पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १८०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १७९ पद्मपुराणम्
अध्यायः १८०
वेदव्यासः
अध्यायः १८१ →

[१]श्रीभगवानुवाच।
षष्ठाध्यायस्य माहात्म्यं प्रवक्ष्यामि वरानने ।
यदाकर्णयतां नॄणां मुक्तिः करतले स्थिता १।
अस्ति गोदावरी तीरे प्रतिष्ठानं पुरं महत् ।
पिप्पलेशाभिधानोऽहं यत्रास्मि स्मेरलोचने २।
यत्र गोदावरी तीर शीकरैरवशीतलैः ।
हंसाः पक्षपुटैः कीर्णैर्हरंति यमिनां श्रमम् ३।
स्फुरत्पद्मावलीकोशपरागसुरभीकृतम् ।
श्लाघ्यं गोदावरीतोयं येन ते निर्जरा नराः ४।
धिक्सुधामौषधीशस्य विकृत्क्षयविधायिनीम् ।
महाराष्ट्रवधूकानां मज्जंतीनां मुनीश्वराः ५।
स्पृशंति यत्र वक्त्राणि फुल्लपंकजशंकया ।
यत्रखेलन्महाराष्ट्राः क्वणत्कंकणसुंदराः ६।
हरंति ध्वनयो लीनां मनांस्यपि तपस्विनाम् ।
अत्युच्चसौधशिखरविहारि वनितामुखम् ७।
पश्यन्ननुदिनं यत्र क्षीयते मृगलांच्छनः ।
अत्युच्चसौधवलभी महामणिमरीचिभिः ८।
चुंब्यंते मुनिगंधर्वैर्दूर्वाचंदनचंचलैः ।
यस्मिन्नाधूयमानानां पताकानां समीरणैः ९।
गतश्रमा रवेर्याने भवंति रथवाजिनः ।
राशीकृतैर्मलयजैरसंख्यातैर्वणिग्गणैः १०।
यस्मिन्नुपलशेषोऽसौ लक्ष्यते मलयाचलः ।
पुंजीकृतानि दृश्यंते यत्र मुक्ताफलान्यपि ११।
नगरीदेवता हास्य स्तबका इव सर्वतः ।
तत्र ज्ञानश्रुतिर्नाम्ना मेदिनीवल्लभोऽभवत् १२।
यस्मिन्नुद्धरति क्षोणीं शेषोऽयं मणिसंनिभां ।
अपि प्रतापमार्तंडमंडली तीव्रतेजसि १३।
नित्यमध्वरधूमेन श्यामलाः कल्पशाखिनः ।
असाधारणदातृत्वं पश्यंत इव लज्जया १४।
यदध्वरपुरोडाश चर्वणास्वादलंपटाः ।
न तत्यजुः सुपर्वाणः प्रतिष्ठानपुरं मनाक् १५।
यस्यदानांबुधाराभिः प्रतापज्योत्स्नयानिशम् ।
मखधूमैश्च संपुष्टा ववृषुः समये घनाः १६।
स्वल्पमात्रमपि क्वापि न पदं प्रापुरीतयः ।
नीतयः प्रसरंति स्म यस्मिन्शासति मेदिनीम् १७।
वापिकूपतडागानां च्छद्मना योऽनुवासरम् ।
हृदयस्थानि मेदिन्या निधानानि व्यलोकयत् १८।
पांडुराभिः पताकाभिः प्रासादो यस्य राजते ।
वियद्गंगातरंगोघैर्हिमाद्रिरिव सानुमान् १९।
दानैस्तपोभिर्यज्ञैश्च प्रजानां पालनेन च ।
तुष्टाः स्वर्गौकसस्तस्मै वरं दातुं समागमन् २०।
ततोंतरिक्षमार्गेण धुन्वानाः पक्षसंहतीः ।
मृणालधवला देवी देवहंसा विनिर्गताः २१।
त्वरया गच्छतां तेषामन्योन्यं तत्र भाषिणाम् ।
भद्राश्वप्रमुखा द्वित्राः पुरस्तान्निर्ययुर्जवात् २२।
सर्वैर्मिलद्भिरूचुस्ते पुरस्ताद्गच्छतो जवात् ।
कथं वेगेन निर्याता भवंतः पुरतः स्थिताः २३।
सर्वैर्मिलित्वा गंतव्यमस्मिन्नध्वनि दुर्गमे ।
प्रकाशमानं पुरतस्तेजःपुंजं न पश्यथ २४।
ज्ञानश्रुतेर्महीभर्तुः पुण्यमूर्त्तेरतिस्फुटम् ।
निशम्येति वचः सम्यक्पाश्चात्याना पुरः स्थिताः २५।
हंसा हसित्वा सावज्ञमूचुर्वचनमुच्चकैः ।
[२]रैक्याभिधस्य दुर्द्धर्ष तेजसो ब्रह्मवादिनः २६।
किं नु ज्ञानश्रुतेरस्य राज्ञस्तीव्रतरं महः ।
इति शुश्राव हंसानां गिरो ज्ञानश्रुतिर्नृपः २७।
अत्युच्चसौधभवनमारुह्य च सुखं स्थितः ।
ततः सारथिमाहूय भूपालो विस्मयान्वितः २८।
संदिदेश महात्माऽसौ रैक्य आनीयतामिति ।
ततोऽवधार्य भूपालवचः पीयूषगर्भितम् २९।
निर्जगाममहो नाम्ना सारथिः प्रथयन्मुदम् ।
यत्र वाराणसीनाम नगरी मुक्तिदायिनी ३०।
यत्र विश्वेश्वरो नाम ह्युपदेष्टा जगत्पतिः ।
ततो गयाभिधे क्षेत्रे यत्र देवो गदाधरः ३१।
उद्धर्तुमखिलान्लोकान्वसत्युत्फुल्ललोचनः ।
ततो गौरीगुरोः पार्श्वे सर्वैस्तीर्थैरनेकधा ३२।
पर्यटन्गतवान्यत्र केदारः पापदारणः ।
यमालोक्य सकृन्मर्त्या मुक्ताः स्युर्नात्र संशयः ३३।
महापापविर्निमुक्ता भुक्त्वा भोगान्यथेप्सितान् ।
ततो गौडेषु निर्यातो यत्रास्ते पुरुषोत्तमः ३४।
यस्यावलोकनादेव नराः स्वर्लोकगामिनः ।
ततो द्वारावतीं प्रागान्नगरीं मुक्तिदायिनीम् ३५।
यत्रास्ते गोमती तीरे रुक्मिणीवल्लभो हरिः ।
स्नात्वा च गोमतीतीर्थे पंचकृष्णान्विलोक्य च ३६।
मर्त्यो मुक्तिमवाप्नोति भुक्त्वा भोगान्यथेप्सितान् ।
ततः समुद्रमासाद्य सोमनाथं विलोक्य च ३७।
भुक्तिमुक्तिप्रदं देवं ततो निरगमन्सुधीः ।
अवंतिकां पुरीं प्राप्तो भुक्तिमुक्तिप्रदायिनीम् ३८।
यत्रोमया सुखं क्रीडन्महाकालोस्ति शंकरः ।
अथोंकारं समासाद्य शर्मदं नर्मदातटे ।
भुक्तिमुक्तिप्रदातारं त्वरया निर्गतस्ततः ३९।
अश्वमेधकरं नाम्ना नगरं पर्यटंस्ततः ।
यत्र शार्ङ्गधरः साक्षादास्ते लक्ष्मीपतिः स्वयम् ४०।
ततो विष्णुगयां प्राप्तः कुण्डं लोणारसंज्ञितम् ।
यत्र स्नात्वा च पीत्वा च मुच्यते बन्धनान्नरः ४१।
ततः कोल्हापुरं नाम गतो रुद्रगयां प्रति ।
आस्ते भगवती यत्र लक्ष्मीर्भक्तिप्रदायिनी ४२।
पञ्चनद्यां नरः स्नात्वा महालक्ष्मीं विलोक्य च ।
भुक्त्वा भोगान्यथाकामं भक्तिं च प्रतिपद्यते ४३।
ततोऽमलगिरिं नाम नगरीं प्रतिपद्य च ।
नन्दिकेश्वरमारुह्य सोमनाथोऽस्ति यत्र तु ४४।
दृष्ट्वा चतुर्भुजं देवं वरदानोद्यतं शिवम् ।
सोमनाथं नृणां मुक्तिर्भवत्येव न संशयः ४५।
तुङ्गभद्रानदी तीरे दृष्ट्वा हरिहरं ततः ।
युगेयुगे भुजा यस्य पतन्त्यवनिमण्डले ४६।
यद्विलोक्य नराः सर्वे रम्यं हरिहरं वपुः ।
भुक्त्वा भोगान्यथाकामं मुच्यन्ते बन्धनान्नराः ४७।
स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबन्धनाः ।
ततः स्वामिनमालोक्य लोकानां स्वामिनं विभुम् ४८।
यमालोक्य न पश्यन्ति निरयं जातुचिन्नराः ।
स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारवासनाः ४९।
मुक्तिं च प्रतिदद्यन्ते नात्र कार्या विचारणा ।
ततः श्रीशैलमासाद्य सिद्धगन्धर्वसेवितम् 6.180.५०।
गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः ।
उद्धर्तुमखिलाँल्लोकान्संसाराम्भोधिमध्यतः ५१।
स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबंधनाः ।
मुक्तिं च प्रतिपद्यंते नात्र कार्या विचारणा ५२।
ततः श्रीशैलमासाद्य सिद्धगंधर्वसेवितम् ।
गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः ५३।
उद्धर्तुमखिलाँल्लोकान्संसारांबुधिमध्यतः ।
कालेकाले परं ज्योतिर्यः संदर्शयते स्वयम् ५४।
अवलोकयतां नॄणां यमनुस्मरतामपि ।
दूरे तिष्ठंति संत्रस्ता दूरं निरययातनाः ५५।
स्वर्गे लोके सुखं भुक्त्वा मुक्तसंसारबंधनाः ।
मुक्तिं च प्रतिपद्यंते मानवा नात्र संशयः ५६।
रामोस्ति सानुजः सार्द्धं जानक्यापि ततो गतः ।
तत्र स्नात्वा च पीत्वा च मुच्यते नरकाद्ध्रुवम् ५७।
कल्पकोटिशतं भुक्त्वा स्वर्गलोकसुखं नराः ।
मुक्तसंसारवर्त्मानो मुक्तिं यांति न संशयः ५८।
ततो निवृत्य आयातः पश्यन्भीमरथी तटे ।
द्विभुजं विठ्ठलं देवं भुक्तिमुक्तिप्रदायकम् ५९।
यत्र गोदावरीजन्मस्थानं ब्रह्मगिरिर्महान् ।
गौतमालयमासाद्य यत्रास्ते त्र्यंबको हरः ६०।
अरुणावरुणयोर्मध्ये यत्र गोदावरी नदी ।
तत्र स्नात्वा च पीत्वा च ब्रह्महत्या विलीयते ६१।
असंख्यतीर्थसंपन्नं दृष्ट्वा ब्रह्मगिरिं नराः ।
मुक्तिमेव प्रपद्यंते मुक्ताः संसारदुःखतः ६२।
गौतम्युभयतीरस्थ तीर्थान्वेषणकौतुकी ।
ततो जगाम सूतस्तु मथुरां पापनाशिनीम् ६३।
यत्र स्वायंभुवं देवं भजंति सुरमानवाः ।
आद्यं भगवतः स्थानं महन्मुक्तिप्रदायकम् ६४।
त्रैलोक्येश जनिस्थानं विख्यातं वेदशास्त्रयोः ।
नानादेवगणैर्जुष्टं द्विजर्षिगणसेवितम् ६५।
कालिंदीकूलसंशोभि ह्यर्द्धचंद्र प्रभाकृति ।
सर्वतीर्थनिवासैक पूर्णमानंदसुंदरम् ६६।
गोवर्द्धनगिरिप्रख्यं पुण्यद्रुमलतावृतम् ।
द्विषड्वनं महापुण्यं विश्रांति श्रुतिसारभृत् ६७।
ततः काश्मीरनगरमपश्यत्प्रत्यगुत्तरम् ।
दृष्ट्वा धर्मधुरं क्षेत्रं कुरुक्षेत्रं समंततः ६८।
यत्राभ्रंलिहगेहानां पंक्तयः शंखपाण्डुराः ।
ता जाता धूर्जटेः स्पष्ट अट्टहासदशा इव ६९।
भक्तिप्रसादमालानां सुवर्णकलशैर्वृतम् ।
स्वः सिंधोः पतितानीव हेमपद्मानि मारुतैः ७०।
यत्र प्रासादशिखरे नीलपट्टपताकिकाः ।
शैवालवलयाभांति स्वः सिंधोर्लतिका इव ७१।
यत्र काश्मीरमाश्रित्य नित्यं वसति भारती ।
नौचेद्युगपदेवेदं कथं लिखति वाङ्मयम् ७२।
विश्रामंत्याः सरस्वत्याश्चिरं यत्र मदालसाः ।
मृणालचंचवो हंसा वाहनानि चरंत्यमी ७३।
कलाविशेषं प्रहिता यत्र बोद्धुं विरंचिना ।
तारा इव विराजंते हंसा याताः समंततः ७४।
स्थलपद्मानि दृश्यंते करस्पर्शसुखानि च ।
शयनाय नितंबिन्या यस्मिन्दानववैरिणा ७५।
उपन्यासैर्द्विजातीनां यत्र न श्रूयते स्फुटम् ।
मूकोऽपि निर्जरो वाचा पदकल्लोलडंबरः ७६।
यस्मिन्नध्वरधूमेन व्याप्तं गगनमंडलम् ।
अपि च क्षालितं मेघैः कालिमानं न मुंचति ७७।
गलितायाः सुधायास्तु यत्राध्वरमहार्चिषा ।
लांछितं छद्मनास्थानं दृश्यते तुहिनत्विषि ७८।
जन्माभ्यासवशादेव पठंति बटवः स्वयम् ।
यत्रोपाध्यायसान्निध्यमाश्रित्य सकलाः कलाः ७९।
यत्र ब्राह्मणपत्नीनां कंकणध्वनि हुंकृतिः ।
लुंपत्यनुदिनं भ्राम्यद्भ्रमराणां च गर्जितम् ८०।
यत्र ब्राह्मणपत्नीनां कपोलफलकं मुहुः ।
स्पृशन्समीरणो मंदं वाति शापभयादिव ८१।
माणिक्येश्वरनामासौ यत्र शीतांशुशेखरः ।
वसत्यनुदिनं देवो वरदानाय देहिनाम् ८२।
अर्चितो भूपतीन्जित्वा मणिकेशेन चादृतः ।
माणिक्येश्वर इत्याख्यां तदाप्रभृति यो दधौ ८३।
राज्ञा काश्मीरदेवेश दिग्जयोत्सवकारिणा ।
असौ सुपूजितो यस्मान्माणिक्यैर्भूरिभूतिभिः ८४।
संसेवमानं तद्वारि छायां शकटिकोपरि ।
कंडूयमानमंगानि यंता रैक्यमपश्यत ८५।
राज्ञापि कथितैस्तैस्तैश्चिह्नैः परिचितं जवात् ।
प्रणतः सारथी रैक्यं प्रणम्य तमभाषत ८६।
सारथिरुवाच।
कस्मिन्ब्रह्मन्किन्नामासि स्वछंदोऽसि निरंतरम् ।
किमर्थमत्र विश्रांतः किं च कर्तुं चिकीर्षसि ८७।
इत्याकर्ण्य च तद्वाक्यं परमानंदनिर्भरः ।
स्मृत्वा सारथिमित्यूचे वयं पूर्णमनोरथाः ८८।
परं केनापि बहुना परिचर्याविधायिना ।
भवितव्यं मनोवृत्तिं जानतास्माकमेव हि ८९।
हृदयस्थितमादाय रैक्याभिप्रायमादरात् ।
शनैर्निरगमद्यंता यत्रास्ते वसुधाधिपः ९०।
ततः प्रणम्य भूपालं यथावृत्तं न्यवेदयत् ।
बद्धांजलिपुटो हृष्टः सारथिः स्वामिदर्शनात् ९१।
ततो निशम्य तद्वाक्यं विस्मयस्मेरलोचनः ।
श्रद्धालुरभवद्भूपो रैक्यसंभावनाविधौ ९२।
आदायाश्वतरीयुग्मयुक्तां शकटिकामगात् ।
मुक्ताहारदुकूलानि सहस्रं च गवां नृपः ९३।
गतोऽसौ तत्र यत्रास्ते योगी काश्मीरमंडले ।
तन्निवेद्य पुरो राजा दंडवत्पतितो भुवि ९४।
आनम्य परया भक्त्या रैक्यो राज्ञे चुकोप ह ।
रे शूद्र मामकं वृत्तं न जानासि दुरीश्वर ९५।
गृहाण शकटीमेतामुत्थाप्याश्वतरी युताम् ।
वस्त्राणि मुक्ताहारांश्च गाश्च दोग्ध्रीरपि स्वयम् ९६।
इत्थमाज्ञतवान्भूपो रैक्यस्य भयमादधे ।
ततः शापभयाद्राजा तत्पदांभोरुहद्वयम् ९७।
गृह्णन्भक्त्या प्रसीदेति ब्रह्मन्नित्यूचिवान्स्वयम् ९८।
राजोवाच।
भगवंस्तव माहात्म्यमेतदत्युद्भुतं कुतः ।
प्रसन्नीभूय भगवन्नाख्याहि मम तत्त्वतः ९९।
रैक्य उवाच।
गीतानां षष्ठमध्यायं जपामि प्रत्यहं नृप ।
तेनैव तेजोराशिर्मे सुराणामपि दुःसहः 6.180.१००।
गीतानां षष्ठमध्यायं रैक्यादभ्यस्य यत्नतः ।
ज्ञानश्रुतिर्महीपालो मुक्तिमाप ततः सुधीः १०१।
रैक्योऽपि सुखमालेभे माणिक्येश्वरसन्निधौ ।
गीतानां षष्ठमध्यायं जपन्मोक्षप्रदायकम् १०२।
मरालवेषमास्थाय वरदानार्थमागताः ।
दिवौकसोऽपि निर्जग्मुः स्वैरं विस्मयकारिताः१०३।
इममध्यायमप्येकं यो जपेत्सततं नरः ।
सोऽपि तत्पदवीमेति विष्णोरेव न संशयः १०४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीता।
माहात्म्ये अशीत्यधिकशततमोऽध्यायः १८०।


भगवद्गीतायाः षष्ठमाध्यायः[सम्पाद्यताम्]

  1. तु. स्कन्दपुराणम् ३.१.२६
  2. रैक्योपरि टिप्पणी