पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ००९
← अध्यायः ००८ | पद्मपुराणम् अध्यायः ००९ वेदव्यासः |
अध्यायः ०१० → |
पद्मपुराणम्/खण्डः ६ |
---|
युधिष्ठिर उवाच-
इंद्रादिभिस्तदा देवैः किं कृतं द्विजसत्तम ।
जालंधरेण विजितैः स्वर्गराज्ये हृते सति १।
नारद उवाच-।
अथ त्यक्त्वा दिवं देवाः प्रापुस्ते दुर्दशां चिरम् ।
न पीयूषं नैव यज्ञाः ययुः स्थानं स्वयंभुवः २।
ददृशुर्ब्राह्मभुवने ब्रह्माणं परमेष्ठिनम् ।
प्राणायामेन युंजानं मनः स्वं परमात्मनि ३।
ते तुष्टुवुः सुराः सर्वे वाग्भिस्तथ्याभिरादृताः ।
ततः प्रसन्नो भगवान्किंकरोमीति चाब्रवीत् ४।
ततो निवेदयांचक्रुः ब्रह्मणे विबुधाः पुनः ।
जालंधरस्य सकलं तथा निजपराभवम् ५।
क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह ।
तस्य शैलस्य पार्श्वे ते वैचित्र्येण समाकुलाः ।
स्थिताः संतुष्टुवुर्देवा ब्रह्मशक्रपुरोगमाः ६।
नमो भवाय शर्वाय नीलग्रीवाय ते नमः ।
नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः ७।
इति सर्वमुखो भूत्वा वाणीमाकर्ण्य शंकरः ।
प्रोवाच नंदिनं देवा नानयस्वेति सत्वरम् ८।
श्रुत्वा शंभोर्वचो देवा आहूता नंदिना द्रुतम् ।
प्रविश्यांतःपुरे देवा ददृशुर्विस्मितेक्षणाः ९।
तत्रासने समासीनं शंकरं लोकशंकरम् ।
गणैः कोटिसहस्रैस्तु सेवितं भक्तिशालिभिः १०।
नग्नैर्विरूपैः कुटिलैर्जटिलैर्धूलिधूसरैः ।
प्रणिपत्याग्रतः प्राह सह देवैः पितामहः ११।
सुखरोगो यथा स्यासीच्छक्रः सोऽयं वृथागतः ।
कृपां कुरु महादेव शरणागतवत्सल १२।
तत उच्चैर्विभोर्हास्यं श्रुत्वा ब्रह्मा पिनाकिनः ।
उवाच देवदेवेशं पश्यावस्थां दिवौकसाम् १३ ।
ततः सर्वेश्वरो ज्ञात्वा ब्रह्मणो मनसेप्सितम् ।
शक्रस्य मानभंगं च देवार्थे परमेश्वरः १४।
प्रेम्णा भवान्या विज्ञप्तो नृप प्राह वचो हरः ।
विष्णुना न हतो योऽरि स कथं हन्यते मया १५।
पूर्वसृष्टान्यायुधानि वज्रादीनि पितामह ।
तैः शस्त्रैर्नैव वध्योऽसौ बली जालंधरोऽसुरः १६।
हेतिभिः पूर्वसंसृष्टैः समयापि न हन्यते ।
देवाः कुर्वंतु शस्त्रं हि मम प्राणसहं दृढम् १७।
शंभोरित्युत्तरं श्रुत्वा ब्रह्मोवाचाथ शंकरम् ।
स्वयं कुरु महाशस्त्रं त्वं वेत्थ स्वात्मनो बलम् १८।
इति तस्य वचः श्रुत्वा प्रत्युवाच महेश्वरः ।
ब्रह्मन्विमुंच तेजस्त्वं क्रोधयुक्तं सुरैः सह १९।
ततस्तेजो मुमोचाथ ब्रह्मा ब्रह्मास्त्रसूचकः ।
रुद्रस्त्रिनेत्रजं तेजस्ततो निर्मुक्तवान्स्वयम् २०।
देवाश्च मुमुचुः सर्वे सक्रोधं तेजसां चयम् ।
अत्रांतरे स्मृतः प्राप्तो हरेण मधुसूदनः २१।
किं करोमीति तेनोक्तः शिवः प्राह जनार्दनम् ।
विष्णो जालंधरः कस्मान्न हतः संगरे त्वया २२।
कथं सुरान्परित्यज्य क्षीराब्धिं शयितुं गतः २३।
श्रीविष्णुरुवाच-।
यदि तं हन्मि देवेश श्रीः कथं मम वल्लभा ।
तस्मात्त्वं पार्वतीकांत जहि जालंधरं रणे २४।
तेजस्त्वं क्रोधजं मुंचेत्युक्तः शर्वेण केशवः ।
मुमोच वैष्णवं तेजः तत्सर्वं समवर्द्धत ।
तेजः प्रवृद्धं तद्दृष्ट्वा व्यापकं प्राह केशवम् २५।
शंकर उवाच-।
एतेन तेजसा शीघ्रं ममास्त्रं कर्तुमर्हथ ।
विश्वकर्मादयस्तच्च श्रुत्वा शंकरभाषितम् २६।
निरीक्ष्य च तदाऽन्योऽन्यं किं कुर्म इति शंकिताः ।
दृष्ट्वा तूष्णीं स्थितांस्तांश्च ज्ञात्वा तन्मनसि स्थितम् २७।
तदाह भगवान्ब्रह्मा अनालोक्यं हि दैवतैः ।
सोढुं न शक्तास्ते तेजो धर्तुं केन च शक्यते २८।
ततः प्रहस्य भगवानुत्पत्योपरि तेजसः ।
वामांघ्रिपार्ष्णिना शंभुर्ननर्त भ्रमरीचयम् २९।
ततो देवा महेंद्राद्यास्तेजसोपरि शंकरम् ।
नृत्यमानं तदा दृष्ट्वा मुदा वाद्यान्यवादयन् ३०।
तदाप्रभृति नृत्येषु भ्राम्यते भ्रमरीचयम् ।
अथ चक्रं समुत्पन्नं शंभोर्नर्तनमर्दनात् ३१।
आरलक्षत्रयोपेतं अस्थिकोटिसमाकुलम् ।
शर्वांघ्रिकषणात्तस्य तेजसो निसृताः कणाः ३२।
विश्वकर्मा च तेनास्त्रं विमानानि च निर्ममे ।
ततस्ते निर्ज्जरा भीत्या दृष्ट्वा चक्रं सुदर्शनम् ३३।
त्राहित्राहीति देवेशं प्रत्यूचुस्ते सुरान्नृप ।
पृथ्वीकाठिन्यमादाय लोहानामपि तेजसाम् ३४।
यद्विश्वकर्मणा कोशं कृतं भस्मीकृतं च तत् ।
सृष्टेन तेन चक्रेण दग्धः कालोऽपतत्क्षितौ ३५।
ततस्तद्ब्रह्मणो हस्ते ददौ चक्रं स धूर्जटिः ।
चक्रार्चिर्निचयैः कूर्चं दृष्ट्वा दग्धमुमापतिः ३६।
हसित्वा ब्रह्मणो हस्ताद्गृहीत्वा सत्वरं शिवः ।
दधौ कक्षापुटे चक्रं निधानं निर्धनो यथा ३७।
ततो न दृश्यते चक्रं शिवकक्षापुटेस्थितम् ।
महामूर्खस्य यद्दत्तं दानं तस्य फलं यथा ३८।
इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्सहस्र।
संहितायां युधिष्ठिरनारदसंवादे जालंधरोपाख्याने सर्व।
देवतेजोमयचक्रोत्पत्तिर्नाम नवमोऽध्यायः ९।