पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १२४
← अध्यायः १२३ | पद्मपुराणम् अध्यायः १२४ वेदव्यासः |
अध्यायः १२५ → |
ईश्वर उवाच।
प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् ।
मुक्तिदं तत्वबुद्धीनां शृणुष्व सुरसत्तम १।
तावद्गर्जति सेनानि गंगा भागीरथी क्षितौ ।
यावन्नायाति पापघ्नी कार्तिके हरिबोधिनी २।
तावद्गच्छंति तीर्थानि आसमुद्र सरांसि च ।
यावत्प्रबोधिनी विष्णोस्तिथिर्नायाति कार्तिके ३।
अश्वमेधसहस्राणि राजसूयशतानि च ।
एकेनैवोपवासेन प्रबोधिन्यां यथाऽभवत् ४।
दुर्लभं चैव दुष्प्राप्यं त्रैलोक्ये सचराचरे ।
तदपि प्रार्थितं विप्र ददाति प्रतिबोधिनी ५।
ऐश्वर्यं संसृतिं ज्ञानं राज्यं च सुखसंपदम् ।
ददात्युपोषिता विप्र हेलया हरिबोधिनी ६।
मेरुमंदरतुल्यानि पापान्युपार्जितानि च ।
एकेनैवोपवासेन दहते हरिबोधिनी ७।
उपवासं प्रबोधिन्यां यः करोति स्वभावतः ।
विधिना नरशार्दूल यथोक्तं लभते फलम् ८।
पूर्वजन्मसहस्रेषु पापं यत्समुपार्जितम् ।
जागरेण प्रबोधिन्यां दह्यते तूलराशिवत् ९।
शृणु षण्मुख वक्ष्यामि जागरस्य च लक्षणम् ।
यस्य विज्ञानमात्रेण दुर्लभो न जनार्दनः १०।
गीतं वाद्यं च नृत्यं च पुराणपठनं तथा ।
धूपं दीपं च नैवेद्यं पुष्पं गंधानुलेपनम् ११।
फलमर्घ्यं च श्रद्धा च दानमिंद्रियसंयमम् ।
सत्यान्वितं विनिद्रं च मुदायुक्तं क्रियान्वितम् १२।
साश्चर्चं चैव सोत्साहमालस्यादिविवर्जितम् ।
प्रदक्षिणादिसंयुक्तं नमस्कारपुरःसरम् १३।
नीराजनसमायुक्तमनिर्विण्णेन चेतसा ।
यामे यामे महाभाग कुर्वन्नीराजनं हरेः १४।
एतैर्गुणैः समायुक्तं कुर्याज्जागरणं विभोः ।
एकाग्रमानसो यस्तु न पुनर्जायते भुवि १५।
य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितैः ।
जागरं वासरे विष्णोर्नीयते परमां गतिम् १६।
पुरुषसूक्तेन यो नित्यं कार्तिके अर्चयेद्धरिम् ।
वर्षकोटिसहस्राणि पूजितस्तेन केशवः १७।
यथोक्तेन विधानेन पंचरात्रोदितेन वै ।
कार्तिके त्वर्चयेन्नित्यं मुक्तिभागी भवेन्नरः १८।
नमोनारायणायेति कार्तिके योऽर्चयेद्धरिम् ।
स मुक्तो नारकैर्दुःखैः पदं गच्छत्यनामयम् १९।
हरेर्नामसहस्रं च गजराजस्य मोक्षणम् ।
कार्तिके पठते यस्तु पुनर्जन्म न विंदति २०।
युगकोटिसहस्राणि मन्वंतरशतानि च ।
द्वादश्यां कार्तिके मासि जागरी वसते दिवि २१।
कुले तस्य च संजाताः शतशोऽथ सहस्रशः ।
प्राप्नुवंति पदं विष्णोस्तस्मात्कुर्वीत जागरम् २२।
कार्तिके पश्चिमे यामे स्तवं गानं करोति यः ।
श्वेतद्वीपे तु वसते पितृभिः सह भामिनि २३।
नैवेद्यदानं हरये कार्तिके दिनसंक्षये ।
युगानि वसते स्वर्गे तावंति मुनिसत्तमाः २४।
अक्षयं मुनिशार्दूल मालतीकमलार्चनम् ।
अर्चयेद्देवदेवेशं स याति परमं पदम् २५।
कार्तिके शुक्लपक्षे तु कृत्वा ह्येकादशीं नरः ।
प्रातर्दत्त्वा शुभान्कुंभान्स याति मम मंदिरम् २६।
कार्त्तिकेय उवाच।
भगवन्नुच्यतां पुण्यं व्रतानां परमं व्रतम् ।
कर्तव्यं कार्तिके मासि भवता भीष्मपंचकम् २७।
विधानं तस्य च फलं तथैव सुरसत्तम ।
कथयस्व प्रसादान्मे मुनीनां च पितामह २८।
ईश्वर उवाच।
प्रवक्ष्यामि महापुण्यं व्रतं विधिमतां वरः ।
भीष्मेणैतद्यतः प्राप्तं व्रतं पंचदिनात्मकम् २९।
सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपंचकम् ।
व्रतस्यास्य गुणान्वक्तुं कः शक्तः केशवादृते ३०।
कार्त्तिके शुक्लपक्षे तु शृणु धर्मं पुरातनम् ।
वसिष्ठभृगुगर्गाद्यैश्चीर्णं कृतयुगादिषु ३१।
अंबरीषेण भोगाद्यैश्चीर्णं त्रेतायुगादिषु ।
ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः ३२।
क्षत्रियैश्च तथा वैश्यैः सत्यशौचपरायणैः ।
दुष्करं सत्यहीनानामशक्यं बालचेतसाम् ३३।
दुष्करं भीष्ममित्याहुर्न शक्यं प्राकृतैर्नरैः ।
यस्तत्करोति विप्रेंद्र तेन सर्वं कृतं भवेत् ३४।
व्रतं चैतन्महापुण्यं महापातकनाशनम् ।
अतो नरैः प्रयत्नेन कर्त्तव्यं भीष्मपंचकम् ३५।
कार्तिकस्यामलेपक्षे स्नात्वा सम्यग्विधानतः ।
एकादश्यां तु गृह्णीयाद्व्रतं पंचदिनात्मकम् ३६।
प्रातः स्नात्वा विशेषेण मध्याह्ने च तथा व्रती ।
नद्यां निर्झरगर्ते वा समालभ्य च गोमयम् ३७।
यवव्रीहितिलैः सम्यक्पितॄन्संतर्पयेत्क्रमात् ।
स्नात्वा मौनं नरः कृत्वा धौतवासा दृढव्रतः ३८।
भीष्मायोदकदानं च अर्घ्यं चैव प्रयत्नतः ।
पूजा भीष्मस्य कर्त्तव्या दानं दद्यात्प्रयत्नतः ३९।
पंचरत्नं विशेषेण दत्त्वा विप्राय यत्नतः ।
वासुदेवोऽपि संपूज्यो लक्ष्मीयुक्तः सदा प्रभुः ४०।
पंचके पूजयित्वा तु कोटिकल्पानि तुष्यति ।
यत्किंचित्क्रियते सर्वं पंचधातुप्रकल्पयेत् ४१।
संवत्सरव्रतानां च लभते सकलं फलम् ।
कृत्वा तूदकदानं तु तथार्घ्यस्य च दापनम् ४२।
मंत्रेणानेन यः कुर्यान्मुक्तिभागी भवेन्नरः ४३।
वैयाघ्रपादगोत्राय सांकृते प्रवराय च ।
अपुत्राय ददाम्येतदुदकं भीष्मवर्मणे ४४।
वसूनामवताराय शंतनोरात्मजाय च ।
अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे ४५ इति अर्घ्यमंत्रः ।
अनेन विधिना यस्तु पंचकं तु समापयेत् ।
अश्वमेधसमं पुण्यं प्राप्नोत्यत्र न संशयः ४६।
पंचाहमपि कर्तव्यं नियमं च प्रयत्नतः ।
नियमेन विना पुत्र न भाव्यं व्रतकर्मणा ४७।
उत्तरायणहीनाय भीष्माय प्रददौ हरिः ।
उत्तरायणहीनोऽपि शुद्धिं लग्नं विना शुभाः ४८।
ततः संपूजयेद्देवं सर्वपापहरं हरिम् ।
अनंतरं प्रयत्नेन कर्तव्यं भीष्मपंचकम् ४९।
स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन च ।
तथैव पंचगव्येन गंधचंदनवारिणा 6.124.५०।
चंदनेन सुगंधेन कुंकुमेनाथ केशवम् ।
कर्पूरोशीरमिश्रेण लेपयेद्गरुडध्वजम् ५१।
अर्चयेद्रुचिरैः पुष्पैर्गंधधूपसमन्वितैः ।
गुग्गुलुं घृतंसंयुक्तं दहेत्कृष्णाय भक्तिमान् ५२।
दीपकं तु दिवारात्रौ दद्यात्पंचदिनादिषु ।
नैवेद्यं देवदेवस्य परमान्नं निवेदयेत् ५३।
एवमभ्यर्चयेद्देवं संस्मृत्य च प्रणम्य च ।
ॐ नमो वासुदेवाय जपेदष्टोत्तरं शतम् ५४।
जुहुयाच्च घृताभ्यक्तैस्तिलव्रीहियवादिभिः ।
षडक्षरेण मंत्रेण स्वाहाकारान्वितेन च ५५।
उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम् ।
जपित्वा पूर्ववन्मंत्रं क्षितिशायी भवेद्व्रती ५६।
सर्वमेतद्विधानं तु कार्यं पंचदिनानि तु ।
विशेषोऽत्र व्रते ह्यस्मिन्यदन्यूनं शृणुष्व तत् ५७।
प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्व्रती ।
द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेत् ५८।
ततोनुपूजयेच्छीर्षं मालत्या चक्रपाणिनः ।
कार्तिक्यां देवदेवस्य भक्त्या तद्गतमानसः ५९।
अर्चित्वा तं हृषीकेशमेकादश्यां समासतः ।
निष्प्राश्य गोमयं सम्यगेकादश्यामुपावसेत् ६०।
गोमूत्रं मंत्रवद्भूमौ द्वादश्यां प्राशयेद्व्रती ।
क्षीरं चैव त्रयोदश्यां चतुर्दश्यां तथा दधि ६१।
संप्राश्य कायशुद्ध्यर्थं लंघयित्वा चतुर्दिनम् ।
पंचमे दिवसे स्नात्वा विधिवत्पूज्य केशवम् ६२।
भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ।
पापबुद्धिं परित्यज्य ब्रह्मचर्येण धीमता ६३।
मद्यं मांसं परित्यज्य मैथुनं पापकारिणम् ।
शाकाहारेण मुन्यन्नैः कृष्णार्चनपरो नरः ६४।
ततो नक्तं समाश्नीयात्पंचगव्यपुरः सरम् ।
एवं सम्यक्समाप्तस्य यथोक्तं फलमाप्नुयात् ६५।
मद्यपो यत्पिबेन्मद्यं जन्मनो मरणांतिकम् ।
एतद्भीष्मव्रतं कृत्वा प्राप्नोति परमं पदम् ६६।
स्त्रीभिर्ब्राह्मणवाक्येन कर्तव्यं धर्मवर्द्धनम् ।
विधवाभिश्च कर्तव्यं मोक्षसौख्याभिवृद्धये ६७।
सर्वकामसमृद्ध्यर्थं पुण्यार्थमपि पावके ।
नित्यस्नाने तथा दाने ये कार्तिकमुपासते ६८।
वैश्वदेवश्च कर्तव्यो विष्णुध्यानपरायणैः ।
आरोग्य पुत्रदो वत्स महापातकनाशनः ६९।
तीर्थेषु कार्तिकं कुर्यात्सर्वयत्नेन षण्मुख ।
संवत्सरव्रतानां तु समाप्तिः कार्तिके मता ७०।
पापस्य प्रतिमा कार्या रौद्रवस्त्राति भीषणा ।
खड्गहस्ता विनिष्क्रांता लोहदंष्ट्राकरालिनी ७१।
तिलप्रस्थोपरि स्थाप्या कृष्णवस्त्राभिवेष्टिता ।
रक्तपुष्पकृतापीडा ज्वलत्कांचनकुंडला ७२।
संपूज्य परया भक्त्या धर्मराजस्य नामभिः ।
इममुच्चारयेन्मंत्रं गृहीतकुसुमांजलिः ७३।
यदन्यजन्मनि कृतमिह जन्मनि वा पुनः ।
पापं प्रशममायातु तव पादप्रसादतः ७४।
एवं संपूज्य विधिवत्प्रतिमां तां च कांचनीम् ।
कृत्वा पूजां यथाशक्त्या विप्राणां वेदवादिनाम् ७५।
प्रीतये देवदेवस्य कृष्णस्याक्लिष्टकर्मणः ।
ब्राह्मणाय प्रदातव्यं धर्मो मे प्रीयतामिति ७६।
वाचकाय प्रदातव्या यथाशक्त्या च दक्षिणा ।
दद्याद्धिरण्यं गाश्चैव कृष्णो मे प्रीयतामिति ७७।
कृतकृत्य स्थितो भूत्वा विरक्तः संयतो भवेत् ।
अन्येषामपि दातव्यं स्वशक्त्या दानमुत्तमम् ७८।
शांतचित्तो निरपराधः परं पदमवाप्नुयात् ।
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः ७९।
अष्टपादैकनयनः शंकुकर्णः खरस्वनः ।
जडी द्विजिह्वस्ताम्राक्षो मृगराजतनुच्छदः ८०।
चिंतनीयो महादेवो यस्य रूपं न विद्यते ।
इदं भीष्मेण कथितं शरतल्पगतेन मे ८१।
तदेतत्ते मयाख्यातं दुष्करं भीष्मपंचकं ।
धन्यं पुण्यं पापहरं युधिष्ठिर महाव्रतम् ।
यत्कृत्वा ब्रह्महा गोघ्नः सर्वपापैः प्रमुच्यते ८२।
यद्भीष्मपंचकमिति प्रथितं पृथिव्यामेकादशीप्रभृतिपंचदशी निरुद्धम् ।
उक्तं न भोजनपरस्य तदा निषेधस्तस्मिन्व्रते शुभफलं प्रददाति विष्णुः ८३।
सूत उवाच।
एतत्सर्वाधिकं पुण्यं दुर्लभं भुवने कृतम् ।
इदं गुह्यं मयाख्यातं शास्त्रसारसमुच्चयम् ८४।
सुराणां गोपितं सर्वमतिगुह्यं च मोक्षदम् ।
श्रुत्वा चैकपदे देवि अगम्यागमने रताः ८५।
कन्याविक्री स्वसाविक्री ह्युभयं तु विमोचयेत् ।
मोक्षदं च इदं शास्त्रं प्रकाशं नेतरे जने ८६।
श्रुत्वा चैकपदे यस्तु मोक्षं गच्छति मानवः ।
गोपनीयं प्रयत्नेन ये चापि त्यागिनो नराः ८७।
न तेषां कथ्यते पुण्यं सत्यं सत्यं च षण्मुख ।
इत्येतत्सर्वमाख्यातं कार्तिकस्य तु यत्फलम् ८८।
श्रीविष्णुरुवाच।
कथितं देवदेवेन पुत्राय हितकाम्यया ।
पितुस्तद्वाक्यमाकर्ण्य षण्मुखो हर्षनिर्भरः ८९।
ऊचुः प्रांजलयः सर्वे तं देवं जगदायुषम् ।
कृतकृत्या वयं जाताः श्रुत्वा कार्तिकजं फलम् ९०।
अपरं नास्ति श्रोतव्यं प्राप्तं मे जन्मनः फलम् ।
माहात्म्यमेतदाकर्ण्य पूजयेद्यस्तु पाठकम् ९१।
गोभूहिरण्यवस्त्रैश्च विष्णुतुल्यो यतो हि सः ।
वाचके पूजिते यस्माद्विष्णुर्भवति पूजितः ९२।
तथा तं पूजयेन्नित्यं यदीच्छेत्सफलं शुभम् ।
धर्मशास्त्रं पुराणं च वेदविद्यादिकं च यत् ९३।
पुस्तकं वाचकायैव दातव्यं धर्ममिच्छता ।
पुराणविद्या दातारो ह्यनंतफलभोजिनः ९४।
यः पठेत इदं भक्त्या श्रुत्वा चैवावधारयेत् ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ९५।
धनं धान्यं यशः पुत्रानायुरारोग्यमेव च ।
माहात्म्यश्रवणादेव लभ्यते च न संशयः ९६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्त्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे चतुर्विंशत्यधिकशततमोध्यायः १२४।