ऋग्वेदः सूक्तं १०.१०१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१०१ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१०० ऋग्वेदः - मण्डल १०
सूक्तं १०.१०१
बुधः सौम्यः
सूक्तं १०.१०२ →
दे. विश्वे देवा, ऋत्विजो वा। त्रिष्टुप्, ४, ६ गायत्री, ५ बृहती, ९, १२ जगती ।
बुध ग्रह


उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीळाः ।
दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः ॥१॥
मन्द्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणीं कृणुध्वम् ।
इष्कृणुध्वमायुधारं कृणुध्वं प्राञ्चं यज्ञं प्र णयता सखायः ॥२॥
युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् ।
गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात् ॥३॥
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।
धीरा देवेषु सुम्नया ॥४॥
निराहावान्कृणोतन सं वरत्रा दधातन ।
सिञ्चामहा अवतमुद्रिणं वयं सुषेकमनुपक्षितम् ॥५॥
इष्कृताहावमवतं सुवरत्रं सुषेचनम् ।
उद्रिणं सिञ्चे अक्षितम् ॥६॥
प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् ।
द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम् ॥७॥
व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि ।
पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम् ॥८॥
आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियामिह ।
सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥९॥
आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः ।
परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त ॥१०॥
उभे धुरौ वह्निरापिब्दमानोऽन्तर्योनेव चरति द्विजानिः ।
वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम् ॥११॥
कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये ।
निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥१२॥


सायणभाष्यम्

‘ उद्बुध्यध्वम्' इति द्वादशर्चं द्वितीयं सूक्तं सोमपुत्रस्य बुधस्यार्षम् । “ आ वो धियम्' इति नवमी ‘ कपृन्नरः' इत्यन्त्या च द्वे जगत्यौ । चतुर्थीषष्ठ्यौ गायत्र्यौ ' निराहावान्' इति पञ्चमी बृहती । शिष्टास्त्रिष्टुभः । विश्वे देवा देवता । ऋत्विक्स्तुतिरूपोऽर्थो वा देवता । तथा चानुक्रान्तम्---- ‘ उद्बुध्यध्वं बुधः सौम्य ऋत्विक्स्तुतिर्वा नवम्यन्त्ये जगत्यौ गायत्र्योर्मध्ये पञ्चमी बृहती ' इति । गतः सूक्तविनियोगः ॥


उद्बु॑ध्यध्वं॒ सम॑नसः सखायः॒ सम॒ग्निमिं॑ध्वं ब॒हवः॒ सनी॑ळाः ।

द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीमिंद्रा॑व॒तोऽव॑से॒ नि ह्व॑ये वः ॥१

उत् । बु॒ध्य॒ध्व॒म् । सऽम॑नसः । स॒खा॒यः॒ । सम् । अ॒ग्निम् । इ॒न्ध्व॒म् । ब॒हवः॑ । सऽनी॑ळाः ।

द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । इन्द्र॑ऽवतः । अव॑से । नि । ह्व॒ये॒ । वः॒ ॥१

उत् । बुध्यध्वम् । सऽमनसः । सखायः । सम् । अग्निम् । इन्ध्वम् । बहवः । सऽनीळाः ।

दधिऽक्राम् । अग्निम् । उषसम् । च । देवीम् । इन्द्रऽवतः । अवसे । नि । ह्वये । वः ॥१

अग्निं चेष्यमाणा ऋत्विजो वदन्ति । हे “सखायः सखिभूता ऋत्विजः “समनसः समानमनस्काः परस्परमद्रोग्धारः । अन्योन्यं कर्मानुकूला इत्यर्थः । तादृशा यूयम् “उत् उत्कृष्टं “बुध्यध्वं जानीध्वम् । उत्तरत्र युष्माकं कर्तव्यमेवोपदिशति । तथा “अग्निं “सम् “इन्ध्वं सम्यग्दीपयध्वम् । ‘ ञिइन्धी दीप्तौ । रौधादिकः । लोटि ‘श्नसोरल्लोपः' इत्यल्लोपः। “बहवः अनेके “सनीळाः समाननिवासा एकस्यामेव शालायां निवसन्तः । अहं च “दधिक्राम् एतन्नामिकां देवताम् “अग्निमुषसं “च “देवीम् एतांस्त्रीन् देवान् “इन्द्रावतः इन्द्रेण युक्तान “वः युष्मान्’ “अवसे अस्माकं रक्षणाय “नि नितरां “ह्वये आह्वयामि ॥


मं॒द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वं ।

इष्कृ॑णुध्व॒मायु॒धारं॑ कृणुध्वं॒ प्रांचं॑ य॒ज्ञं प्र ण॑यता सखायः ॥२

म॒न्द्रा । कृ॒णु॒ध्व॒म् । धियः॑ । आ । त॒नु॒ध्व॒म् । नाव॑म् । अ॒रि॒त्र॒ऽपर॑णीम् । कृ॒णु॒ध्व॒म् ।

इष्कृ॑णुध्वम् । आयु॑धा । अर॑म् । कृ॒णु॒ध्व॒म् । प्राञ्च॑म् । य॒ज्ञम् । प्र । न॒य॒त॒ । स॒खा॒यः॒ ॥२

मन्द्रा । कृणुध्वम् । धियः । आ । तनुध्वम् । नावम् । अरित्रऽपरणीम् । कृणुध्वम् ।

इष्कृणुध्वम् । आयुधा । अरम् । कृणुध्वम् । प्राञ्चम् । यज्ञम् । प्र । नयत । सखायः ॥२

“मन्द्रा मन्द्राणि मदकराणि स्तोत्राणि “कृणुध्वं कुरुध्वं हे सखायः । ‘कृवि हिंसाकरणयोः । ‘ धिन्विकृण्व्योरच्च ' इत्युप्रत्यर्थः । अकारश्चान्तादेशः । यद्वा करोतेर्व्यत्ययेन श्नुः । तथा “धियः कर्माणि चयनप्रदेशकर्षणादीनि “आ “तनुध्वं विस्तारयत । तथा “अरित्रपरणीं कर्षणादिरूपेणारित्रेण पारयितव्यां नावं चयनाख्यां “कृणुध्वं कुरुध्वम् । तथा “आयुधा आयुधानि सीरयुगादीनि “अरम् अलं “कृणुध्वम् । हे “सखायः ऋत्विजः “प्राञ्चं प्रागञ्चनं “यज्ञं यष्टव्यमग्निं “प्र “णयत प्रकर्षेण नयत । आदौ कर्षणं प्राञ्चं कुरुतेत्यर्थः ॥


यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीजं॑ ।

गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमेया॑त् ॥३

यु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नु॒ध्व॒म् । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् ।

गि॒रा । च॒ । श्रु॒ष्टिः । सऽभ॑राः । अस॑त् । नः॒ । नेदी॑यः । इत् । सृ॒ण्यः॑ । प॒क्वम् । आ । इ॒या॒त् ॥३

युनक्त । सीरा । वि । युगा । तनुध्वम् । कृते । योनौ । वपत । इह । बीजम् ।

गिरा । च । श्रुष्टिः । सऽभराः । असत् । नः । नेदीयः । इत् । सृण्यः । पक्वम् । आ । इयात् ॥३

हे सखायो यूयं “सीरा सीराणि “युनक्त युङ्ध्वमनडुद्भिः सह । युजेर्लोटि ‘ तप्तनप्तनथनाश्च इति तबादेशः । अत एव अङित्त्वात् ' श्नसोरल्लोपः' इत्यल्लोपाभावः। तदर्थं “युगा युगानि “वि “तनुध्वं विस्तारयध्वम् । “कृते च “योनौ “इह सीतायां “बीजं ग्राम्यमारण्यं च “वपत निधत्त । तिलमाषव्रीह्यादिकं ग्राम्यसप्तकं वेणुश्यामाकनीवारादिकमारण्यबीजसप्तकं च कृष्टाकृष्टयोर्निवपतेत्यर्थः । ‘ सप्त ग्राम्याः कृष्टे सप्तारण्या अकृष्टे ' इत्यापस्तम्बः । तथा “नः अस्माकं “गिरा स्तुत्या प्रशस्त्या सहास्माकं “श्रुष्टिः अन्नं “सभराः सभरम् “असत् भवति भवतु । तथा “नेदीय “इत् अन्तिकमेव “सृण्यः । सृणिरङ्कुशः । अङ्कुशवद्वक्रो लवित्रः । “पक्वं स्तम्बम् “एयात् आभिमुख्येन गच्छतु । श्रुष्टिः सभरा असत् सृण्यः पक्वमेयादिति चशब्दानुवृत्तेः ‘चवायोगे प्रथमा ' इति प्रथमस्य निघाताभावः ॥


सीरा॑ युंजंति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् ।

धीरा॑ दे॒वेषु॑ सुम्न॒या ॥४

सीरा॑ । यु॒ञ्ज॒न्ति॒ । क॒वयः॑ । यु॒गा । वि । त॒न्व॒ते॒ । पृथ॑क् ।

धीराः॑ । दे॒वेषु॑ । सु॒म्न॒ऽया ॥४

सीरा । युञ्जन्ति । कवयः । युगा । वि । तन्वते । पृथक् ।

धीराः । देवेषु । सुम्नऽया ॥४

“कवयः मेधाविन ऋत्विजः “सीरा सीराणि कर्षणसाधनानि “युञ्जन्ति योजयन्ति । “युगा युगान्यपि “पृथक् परस्परं “वि “तन्वते भिन्नप्रदेशानि कुर्वन्ति । कीदृशाः कवयः । “देवेषु विषये “धीराः धीमन्तः । किमर्थम् । सुम्नया । सुम्नमिति सुखनाम । सुखेच्छया । सुम्नशब्दात् क्यजन्ताद्भावे ‘ अ प्रत्ययात्' इत्यकारप्रत्ययः । ‘सुपां सुलुक्' इति तृतीयाया आकारः । अथवा धीरा धीमन्तो देवेषु सुम्नया सुम्नेन । देवेषु सुखं भूयादिति । ‘सुपां सुलुक्' इति विभक्तेर्याजादेशः ॥


निरा॑हा॒वान्कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन ।

सिं॒चाम॑हा अव॒तमु॒द्रिणं॑ व॒यं सु॒षेक॒मनु॑पक्षितं ॥५

निः । आ॒ऽहा॒वान् । कृ॒णो॒त॒न॒ । सम् । व॒र॒त्राः । द॒धा॒त॒न॒ ।

सि॒ञ्चाम॑है । अ॒व॒तम् । उ॒द्रिण॑म् । व॒यम् । सु॒ऽसेक॑म् । अनु॑पऽक्षितम् ॥५

निः । आऽहावान् । कृणोतन । सम् । वरत्राः । दधातन ।

सिञ्चामहै । अवतम् । उद्रिणम् । वयम् । सुऽसेकम् । अनुपऽक्षितम् ॥५

हे सखायः “आहावान् । आहूयन्ते पानार्थं गावोऽत्रेत्याहावा निपानानि । अत्रौचित्यादग्निचयनप्रदेशकर्षणार्थगोपानसाधनद्रुममयपानपात्राण्युच्यन्ते । तानाहावान् “निः “कृणोतन निष्कुरुत । आह्वयतेः ‘ निपानमाहावः (पा. सू. ३. ३. ७४ ) इति निपातितः । थाथादिस्वरः । कृणोतन । ‘ तप्तनप्' इत्यादिना तनप् । पित्त्वेनाङित्त्वाद्गुणः । ‘ श्नाभ्यस्तयोरातः' इत्याकारलोपः । किमर्थमाहावकरणं वरत्रस्थापनं चेति । अत्रोच्यते । “वयम् “अवतम् अवटं सिञ्चामहै। कीदृशमवटम् । “उद्रिणम् उद्राववन्तं “सुषेकं सुष्ठु सेक्तुं शक्यम् “अनुपक्षितम् अनुपक्षीणं कदाचिदप्युदकोपक्षयरहितम्॥


इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नं ।

उ॒द्रिणं॑ सिंचे॒ अक्षि॑तं ॥६

इष्कृ॑तऽआहावम् । अ॒व॒तम् । सु॒ऽव॒र॒त्रम् । सु॒ऽसे॒च॒नम् ।

उ॒द्रिण॑म् । सि॒ञ्चे॒ । अक्षि॑तम् ॥६

इष्कृतऽआहावम् । अवतम् । सुऽवरत्रम् । सुऽसेचनम् ।

उद्रिणम् । सिञ्चे । अक्षितम् ॥६

“इष्कृताहावं संस्कृताहावं “अवतम् अवटं द्रोणं “सिञ्चे सेचयामि । पुनः कीदृशमवतम् । “सुवरत्रं शोभनवरत्रोपेतं “सुषेचनं शोभनोदकसेकोपेतम् “उद्रिणम् उद्राववन्तम् “अक्षितम् अक्षीणम्॥॥१८॥


प्री॒णी॒ताश्वा॑न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वं ।

द्रोणा॑हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिंचता नृ॒पाणं॑ ॥७

प्री॒णी॒त । अश्वा॑न् । हि॒तम् । ज॒या॒थ॒ । स्व॒स्ति॒ऽवाह॑म् । रथ॑म् । इत् । कृ॒णु॒ध्व॒म् ।

द्रोण॑ऽआहावम् । अ॒व॒तम् । अश्म॑ऽचक्रम् । अंस॑त्रऽकोशम् । सि॒ञ्च॒त॒ । नृ॒ऽपान॑म् ॥७

प्रीणीत । अश्वान् । हितम् । जयाथ । स्वस्तिऽवाहम् । रथम् । इत् । कृणुध्वम् ।

द्रोणऽआहावम् । अवतम् । अश्मऽचक्रम् । अंसत्रऽकोशम् । सिञ्चत । नृऽपानम् ॥७

हे ऋत्विजो यूयम् “अश्वान् ब्यापनशीलान् बलीवर्दान् “प्रीणीत उचितघासोदकादिप्रदानेन प्रीणयत । यथा क्षेत्रकर्षणाय प्रभवन्ति तथा कुरुतेत्यर्थः । तथा कृत्वा “हितं चयनायोचितं कर्षणं “जयाथ जयथ संपादयथ । तथा “रथं चयनाख्यं हलाख्यं वा “स्वस्तिवाहम् “इत् सुखस्य वाहकमेव “कृणुध्वं कुरुध्वम् । तदर्थं “द्रोणाहावम् । आह्वयन्त्यत्र पानार्थं बलीवर्दानित्याहावो जलाधारः पात्रविशेषः । स च द्रोणमयो द्रुममय आहावो यस्य तादृशम् “अवतम् अवटवन्निम्नभूतम् “अश्मचक्रं व्याप्तक्रमणमश्ममयचक्रं वा “अंसत्रकोशम् अंसत्रं कवचं यथा कायं रक्षति तद्वदुदकस्य कोशं कोशस्थानीयं “नृपाणं नृणां कर्मनेतॄणां पानयोग्यमीदृशमवतं “सिञ्चत हे ऋत्विजः । एवमृत्विक्स्तुतिर्वेति पक्षे। सूक्तस्य वैश्वदेवपक्ष एवं योजना। प्रीणीत प्रीणयताश्वान्। स्नानपानयोग्यान्नैः संग्रामयोग्यान् कुरुतेत्यर्थः । हितं जयाथ। हितमिति क्रियाविशेषणम् । कथं जयथ । बन्धुसुहृद्योते यथा हितं भवति तथा जयथ संग्रामम् । स्वस्तिवाहम् । स्वस्तीत्यविनाशनाम। अविनाशवाहनं रथमिद्रथं च कृणुध्वम् । इदिति चार्थे । अश्वं रथं च दृढं कृत्वा संग्रामभूमिं गत्वा । द्रोणाहावमित्यादीनि द्वितीयान्तानि कूपाख्यसंग्रामविशेषणानि सिञ्चतेत्यनेन संबध्यन्ते । द्रोणो द्रुममयः स एव रथ आहाव आहावस्थानीयो यस्य संग्रामस्य तम् । अवतम् । कूपनामैतत् । कूपं संग्रामाख्यम् । अश्मचक्रं कूपप्रान्तनिबद्धाश्मसदृशप्रहरणायुधवन्तम् । असनानि वा क्षेपणानि वा चक्राख्यायुधविशेषा यस्मिन् तम् । व्यासचरणवन्तं व्याप्तक्रमणवन्तं वा । चक्रं चक्रतेर्वा चरतेर्वा क्रामतेर्वा' (निरु.४.२७) इति निरुक्तम् । अंसत्रकोशम् । अंसत्राणि धनूंषि कवचानि च कोशस्थानीयानि यस्मिन् तं सिञ्चत। नृपाणं यस्मिन् योद्धार उदकवत्पीयन्ते मार्यन्ते तम् । ईदृशं कूपसदृशं संग्रामं सिञ्चत हे अस्मदीया योद्धारः। सूक्तस्य वैश्वदेवत्वाद्धे सैनिका विश्वेषां देवानां प्रसादेन सर्वमेतत्कुरुतेत्यर्थः । एवं ‘ निराहावान्' इत्यादिषु कूपरूपकव्याजेन संग्रामवर्णनमवगन्तव्यम् ॥


व्र॒जं कृ॑णुध्वं॒ स हि वो॑ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ ।

पुरः॑ कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा वः॑ सुस्रोच्चम॒सो दृंह॑ता॒ तं ॥८

व्र॒जम् । कृ॒णु॒ध्व॒म् । सः । हि । वः॒ । नृ॒ऽपानः॑ । वर्म॑ । सी॒व्य॒ध्व॒म् । ब॒हु॒ला । पृ॒थूनि॑ ।

पुरः॑ । कृ॒णु॒ध्व॒म् । आय॑सीः । अधृ॑ष्टाः । मा । वः॒ । सु॒स्रो॒त् । च॒म॒सः । दृंह॑त । तम् ॥८

व्रजम् । कृणुध्वम् । सः । हि । वः । नृऽपानः । वर्म । सीव्यध्वम् । बहुला । पृथूनि ।

पुरः । कृणुध्वम् । आयसीः । अधृष्टाः । मा । वः । सुस्रोत् । चमसः । दृंहत । तम् ॥८

हे ऋत्विजः “व्रजं “कृणुध्वं व्रजं गोष्ठं कुरुध्वम् । आशिरदोहार्थं गोस्थानं कुरुत । “स “हि स खलु “वः “नृपाणः नेतॄणां देवानां पातव्यः । देवपानसाधन इति । सांनाय्यरूपेण वाशिररूपेण वा गोः पयआदिकं देवाः पिबन्ति खलु । “वर्म वर्माणि “सीव्यध्वम् । वर्मवत्प्रधानस्योभयत आच्छादकत्वात् प्रयाजादीनि प्राच्यानि प्रतीच्यानि चाङ्गानि वर्माणि । तानि सीव्यध्वं 'दलयध्वम् । कुरुध्वमित्यर्थः । कीदृशानि वर्माणि । “बहुला बहुलान्यनेकानि । तानि च “पृथूनि विस्तीर्णानि । तथा “पुरः पुराणि धिष्ण्यादीनि यष्टव्यानां देवानां वा पुरः शरीराणि “आयसीः अयोमयवत्सारभूताः “अधृष्टाः अन्यैः अधृष्याः । पूरणीया ग्रहा वा पुर इत्युच्यन्ते । तानुक्तलक्षणान् कुरुत। “वः युष्मदीयः “चमसः यज्ञाख्यो भक्षणसाधनश्चमस एव वा। चमसपक्षे सामान्येनैकवचनम् । “मा “सुस्रोत मा स्रवेत् । स्रवतेर्लडि ‘ बहुलं छन्दसि ' इति शप: श्लुः । “तं “दृंहत दृढीकुरुत । यथा विकलो न भवति तथा कुरुत । ‘ दृह दृहि वृद्धौ ' । भौवादिकः । तस्माल्लोटि इदित्त्वान्नुम् । ऋत्विक्स्तुतिपक्ष एवम् । वैश्वदेवपक्षे । अस्मदीया योद्धारो यूयम् । नरो योद्धारः पिबन्ति प्रत्यर्थिनां प्राणानिति नृपाणः । स तादृशो युष्मदीयः खलु । गोष्ठपक्षे नराणां पानसाधनः स खलु। पातेः ‘करणाधिकरणयोश्च ' इति ल्युट् । वर्म वर्मणि कवचानि सीव्यध्वं बहुलानि पृथूनि च यथा भवन्ति तथा । पुरः पुरीः कृणुध्वमायसीरन्यैरधृष्टाश्च । वश्चमसोऽदनसाधनो मा सुस्रोत् मा स्रवेत् । तं दृंहतेति । इति देवतानुग्रहलब्धबलो वदति ।।


आ वो॒ धियं॑ य॒ज्ञियां॑ वर्त ऊ॒तये॒ देवा॑ दे॒वीं य॑ज॒तां य॒ज्ञिया॑मि॒ह ।

सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥९

आ । वः॒ । धिय॑म् । य॒ज्ञिया॑म् । व॒र्ते॒ । ऊ॒तये॑ । देवाः॑ । दे॒वीम् । य॒ज॒ताम् । य॒ज्ञिया॑म् । इ॒ह ।

सा । नः॒ । दु॒ही॒य॒त् । यव॑साऽइव । ग॒त्वी । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥९

आ । वः । धियम् । यज्ञियाम् । वर्ते । ऊतये । देवाः । देवीम् । यजताम् । यज्ञियाम् । इह ।

सा । नः । दुहीयत् । यवसाऽइव । गत्वी । सहस्रऽधारा । पयसा । मही । गौः ॥९

हे “देवाः स्तोतार ऋत्विजः “वः युष्माकम् “ऊतये “यज्ञियां यज्ञार्हां “धियं बुद्धिम् “आ “वर्ते प्रवर्तये । यद्वा । हे देवा ऋत्विजः वो यज्ञियां धियं युष्माकं कर्तव्यत्वेन संबन्धिनामस्माकमूतये रक्षणाय आ वत । अपि वा देवा एवं संबोध्याः । हे देवा: वो युष्माकं धियं बुद्धिमा वर्ते आवर्तयामि । किमर्थम् । ऊतयेऽस्माकं रक्षणाय । कीदृशीं धियम् । “यज्ञियां यज्ञार्हां “देवीं द्योतमानां “यजतां पूज्याम् । “इह अस्मिन् यागे अस्यां भूमौ वा । एको यज्ञियामिति शब्दः पूरणः । “सा धीः “नः अस्माकं “दुहीयत् दुह्यात् । तत्र दृष्टान्तः । “यवसेव यवसानि भक्षयित्वेव “गत्वी पुनर्गोष्ठं गत्वा । पीत्वीतिवत् । “पयसा “सहस्रधारा “मही महती “गौः यथा दुग्धे तद्वत् ॥


आ तू षिं॑च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी॑भिस्तक्षताश्म॒न्मयी॑भिः ।

परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या॑भिरु॒भे धुरौ॒ प्रति॒ वह्निं॑ युनक्त ॥१०

आ । तु । सि॒ञ्च॒ । हरि॑म् । ई॒म् । द्रोः । उ॒पऽस्थे॑ । वाशी॑भिः । त॒क्ष॒त॒ । अ॒श्म॒न्ऽमयी॑भिः ।

परि॑ । स्व॒ज॒ध्व॒म् । दश॑ । क॒क्ष्या॑भिः । उ॒भे इति॑ । धुरौ॑ । प्रति॑ । वह्नि॑म् । यु॒न॒क्त॒ ॥१०

आ । तु । सिञ्च । हरिम् । ईम् । द्रोः । उपऽस्थे । वाशीभिः । तक्षत । अश्मन्ऽमयीभिः ।

परि । स्वजध्वम् । दश । कक्ष्याभिः । उभे इति । धुरौ । प्रति । वह्निम् । युनक्त ॥१०

हे अध्वर्यो त्वम् “ईम् एनं “हरिं हरितवर्णं सोमं “द्रोः दुमविकारस्य पात्रस्य “उपस्थे उपरि “आ “सिञ्च आसेकं कुरु। "तु इति पूरणः । तदर्थं हे पात्रसंपादिनः “अश्मन्मयीभिः अयःशिलासारभूताभिः “वाशीभिः “तक्षत पात्राणि । नकारोपजनश्छान्दसः । मयटः टित्त्वात् ङीप् । तानि पात्राणि सोमपूर्णानि “दश दशसंख्याकानि “कक्ष्याभिः प्रकारैः पर्यायेण "परि “ष्वजध्वं संस्कुरुध्वम् । आसादयत । यद्वा । वाशीभिरश्मन्मयीभिर्हविर्धानशकटे तक्षत । ते च दश कक्ष्याभिर्दशसंख्याकाभिः रज्जुभिः परि ष्वजध्वम्। “उभे “धुरौ युगसंबन्धिन्यौ “प्रति वह्नी वाहकावनड्वाहौ "युनक्त। अथवायं मन्त्रश्चयनक्षेत्रकर्षणसाधनहलविषयतया व्याख्येयः ॥


उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽंतर्योने॑व चरति द्वि॒जानिः॑ ।

वन॒स्पतिं॒ वन॒ आस्था॑पयध्वं॒ नि षू द॑धिध्व॒मख॑नंत॒ उत्सं॑ ॥११

उ॒भे इति॑ । धुरौ॑ । वह्निः॑ । आ॒ऽपिब्द॑मानः । अ॒न्तः । योना॑ऽइव । च॒र॒ति॒ । द्वि॒ऽजानिः॑ ।

वन॒स्पति॑म् । वने॑ । आ । अ॒स्था॒प॒य॒ध्व॒म् । नि । सु । द॒धि॒ध्व॒म् । अख॑नन्तः । उत्स॑म् ॥११

उभे इति । धुरौ । वह्निः । आऽपिब्दमानः । अन्तः । योनाऽइव । चरति । द्विऽजानिः ।

वनस्पतिम् । वने । आ । अस्थापयध्वम् । नि । सु । दधिध्वम् । अखनन्तः । उत्सम् ॥११

हविर्धानशकटस्य “उभे “धुरी “आपिब्दमानः आपिशब्दमानः “वह्निः हविर्वाहकोऽनड्वान् “योनौ “अन्तः “इव “द्विजानिः द्विजायः तयोरन्तः “चरति । तं “वनस्पतिं वनस्पतिविकारं शकटं “वने वनसंबन्धिनि वृक्षे । मेथीभूत इत्यर्थः । तत्र “आस्थापयध्वम् । यद्वा । वने वननीये देश आस्थापयध्वम्। तत्पश्चात् तत्रत्यं सोमं "सु सुष्ठु “नि दधिध्वं सुखं यथा भवति तथा स्थापयतासन्द्याम् । अभिषवप्रदेशे च पश्चात् "उत्सं तद्रसम् “अखनन्तः संपादयतेत्यर्थः। अथवायमपि मन्त्रः कर्षणपरो व्याख्येयः । यस्य लाङ्गलस्योभे धुरावापिब्दमानोऽपिशब्दमानो वह्निरनड्वान् अन्तर्योनाविवेत्यादि समानम् । तादृशं वनस्पतिं वनस्पतिविकारं लाङ्गलं वने वननीये वपनार्थं कर्षणप्रदेश आस्थापयध्वम् । सु सुष्ठु सर्वत्र तं लाङ्गलं नि दधिध्वम् । उत्सं सेकसाधनं गर्तं सिक्तं वा प्रदेशमखनन्तः ॥


कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये ।

नि॒ष्टि॒ग्र्यः॑ पु॒त्रमा च्या॑वयो॒तय॒ इंद्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥१२

कपृ॑त् । न॒रः॒ । क॒पृ॒थम् । उत् । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ । वाज॑ऽसातये ।

नि॒ष्टि॒ग्र्यः॑ । पु॒त्रम् । आ । च्य॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् । स॒ऽबाधः॑ । इ॒ह । सोम॑ऽपीतये ॥१२

कपृत् । नरः । कपृथम् । उत् । दधातन । चोदयत । खुदत । वाजऽसातये ।

निष्टिग्र्यः । पुत्रम् । आ । च्यवय । ऊतये । इन्द्रम् । सऽबाधः । इह । सोमऽपीतये ॥१२

हे “नरः नेतार ऋत्विजः एष इन्द्रः “कपृत् । सुखस्य पूरको यष्टॄणां स्तोतॄणां च । कमिति सुखनाम । तं “कपृथं सुखस्य पूरयितारमिन्द्रं “चोदयत प्रेरयत “खुदत खुर्दत क्रीडयत । खुर्द क्रीडायां' भौवादिकः । व्यत्ययेन शः । रेफलोपश्छान्दसः । संपिंष्ट संस्कुरुतेत्यर्थः । किमर्थम् । “वाजसातये अन्नस्य लाभाय । तदेवाह । हे होतः “निष्टिग्र्यः “पुत्रम् । निष्टिं दितिं स्वसपत्नीं गिरतीहि निष्टिग्रीरदितिः । तस्याः पुत्रम् “इन्द्रं “सबाधः । सह पापैः प्रयासरूपैः कर्मभिर्बाध्यन्त इति सबाध ऋत्विजः। तथाविधा यूयं “सोमपीतये तस्य सोमपानाय “ऊतये अस्माकं रक्षणाय वा “आ “च्यवय । व्यत्ययेनैकवचनम्। आच्यावयतेत्यर्थः ॥ ॥ १९ ॥

[सम्पाद्यताम्]

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१०१&oldid=368305" इत्यस्माद् प्रतिप्राप्तम्