ऋग्वेदः सूक्तं १०.९०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.८९ ऋग्वेदः - मण्डल १०
सूक्तं १०.९०
नारायणः ।
सूक्तं १०.९१ →
दे. पुरुषः ।अनुष्टुप्, १६ त्रिष्टुप्

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ्व्यक्रामत्साशनानशने अभि ॥४॥
तस्माद्विराळजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥६॥
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥७॥
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशून् ताँश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये ॥८॥
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥९॥
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१०॥
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥११॥
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥१२॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥१३॥
नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥१४॥
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥

सायणभाष्यम्

‘सहस्रशीर्षा' इति षोडशर्चं षष्ठं सूक्तम् । नारायण नामर्षिरन्त्या त्रिष्टुप् शिष्टा अनुष्टुभः । अव्यक्तमहदादिविलक्षणश्चेतनो यः पुरुषः ‘पुरुषाश्च परं किंचित् ' ( क. उ. ३. ११) इत्यादिश्रुतिषु प्रसिद्धः स देवता । तथा चानुक्रान्तं--- सहस्रशीर्षा षोळश नारायणः पौरुषमानुष्टुभं त्रिष्टुबन्तं तु' इति । गतो विनियोगः ।।


स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।

स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥

सहस्रऽशीर्षा । पुरुषः । सहस्रऽअक्षः । सहस्रऽपात् ।

सः । भूमिम् । विश्वतः । वृत्वा । अति । अतिष्ठत् । दशऽअङ्गुलम् ॥ १ ॥

सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः सोऽयं सहस्रशीर्षा । सहस्रशब्दस्योपलक्षणत्वादनन्तैः शिरोभिर्युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात्तदीयान्येवेति सहस्रशीर्षत्वम् । एवं सहस्राक्षित्वं सहस्रपादत्वं च । “सः पुरुषः “भूमिं ब्रह्माण्डगोलकरूपां “विश्वतः सर्वतः “वृत्वा परिवेष्ट्य “दशाङ्गुलं दशाङ्गुलपरिमितं देशम् “अत्यतिष्ठत् अतिक्रम्य व्यवस्थितः । दशाङ्गुलमित्युपलक्षणम् । ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः॥


पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् ।

उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥

पुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च। भव्यम् ।

उत। अमृतऽत्वस्य । ईशानः । यत् । अन्नेन । अतिऽरोहति ।। २ ॥

यत् “इदं वर्तमानं जगत् तत् “सर्वं “पुरुष “एव । यत् च “भूतम् अतीतं जगत् “यच्च “भव्यं भविष्यज्जगत् तदपि पुरुष एव । यथास्मिन् कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरुषस्यावयवाः तथैवातीतागामिनोरपि कल्पयोर्द्रष्टव्यमित्यभिप्रायः । "उत अपि च “अमृतत्वस्य देवत्वस्य अयम् “ईशानः स्वामी । “यत् यस्मात्कारणात् “अन्नेन प्राणिनां भोग्येनान्नेन निमित्तभूतेन “अतिरोहति स्वकीयां कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति तस्मात्प्राणिनां कर्मफलभोगाय जगदवस्थास्वीकारान्नेदं तस्य वस्तुत्वमित्यर्थः ॥


ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः ।

पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥

एतावान् । अस्य । महिमा । अतः । ज्यायान् । च। पुरुषः ।

पादः । अस्य । विश्वा । भूतानि । त्रिऽपात् । अस्य । अमृतम् । दिवि ।। ३ ।।

अतीतानागतवर्तमानरूपं जगद्यावदस्ति “एतावान् सर्वोऽपि “अस्य पुरुषस्य “महिमा स्वकीयसामर्थ्यविशेषः। न तु तस्य वास्तवस्वरूपम् । वास्तवस्तु "पुरुषः अतः महिम्नोऽपि “ज्यायान् अतिशयेनाधिकः । एतच्चोभयं स्पष्टीक्रियते । “अस्य पुरुषस्य “विश्वा सर्वाणि “भूतानि कालत्रयवर्तीनि प्राणिजातानि “पादः चतुर्थोंऽशः। “अस्य पुरुषस्य अवशिष्टं “त्रिपात् स्वरूपम् “अमृतं विनाशरहितं सत् “दिवि द्योतनात्मके स्वप्रकाशस्वरूपे व्यवतिष्ठत इति शेषः । यद्यपि 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै. आ. ८.१; तै. उ. २.१ ) इत्याम्नातस्य परब्रह्मण इयत्ताभावात् पादचतुष्टयं निरूपयितुमशक्यं तथापि जगदिदं ब्रह्मस्वरूपापेक्षयाल्पमिति विवक्षितत्वात् पादत्वोपन्यासः ॥ ।


त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑ष॒ः पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ ।

ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ॥

त्रिऽपात् । ऊर्ध्वः । उत् । ऐत् । पुरुषः । पादः । अस्य । इह । अभवत् । पुनरिति ।

ततः । विष्वङ् । वि। अक्रामत् । साशनानशने इति । अभि ।। ४ ।।

योऽयं “त्रिपात् "पुरुषः संसाररहितो ब्रह्मस्वरूपः सोऽयम् “ऊर्ध्व “उदैत् अस्मादज्ञानकार्यात्संसाराद्बहिर्भूतोऽत्रत्यैर्गुणदोषैरस्पृष्ट उत्कर्षेण स्थितवान्। तस्य “अस्य सोऽयं “पादः लेशः सोऽयम् “इह मायायां “पुनः अभवत् सृष्टिसंहाराभ्यां पुनःपुनरागच्छति । अस्य सर्वस्य जगतः परमात्मलेशत्वं भगवताप्युक्तं---- विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ' ( भ. गी. १०. ४२) इति । “ततः मायायामागत्यानन्तरं “विष्वङ् देवमनुष्यतिर्यगादिरूपेण विविधः सन् “व्यक्रामत् व्याप्तवान् । किं कृत्वा । “साशनानशने अभिलक्ष्य । साशनं भोजनादिव्यवहारोपेतं चेतनं प्राणिजातम् अनशनं तद्रहितमचेतनं गिरिनद्यादिकम् । तदुभयं यथा स्यात्तथा स्वयमेव विविधो भूत्वा व्याप्तवानित्यर्थः ॥


तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।

स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥

तस्मात् । विऽराट्। अजायत । विऽराजः । अधि। पुरुषः ।।

सः । जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अथो इति । पुरः ॥ ५ ॥

विष्वङ् व्यक्रामदिति यदुक्तं तदेवात्र प्रपञ्च्यते । “तस्मात् आदिपुरुषात् “विराट् ब्रह्माण्डदेहः “अजायत उत्पन्नः । विविधानि राजन्ते वस्तून्यत्रेति विराट् । “विराजोऽधि विराड्देहस्योपरि तमेव देहमधिकरणं कृत्वा “पुरुषः तद्देहाभिमानी कश्चित् पुमान् अजायत । सोऽयं सर्ववेदान्तवेद्यः परमात्मा स्वयमेव स्वकीयया मायया विराड्देहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीवोऽभवत् । एतच्चाथर्वणिका उत्तरतापनीये विस्पष्टमामनन्ति---- स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव' (नृ. ता. २. १, ९) इति । “स “जातः विराट् पुरुषः “अत्यरिच्यत अतिरिक्तोऽभूत् । विराड्व्यतिरिक्तो देवतिर्यङ्मनुष्यादिरूपोऽभूत् । “पश्चात् देवादिजीवभावादूर्ध्वं “भूमिं ससर्जेति शेषः । “अथो भूमिसृष्टेरनन्तरं तेषां जीवानां “पुरः ससर्ज । पूर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि ॥॥१७॥


यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।

व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥

यत् । पुरुषेण । हविषा । देवाः । यज्ञम् । अतन्वत ।

वसन्तः । अस्य । आसीत्। आज्यम् । ग्रीष्मः । इध्मः । शरत् । हविः ॥ ६ ॥

“यत् यदा पूर्वोक्तक्रमेणैव शरीरेषुत्पन्नेषु सत्सु "देवाः उत्तरसृष्टिसिद्धयर्थं बाह्यद्रव्यस्यानुत्पन्नत्वेन हविरन्तरसंभवात् पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्प्य “पुरुषेण पुरुषाख्येन “हविषा मानसं यज्ञम् “अतन्वत अन्वतिष्ठन् तदानीम् “अस्य यज्ञस्य “वसन्तः वसन्तर्तुरेव “आज्यम् “आसीत् अभूत् । तमेवाज्यत्वेन संकल्पितवन्त इत्यर्थः । एवं “ग्रीष्म “इध्मः आसीत्। तमेवेध्मत्वेन संकल्पितवन्त इत्यर्थः। तथा “शरद्धविः आसीत् । तामेव पुरोडाशादिहविष्ट्वेन संकल्पितवन्त इत्यर्थः । पूर्वं पुरुषस्य हविःसामान्यरूपत्वेन संकल्पः । अनन्तरं वसन्तादीनामाज्यादिविशेषरूपत्वेन संकल्प इति द्रष्टव्यम् ॥


तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः ।

तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥

तम् । यज्ञम् । बर्हिषि । प्र । औक्षन् । पुरुषम् । जातम् । अग्रतः ।

तेन । देवाः । अयजन्त। साध्याः । ऋषयः । च। ये ॥ ७ ॥

यज्ञं यज्ञसाधनभूतं “तं पुरुषं पशुत्वभावनया यूपे बद्धं “बर्हिषि मानसे यज्ञे “प्रौक्षन् प्रोक्षितवन्तः । कीदृशमित्यत्राह। “अग्रतः सर्वसृष्टेः पूर्वं “पुरुषं “जातं पुरुषत्वेनोत्पन्नम् । एतच्च प्रागेवोक्तं तस्माद्विराळजायत विराजो अधि पूरुषः' इति । तेन पुरुषरूपेण पशुना “देवा "अयजन्त । मानसयागं निष्पादितवन्त इत्यर्थः । के ते देवा इत्यत्राह। “साध्याः सृष्टिसाधनयोग्याः प्रजापतिप्रभृतयः तदनुकूलाः “ऋषयः मन्त्रद्रष्टारः “च “ये सन्ति । ते सर्वेऽप्ययजन्तेत्यर्थः ॥


तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ः सम्भृ॑तं पृषदा॒ज्यम् ।

प॒शून्ताँश्च॑क्रे वाय॒व्या॑नार॒ण्यान्ग्रा॒म्याश्च॒ ये ॥

तस्मात् । यज्ञात् । सर्वऽहुतः । सम्ऽभृतम् । पृषत्ऽआज्यम् ।।

पशून् । तान् । चक्रे । वायव्यान् । आरण्यान्। ग्राम्याः । च । ये ॥ ८ ॥

“सर्वहुतः । सर्वात्मकः पुरुषः यस्मिन् यज्ञे हूयते सोऽयं सर्वहुत् । तादृशात् “तस्मात् पूर्वोक्तात् मानसात् "यज्ञात् “पृषदाज्यं दधिमिश्रमाज्यं “संभृतं संपादितम् । दधि चाज्यं चेत्येवमादिभोग्यजातं सर्वं संपादितमित्यर्थः । तथा “वायव्यान् वायुदेवताकाँल्लोकप्रसिद्धान् “आरण्यान् “पशून “चक्रे उत्पादितवान् । आरण्या हरिणादयः । तथा “ये “च “ग्राम्याः गवाश्वादयः तानपि चक्रे। पशूनामन्तरिक्षद्वारा वायुदेवत्यत्वं यजुर्ब्राह्मणे समाम्नायते-- वायवः स्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः। वायव एवैनान्परिददाति ' ( तै. ब्रा. ३. २. १. ३) इति ।


तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋच॒ः सामा॑नि जज्ञिरे ।

छन्दां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥

तस्मात् । यज्ञात् । सर्वऽहुतः । ऋचः । सामनि । जज्ञिरे ।

छन्दांसि । जज्ञिरे । तस्मात् । यजुः । तस्मात् । अजायत ।। ९ ॥

"सर्वहुतः “तस्मात् पूर्वोक्तात् यज्ञात् “ऋचः “सामानि च जज्ञिरे उत्पन्नाः। “तस्मात् यज्ञात् “छन्दांसि गायत्र्यादीनि “जज्ञिरे। “तस्मात् यज्ञात् "यजुः अपि अजायत ॥


तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।

गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥

तस्मात् । अश्वाः । अजायन्त । ये । के। च । उभयादतः ।

गाव: । ह । जज्ञिरे । तस्मात् । तस्मात् । जाताः । अजावयः ॥ १० ॥

“तस्मात् पूर्वोक्ताद्यज्ञात् “अश्वा “अजायन्त उत्पन्नाः। तथा “ये "के “च अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च उभयादतः ऊर्ध्वाधोभागयोरुभयोः दन्तयुक्ताः सन्ति तेऽप्यजायन्त। तथा “तस्मात् यज्ञात् "गावः च “जज्ञिरे । किंच “तस्मात् यज्ञात् "अजावयः च "जाताः ॥ ॥ १८ ॥


यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।

मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ॥

यत् । पुरुषम् । वि । अदधुः । कतिधा। वि । अकल्पयन् ।।

मुखम् । किम् । अस्य । कौ । बाहू इति । कौ । ऊरू इति । पादौ । उच्येते इति ॥११॥

प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुं ब्रह्मवादिनां प्रश्ना उच्यन्ते । प्रजापतेः प्राणरूपा देवाः “यत् यदा “पुरुषं विराड्रूपं “व्यदधुः संकल्पेनोत्पादितवन्तः तदानीं “कतिधा कतिभिः प्रकारैः “व्यकल्पयन् विविधं कल्पितवन्तः । “अस्य पुरुषस्य “मुखं “किम् आसीत्। “कौ “बाहू अभूताम् “का “ऊरू। कौ च “पादावुच्येते । प्रथमं सामान्यरूपः प्रश्नः पश्चात् मुखं किमित्यादिना विशेष विषयाः प्रश्नाः ॥


ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।

ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ॥

ब्राह्मणः । अस्य । मुखम् । आसीत् । बाहू इति । राजन्यः । कृतः ।

ऊरू इति । तत् । अस्य । यत् । वैश्यः । पत्ऽभ्याम् । शूद्रः । अजायत ॥ १२ ॥

इदानीं पूर्वोक्तानां प्रश्नानामुत्तराणि दर्शयति । “अस्य प्रजापतेः “ब्राह्मणः ब्राह्मणत्वजातिविशिष्टः पुरुषः “मुखमासीत मुखादुत्पन्न इत्यर्थः । योऽयं “राजन्यः क्षत्रियत्वजातिमान् पुरुषः सः "बाहू “कृतः बाहुत्वेन निष्पादितः । बाहुभ्यामुत्पादित इत्यर्थः । तत् तदानीम् अस्य प्रजापतेः “यत् यौ “ऊरू तद्रूपः "वैश्यः संपन्नः । ऊरुभ्यामुत्पन्न इत्यर्थः । तथास्य “पद्भ्यां पादाभ्यां "शूद्रः शूद्रत्वजातिमान् पुरुषः "अजायत । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिर्यजुःसंहितायां सप्तमकाण्डे ‘स मुखतस्त्रिवृतं निरमिमीत' (तै. सं. ७. १. १. ४ ) इत्यादौ विस्पष्टमाम्नाता। अतः प्रश्नोत्तरे उभे अपि तत्परतयैव योजनीये ॥


च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो॒ः सूर्यो॑ अजायत ।

मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥

चन्द्रमाः । मनसः । जातः । चक्षोः । सूर्यः । अजायत ।

मुखात् । इन्द्रः । च। अग्निः । च। प्राणात् । वायुः । अजायत ॥ १३ ॥

यथा दध्याज्यादिद्रव्याणि गवादयः पशव ऋगादिवेदा ब्राह्मणादयो मनुष्याश्च तस्मादुत्पन्ना एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना इत्याह । प्रजापतेः “मनसः सकाशाद् “चन्द्रमाः “जातः । “चक्षोः च चक्षुषः “सूर्यः अपि “अजायत । अस्य “मुखादिन्द्रश्चाग्निश्च देवावुत्पन्नौ । अस्य “प्राणाद्वायुरजायत ॥


नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत ।

प॒द्भ्यां भूमि॒र्दिश॒ः श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥

नाभ्यः । आसीत् । अन्तरिक्षम् । शीर्ष्णः । द्यौः । सम् । अवर्तत ।

पत्ऽभ्याम् । भूमिः । दिशः । श्रोत्रात् । तथा । लोकान् । अकल्पयन् ॥ १४ ॥

यथा चन्द्रादीन् प्रजापतेर्मनःप्रभृतिभ्योऽकल्पयन तथा “अन्तरिक्षादीन् “लोकान् प्रजापतेः नाभ्यादिभ्यो देवाः “अकल्पयन् उत्पादितवन्तः । एतदेव दर्शयति । “नाभ्याः प्रजापतेर्नाभेः “अन्तरिक्षमासीत् । "शीर्ष्णः शिरसः “द्यौः “समवर्तत उत्पन्ना। अस्य “पद्भ्यां पादाभ्यां “भूमिः उत्पन्ना। अस्य “श्रोत्रात् "दिशः उत्पन्नाः ।।


स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।

दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥

सप्त । अस्य । आसन् । परिऽधयः । त्रिः । सप्त । सम्ऽइधः । कृताः ।

देवाः । यत् । यज्ञम् । तन्वानाः । अबध्नन् । पुरुषम् । पशुम् ॥ १५ ॥

“अस्य सांकल्पिकयज्ञस्य गायत्र्यादीनि “सप्त छन्दांसि परिधयः “आसन् । ऐष्टिकस्याहवनीयस्य त्रयः परिधय उत्तरवेदिकास्त्रय आदित्यश्च सप्तमः परिधिप्रतिनिधिरूपः । अत एवाम्नायते-- न पुरस्तात्परि दधात्यादित्यो ह्येवोद्यन् पुरस्ताद्रक्षांस्यपहन्ति' (तै. सं. २.६.६.३) इति । तत एत आदित्यसहिताः सप्त परिधयोऽत्र सप्त छन्दोरूपाः । तथा “समिधः “त्रिः सप्त त्रिगुणीकृतसप्तसंख्याकाः एकविंशतिः “कृताः । द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ( तै. सं. ५.१.१०.३) इति श्रुताः पदार्था एकविंशतिदारुयुक्तेध्मत्वेन भाविताः। यत् यः पुरुषो वैराजोऽस्ति ते “पुरुषं "देवाः प्रजापतिप्राणेन्द्रियरूपाः यज्ञं तन्वानाः मानसं यज्ञं तन्वानाः कुर्वाणाः पशुम् "अबध्नन् विराट्पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वत्र ‘ यत्पुरुषेण हविषा' इत्युक्तम् ॥


य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।

ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥

यज्ञेन । यज्ञम् । अयजन्त। देवाः । तानि । धर्माणि । प्रथमानि । आसन् ।

ते । ह । नाकम् । महिमानः । सचन्त । यत्र । पूर्वे । साध्याः । सन्ति । देवाः ॥ १६ ॥

पूर्व प्रपञ्चेनोक्तमर्थं संक्षिप्यात्र दर्शयति । "देवाः प्रजापतिप्राणरूपाः "यज्ञेन यथोक्तेन मानसेन संकल्पेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिम् "अयजन्त पूजितवन्तः । तस्मात्पूजनात “तानि प्रसिद्धानि “धर्माणि जगद्रूपविकाराणां धारकाणि "प्रथमानि मुख्यानि आसन् । एतावता सृष्टिप्रतिपादकसूक्तभागार्थः संगृहीतः । अथोपासनतत्फलानुवादकभागार्थः संगृह्यते । "यत्र यस्मिन् विराटप्राप्तिरूपे नाके "पूर्वे "साध्याः पुरातना विराडुपास्तिसाधकाः “देवाः "सन्ति तिष्ठन्ति तत् "नाकं विराट्प्राप्तिरूपं स्वर्ग “ते “महिमानः तदुपासका महात्मानः "सचन्त समवयन्ति प्राप्नुवन्ति ॥ ॥ १९ ॥ ॥ ७ ॥


[सम्पाद्यताम्]

टिप्पणी

नारायणोपरि पौराणिकसंदर्भाः

सोमयागे प्राग्वंशे गार्हपत्य एवं आहवनीयाग्निखरयोः मध्ये दक्षिणाग्नेः अर्द्धचन्द्राकारं खरं भवति। अस्याः अग्नेः अधिपतिः नलः नैषिधो अस्ति। उत्तरवेदी मध्ये आग्नीध्रस्य खरः भवति। अनुमानमस्ति यत् प्राग्वंशे यः दक्षिणाग्निः अस्ति, सैव उत्तरवेद्यां उत्तरदिश्यां आग्नीध्रऋत्विजस्य खरमस्ति(आग्नीध्रोपरि टिप्पणी पठनीयः अस्ति)। पुराणेषु वर्णनमस्ति यत् बदरीतीर्थः नर-नारायणयोः तपःस्थानमस्ति। गंगायाः एके कूले नरः तपोरतः अस्ति, अपरे कूले नारायणः। आग्नीध्रऋत्विजस्य नारायणेन साकं समानता अस्ति वा न वा, अयं अन्वेषणीयं अस्ति।

पुरुषशब्दोपरि पौराणिकसंदर्भाः


पुरुषशब्दोपरि वैदिकसंदर्भाः

पुरुषसूक्तोपरि पौराणिकसंदर्भाः

पुरुषसूक्तोपरि टिप्पणी

वायुपुराणे अध्यायः १.७.५६ तः आरभ्य पुरुषसूक्तस्य विस्तृतव्याख्या उपलब्धमस्ति।

भागवतपुराणे ३.२६.२५ एवं लिङ्गपुराणे १.८८.२८ पुरुषशब्दस्य व्याख्यारूपेण समाधितः व्युत्थानस्य वर्णनमस्ति।


१०.९०.१अ

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।


चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकोऽभवत्।

सहस्रमूर्द्धा पुरुषस्तिस्रोऽवस्थाः स्वयम्भुवः ।।वायुपुराणम् १.५.२६।।

सहस्रशिरसं साक्षाद् यं अनन्तं प्रचक्षते ।

सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ भागवतपु. ३.२६.२५

सहस्राक्ष उपरि पौराणिकसंदर्भाः

सहस्रोपरि वैदिकसंदर्भाः

सहस्रशीर्षा -- कथितुं शक्यन्ते यत् अत्र शीर्षः साधारण शीर्षः नास्ति, अपितु यज्ञस्य शीर्षः अस्ति। सोमयागे प्रवर्ग्यकृत्ये द्वादशशीर्षाणां निर्माणं करणीयमस्ति(प्रवर्ग्योपरि टिप्पणी पठनीयः)। या प्रजाः अस्ति, तस्याः शिरोभवनम्, प्रवरणम्, तस्यां रेतः सिञ्चनम्। ये द्वादशशीर्षाः भवन्ति, तेषां प्रयोजनं तैत्तिरीयारण्यके ५.१२.१ कथितमस्ति। अनुमानमस्ति यत् सहस्रसंख्या सामवेदस्य, शतसंख्या यजुर्वेदस्य एवं दशसंख्या ऋग्वेदस्य प्रतीकमस्ति। शौनकीयअथर्ववेद ४.६.१ अनुसारेण - ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः । स सोमं प्रथमः पपौ स चकारारसं विषम् ॥ अतएव, दशशीर्षावस्थायां विषस्य अरसकरणं भवति। शतशीर्षावस्थायां ये प्राणाः रौद्राः सन्ति, तेषां शमनं भवति (शतरुद्रीयं)। ऋग्वेद ८.७८.१ अनुसारेण - पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर। शता च शूर गोनाम्॥ ८.०७८.०१। पुरोडाशः मस्तिष्कस्य प्रतीकं भवति। अत्र अन्धसः रूपान्तरणं सहस्रप्रकारस्य पुरोडाशे कथितं अस्ति।

सहस्राक्ष विषये, अथर्ववेदे ४.२०.८ कथनमस्ति - तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्। तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः ॥४॥ आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः । अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥५॥ दर्शय मा यातुधानान् दर्शय यातुधान्यः । पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे ॥६॥ कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः । वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥७॥ उदग्रभं परिपाणाद्यातुधानं किमीदिनम् । तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम् ॥ अयं संकेतमस्ति यत् सहस्राक्ष अथवा सहस्रचक्षु - अवस्थायां स्वदोषाणां दर्शनस्य क्षमतायाः प्राप्तिर्भवति। संसारे स्वदोषाणां दर्शनं सर्वाधिकं कठिनं अस्ति। पुराणेषु अक्षाणां चतुःप्रकाराः सन्ति - कृत, त्रेता, द्वापर, कलि। महाभारत वनपर्व ७२ मध्ये कथनमस्ति यत् यदा नलः अक्षविद्यायां निपुणं भवति, तदा कलिः तस्य देहं विसृजति।

सहस्रपादस्य विषये, अथर्ववेद ७.४२.२ मध्ये कथनमस्ति - श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः । स नो नि यच्छाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत्॥ अस्य मन्त्रस्य सायणभाष्ये सहस्रपादस्य भाष्यं सहस्ररश्मिः कृतं अस्ति। अतएव, सहस्राक्षः भूत्वा स्वपापानां दर्शनं पर्याप्तं नास्ति। स्वज्योतिषा अन्येषां पापानां अपि अपनयनं अपेक्षितं अस्ति। अपि च, अथर्ववेद १५.३.१५ अनुसारेण - अयं स देवो अप्स्वन्तः सहस्रमूलः परुशाको अत्त्रिः । य इदं विश्वं भुवनं जजान ।

पुरुषशब्दविषये, पुरुषोपि पञ्चपशुषु अन्तिमः पशुः अस्ति (अज, अवि, गौ, अश्व, पुरुष)। तेषां साम्यः सामवेदस्य भक्तिभिः सह अस्ति (हिंकारः, प्रस्तावः, उद्गीथः, प्रतिहारः, निधनम्)। अन्येभ्यः पशुभ्यः पुरुषः केन प्रकारेण विशिष्टः अस्ति। पशवः चतुष्पादाः भवन्ति, पुरुषः द्विपादः अस्ति। गुह्यार्थे द्विपादः ऊर्ध्वाधो गत्यर्थकः अस्ति, एवं डा. फतहसिंहस्य कथनमस्ति। पशवः चतुष्पादाः सन्ति। तेषां गतिः तिर्यक् गतिः अस्ति। पशुशब्दोपरि टिप्पणी पठनीयः अस्ति। कथनमस्ति यत् पशवः चक्षणहीनाः सन्ति। अत्र चक्षणस्य अर्थं स्वगुणदोषाणां चक्षणं प्रतीयते। अनेन प्रकारेण, पुरुष-पशु मध्ये व्यावहारिकरूपेण के भेदाः सन्ति, अस्य विस्तृतविवेचनं अपेक्षितमस्ति।

१०.९०.१ब

स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम्।।

भूम्याः वृतत्वं केन प्रकारेण भवेत्। महाभारते वनपर्वे १३४ अध्याये अष्टावक्र - वन्दि संवादः विद्यते यत्र अष्टावक्रः दशसंख्यायाः वैशिष्ट्यं कथ्यते। एकः वैशिष्ट्यं अस्ति - दश दिशः। यदि साधकः दशदिशानामुपरि आधिपत्यं प्राप्नोति, तदा भूम्याः वृतत्वं संभवति। दशदिशासु अष्टदिशानां गुणानां विवेचनं अष्टसखी शब्दस्य टिप्पण्यां विद्यते।

अत्यतिष्ठद् - ऋग्वेद १.१६३.२ मध्ये कथनमस्ति - इन्द्र एणं (अर्वोपरि) प्रथमो अध्यतिष्ठत्। अतएव, अत्यतिष्ठत् - यमनाय, नियन्त्रणाय। दशाङ्गुलम् - विष्णुधर्मोत्तरपुराणे ३.३६ कथनमस्ति यत् ग्रीवायाः मानं दश अङ्गुलं भवति। अङ्गुलमानस्य रहस्यं किमस्ति, अन्वेषणीयः। महाभारते द्रोणपर्व १९०.५५ मध्ये कथनमस्ति यत् युधिष्ठिरस्य रथः, यः पृथिवीतः चतुरङ्गुलमानेन उच्छ्रितः आसीत्, अनृतवचनेन भूमिस्पर्शी अभवत्। लक्ष्मीनारायणसंहिता १.५८१.३१ अनुसारेण यत्र नारायणेन भूम्या उपरि स्वकण्ठमण्याः स्थापना कृता आसीत्, तत् पुरुषोत्तमक्षेत्रः अस्ति। पुरुषसूक्तस्य पुरुषोत्तमक्षेत्रेण सह तादात्म्यं अस्ति वा न वा, अन्वेषणीयः अस्ति।


१०.९०.२अ

पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्।

यथा सर्वविदितमस्ति, पशवः भूत-भव्यस्य अनुमानं कर्तुं अशक्ताः सन्ति।

सर्व उपरि वैदिकसंदर्भाः

१०.९०.२ब

उतामृतत्वस्येशानो यदन्नेनातिरोहति

ईशानोपरि पौराणिकसंदर्भाः

ईशानः उपरि टिप्पणी

पुराणेषु सार्वत्रिकरूपेण शिवस्यार्चनं पञ्चभिर्नामभिः - ईशानः, तत्पुरुष, अघोर, वामदेव, सद्योजात इति करणीयस्य निर्देशाः सन्ति। नारदपुराण १.९१.६३ अनुसारेण ईशानपुरुषयोः भेदः अयमस्ति यत् ईशानशिवः पञ्चशीर्षात्मकः अस्ति, पुरुषः चतुश्शीर्षः। ईशानशिवस्य चत्वारि मुखानि चतुर्दिक्षु सन्ति, एकः मध्ये। अन्यत्र कथनमस्ति(लिङ्गपुराणम् २.१४.२१ ) यत् ईशानशिवः क्षेत्रज्ञः अस्ति, पुरुषः प्रकृतिः। क्षेत्रज्ञः प्रकृतेः भोक्ता अस्ति। ईशानः आकाशतत्त्वेन सह सम्बद्धः अस्ति, पुरुषः वायुतत्त्वेन (द्र. महाभूतोपरि टिप्पणी )। ईशानशिवः शान्त्यातीतकलया सम्बद्धः अस्ति, पुरुषः शान्तिकलया। शिवपुराणे ४.४२.२३ कथनमस्ति - ईशानः सर्वविद्यानां इति। अस्यां स्थित्यां प्रकृत्याः रूपं सरस्वत्यात्मकं अस्ति। ईशानस्य पत्नी सम्पत्तिः अस्ति( ब्रह्मवैवर्त्त २.१.१०७) या दारिद्र्यस्य नाशं करोति। सायणभाष्ये सार्वत्रिकरूपेण ईशानशब्दस्य अर्थं समर्थः, ईश्वरः इति कृतमस्ति। यदन्नेनातिरोहति। पुरुषेण अन्नभक्षणान्तरं अन्नतः अमृतस्य प्राप्तिः ईशानरूपेणैव संभवमस्ति।


१०.९०.३ब पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि

पादोपरि पौराणिकसंदर्भाः

पादोपरि टिप्पणी


१०.९०.६

वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः

आज्योपरि टिप्पणी

इध्मोपरि पौराणिकसंदर्भाः

इध्मोपरि टिप्पणी

वराहपुराणे १८.२५ इध्मशब्दस्य निरुक्तिः विद्यते। ध्मा - प्रपूरणे, इ - आगति। काशकृत्स्न धातुकोशे ध्मा धातुः शब्दाग्नयोः संयोगे अस्ति, यथा शंखस्य ध्मानम्। वसन्तर्तौ इध्मस्य आवश्यकता नास्ति। वसन्तः समित्, सममिति अर्थे। अनेन कारणेन प्रपूर्णनस्य आवश्यकता नास्ति।

जावानी महाभारते ध्माकारौ भीम- अर्जुनौ

हविरुपरि वैदिकसंदर्भाः

शरद्धविः। अस्मिन् संदर्भे तैत्तिरीयब्राह्मणस्य २.६.१९. अयं कथनं उल्लेखनीयमस्ति - वसन्तेनर्तुना देवाः । वसवस्त्रिवृता स्तुतम् । रथन्तरेण तेजसा । हविरिन्द्रे वयो दधुः । ग्रीष्मेण देवा ऋतुना । रुद्राः पञ्चदशे स्तुतम् । बृहता यशसा बलम् । हविरिन्द्रे वयो दधुः । वर्षाभिर्ऋतुनादित्याः । स्तोमे सप्तदशे स्तुतम् । वैरूपेण विशौजसा । हविरिन्द्रे वयो दधुः । शारदेनर्तुना देवाः । एकविँश ऋभवः स्तुतम् । वैराजेन श्रिया श्रियम् । हविरिन्द्रे वयो दधुः । हेमन्तेनर्तुना देवाः । मरुतस्त्रिणवे स्तुतम् । बलेन शक्वरीः सहः । हविरिन्द्रे वयो दधुः । शैशिरेणर्तुना देवाः । त्रयस्त्रिँशेऽमृतँ स्तुतम् । सत्येन रेवतीः क्षत्त्रम् । हविरिन्द्रे वयो दधुः। अत्र न केवलं शारदेन, अपितु सर्वैः ऋतुभिः इन्द्राय हविःप्रदानस्य उल्लेखमस्ति। अतएव, शरद्ऋतोः वैशिष्ट्यानां विशद् अध्ययनस्य आवश्यकता अस्ति। वैदिकवाङ्मये सार्वत्रिकरूपेण शरदस्य लक्षणं बर्हिः अस्ति। देहे यः विद्योतनं, स्फूर्जनं अस्ति, तत् स्थानिकं नास्ति, अपितु तस्य विस्तारं बर्हिरिव सर्वत्रास्ति। अयं भक्त्याः पक्वावस्था अस्ति - श्रद्धा, अन्नाद्यं। वायुपुराणे ३०.७ वर्षाऋतोः संज्ञा जीवः अस्ति, शरदस्य सुधावन्त, हेमन्तस्य मन्युमन्त। अन्यत्र हेमन्तस्य लक्षणानि स्विष्टकृत्, स्वाहा इत्यादयः सन्ति।


१०.९०.७

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये।।

बर्हिरुपरि वैदिकसंदर्भाः

यथा डा. सुकर्मपालसिंहतोमरस्य शोधप्रबन्धे कथितमस्ति, समाधिअवस्थायां या आनन्दवृष्टिः भवति, तस्याः प्रभावं पुरुषस्य बहिर्वृत्तिषु अपि भवति। आनन्दवृष्ट्याः प्रथमं प्रभावं मज्जा, वपा उपरि भवति। तथा अस्य प्रभावस्य च्यवनं इन्द्रियेभ्योउपरि अपि भवति। अतएव, इन्द्रियाणां संज्ञापि बर्हिः भवति। तैत्तिरीयसंहिता ६.३.९.५ आदीनां कथनं अस्ति - अग्रं वा एतत् पशूनां यद् वपाग्रमोषधीनां बर्हिः। बर्हिषः अथवा वपायाः अग्रविशेषणस्य किमर्थमस्ति। एकः संभावितार्थः -- ये तापसजनाः सन्ति, ते स्वअन्तःकरणैः, स्वकीयैः इन्द्रियैः भूत-भविष्यस्य ज्ञानं कर्तुं शक्ताः भवन्ति। लघुउदाहरणं। दीर्घकालीने उपवासे भोजनस्य स्वप्नाः दृश्यन्ते। बुभुक्षायाः या अनुभूति केवलं वपास्तरे आसीत्, तस्याः अवतरणं स्वप्नेषु भवितुं आरभ्यते। अग्रिमे चरणे तेषां अनुभूतिः चक्षु, श्रोत्रादिइन्द्रियेषु अपि भवति।

साध्योपरि पौराणिकसंदर्भाः

साध्योपरि वैदिकसंदर्भाः

ऋतूनां संदर्भे, शरदऋतोः लक्षणं बर्हिः अस्ति। अतःपरं हेमन्त-शिशिरयोः संज्ञा घोरः अस्ति। वर्षासु यः जलः पंकमिश्रितः भवति, शरत्सु तत् स्वच्छतां प्राप्नोति। ये जलाः पापयुक्ताः आसन्, ते विलीना भवन्ति। अस्याः स्थित्याः संज्ञा साध्यानां यज्ञः अस्ति। ताण्ड्यब्राह्मण ८.३.५ अनुसारेण साध्याः सोमयागे तृतीयसवनस्य छेदनं कुर्वन्ति। ते प्रातः एवं माध्यन्दिनसवनेनैव स्वर्गं प्राप्नुवन्ति। येषां पापानां मार्जनं मृत्युविना (तृतीयसवनं) संभवं नास्ति, तत्र साध्यानां गतिर्नास्ति। एतेषां पापानां संज्ञा घोरः भवति।

गवामयनसत्रयागस्य त्रयः भागाः भवन्ति - .....। विषुवत् अहः माध्यन्दिनसवनेन तुल्यः अस्ति। अस्मिन्नहनि आदित्यस्य ये रश्मयः सन्ति, तेषां पृथिव्यां उपरि पातः ऋजुतमेन पथा भवति, यथा भौगोलिकरूपेण पृथिव्योपरि कल्पितायां विषुवत् रेखोपरि। अनुमानमस्ति यत् साध्यानां यागः विषुवत् अह्न यावत् सीमितः अस्ति। अतः परं यः यागं अस्ति, तत् यथार्थरूपेण मर्त्यस्तरस्य अमृतस्तरे रूपान्तरणस्य कृत्यमस्ति।


१०.९०.८

तस्माद्यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पशूंस्तांश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये।।

वायव्यानां पशूनां विषये सम्प्रति अल्पज्ञातमस्ति। तैआ ३.११.११ कथनमस्ति यत् ग्राम्यानां पशूनां देवता अग्निः अस्ति, आरण्यकानां वायुः। आरण्याः पशवः अनियन्त्रणीयाः भवन्ति, ग्राम्याः नियन्त्रणीयाः सन्ति। अपि च, ग्राम्याः पशवः आरण्यकानां नियन्त्रकाः सन्ति, यथा पुरुषः पशूनां। ग्राम्याः पशवः पयसः प्रदातृकाः भवन्ति। पयः अर्थात् क्रोधादिआवेगेभ्यः मुक्तावस्था।

तैत्तिरीय संहिता १.८.७.१, तैत्तिरीय ब्राह्मण १.७.१.१ व ३.७.१.५ , शतपथ ब्राह्मण २.६.३.६ आदिषु पयः वायव्यः अस्ति। वायोः कार्यं वनस्पतिषु गुरुत्वाकर्षणशक्त्याः प्रतिरोधः अस्ति, वयः सदृशावस्था। रामाख्याने यः हनुमानः अस्ति, सः वायोः पुत्रः अस्ति एवं राक्षसानां उपरि नियन्त्रकः अस्ति।

शतपथ ब्राह्मण १२.७.३.१९ आदिषु सौत्रामण्याः संदर्भे उल्लेखः अस्ति यत् ग्राम्याः पशवः पयोग्रहाः सन्ति, आरण्यकाः सुराग्रहाः । ग्राम्येभ्यः पशुभ्यः अन्नाद्यस्य प्राप्तिः भवति, आरण्यकाः अन्नप्रदायकाः सन्ति, क्षुधायाः शमनं कुर्वन्ति।

महाभारते आदिपर्वे १२९.४५ उत्तरपाञ्चालराज्ये द्रुपदस्य पितुः पृषतस्य उल्लेखमस्ति। अत्र पाञ्चालराज्यः सर्वहुतशब्दस्य पर्यायवाची प्रतीयते। डा. फतहसिंहः कथयति स्म यत् द्रुपदः यागेषु पशुबन्धनार्थं मेथ्याः संज्ञा अस्ति द्रुपदेषु बद्धः। द्रु - द्रुतगतौ। द्रुपदस्य विपरीतं द्रोणः - द्रु न, स्थैर्यम् अस्ति। यदि कोपि जनः यथार्थतः सर्वहोता, सर्वेषां जनानां होता, नेता, दूतः भवितुं इच्छति, तेषु मनःसु प्रवेशं वाञ्छति, तर्हि तस्य चेतनातन्त्रस्य अव्यवस्था अन्येषां चेतनातन्त्रेभ्यः न्यूना भवितुं अपेक्षितमस्ति। आधुनिकविज्ञाने अस्य संज्ञा एण्ट्रांपी आफ इन्फोर्मेशन अस्ति। यदि एवं न भवति, तर्हि चेतनातन्त्रोपरि येषां संवादानां आपतनं भविष्यति, ते विरूपाः, विकृताः भविष्यन्ति। श्रीरजनीशमहोदयानुसारेण (कुण्डली और सात शरीर प्रवचनमाला) कण्ठस्य विशुद्धिसंज्ञकचक्रस्य चेतनायाः अयं वैशिष्ट्यं अस्ति।

पृषदाज्योपरि वैदिकसंदर्भाः

पृषदाज्यस्य संभरणस्य का आवश्यकता अस्ति। कथनमस्ति यत् यः सोमः स्कन्दति, अनावश्यकरूपेण स्रवति, तस्य पुनः सम्भरणस्य आवश्यकता भवति। पृषदाज्यस्य संभरणमपि सोमस्य संभरणस्य एकं कृत्यमस्ति। पृषदाज्यं प्राणानां रूपमस्ति। ये ग्राम्याः एवं आरण्यकाः पशवः सन्ति, तेषु पृषदाज्यरूपीप्राणानां विद्यमानता अस्ति। यः शुद्धआज्यः अस्ति, तस्मात् प्राणैः सह मनसः अपि विकासं भवति। पुरुषः मनसा सह अस्ति। किन्तु ये पशवः सन्ति, तेषु मनसः विकासं नास्ति, अयं ब्राह्मणे कथितमस्ति । पृषदाज्यं वैश्वदेवस्य स्थिरस्ति, यत्र जीवानां प्राणेषु एकात्मता नास्ति। यत्र एकात्मता भवति, सा स्थिति दशमीतिथितः परः एकादशीरुच्यते।

१०.९०.९

तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे। छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत।।

वैदिकवाङ्मये सर्वहुतशब्दस्य उल्लेखाः सन्ति। लक्ष्मीनारायण संहितातः १.३०९ स्पष्टं भवति सर्वहुतस्य किं वैशिष्ट्यं भवितुं शक्यते। लोके कथानकाः प्रचलिताः सन्ति यत् अमुकः भक्तः यदा बुभुक्षाग्रस्तः भवति, तदा सः पिपीलिकाभ्यः भोजनं प्रस्तौति। तेन तस्य स्वस्य बुभुक्षा शान्ता भवति। अस्यैव लोकस्य कथानकस्य विस्तारं लक्ष्मीनारायणसंहितायां अस्ति। यः सर्वेषां प्राणिनां बुभुक्षायाः स्वात्मनि अनुभवं कर्तुं शक्नोति, तस्य यज्ञात्, तस्य जीवनशैलीतः पृषदाज्यस्य संभरणं संभवमस्ति। प्रथमावस्थायां पृषदाज्यस्य संभरणं भविष्यति, तत्पश्चचात् आज्यस्य। अयमेव सोमयागः भविष्यति, यथा लक्ष्मीनारायणसंहितायाः कथायां सर्वहुतराजा पुष्करे सोमयागः करोति।


१०.९०.१०

तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥

अश्वोपरि वैदिकसंदर्भाः

अश्वोपरि पौराणिकसंदर्भाः

अत्र पञ्चग्राम्यपशुषु चतुर्णां पशूनां उल्लेखमस्ति। पुरुषस्य उल्लेखं पूर्वमेव कृतमस्ति। एतेषां पशूनां किं महिमा अस्ति। शतपथब्राह्मण ६.२.१.५ अनुसारेण पुरुषपशुः वैश्वकर्मणः अस्ति, अर्थात् पुरुषः पुरुषार्थयुक्तः अस्ति, सः दैवोपरि निर्भरः नास्ति। अन्ये चत्वारः ग्राम्याः पशवः दैवोपरि एव निर्भराः सन्ति। अश्वः वारुणमस्ति। वारुणं अर्थात् यत्र-यत्र अनृतमस्ति, तत्र-तत्र वरुणः बन्धनस्य, ग्रन्थेः सर्जनं करिष्यति। अनेनैव कारणेन महाभारते अश्वनिपुणस्य नकुलस्य संज्ञा विराड्नगरे ग्रन्थिकः अस्ति। यत्र अनृतं नास्ति, तत्र अश्वः सूर्यः, श्वेताश्वः भवितुं शक्यते। गावः रौद्राः, रुद्रदेवत्याः सन्ति। यागानां अवसाने अग्नेः स्विष्टकृत् इष्टिः भवति। तत् रुद्रस्य शमनाय भवति। रुद्रदेवः रौद्रप्रकृत्यापेक्षया सु-इष्टः भवतु, अयमर्थः। गौपशुः पृथिव्योपरि सूर्यस्य रश्मीनां संग्रहं करोति, येन भूतेषु या रौद्रता अस्ति, तस्य शमनं भवति। अविपशुः त्वष्टृदेवात्मकः अस्ति। त्वष्टृदेवस्य कार्यं ब्रह्माण्डे या ऊर्जा अस्ति, तस्याः सम्यक् उपयोजनं अस्ति। त्वष्टा देवः सूर्यं स्वभ्रम्योपरि रोपयित्वा तस्य रूपनिर्माणं करोति। तेन सूर्यस्य उदयः भवति। अतएव, छान्दोग्योपनिषदे अविभक्तिः उदयेन सह सम्बद्धा अस्ति। अयं प्रतीयते यत् अविशब्दः आविःशब्दस्य, आविर्भावस्य परोक्षरूपमस्ति। आवश्यकता अस्ति यत् व्यवहारे ये पापाः सन्ति, तेषां उदयं न भवेत्, पुण्यानामेव उदयं भवेत्। अजाभक्तिः सूर्योदयात् पूर्वावस्था अस्ति। अस्याः सम्बन्धं व्याधिभिः सह अपि अस्ति।


१०.९०.१२अ

ब्राह्मणो अस्य मुखमासीत् बाहू राजन्यः कृतः।

द्र. भविष्यपुराणम् ३.४.५.८

बाह्वोपरि वैदिकसंदर्भाः

बाहू राजन्यः कृतः केन कारणेन। पद्मपुराण १.३.१०५ आदिषु कथनमस्ति यत् ब्रह्मणः वक्षसः अवेः प्राकट्यमभवत्। वक्षः वैक्सिंग-वेनिंग, ध्माकरणस्य स्थानमस्ति। अविः आविर्भाव - तिरोभावस्य, उदयावस्थायाः प्रतीकमस्ति, पाप-पुण्यानां आविर्भावः - तिरोभावः। बाहुविषये सार्वत्रिकमन्त्रमस्ति - सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णोः हस्ताभ्यां इति। बाहुमूले पाप-पुण्यानां आविर्भावः - तिरोभावः प्रचलति। अनेनानुसारेणैव बाह्वग्रे कर्मः प्रचलिष्यति। अतएव, वैदिकवाङ्मये सार्वत्रिककथनमस्ति - देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे , इन्द्रस्य बाहुरसि दक्षिणः सहस्रभृष्टिः शततेजा । मैसं १.१.१०, काठ.सं. १.९। बाहुमूले सवितृदेवस्य प्रसवस्य, प्रेरणस्य आवश्यकता अस्ति। नारदपुराणादिषु ( नारद १.७.३) कथनमस्ति यत् बाहुराजा असूयादोषतः ग्रस्तः आसीत्, अनेन कारणेन तस्य राज्यः शत्रुभिः अपहृतमासीत्। बाह्वोः द्वे रूपौ स्तः - ऊर्ध्वबाहुः, तिर्यक्बाहुः। यदा वीर्यसंरक्षणस्य आवश्यकता भवति, तदा ऊर्ध्वबाहुरूपः अपेक्षितमस्ति (माश ५,४, १, १७

१०.९०.१२ब

ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥

ऊरवोरुपरि टिप्पणी

देहे उरः, उदरादिकं यः मध्यभागमस्ति, तस्य संज्ञा ज्योति-अण्डः अस्ति (इन्द्राग्नी शिखण्डाभ्याम् (प्रीणामि )। तैसं ५.७.१५.१)। यावत् क्षुधादीनि पापानि विद्यमानानि सन्ति, तावत् अस्याण्डस्य भेदनं अपेक्षितं नास्ति। इन्द्राग्नी देवौ क्षुधादीनां पापानां अपहर्तारौ स्तः। यदा पापानां क्षयः भवति, तदा ज्योतिराण्डस्य भेदनं, ऊरवोः स्थापनं अपेक्षितं अस्ति। इन्द्राबृहस्पती ऊरवोः देवौ स्तः। यावत् पापानां प्रतिष्ठा अस्ति, तावत् अमावास्या अस्ति। यदा पापानां क्षयः भवति, तदा पौर्णमासः भवति (तैब्रा ३, १, १, ११)।

ऊरू वैश्यः केन प्रकारेण। पद्मपुराण १.३.१०५ आदिषु कथनमस्ति यत् ब्रह्मणः उदरात् गौ-महिष्यादीनां सृष्टिरभवत्। गोः कृत्यं सूर्यस्य रश्मिभिः भोजनस्य निर्माणं, अन्यशब्देषु, रश्मीनां संचयं अस्ति। पृथ्वीरूपी या गौः अस्ति, तस्यापि अयमेव कार्यमस्ति। यस्य ऊर्जायाः संचयं भवति, तस्य उपयोगं सर्वभूतानां पुष्ट्यै भवति। देहे यः ऊरुसंज्ञकः अंगः अस्ति, तत् उदरस्य निकटतमः अस्ति। व्यावहारिकरूपेण, नायं ऊरु अस्ति, अयं पूरुः अस्ति। अनुमानमस्ति यत् यदा नाभिद्वारः सूर्यस्य रश्मीनां आगमनाय द्वारं भवति, तदैव पूरुः ऊरुः भवति। पूरुः अर्थात् यः देहस्य न्यूनतायाः पूरणं करोति। ऊरु - यः देहस्य चेतनायाः अतिक्रमणं कृत्वा बहिर्गन्तुं शक्यते।

१०.९०.१३

चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत। मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत।।

तुलनीयः -- स प्राणेभ्य एवाधि पशून्निरमिमीत मनसः पुरुषं चक्षुषोऽश्वं प्राणाद्गां श्रोत्रादविं वाचोऽजं तद्यदेनान्प्राणेभ्योऽधि निरमिमीत तस्मादाहुः प्राणाः पशव इति मनो वै प्राणानां प्रथमं तद्यत्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः प्रथमः पशूनां वीर्यवत्तम इति मनो वै सर्वे प्राणा मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तद्यन्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः सर्वे पशव इति। माश ७,५,२,६

मनउपरि पौराणिकसंदर्भाः

मनउपरि संक्षिप्तटिप्पणी एवं संदर्भाः

चक्षुरुपरि वैदिकसंदर्भाः

प्राणोपरि पौराणिकसंदर्भाः

प्राणोपरि वैदिकसंदर्भाः

वायुरुपरि टिप्पणी

डा. फतहसिंहः कथयति स्म यत् वैदिकवाङ्मये शब्दानां त्रिप्रकाराः सन्ति -- बहुवचनं, द्विवचनं एवं एकवचनम्। शब्दस्य यः एकवचनमस्ति, तत् दिव्यरूपमस्ति। अनेन प्रकारेण, अथर्ववेदे ११.६ सूक्ते प्राणस्य एकवचनस्य रूपस्य वर्णनमस्ति। अस्य प्राणस्य रूपं वायुरूपं दृश्यते। अस्मिन् सूक्ते स्तनयित्नु, विद्युत्, वर्षणादिशब्दाः सन्ति। वैदिकवाङ्मये एतेषां मूलं वायुरस्ति।

महाभारते शान्तिपर्व ३२८.३८ मध्ये यदा स्थूलदेहस्थिताः प्राणाः ब्रह्माण्डस्थितानां वायूनां रूपाणि धारयिष्यन्ति, तदा उदानादीनां प्राणानां ब्रह्माण्डे किं रूपं अस्ति, अस्य वर्णनमस्ति।

१०.९०.१५

सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥

परिधिरुपरि टिप्पणी एवं संदर्भाः

कवचोपरि टिप्पणी


१०.९०.१६अ

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

एषा ऋचा ऋग्वेदे १.१६४.५० अपि विद्यमाना अस्ति। अस्याः सायणभाष्ये कथनमस्ति यत् आदित्याश्चैवेहासन्नङ्गिरसश्च तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्(ऐ. ब्रा. १. १६) । यथा विदितमस्ति, अङ्गिरसां यज्ञः मन्दगत्या प्रचलति, श्वःसुत्यया, आदित्यानां त्वरितगत्या, अद्यसुत्यया। अतएव अयं संभवमस्ति यत् यज्ञेन यज्ञं शब्दौ मन्दगति एवं तीव्रगतियज्ञयोः वाचकौ स्तः। तैत्तिरीयब्राह्मणं ३.९.१९ तः संकेतं मिलति यत् एकः यज्ञः निष्कामयज्ञः अस्ति, द्वितीयः कामनापरकः।

ऋग्वेद १.१६४.४३ ऋचा अस्ति - शकमयं धूममारादपश्यं विषूवता पर एनावरेण । उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥४३॥ अत्र कथनमस्ति - उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमानि आसन्। अयं अर्धर्चः यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् इति अर्धर्चस्य तुल्यं अस्ति। सायणभाष्यानुसारेण उक्षा - फलसेचनसमर्थः। जगद्व्यवहारे बहवः कार्याः, अनुष्ठानाः भवन्ति ये त्वरितफलदायकाः सन्ति। धारणा अस्ति यत् शक्तिपूजा त्वरितफलदायी अस्ति, न शिवपूजा। डा. फतहसिंहानुसारेण पृश्निशब्दः चित्र-विचित्रस्य, जगद्व्यवहारस्य बोधकः अस्ति। नायं सात्त्विकव्यवहारः। किन्तु या संसारव्यवहारस्य प्रथमानुभूतिः अस्ति, तत् मिथ्या नास्ति, तस्याः पाचनं, परिपाकं एव यज्ञमस्ति। एते धर्माः प्रथमानि सन्ति। काशिकानुसारेण धर्मशब्दः पुंल्लिंगः अस्ति, धर्माणि नपुंसकः।

१०.९०.१६ब

ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः।।

नाकोपरि संदर्भाः

ये स्वसंकल्पानां सिद्धिहेतु यज्ञेन यज्ञं कुर्वन्ति, ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः।। संकल्पसिद्धियज्ञस्य आरम्भः लघुत्तमाकारतः भविष्यति एवं क्रमिकरूपेण बृहत्तररूपं धारयिष्यति। अयं एकः विकल्पः अस्ति। द्वितीयः विकल्पः साध्यानां देवानां अस्ति। यदा संकल्पः अतिप्रबलः अस्ति, तदा क्रमस्य आवश्यकता नास्ति।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.९०&oldid=336240" इत्यस्माद् प्रतिप्राप्तम्