ऋग्वेदः सूक्तं १०.२८
← सूक्तं १०.२७ | ऋग्वेदः - मण्डल १० सूक्तं १०.२८ [[लेखकः :|]] |
सूक्तं १०.२९ → |
१ इन्द्रस्नुषा वसुक्रपत्नी ऋषिका, २, ६, ८, १०, १२ इन्द्र ऋषिः, ३, ४, ५, ७, ९, ११ ऐन्द्रो वसुक्र ऋषिः।
दे. २, ६, ८, १०, १२ ऐन्द्रो वसुक्रो देवता, १, ३, ४, ५, ७, ९, ११ इन्द्रो देवता। त्रिष्टुप् |
विश्वो ह्यन्यो अरिराजगाम ममेदह श्वशुरो ना जगाम ।
जक्षीयाद्धाना उत सोमं पपीयात्स्वाशितः पुनरस्तं जगायात् ॥१॥
स रोरुवद्वृषभस्तिग्मशृङ्गो वर्ष्मन्तस्थौ वरिमन्ना पृथिव्याः ।
विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥२॥
अद्रिणा ते मन्दिन इन्द्र तूयान्सुन्वन्ति सोमान्पिबसि त्वमेषाम् ।
पचन्ति ते वृषभाँ अत्सि तेषां पृक्षेण यन्मघवन्हूयमानः ॥३॥
इदं सु मे जरितरा चिकिद्धि प्रतीपं शापं नद्यो वहन्ति ।
लोपाशः सिंहं प्रत्यञ्चमत्साः क्रोष्टा वराहं निरतक्त कक्षात् ॥४॥
कथा त एतदहमा चिकेतं गृत्सस्य पाकस्तवसो मनीषाम् ।
त्वं नो विद्वाँ ऋतुथा वि वोचो यमर्धं ते मघवन्क्षेम्या धूः ॥५॥
एवा हि मां तवसं वर्धयन्ति दिवश्चिन्मे बृहत उत्तरा धूः ।
पुरू सहस्रा नि शिशामि साकमशत्रुं हि मा जनिता जजान ॥६॥
एवा हि मां तवसं जज्ञुरुग्रं कर्मन्कर्मन्वृषणमिन्द्र देवाः ।
वधीं वृत्रं वज्रेण मन्दसानोऽप व्रजं महिना दाशुषे वम् ॥७॥
देवास आयन्परशूँरबिभ्रन्वना वृश्चन्तो अभि विड्भिरायन् ।
नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटमनु तद्दहन्ति ॥८॥
शशः क्षुरं प्रत्यञ्चं जगाराद्रिं लोगेन व्यभेदमारात् ।
बृहन्तं चिदृहते रन्धयानि वयद्वत्सो वृषभं शूशुवानः ॥९॥
सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं न सिंहः ।
निरुद्धश्चिन्महिषस्तर्ष्यावान्गोधा तस्मा अयथं कर्षदेतत् ॥१०॥
तेभ्यो गोधा अयथं कर्षदेतद्ये ब्रह्मणः प्रतिपीयन्त्यन्नैः ।
सिम उक्ष्णोऽवसृष्टाँ अदन्ति स्वयं बलानि तन्वः शृणानाः ॥११॥
एते शमीभिः सुशमी अभूवन्ये हिन्विरे तन्वः सोम उक्थैः ।
नृवद्वदन्नुप नो माहि वाजान्दिवि श्रवो दधिषे नाम वीरः ॥१२॥
सायणभाष्यम्
‘विश्वो हि' इति द्वादशर्चं द्वादशं सूक्तं त्रैष्टुभम् । इन्द्रवसुक्रयोः पितापुत्रयोः संवादोऽत्र क्रियते । पुरा वसुक्रे यज्ञं कुर्वाणे सति इन्द्रः प्रच्छन्नरूप आजगाम । तं वसुक्रपत्नीन्द्रागमनाकाङ्क्षिणी विप्रकृष्टमिवाद्ययास्तौत् । अतस्तस्याः सर्षिः इन्द्रो देवता । अथ तस्याः प्रीत्यै वसुक्रेण सहेन्द्रः संवादमकरोत् । द्वितीयादियुजश्चतुर्थीरहिताः पञ्चर्चं इन्द्रवाक्यानि । अतस्तासां स ऋषिः । यद्यप्यासु वसुक्रः संबोध्यत्वाद्देवता तथापि ता ऋच ऐन्द्रे कर्मणि विनियोक्तव्या इन्द्रलिङ्गसद्भावात् । चतुर्थीसहिताः शिष्टास्तृतीयाद्या वसुक्रवाक्यानि । अतः स ऋषिस्तासामिन्द्रो देवता। तथा चानुक्रान्तं----’विश्वो हि द्वादशेन्द्रवसुक्रयोः संवाद ऐन्द्रः सूक्तस्य प्रथमयेन्द्रस्य स्नुषा परोक्षवदिन्द्रमाहेन्द्रस्य युजः शेषा ऋषेश्चतुर्थी च' इति । गतो विनियोगः ॥
विश्वो॒ ह्य१॒॑न्यो अ॒रिरा॑ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम ।
ज॒क्षी॒याद्धा॒ना उ॒त सोमं॑ पपीया॒त्स्वा॑शितः॒ पुन॒रस्तं॑ जगायात् ॥१
विश्वः॑ । हि । अ॒न्यः । अ॒रिः । आ॒ऽज॒गाम॑ । मम॑ । इत् । अह॑ । श्वशु॑रः । न । आ । ज॒गा॒म॒ ।
ज॒क्षी॒यात् । धा॒नाः । उ॒त । सोम॑म् । प॒पी॒या॒त् । सुऽआ॑शितः । पुनः॑ । अस्त॑म् । ज॒गा॒या॒त् ॥१
विश्वः । हि । अन्यः । अरिः । आऽजगाम । मम । इत् । अह । श्वशुरः । न । आ । जगाम ।
जक्षीयात् । धानाः । उत । सोमम् । पपीयात् । सुऽआशितः । पुनः । अस्तम् । जगायात् ॥१
अनया वसुक्रपत्नीन्द्रं स्तौति । “अन्यः इन्द्रव्यतिरिक्तः “अरिः अर्य ईश्वरः “विश्वो “हि सर्व एव देवगणः “आजगाम अस्मद्यज्ञं प्रत्याययौ। "इत् इत्यवधारणे। “अह इत्यद्भुते । सर्वदेवगण आगते सति “मम एव “श्वशुरः इन्द्रः “ना “जगाम । स इन्द्रो यद्यागच्छेत् तर्हि “धानाः भृष्टयवान् “जक्षीयात् भक्षयेत् । “उत अपि च "सोमम् अभिषुतं “पपीयात् पिबेत् । ततः "स्वाशितः सुष्ठु भुक्तस्तृप्तः सन् “पुनः भूयः “अस्तं स्वगृहं प्रति “जगायात् गच्छेत् ॥
स रोरु॑वद्वृष॒भस्ति॒ग्मशृं॑गो॒ वर्ष्मं॑तस्थौ॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।
विश्वे॑ष्वेनं वृ॒जने॑षु पामि॒ यो मे॑ कु॒क्षी सु॒तसो॑मः पृ॒णाति॑ ॥२
सः । रोरु॑वत् । वृ॒ष॒भः । ति॒ग्मऽशृ॑ङ्गः । वर्ष्म॑न् । त॒स्थौ॒ । वरि॑मन् । आ । पृ॒थि॒व्याः ।
विश्वे॑षु । ए॒न॒म् । वृ॒जने॑षु । पा॒मि॒ । यः । मे॒ । कु॒क्षी इति॑ । सु॒तऽसो॑मः । पृ॒णाति॑ ॥२
सः । रोरुवत् । वृषभः । तिग्मऽशृङ्गः । वर्ष्मन् । तस्थौ । वरिमन् । आ । पृथिव्याः ।
विश्वेषु । एनम् । वृजनेषु । पामि । यः । मे । कुक्षी इति । सुतऽसोमः । पृणाति ॥२
“वृषभः कामानां वर्षिता “तिग्मशृङ्गः तीक्ष्णरश्मिः “सः इन्द्रोऽहं “पृथिव्याः अन्तरिक्षस्य “वर्ष्मन् वर्ष्मणि । वर्ष्मञ्शब्द उन्नतवचनः स्थिरवचनो वा । एवंभूते “वरिमन् विस्तीर्णे प्रदेशे “रोरुवत् भृशं शब्दायमानः सन् “आ “तस्थौ आतिष्ठामि । एवंभूतोऽहं “विश्वेषु सर्वेषु “वृजनेषु संग्रामेषु “एनम् ईदृशं वसुक्रं यजमानं “पामि रक्षामि। “यः यजमानः “सुतसोमः अभिषुतसोमः “मे मम "कुक्षी उभौ पार्श्वौ “पृणाति सोमरसपुरोडाशादिहविर्भिः पूरयति । ईदृशं रक्षामीति संबन्धः॥
अद्रि॑णा ते मं॒दिन॑ इंद्र॒ तूया॑न्त्सु॒न्वंति॒ सोमा॒न्पिब॑सि॒ त्वमे॑षां ।
पचं॑ति ते वृष॒भाँ अत्सि॒ तेषां॑ पृ॒क्षेण॒ यन्म॑घवन्हू॒यमा॑नः ॥३
अद्रि॑णा । ते॒ । म॒न्दिनः॑ । इ॒न्द्र॒ । तूया॑न् । सु॒न्वन्ति॑ । सोमा॑न् । पिब॑सि । त्वम् । ए॒षा॒म् ।
पच॑न्ति । ते॒ । वृ॒ष॒भान् । अत्सि॑ । तेषा॑म् । पृ॒क्षेण॑ । यत् । म॒घ॒ऽव॒न् । हू॒यमा॑नः ॥३
अद्रिणा । ते । मन्दिनः । इन्द्र । तूयान् । सुन्वन्ति । सोमान् । पिबसि । त्वम् । एषाम् ।
पचन्ति । ते । वृषभान् । अत्सि । तेषाम् । पृक्षेण । यत् । मघऽवन् । हूयमानः ॥३
हे “इन्द्र “ते त्वदर्थं "मन्दिनः मादयितॄन् “तूयान् अविलम्बितान् सोमान् “अद्रिणा अभिषवग्राव्णा “सुन्वन्ति यजमाना अभिषुण्वन्ति । “एषाम् अस्मदादियजमानानां संबन्धिनः “सोमान् “त्वं “पिबसि । किंच त्वदर्थं “वृषभान् पशून ये च यजमानाः “पचन्ति “तेषां संबन्धिनो हविर्भूतान् पशून् “अत्सि भक्षयसि । हे “मघवन् धनवन्निन्द्र त्वं यदा “पृक्षेण हविर्भूतेनान्नेन निमित्तेन “हूयमानः यजमानैर्हूयसे तदेति पूर्वेण संबन्धः ॥
इ॒दं सु मे॑ जरित॒रा चि॑किद्धि प्रती॒पं शापं॑ न॒द्यो॑ वहंति ।
लो॒पा॒शः सिं॒हं प्र॒त्यंच॑मत्साः क्रो॒ष्टा व॑रा॒हं निर॑तक्त॒ कक्षा॑त् ॥४
इ॒दम् । सु । मे॒ । ज॒रि॒तः॒ । आ । चि॒कि॒द्धि॒ । प्र॒ति॒ऽई॒पम् । शाप॑म् । न॒द्यः॑ । व॒ह॒न्ति॒ ।
लो॒पा॒शः । सिं॒हम् । प्र॒त्यञ्च॑म् । अ॒त्सा॒रिति॑ । क्रो॒ष्टा । व॒रा॒हम् । निः । अ॒त॒क्त॒ । कक्षा॑त् ॥४
इदम् । सु । मे । जरितः । आ । चिकिद्धि । प्रतिऽईपम् । शापम् । नद्यः । वहन्ति ।
लोपाशः । सिंहम् । प्रत्यञ्चम् । अत्सारिति । क्रोष्टा । वराहम् । निः । अतक्त । कक्षात् ॥४
हे “जरितः शत्रूणां जरयितरिन्द्र त्वं “मे मम "सु शोभनमपि “इदम् ईदृशं रूपं सामर्थ्यम् “आ “चिकिद्धि आ समन्ताज्जानीहि । कीदृशम् । “नद्यः गङ्गाद्याः सरितः “प्रतीपं प्रतिकूलं “शापम् उदकं “वहन्ति । अपि च “लोपाशः । लुप्यमानं तृणमश्नातीति लोपाशो मृगः । मया प्रेषितः सन् “प्रत्यञ्चम् आत्मानं प्रति गच्छन्तं “सिंहम् “अत्साः अत्सारीत् । आभिमुख्येन गच्छति । तथा “क्रोष्टा शृगालः “वराहं बलवन्तमपि सूकरं “कक्षात् अतिगहनदेशात् “निरतक्त निर्गमयति । एतदपि सर्वं सामर्थ्यं त्वत्पुत्रे मयि त्वत्प्रसादाल्लब्धमपि जानीहीत्यर्थः ॥
क॒था त॑ ए॒तद॒हमा चि॑केतं॒ गृत्स॑स्य॒ पाक॑स्त॒वसो॑ मनी॒षां ।
त्वं नो॑ वि॒द्वाँ ऋ॑तु॒था वि वो॑चो॒ यमर्धं॑ ते मघवन्क्षे॒म्या धूः ॥५
क॒था । ते॒ । ए॒तत् । अ॒हम् । आ । चि॒के॒त॒म् । गृत्स॑स्य । पाकः॑ । त॒वसः॑ । म॒नी॒षाम् ।
त्वम् । नः॒ । वि॒द्वान् । ऋ॒तु॒ऽथा । वि । वो॒चः॒ । यम् । अर्ध॑म् । ते॒ । म॒घ॒ऽव॒न् । क्षे॒म्या । धूः ॥५
कथा । ते । एतत् । अहम् । आ । चिकेतम् । गृत्सस्य । पाकः । तवसः । मनीषाम् ।
त्वम् । नः । विद्वान् । ऋतुऽथा । वि । वोचः । यम् । अर्धम् । ते । मघऽवन् । क्षेम्या । धूः ॥५
हे इन्द्र “पाकः पक्तव्यप्रज्ञः “अहं “गृत्सस्य मेधाविनः “तवसः वृद्धस्य "ते तव “मनीषां स्तुतिम् । कर्तुमिति शेषः । “एतत् ईदृशं त्वदीयं सामर्थ्यं “कथा कथं केन प्रकारेण “ “चिकेतम् आ समन्तात् जानामि । त्वदुपदेशं विना न जानामीत्यर्थः । तस्मात्कारणात् “विद्वान् सर्वज्ञः “त्वम् एव “नः अस्मभ्यम् “ऋतुथा कालेकाले “वि “वोचः विशेषेण ब्रूहि । हे “मघवन् धनवन्निन्द्र "ते तव "अर्धं “यं स्तुत्यवयवं कुर्मः सा स्तुतिः “धूः “क्षेम्या क्षेमे भवा केशरहित वोढुं शक्यास्ति । यस्मात्तव स्तुत्यवयवमेव वयमक्लेशेन कर्तुं न शक्नुमोऽस्माकं मन्दबुद्धित्वात् तस्मात्त्वमेवास्मभ्यं स्वसामर्थ्यं स्तुतिप्रकारं च पुनरपि कथयेत्यर्थः ।।
ए॒वा हि मां त॒वसं॑ व॒र्धयं॑ति दि॒वश्चि॑न्मे बृह॒त उत्त॑रा॒ धूः ।
पु॒रू स॒हस्रा॒ नि शि॑शामि सा॒कम॑श॒त्रुं हि मा॒ जनि॑ता ज॒जान॑ ॥६
ए॒व । हि । माम् । त॒वस॑म् । व॒र्धय॑न्ति । दि॒वः । चि॒त् । मे॒ । बृ॒ह॒तः । उत्ऽत॑रा । धूः ।
पु॒रु । स॒हस्रा॑ । नि । शि॒शा॒मि॒ । सा॒कम् । अ॒श॒त्रुम् । हि । मा॒ । जनि॑ता । ज॒जान॑ ॥६
एव । हि । माम् । तवसम् । वर्धयन्ति । दिवः । चित् । मे । बृहतः । उत्ऽतरा । धूः ।
पुरु । सहस्रा । नि । शिशामि । साकम् । अशत्रुम् । हि । मा । जनिता । जजान ॥६
“हि यस्मात्कारणात् “एव एवमुक्तप्रकारेण “तवसं प्रवृद्धं “मां स्तोतारः स्तुतिभिः स्तुवन्तो वीर्येण “वर्धयन्ति तस्मात्कारणात् “बृहतः महतः “मे मम इन्द्रस्य “दिवश्चित् द्युलोकादपि “धूः स्तुतिः “उत्तरा उद्गततराधिकतरा । किंच “पुरु पुरूणि बहूनि “सहस्रा शत्रूणां सहस्राणि “साकं युगपत् “नि शिशामि तनूकरोमि। हिनस्मीत्यर्थः । “हि यस्मात्कारणात् “जनिता सर्वस्य जनयिता प्रजापतिः "मा मामिन्द्रम् "अशत्रुम् अविद्यमानशत्रुं “जजान जनितवान् ॥ ॥ २० ॥
ए॒वा हि मां त॒वसं॑ ज॒ज्ञुरु॒ग्रं कर्म॑न्कर्म॒न्वृष॑णमिंद्र दे॒वाः ।
वधीं॑ वृ॒त्रं वज्रे॑ण मंदसा॒नोऽप॑ व्र॒जं म॑हि॒ना दा॒शुषे॑ वं ॥७
ए॒व । हि । माम् । त॒वस॑म् । ज॒ज्ञुः । उ॒ग्रम् । कर्म॑न्ऽकर्मन् । वृष॑णम् । इ॒न्द्र॒ । दे॒वाः ।
वधी॑म् । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । अप॑ । व्र॒जम् । म॒हि॒ना । दा॒शुषे॑ । व॒म् ॥७
एव । हि । माम् । तवसम् । जज्ञुः । उग्रम् । कर्मन्ऽकर्मन् । वृषणम् । इन्द्र । देवाः ।
वधीम् । वृत्रम् । वज्रेण । मन्दसानः । अप । व्रजम् । महिना । दाशुषे । वम् ॥७
“हि यस्मात्कारणात् “एव एवमनेनोक्तप्रकारेण हे "इन्द्र “देवाः मरुदादयः ऋत्विग्यजमाना वा “तवसं महान्तं त्वत्पुत्रं त्वद्रूपेणावस्थितं सन्तं वसुक्रं “मां कर्मन्कर्मन् वृत्रवधाग्निहोत्रादौ सर्वस्मिन् कर्मणि “उग्रं शूरमसह्यं वा “वृषणं वर्षितारं हविषां दातारं “जज्ञुः जानन्ति अतः “मन्दसानः मोदमानोऽहं "वज्रेण आयुधेन “वृत्रं मेघमसुरं वा “वधीं अवधिषम्। किंच “दाशुषे हविर्दत्तवते यजमानाय वृष्टिप्रदानार्थं "महिना महत्त्वेन व्रजं मेघसमूहम् “अप “वम् अपावम् अपवृणोमि ।।
दे॒वास॑ आयन्पर॒शूँर॑बिभ्र॒न्वना॑ वृ॒श्चंतो॑ अ॒भि वि॒ड्भिरा॑यन् ।
नि सु॒द्र्वं१॒॑ दध॑तो व॒क्षणा॑सु॒ यत्रा॒ कृपी॑ट॒मनु॒ तद्द॑हंति ॥८
दे॒वासः॑ । आ॒य॒न् । प॒र॒शून् । अ॒बि॒भ्र॒न् । वना॑ । वृ॒श्चन्तः॑ । अ॒भि । वि॒ट्ऽभिः । आ॒य॒न् ।
नि । सु॒ऽद्र्व॑म् । दध॑तः । व॒क्षणा॑सु । यत्र॑ । कृपी॑टम् । अनु॑ । तत् । द॒ह॒न्ति॒ ॥८
देवासः । आयन् । परशून् । अबिभ्रन् । वना । वृश्चन्तः । अभि । विट्ऽभिः । आयन् ।
नि । सुऽद्र्वम् । दधतः । वक्षणासु । यत्र । कृपीटम् । अनु । तत् । दहन्ति ॥८
"देवासः देवाः इन्द्रेण चोदिताः सन्तः “आयन् गच्छन्ति । मेघवधार्थं "परशून् वज्रान् “अबिभ्रन धारयन्ति च । तदनन्तरं “विड्भिः मरुदादिप्रजाभिः सहिताः “वृश्चन्तः मेघांश्छिन्दन्तः “वना वनानि वृष्टिलक्षणान्युदकानि "अभि “आयन् आभिमुख्येन गच्छन्ति । ततः “सुद्र्वं शोभनद्रवणं वृष्ट्युदकं “वक्षणासु नदीषु “नि “दधतः नियमेन स्थापयन्तः “यत्र यस्मिन्मेघजाते “कृपीटम् । उदकनामैतत् । निगूढमुदकं तिष्ठति त इमे देवाः “तत् मेघजातम् “अनु लक्षीकृत्य “दहन्ति उदकनिर्गमनार्थं शोषयन्ति ॥
श॒शः क्षु॒रं प्र॒त्यंचं॑ जगा॒राद्रिं॑ लो॒गेन॒ व्य॑भेदमा॒रात् ।
बृ॒हंतं॑ चिदृह॒ते रं॑धयानि॒ वय॑द्व॒त्सो वृ॑ष॒भं शूशु॑वानः ॥९
श॒शः । क्षु॒रम् । प्र॒त्यञ्च॑म् । ज॒गा॒र॒ । अद्रि॑म् । लो॒गेन॑ । वि । अ॒भे॒द॒म् । आ॒रात् ।
बृ॒हन्त॑म् । चि॒त् । ऋ॒ह॒ते । र॒न्ध॒या॒नि॒ । वय॑त् । व॒त्सः । वृ॒ष॒भम् । शूशु॑वानः ॥९
शशः । क्षुरम् । प्रत्यञ्चम् । जगार । अद्रिम् । लोगेन । वि । अभेदम् । आरात् ।
बृहन्तम् । चित् । ऋहते । रन्धयानि । वयत् । वत्सः । वृषभम् । शूशुवानः ॥९
वसुक्र इन्द्रं प्रतिबूते । “शशः एतत्संज्ञितो मया प्रेरितो मृगविशेषः “प्रत्यञ्चं वधायात्मानं प्रति गच्छन्तं “क्षुरं क्षुरवन्तं दृढदीर्घतीक्ष्णनखं सिंहव्याघ्रादिकम् । बलवत्क्रूरशूरमृगमित्यर्थः । “जगार गिरति गृह्णाति वा । किंच “लोगेन लोष्टेन “अद्रिं हिमवदादिकं पर्वतम् “आरात् दूरे स्थितमपि “वि “अभेदम् अहं भिनद्मि । "बृहन्तं चित् महान्तमपि हस्त्यादिकम् "ऋहते ह्रस्वकायाल्पाय शशकादिकाय “रन्धयानि वशं गमयानि । "शूशुवानः वीर्येण वर्धमानः “वत्सो “वृषभं महोक्षं “वयत् युद्धाय गच्छति । हे इन्द्र एतदपि सर्वं त्वत्प्रसादादहं करोमीत्यर्थः ॥
सु॒प॒र्ण इ॒त्था न॒खमा सि॑षा॒याव॑रुद्धः परि॒पदं॒ न सिं॒हः ।
नि॒रु॒द्धश्चि॑न्महि॒षस्त॒र्ष्यावा॑न्गो॒धा तस्मा॑ अ॒यथं॑ कर्षदे॒तत् ॥१०
सु॒ऽप॒र्णः । इ॒त्था । न॒खम् । आ । सि॒सा॒य॒ । अव॑ऽरुद्धः । प॒रि॒ऽपद॑म् । न । सिं॒हः ।
नि॒ऽरु॒द्धः । चि॒त् । म॒हि॒षः । त॒र्ष्याऽवा॑न् । गो॒धा । तस्मै॑ । अ॒यथ॑म् । क॒र्ष॒त् । ए॒तत् ॥१०
सुऽपर्णः । इत्था । नखम् । आ । सिसाय । अवऽरुद्धः । परिऽपदम् । न । सिंहः ।
निऽरुद्धः । चित् । महिषः । तर्ष्याऽवान् । गोधा । तस्मै । अयथम् । कर्षत् । एतत् ॥१०
"सुपर्णः पक्षिरूपा गायत्री “इत्था अमुत्र द्युलोके “नखम् आत्मीयम् आ “सिषाय सोमाहरणकाल इन्द्रार्थमाबबन्ध । इन्द्रस्य प्रसादाद्दिवि पदं न्यस्तवतीत्यर्थः। तत्र दृष्टान्तः। “अवरुद्धः पञ्जरेणावृतः परिवेष्टितः “सिंहः “परिपदं न यथा करस्योपरि सर्वतः पादमवबध्नाति । किंच। “चित् इत्युपमार्थे । यथा केनापि बद्धपादो “निरुद्धः “महिषः “तर्ष्यावान् उदकाभावे तृषावान्भवति एवमिन्द्रः समाहरणात्पूर्वं सोमाभावे तृषितवानभूदिति शेषः । “तस्मै । तादर्थ्ये चतुर्थी । तादृशस्य तृषितस्येन्द्रस्यार्थं “गोधा । गमयति वर्णानिति गौर्वाक् तन्न निधीयमानत्वात् गायत्री गोधा ।।
तेभ्यो॑ गो॒धा अ॒यथं॑ कर्षदे॒तद्ये ब्र॒ह्मणः॑ प्रति॒पीयं॒त्यन्नैः॑ ।
सि॒म उ॒क्ष्णो॑ऽवसृ॒ष्टाँ अ॑दंति स्व॒यं बला॑नि त॒न्वः॑ शृणा॒नाः ॥११
तेभ्यः॑ । गो॒धाः । अ॒यथ॑म् । क॒र्ष॒त् । ए॒तत् । ये । ब्र॒ह्मणः॑ । प्र॒ति॒ऽपीय॑न्ति । अन्नैः॑ ।
सि॒मः । उ॒क्ष्णः । अ॒व॒ऽसृ॒ष्टान् । अ॒द॒न्ति॒ । स्व॒यम् । बला॑नि । त॒न्वः॑ । शृ॒णा॒नाः ॥११
तेभ्यः । गोधाः । अयथम् । कर्षत् । एतत् । ये । ब्रह्मणः । प्रतिऽपीयन्ति । अन्नैः ।
सिमः । उक्ष्णः । अवऽसृष्टान् । अदन्ति । स्वयम् । बलानि । तन्वः । शृणानाः ॥११
"ये मरुदादिदेवगणाः “ब्रह्मणः परिवृढस्येन्द्रस्य स्वभूतैः “अन्नैः सोमाख्यैः । तृप्ताः सन्त इति शेषः । “प्रतिपीयन्ति । पीयतिर्हिँसाकर्मा । इन्द्रादेशाद्धिंसकान् प्रतिहिंसन्ति “तेभ्यः तेषां देवगणानामर्थाय “गोधाः पूर्वोक्ता गायत्री “अयथम् अनायासेन “एतत् सोमजातं "कर्षत् आकृष्टवती। किंच “सिमः सिमाञ्श्रेष्ठान् । यद्वा । सिमशब्दः सर्वशब्दपर्यायः । सर्वान् । “उक्ष्णः सिञ्चतः “अवसृष्टान् इन्द्रेण निसृष्टाननुज्ञातान् हविर्भूतान् सोमान् यज्ञेषु “अदन्ति भक्षयन्ति । किं कुर्वन्तः। “स्वयम् आत्मनैव “बलानि शत्रूणां सैन्यानि “तन्वः शरीराणि च “शृणानाः हिंसन्तः । गायत्री इन्द्रादेशाद्देवेभ्यः सोममाहृतवतीत्यर्थः ॥
ए॒ते शमी॑भिः सु॒शमी॑ अभूव॒न्ये हि॑न्वि॒रे त॒न्वः१॒॑ सोम॑ उ॒क्थैः ।
नृ॒वद्वद॒न्नुप॑ नो माहि॒ वाजां॑दि॒वि श्रवो॑ दधिषे॒ नाम॑ वी॒रः ॥१२
ए॒ते । शमी॑भिः । सु॒ऽशमी॑ । अ॒भू॒व॒न् । ये । हि॒न्वि॒रे । त॒न्वः॑ । सोमे॑ । उ॒क्थैः ।
नृ॒ऽवत् । वद॑न् । उप॑ । नः॒ । मा॒हि॒ । वाजा॑न् । दि॒वि । श्रवः॑ । द॒धि॒षे॒ । नाम॑ । वी॒रः ॥१२
एते । शमीभिः । सुऽशमी । अभूवन् । ये । हिन्विरे । तन्वः । सोमे । उक्थैः ।
नृऽवत् । वदन् । उप । नः । माहि । वाजान् । दिवि । श्रवः । दधिषे । नाम । वीरः ॥१२
“ये देवर्ष्यादयः “तन्वः शरीराणि “सोमे सोमयागे “उक्थैः शस्त्रैः “हिन्विरे वर्धयन्ति “एते देवादय इन्द्रादेशात् सोमे आहृते सति “शमीभिः सोमयागकर्मभिः “सुशमी सुकर्माणः “अभूवन् । "नृवत् मनुष्यवत् "वदन् इदं युष्मभ्यं मया दत्तमिति व्यक्तां वाचमुच्चारयन् “नः अस्मभ्यम् “उप “माहि उपगम्य “वाजान् अन्नानि बलानि वा हे इन्द्र त्वं देहीति शेषः । अतः कारणात् “वीरः दानशूरस्त्वं “दिवि द्युलोके “श्रवः दानपतिरिति कीर्तितं “नाम नामधेयं “दधिषे धारयसि ॥॥२१॥
मण्डल १० | ||||
---|---|---|---|---|