ऋग्वेदः सूक्तं १०.३४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.३४ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.३३ ऋग्वेदः - मण्डल १०
सूक्तं १०.३४
कवष ऐलूषः अश्नो भोजवान् वा
सूक्तं १०.३५ →
दे. १, ७, ९, १२ अक्षाः, १३ कृषिः, २, ६, ८, १०, ११, १४ अक्ष कितव-निन्दा। त्रिष्टुप्, ७ जगती


प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः ।
सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् ॥१॥
न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत् ।
अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम् ॥२॥
द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् ।
अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ॥३॥
अन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः ।
पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥४॥
यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः ।
न्युप्ताश्च बभ्रवो वाचमक्रतँ एमीदेषां निष्कृतं जारिणीव ॥५॥
सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः ।
अक्षासो अस्य वि तिरन्ति कामं प्रतिदीव्ने दधत आ कृतानि ॥६॥
अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः ।
कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥७॥
त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा ।
उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ॥८॥
नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते ।
दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥९॥
जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् ।
ऋणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति ॥१०॥
स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् ।
पूर्वाह्णे अश्वान्युयुजे हि बभ्रून्सो अग्नेरन्ते वृषलः पपाद ॥११॥
यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव ।
तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥१२॥
अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः ।
तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ॥१३॥
मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु ।
नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौ न्वस्तु ॥१४॥


सायणभाष्यम्

‘ प्रावेपाः' इति चतुर्दशर्चं पञ्चमं सूक्तमैलूषस्य कवषस्यार्षं मुजवतः पुत्रस्याक्षाख्यस्य वा। सप्तमी जगती शिष्टास्त्रयोदश त्रिष्टुभः । अत्र द्वादशी अक्षान् स्तौति नवम्याद्या च सप्तमी । अतस्तद्देवत्याः । त्रयोदशी कृषिं स्तौति । अतस्तस्याः सा देवता । एवं पञ्च गताः । शिष्टाभिर्नवभिः कितवोऽक्षाश्च निन्द्यन्ते । अतस्ता अपि तद्देवत्याः । तथा चानुक्रान्तं --- ‘ प्रावेपाः षळूना मौजवान्वाक्षोऽक्षकृषिप्रशंसा चाक्षकितवनिन्दा च सप्तमी जगती ' इति । गतो विनियोगः ।।


प्रा॒वे॒पा मा॑ बृह॒तो मा॑दयन्ति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः ।

सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥१

प्रा॒वे॒पाः । मा॒ । बृ॒ह॒तः । मा॒द॒य॒न्ति॒ । प्र॒वा॒ते॒ऽजाः । इरि॑णे । वर्वृ॑तानाः ।

सोम॑स्यऽइव । मौ॒ज॒ऽव॒तस्य॑ । भ॒क्षः । वि॒ऽभीद॑कः । जागृ॑विः । मह्य॑म् । अ॒च्छा॒न् ॥१

प्रावेपाः । मा । बृहतः । मादयन्ति । प्रवातेऽजाः । इरिणे । वर्वृतानाः ।

सोमस्यऽइव । मौजऽवतस्य । भक्षः । विऽभीदकः । जागृविः । मह्यम् । अच्छान् ॥१

“बृहतः महतो विभीतकस्य फलत्वेन संबन्धिनः “प्रवातेजाः प्रवणे देशे जाताः “इरिणे आस्फारे “वर्वृतानाः प्रवर्तमानाः “प्रावेपाः प्रवेपिणः कम्पनशीला अक्षाः “मा मां “मादयन्ति हर्षयन्ति । किंच “जागृविः जयपराजययोर्हर्षशोकाभ्यां कितवानां जागरणस्य कर्ता “विभीदकः विभीतकविकारोऽक्षो “मह्यं माम् “अच्छान् अचच्छदत् अत्यर्थं मादयति । तत्र दृष्टान्तः । “सोमस्येव यथा सोमस्य “मौजवतस्य । मुजवति पर्वते जातो मौजवतः । तस्य । तत्र ह्युत्तमः सोमो जायते । “भक्षः पानं यजमानान् देवांश्च मादयति तद्वदित्यर्थः । तथा च यास्कः ---- ‘ प्रवेपिणो मा महतो विभीतकस्य फलानि मादयन्ति । प्रवातेजाः प्रवणेजा इरिणे वर्तमाना इरिणं निर्ऋणमृणातेरपार्णं भवत्यपरता अस्मादोषधय इति वा । सोमस्येव मौजवतस्य भक्षो मौजवतो मुजवति जातो मुजवान् पर्वतो मुञ्जवान् मुञ्जो विमुच्यत इषीकयेषीकेषतेर्गतिकर्मण इयमपीतरेषीकैतस्मादेव विभीतको विभेदनाज्जागृविर्जागरणान्मह्यमचच्छदत् ' (निरु. ९. ८) इति ॥


न मा॑ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् ।

अ॒क्षस्या॒हमे॑कप॒रस्य॑ हे॒तोरनु॑व्रता॒मप॑ जा॒याम॑रोधम् ॥२

न । मा॒ । मि॒मे॒थ॒ । न । जि॒ही॒ळे॒ । ए॒षा । शि॒वा । सखि॑ऽभ्यः । उ॒त । मह्य॑म् । आ॒सी॒त् ।

अ॒क्षस्य॑ । अ॒हम् । ए॒क॒ऽप॒रस्य॑ । हे॒तोः । अनु॑ऽव्रताम् । अप॑ । जा॒याम् । अ॒रो॒ध॒म् ॥२

न । मा । मिमेथ । न । जिहीळे । एषा । शिवा । सखिऽभ्यः । उत । मह्यम् । आसीत् ।

अक्षस्य । अहम् । एकऽपरस्य । हेतोः । अनुऽव्रताम् । अप । जायाम् । अरोधम् ॥२

“एषा अस्मदीया जाया “मा मां कितवं “न “मिमेथ न च चुक्रोध “न “जिहीळे न च लज्जितवती । “सखिभ्यः अस्मदीयेभ्यः कितवेभ्यः “शिवा सुखकरी “आसीत् अभूत् । “उत अपि च “मह्यं शिवासीत् । इत्थम् “अनुव्रताम् अनुकूलां “जायाम् “एकपरस्य एकः परः प्रधानं यस्य तस्य “अक्षस्य “हेतोः कारणात् “अहम् "अप “अरोधं परित्यक्तवानस्मीत्यर्थः ॥


द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना॑थि॒तो वि॑न्दते मर्डि॒तार॑म् ।

अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि॑न्दामि कित॒वस्य॒ भोग॑म् ॥३

द्वेष्टि॑ । श्व॒श्रूः । अप॑ । जा॒या । रु॒ण॒द्धि॒ । न । ना॒थि॒तः । वि॒न्द॒ते॒ । म॒र्डि॒तार॑म् ।

अश्व॑स्यऽइव । जर॑तः । वस्न्य॑स्य । न । अ॒हम् । वि॒न्दा॒मि॒ । कि॒त॒वस्य॑ । भोग॑म् ॥३

द्वेष्टि । श्वश्रूः । अप । जाया । रुणद्धि । न । नाथितः । विन्दते । मर्डितारम् ।

अश्वस्यऽइव । जरतः । वस्न्यस्य । न । अहम् । विन्दामि । कितवस्य । भोगम् ॥३

“श्वश्रूः जायाया माता गृहगतं कितवं “द्वेष्टि निन्दतीत्यर्थः । किंच “जाया भार्या “अप “रुणद्धि निरुणद्धि । अपि च “नाथितः याचमानः कितवो धनं “मर्डितारं धनदानेन सुखयितारं “न “विन्दते न लभते । इत्थं बुद्ध्या विमृशन् “अहं “जरतः वृद्धस्य “वस्न्यस्य । वस्नं मूल्यम् । तदर्हस्य “अश्वस्येव “कितवस्य “भोगं “न “विन्दामि न लभे ॥


अ॒न्ये जा॒यां परि॑ मृशन्त्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॒॑क्षः ।

पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा॑नीमो॒ नय॑ता ब॒द्धमे॒तम् ॥४

अ॒न्ये । जा॒याम् । परि॑ । मृ॒श॒न्ति॒ । अ॒स्य॒ । यस्य॑ । अगृ॑धत् । वेद॑ने । वा॒जी । अ॒क्षः ।

पि॒ता । मा॒ता । भ्रात॑रः । ए॒न॒म् । आ॒हुः॒ । न । जा॒नी॒मः॒ । नय॑त । ब॒द्धम् । ए॒तम् ॥४

अन्ये । जायाम् । परि । मृशन्ति । अस्य । यस्य । अगृधत् । वेदने । वाजी । अक्षः ।

पिता । माता । भ्रातरः । एनम् । आहुः । न । जानीमः । नयत । बद्धम् । एतम् ॥४

“यस्य कितवस्य “वेदने धने “वाजी बलवान् “अक्ष: देवः “अगृधत् अभिकाङ्क्षां करोति तस्य “अस्य कितवस्य “जायां भार्याम् “अन्ये प्रतिकितवाः “परि “मृशन्ति वस्त्रकेशाद्याकर्षणेन संस्पृशन्ति । किंच “पिता जननी च “भ्रातरः सहोदरश्च “एनं कितवम् “आहुः वदन्ति । “न वयमस्मदीयमेनं “जानीमः । रज्ज्वा “बद्धमेतं कितवं हे कितवाः यूयं “नयत यथेष्टदेशं प्रापयतेति ॥


यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः ।

न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒ एमीदे॑षां निष्कृ॒तं जा॒रिणी॑व ॥५

यत् । आ॒ऽदीध्ये॑ । न । द॒वि॒षा॒णि॒ । ए॒भिः॒ । प॒रा॒यत्ऽभ्यः॑ । अव॑ । ही॒ये॒ । सखि॑ऽभ्यः ।

निऽउ॑प्ताः । च॒ । ब॒भ्रवः॑ । वाच॑म् । अक्र॑त । एमि॑ । इत् । ए॒षा॒म् । निः॒ऽकृ॒तम् । जा॒रिणी॑ऽइव ॥५

यत् । आऽदीध्ये । न । दविषाणि । एभिः । परायत्ऽभ्यः । अव । हीये । सखिऽभ्यः ।

निऽउप्ताः । च । बभ्रवः । वाचम् । अक्रत । एमि । इत् । एषाम् । निःऽकृतम् । जारिणीऽइव ॥५

“यत् यदा अहम् “आदीध्ये ध्यायामि तदानीम् “एभिः अक्षैः “न “दविषाणि न दूषये न परितपामि । यद्वा । न दविषाणि न देविष्यामीत्यर्थः । “परायद्भ्यः स्वयमेव परागच्छद्भ्यः “सखिभ्यः सखिभूतेभ्यः कितवेभ्यः “अव “हीये अवहितो भवामि । नाहं प्रथममक्षान् विसृजामीति । किंच “बभ्रवः बभ्रुवर्णा अक्षाः “न्युप्ताः कितवैरवक्षिप्ताः सन्तः “वाचमक्रत शब्दं कुर्वन्ति । तदा संकल्पं परित्यज्य अक्षव्यसनेनाभिभूयमानोऽहम् “एषाम् अक्षाणां “निष्कृतं स्थानं “जारिणीव यथा कामव्यसनेनाभिभूयमाना स्वैरिणी संकेतस्थानं याति तद्वत् “एमीत् गच्छाम्येव ॥ ॥ ३ ॥


स॒भामे॑ति कित॒वः पृ॒च्छमा॑नो जे॒ष्यामीति॑ त॒न्वा॒३॒॑ शूशु॑जानः ।

अ॒क्षासो॑ अस्य॒ वि ति॑रन्ति॒ कामं॑ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ॥६

स॒भाम् । ए॒ति॒ । कि॒त॒वः । पृ॒च्छमा॑नः । जे॒ष्यामि॑ । इति॑ । त॒न्वा॑ । शूशु॑जानः ।

अ॒क्षासः॑ । अ॒स्य॒ । वि । ति॒र॒न्ति॒ । काम॑म् । प्र॒ति॒ऽदीव्ने॑ । दध॑तः । आ । कृ॒तानि॑ ॥६

सभाम् । एति । कितवः । पृच्छमानः । जेष्यामि । इति । तन्वा । शूशुजानः ।

अक्षासः । अस्य । वि । तिरन्ति । कामम् । प्रतिऽदीव्ने । दधतः । आ । कृतानि ॥६

“तन्वा शरीरेण “शू शुजानः शोशुचानो दीप्यमानः “कितवः कोऽत्रास्ति धनिकस्तं “जेष्यामीति “पृच्छमानः पृच्छन् “सभां कितवसंबन्धिनीम् “एति गच्छति । तत्र “प्रतिदीव्ने प्रतिदेवित्रे कितवाय “कृतानि देवनोपयुक्तानि कर्माणि “आ “दधतः ज़यार्थमाभिमुख्येन मर्यादया वा दधतः “अस्य कितवस्य “कामम् इच्छाम् “अक्षासः अक्षाः “वि “तिरन्ति वर्धयन्ति । '


अ॒क्षास॒ इद॑ङ्कु॒शिनो॑ नितो॒दिनो॑ नि॒कृत्वा॑न॒स्तप॑नास्तापयि॒ष्णव॑ः ।

कु॒मा॒रदे॑ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ सम्पृ॑क्ताः कित॒वस्य॑ ब॒र्हणा॑ ॥७

अ॒क्षासः॑ । इत् । अ॒ङ्कु॒शिनः॑ । नि॒ऽतो॒दिनः॑ । नि॒ऽकृत्वा॑नः । तप॑नाः । ता॒प॒यि॒ष्णवः॑ ।

कु॒मा॒रऽदे॑ष्णाः । जय॑तः । पु॒नः॒ऽहनः॑ । मध्वा॑ । सम्ऽपृ॑क्ताः । कि॒त॒वस्य॑ । ब॒र्हणा॑ ॥७

अक्षासः । इत् । अङ्कुशिनः । निऽतोदिनः । निऽकृत्वानः । तपनाः । तापयिष्णवः ।

कुमारऽदेष्णाः । जयतः । पुनःऽहनः । मध्वा । सम्ऽपृक्ताः । कितवस्य । बर्हणा ॥७

“अक्षास “इत् अक्षा एव “अङ्कुशिनः अङ्कुशवन्तः “नितोदिनः नितोदितवन्तश्च “निकृत्वानः पराजये निकर्तनशीलाश्छेत्तारो वा “तपनाः पराजये कितवस्य संतापकाः “तापयिष्णवः सर्वस्वहारकत्वेन कुटुम्बस्य संतापनशीलाश्च भवन्ति । किंच “जयतः “कितवस्य “कुमारदेष्णाः धनदानेन धान्यतां लम्भयन्तः कुमाराणां दातारो भवन्ति । अपि च “मध्वा मधुना “संपृक्ताः प्रतिकितवेन “बर्हणा परिवृद्धेन सर्वस्वहरणेन कितवस्य “पुनर्हणः पुनर्हन्तारो भवन्ति ॥


त्रि॒प॒ञ्चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा ।

उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥८

त्रि॒ऽप॒ञ्चा॒शः । क्री॒ळ॒ति॒ । व्रातः॑ । ए॒षा॒म् । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा ।

उ॒ग्रस्य॑ । चि॒त् । म॒न्यवे॑ । न । न॒म॒न्ते॒ । राजा॑ । चि॒त् । ए॒भ्यः॒ । नमः॑ । इत् । कृ॒णो॒ति॒ ॥८

त्रिऽपञ्चाशः । क्रीळति । व्रातः । एषाम् । देवःऽइव । सविता । सत्यऽधर्मा ।

उग्रस्य । चित् । मन्यवे । न । नमन्ते । राजा । चित् । एभ्यः । नमः । इत् । कृणोति ॥८

“एषाम् अक्षाणां “त्रिपञ्चाशः त्र्यधिकपञ्चाशत्संख्याकः “व्रातः संघः “क्रीळति आस्फारे विहरति । अक्षिकाः प्रायेण तावद्भिरक्षैर्दीव्यन्ति हि । तत्र दृष्टान्तः । “सत्यधर्मा “सविता सर्वस्य जगतः प्रेरकः सूर्यो “देवइव । यथा सविता देवो जगति विहरति तद्वदक्षाणां संघ आस्फारे विहरतीत्यर्थः । किंच “उग्रस्य “चित् क्रूरस्यापि “मन्यवे क्रोधाय एते अक्षाः “न “नमन्ते न प्रह्वीभवन्ति । न वशे वर्तन्ते । तं नमयन्तीत्यर्थः । “राजा “चित् जगत ईश्वरोऽपि “एभ्यः “नम “इत् नमस्कारमेव देवनवेलायां “कृणोति । नावज्ञां करोतीत्यर्थः ॥


नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते ।

दि॒व्या अङ्गा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ॥९

नी॒चा । व॒र्त॒न्ते॒ । उ॒परि॑ । स्फु॒र॒न्ति॒ । अ॒ह॒स्तासः॑ । हस्त॑ऽवन्तम् । स॒ह॒न्ते॒ ।

दि॒व्याः । अङ्गा॑राः । इरि॑णे । निऽउ॑प्ताः । शी॒ताः । सन्तः॑ । हृद॑यम् । निः । द॒ह॒न्ति॒ ॥९

नीचा । वर्तन्ते । उपरि । स्फुरन्ति । अहस्तासः । हस्तऽवन्तम् । सहन्ते ।

दिव्याः । अङ्गाराः । इरिणे । निऽउप्ताः । शीताः । सन्तः । हृदयम् । निः । दहन्ति ॥९

अपि चैतेऽक्षाः “नीचा नीचीनस्थले वर्तन्ते । तथापि “उपरि पराजयात् भीतानां द्यूतकराणां कितवानां हृदयस्योपरि “स्फुरन्ति । “अहस्तासः हस्तरहिता अध्यक्षाः “हस्तवन्तं द्यूतकरं कितवं “सहन्ते पराजयकरणेनाभिभवन्ति । “दिव्याः दिवि भवा अपकृताः “अङ्गाराः अङ्गारसदृशा अक्षाः “इरिणे इन्धनरहिते आस्फारे “न्युप्ताः “शीताः शीतस्पर्शाः “सन्तः अपि “हृदयं कितवानामन्तःकरणं “निर्दहन्ति पराजयजनितसंतापेन भस्मीकुर्वन्ति ।


जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑त॒ः क्व॑ स्वित् ।

ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा॑नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ॥१०

जा॒या । त॒प्य॒ते॒ । कि॒त॒वस्य॑ । ही॒ना । मा॒ता । पु॒त्रस्य॑ । चर॑तः । क्व॑ । स्वि॒त् ।

ऋ॒ण॒ऽवा । बिभ्य॑त् । धन॑म् । इ॒च्छमा॑नः । अ॒न्येषा॑म् । अस्त॑म् । उप॑ । नक्त॑म् । ए॒ति॒ ॥१०

जाया । तप्यते । कितवस्य । हीना । माता । पुत्रस्य । चरतः । क्व । स्वित् ।

ऋणऽवा । बिभ्यत् । धनम् । इच्छमानः । अन्येषाम् । अस्तम् । उप । नक्तम् । एति ॥१०

“क्व “स्वित् क्वापि “चरतः निर्वेदाद्गच्छतः “कितवस्य “जाया भार्या “हीना परित्यक्ता सती “तप्यते वियोगजसंतापेन संतप्ता भवति। “माता जनन्यपि “पुत्रस्य क्वापि चरतः कितवस्य संबधाद्धीना तप्यते । पुत्रशोकेन संतप्ता भवति। “ऋणावा अक्षपराजयादृणवान् कितवः सर्वतो “बिभ्यद्धनं स्तेयजनितम् “इच्छमानः कामयमानः “अन्येषां ब्राह्मणादीनाम् “अस्तं गृहम। ‘ अस्तं पस्त्यम् ' इति गृहनामसु पाठात् । “नक्तं रात्रौ “उप “ऐति चौर्यार्थमुपगच्छति ॥ ॥ ४ ॥


स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनि॑म् ।

पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रून्सो अ॒ग्नेरन्ते॑ वृष॒लः प॑पाद ॥११

स्त्रिय॑म् । दृ॒ष्ट्वाय॑ । कि॒त॒वम् । त॒ता॒प॒ । अ॒न्येषा॑म् । जा॒याम् । सुऽकृ॑तम् । च॒ । योनि॑म् ।

पू॒र्वा॒ह्णे । अश्वा॑न् । यु॒यु॒जे । हि । ब॒भ्रून् । सः । अ॒ग्नेः । अन्ते॑ । वृ॒ष॒लः । प॒पा॒द॒ ॥११

स्त्रियम् । दृष्ट्वाय । कितवम् । तताप । अन्येषाम् । जायाम् । सुऽकृतम् । च । योनिम् ।

पूर्वाह्णे । अश्वान् । युयुजे । हि । बभ्रून् । सः । अग्नेः । अन्ते । वृषलः । पपाद ॥११

“कितवं कितवः । विभक्तिव्यत्ययः । “अन्येषां स्वव्यतिरिक्तानां पुरुषाणां “जायां जायाभूतां “स्त्रियं नारीं सुखेन वर्तमानां “सुकृतं सुष्ठु कृतं “योनिं गृहं “च दृष्ट्वाय मज्जाया दुःखिता गृहं चासंस्कृतमिति ज्ञात्वा “तताप तप्यते । पुनः “पूर्वाह्णे प्रातःकाले “बभ्रून् बभ्रुवर्णान् “अश्वान् व्यापकानक्षान् “युयुजे युनक्ति । पुनश्च “वृषल: वृषलकर्मा “सः कितवो रात्रौ अग्नेरन्ते समीपे “पपाद शीतार्तः सन् शेते ।।


यो व॑ः सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ ।

तस्मै॑ कृणोमि॒ न धना॑ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ॥१२

यः । वः॒ । से॒ना॒ऽनीः । म॒ह॒तः । ग॒णस्य॑ । राजा॑ । व्रात॑स्य । प्र॒थ॒मः । ब॒भूव॑ ।

तस्मै॑ । कृ॒णो॒मि॒ । न । धना॑ । रु॒ण॒ध्मि॒ । दश॑ । अ॒हम् । प्राचीः॑ । तत् । ऋ॒तम् । व॒दा॒मि॒ ॥१२

यः । वः । सेनाऽनीः । महतः । गणस्य । राजा । व्रातस्य । प्रथमः । बभूव ।

तस्मै । कृणोमि । न । धना । रुणध्मि । दश । अहम् । प्राचीः । तत् । ऋतम् । वदामि ॥१२

हे अक्षाः “वः युष्माकं “महतो “गणस्य संघस्य “यः अक्षः “सेनानीः नेता “बभूव भवति “व्रातस्य च । गणव्रातयोरल्पो भेदः । “राजा ईश्वरः “प्रथमः मुख्यो बभूव “तस्मै अक्षाय “कृणोमि अहमञ्जलिं करोमि । अतः परं “धना धनानि अक्षार्थमहं “न “रुणध्मि न संपादयामीत्यर्थः । एतदेव दर्शयति । “अहं “दश दशसंख्याका अङ्गुलीः “प्राचीः प्राङ्मुखीः करोमि । “तत् एतत् अहम् “ऋतं सत्यमेव “वदामि । नानृतं ब्रवीमीत्यर्थः ॥


अ॒क्षैर्मा दी॑व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः ।

तत्र॒ गाव॑ः कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ॥१३

अ॒क्षैः । मा । दी॒व्यः॒ । कृ॒षिम् । इत् । कृ॒ष॒स्व॒ । वि॒त्ते । र॒म॒स्व॒ । ब॒हु । मन्य॑मानः ।

तत्र॑ । गावः॑ । कि॒त॒व॒ । तत्र॑ । जा॒या । तत् । मे॒ । वि । च॒ष्टे॒ । स॒वि॒ता । अ॒यम् । अ॒र्यः ॥१३

अक्षैः । मा । दीव्यः । कृषिम् । इत् । कृषस्व । वित्ते । रमस्व । बहु । मन्यमानः ।

तत्र । गावः । कितव । तत्र । जाया । तत् । मे । वि । चष्टे । सविता । अयम् । अर्यः ॥१३

हे “कितव "बहु मन्यमानः मद्वचने विश्वासं कुर्वंस्त्वम् “अक्षैर्मा “दीव्यः द्यूतं मा कुरु । “कृषिमित् कृषिमेव “कृषस्व कुरु। “वित्ते कृष्या संपादिते धने “रमस्व रतिं कुरु । “तत्र कृषौ “गावः भवन्ति । “तत्र “जाया भवति । “तत् एव धर्मरहस्यं श्रुतिस्मृतिकर्ता “सविता सर्वस्य प्रेरकः “अयं दृष्टिगोचरः “अर्थः ईश्वरः “वि “चष्टे विविधमाख्यातवान् ।।


मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता॑ नो॒ मा नो॑ घो॒रेण॑ चरता॒भि धृ॒ष्णु ।

नि वो॒ नु म॒न्युर्वि॑शता॒मरा॑तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ॥१४

मि॒त्रम् । कृ॒णु॒ध्व॒म् । खलु॑ । मृ॒ळत॑ । नः॒ । मा । नः॒ । घो॒रेण॑ । च॒र॒त॒ । अ॒भि । धृ॒ष्णु ।

नि । वः॒ । नु । म॒न्युः । वि॒श॒ता॒म् । अरा॑तिः । अ॒न्यः । ब॒भ्रू॒णाम् । प्रऽसि॑तौ । नु । अ॒स्तु॒ ॥१४

मित्रम् । कृणुध्वम् । खलु । मृळत । नः । मा । नः । घोरेण । चरत । अभि । धृष्णु ।

नि । वः । नु । मन्युः । विशताम् । अरातिः । अन्यः । बभ्रूणाम् । प्रऽसितौ । नु । अस्तु ॥१४

हे अक्षाः यूयं “मित्रं “कृणुध्वम् अस्मासु मैत्रीं कुरुत । “खलु इति पूरणः । “नः अस्मान् “मृळत सुखयत च । “नः अस्मान् “धृष्णु धृष्णुना । तृतीयार्थे प्रथमा । “घोरेण असह्येन “मा “अभि “चरत मा गच्छत । किंच “वः युष्माकं “मन्युः क्रोधः “अरातिः अस्माकं शत्रुः “नि “विशताम् अस्मच्छत्रुषु तिष्ठतु । “अन्यः अस्माकं शत्रुः कश्चित् “बभ्रूणां बभ्रुवर्णानां युष्माकं “प्रसितौ प्रबन्धने “नु क्षिप्रम् “अस्तु भवतु ॥ ॥ ५ ॥


[सम्पाद्यताम्]

टिप्पणी

अक्षोपरि टिप्पणी


१०.३४.१३

इह ब्रवीत्वनुयोगः संलाप ऋगुपोप मे ।

प्रतिषेधोपदेशौ तु अक्षैर्मेत्यक्षसंस्तुतौ ।।बृहद्देवता १.५२ ।।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.३४&oldid=206574" इत्यस्माद् प्रतिप्राप्तम्