयी त्वया १४।
तस्यां भक्तैः प्रकर्त्तव्यं ध्यानं पूजनमेव च ।
राजोपचारकीं पूजां मूर्तौ तत्र प्रकल्पयेत् १५।
सर्वात्मानं स्मरेन्नित्यं भगवंतमधोक्षजम् ।
दीनानाथैकशरणं लोकानां वृत्तिकारणम् १६।
मूर्त्तौ तत्र स्मरेन्नित्यं महापातकनाशनम् ।
गोपालोऽयं तथा कृष्णो रामोऽयमिति च ब्रुवन् १७।
पूजां करोति यः सम्यक्स वै भागवतो नरः ।
गोकुले तु यथा रूपं धृतं वै केशवेन तु १८।
तादृग्रूपं प्रकर्त्तव्यं वैष्णवैर्नरसत्तमैः ।
आत्मसंतोषणार्थाय स्वरूपं कारयेद्बुधः १९।
यतो भक्तिस्तु बहुला जायते नात्र संशयः ।
शंखचक्रगदादीनि विष्णोश्चैवायुधानि च २०।
तस्यां मूर्तौ विशेषेण कर्त्तव्यानि प्रमाणतः ।
चतुर्भुजां द्विनेत्रां च शंखचक्रगदाधराम् २१।
पीतवासः परीधानां शोभमानां गरीयसीम् ।
वनमालां दधानां तां लसद्वैडूर्यकुंडलाम् २२।
मुकुटे मणिसंयुक्तां कौस्तुभोद्भासितां सदा ।
सौवर्णीं चाथ रौप्यां वा ताम्रजां चाथ पैत्तलीम् २३।
कारयेत्परया भक्त्या वैष्णवैर्द्विजसत्तमैः ।
आगमोक्तैर्वेदमंत्रैः प्रतिष्ठाप्य विशेषतः २४।
पश्चाद्वै अर्चनं कार्यं यथाशास्त्रानुसारतः ।
षोडशोपचारैर्मंत्रैः पूजनं विधिपूर्वकम् २५।
पूजिते तु जगन्नाथे सर्वे देवाश्च पूजिताः ।
अतो येन प्रकारेण पूजनीयो महाप्रभुः २६।
अनादिनिधनो देवः शंखचक्रगदाधरः ।
सर्वं ददाति सर्वेशो वैष्णवान्पुण्यरूपिणः २७।
यथा विष्णुस्तथा शर्वो नांतरं वर्त्तते क्वचित् ।
एवं ज्ञात्वा तु भो देवि ह्युभयोर्मूर्तिकल्पनम् २८।
शिवपूजां प्रकुर्वाणो विष्णुनिंदासु तत्परः ।
रौरवेषु नरकेषु वसते नात्र संशयः २९।
अहं विष्णुरहं रुद्रो ह्यहं ब्रह्मा पितामहः ।
सर्वभूतेषु सततं संवसामि पुनः पुनः ३०।
पार्वत्युवाच-
के दासा वैष्णवाः के तु के भक्ता भुवि कीर्तिताः ।
तेषां वै लक्षणं ब्रूहि यथार्थं वै महेश्वर ३१।
महादेव उवाच-
शूद्रा भवंति वै दासा वैष्णवा नारदादयः ।
प्रह्लादश्चांबरीषाद्या भक्तास्ते नगनंदिनि ३२।
ब्रह्मक्रियारतो नित्यं वेदवेदांगपाठकः ।
शंखचक्रांकितो यस्तु स वै वैष्णव उच्यते ३३।
द्विजसेवारतो नित्यं नित्यं विष्णुप्रपूजकः ।
शृणोति बहुधा चैव पुराणं वेदसंमितम् ३४।
स शूद्रो हरिदासस्तु इत्युक्तो नगनंदिनि ।
पंचवर्षत्वमाश्रित्य कृता भक्तिरनेकधा ३५।
स वै भक्त इति प्रोक्तः सर्वसाधुषु संमतः ।
ध्रुवादयस्ते विज्ञेया अंबरीषादयश्च ये ३६।
भक्ताश्च मुनिभिः प्रोक्ताः सर्वकालेषु भामिनि ।
कलौ धन्यतमाः शूद्रा विष्णुध्यानपरायणाः ३७।
इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम् ।
शंखचक्रांकितो यस्तु विष्णुभक्तिप्रकारकः ३८।
चतुर्विधमहोत्साहकर्त्ता चैव विशेषतः ।
स शूद्रो विष्णुदासस्तु यथादृष्टं यथाश्रुतम् ३९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे दासवैष्णवानां महिमानाम द्व्यशीतितमोऽध्यायः ८२।