पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११८

विकिस्रोतः तः
← अध्यायः ११७ पद्मपुराणम्
अध्यायः ११८
वेदव्यासः
अध्यायः ११९ →

सूत उवाच।
पुनः प्रोवाच भगवान्महादेवो वृषध्वजः ।
श्रोतारमुपसंगम्य भक्तियुक्तं षडाननम् १।
ईश्वर उवाच।
कार्तिको वैष्णवो मासः सर्वमासेषु चोत्तमः ।
अस्मिन्मासे त्रयस्त्रिंशद्देवाः संनिहिताः कलौ २।
ऊर्जे मासि महाभागौ भोजनानि द्विजातये ।
तिलधेनुं हिरण्यं च रजतं भूमिवाससी ३।
गोप्रदानानि दास्यंति सर्वभावेन सुव्रत ।
सर्वेषामेव दानानां कन्यादानं विशिष्यते ४।
ब्राह्मणायात्र ये कन्यां दास्यंति विधिवन्नराः ।
वैकुंठे वसतिस्तेषां यावदिंद्राश्चतुर्दश ५।
रोमकाले तु संप्राप्ते सोमो भुंक्ते तु कन्यकाम् ।
ऋतुकाले तु गंधर्वा वह्निस्तु कुचदर्शने ६।
तावद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत् ।
विवाहस्त्वष्टवर्षायाः कन्यायाः शस्यते बुधैः ७।
दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने ।
साक्षादधीतवेदाय विधिना ब्रह्मचारिणे ८।
कन्यावरप्रमाणाया एष एव विधिः स्मृतः ।
यावंति चैव रोमाणि कन्यायाश्च तनौ सुत ९।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
सहस्रमेव धेनूनां शतं चानुडुहां समम् १०।
दशानुडुत्समं यानं दशयानसमो हयः ।
हयदानसहस्रेभ्यो गजदानं विशिष्यते ११।
गजदानसहस्राणां स्वर्णदानं च तत्समम् ।
स्वर्णभारसहस्राणां विद्यादानं च तत्समम् १२।
विद्यादानात्कोटिगुणं भूमिदानं विशिष्यते ।
भूमिदानसहस्रेभ्यो गोप्रदानं विशिष्यते १३।
गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यते ।
अन्नाधारमिदं सर्वं जगत्स्थावरजंगमम् १४।
तस्माद्देयं प्रयत्नेन कार्तिके शिखिवाहन ।
त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च १५।
कार्तिकेय उवाच।
अन्यानपि महादेव धर्मान्मे वक्तुमर्हसि ।
यान्कृत्वा सर्वपापानि प्रक्षाल्य त्रिदशो भवेत् १६।
सूत उवाच।
इतिपृष्टस्तदा शंभुः पुनर्वक्तुं प्रचक्रमे ।
यावत्किं बहुधा स्तुत्वात्तच्छृणुध्वं तपोधनाः १७।
ईश्वर उवाच।
परान्नं वर्जयेद्यस्तु कार्तिके नियमे कृते ।
परान्नवर्जनादेव लभेच्चांद्रायणं फलम् १८।
तं प्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत् ।
दिनेदिने तु कृच्छ्रस्य फलंप्राप्नोति मानवः १९।
कार्तिके वर्जयेत्तैलं कार्तिके वर्जयेन्मधु ।
कार्तिके वर्जयेत्कांस्यं संघान्नं च विशेषतः २०।
राक्षसीं योनिमाप्नोति सकृन्मांसस्य भक्षणात् ।
षष्टिवर्षसहस्राणि विष्ठायां परिपच्यते २१।
तन्मुक्तो जायते पापो विष्ठाशी ग्रामसूकरः ।
प्रवृत्तानां तु भक्षाणां कार्तिके नियमे कृते २२।
अवश्यं विष्णुरूपत्वं प्राप्यते मोक्षदं पदम् ।
न कार्तिकसमो मासो न दैवं केशवात्परम् २३।
न वेदसदृशं शास्त्रं न तीर्थं गंगया समम् ।
न सत्यं न समं वृत्तं न कृतेन समं युगम् २४।
न तृप्ती रसना तुल्या न दानसदृशं सुखम् ।
न धर्मसदृशं मित्रं न ज्योतिश्चक्षुषा समम् २५।
अव्रतेन क्षिपेद्यस्तु मासं दामोदरप्रियम् ।
कर्मभ्रष्टः स विज्ञेयो हीनयोनिषु जायते २६।
कार्तिकः प्रवरो मासो वैष्णवानां सदा प्रियः ।
समुद्रगा नदी पुण्या दुर्लभा स्नानशालिनाम् २७।
कुलशीलवतीकन्या दुर्लभा दंपती नृणाम् ।
दुर्लभा जननी लोके पिता चैव विशेषतः २८।
दुर्लभं साधुसन्मानं दुर्लभो धार्मिकः सुतः ।
दुर्लभो द्वारिकावासो दुर्लभं कृष्णदर्शनम् २९।
दुर्लभं गोमतीस्नानं दुर्लभं कार्तिकव्रतम् ।
ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे चंद्रसूर्ययोः ३०।
यत्फलं लभते वत्स तत्फलं भूमिशायिनः ।
भोजनं द्विजदंपत्योः पूजयेच्च विलेपनैः ३१।
कंबलानि च रत्नानि वासांसि विविधानि च ।
तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह ३२।
उपानहा वातपत्रं कार्तिके देहि पावके ।
यः करोति नरो नित्यं कार्तिके पत्रभोजनम् ३३।
न दुर्गतिमवाप्नोति यावदिंद्राश्चतुर्दश ।
सर्वकामफलं तस्य सर्वतीर्थफलं लभेत् ३४।
न चापि नरकं पश्येद्ब्रह्मपत्रेषु भोजनात् ।
ब्रह्मा एष स्मृतः साक्षात्पालाशः सर्वकामदः ३५।
मध्यमं वर्जयेत्पत्रं कार्तिके शिखिवाहन ।
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवास्त्रिपत्रके ३६।
ऐश्वरं वर्जयेत्पत्रं ब्रह्माविष्णुरनुत्तमः ।
सर्वपुण्यमवाप्नोति शेषपत्रेषु भोजनात् ३७।
भोजनान्मध्यपत्रे तु कपिलापयसस्तथा ।
प्राशनान्मुनिशार्दूल नरो नरकमाप्नुयात् ३८।
अज्ञानाद्भुंजते यस्तु शूद्रो वा कपिलापयः ।
कपिलां ब्राह्मणे दत्त्वा शुद्धो भवति कार्तिके ३९।
तिलदानं नदीस्नानं सर्वदा साधुदर्शनम् ।
भोजनं ब्रह्मपत्रेषु कार्तिके मुक्तिदायकम् ४०।
मौनी पालाशभोजी च जलस्नायी सदा क्षमी ।
कार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम् ४१।
जागरं कार्तिके मासि यः करोत्यरुणोदये ।
दामोदराग्रे सेनानीर्गोसहस्रफलं लभेत् ४२।
पितृपक्षेऽन्नदानेन ज्येष्ठाषाढे च वारिणा ।
कार्तिके तत्फलं पुंसां परदीपप्रबोधनात् ४३।
बोधनात्परदीपस्य वैष्णवानां च सेवनात् ।
कार्तिके फलमाप्नोति राजसूयाश्वमेधयोः ४४।
नदीस्नानं कथाविष्णोर्वैष्णवानां च दर्शनम् ।
न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम् ४५।
पुष्करं यः स्मरेत्प्राज्ञः कर्मणा मनसा गिरा ।
कार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत् ४६।
प्रयागो माघमासे तु पुष्करं कार्तिके तथा ।
अवंती माधवे मासि हन्यात्पापं युगार्जितम् ४७।
धन्यास्ते मानवा लोके कलिकाले विशेषतः ।
कुर्वंति स्कंद नित्यं ये सर्वथा हरिसेवनम् ४८।
किं दत्तैर्बहुभिः पिंडैर्गयाश्राद्धादिभिर्मुने ।
तारितास्तेन पितरो नरकाच्च न संशयः ४९।
क्षीरादिस्नपनं विष्णोः क्रियते पितृकारणात् ।
कल्पकोटिं दिवं प्राप्य वसंति त्रिदशैः सह 6.118.५०।
कार्तिके नार्चितो यैस्तु कृष्णस्तु कमलेक्षणः ।
जन्मकोटिषु विप्रेंद्र न तेषां कमला गृहे ५१।
दष्टा मुष्टा विनष्टास्ते पतिताः कलिकंदरे ।
यैर्नार्चितो हरिर्भक्त्या कमलैरसितैः सितैः ५२।
पद्मेनैकेन देवेशं योऽर्चयेत्कमलापतिम् ।
वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम् ५३।
अपराधसहस्राणि तथा सप्तशतानि च ।
पद्मेनैकेन देवेशः क्षमेत प्रणतोऽर्चितः ५४।
तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम् ।
पत्रेपत्रे मुनिश्रेष्ठ मौक्तिकं लभते फलम् ५५।
तुलसीगंधमिश्रं तु यत्किंचित्क्रियते सुत ।
कल्पकोटिसहस्राणि प्रीतो भवति केशवः ५६।
मुखे शिरसि देहे तु कृष्णोत्तीर्णां तु यो वहेत् ।
तुलसीं षण्मुखप्रीत्या न तस्य स्पृशते कलिः ५७।
कृष्णोत्तीर्णैस्तु निर्माल्यैर्यो गात्रं परिमार्जयेत् ।
सर्वरोगैस्तथा पापैर्मुक्तो भवति षण्मुख ५८।
विष्णोरंगारशेषेण यस्यांगं स्पृशते सुत ।
दुरितानि विनश्यंति व्याधयो यांति संक्षयम् ५९।
शंखोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम् ।
चंदनं धूपशेषं तु ब्रह्महत्यापहारकम् ६०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीशिवकार्तिकेयसंवादे प्रश्नोत्तरोनाम अष्टादशाधिकशततमोऽध्यायः ११८।