ऋग्वेदः सूक्तं १०.१७३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१७३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१७२ ऋग्वेदः - मण्डल १०
सूक्तं १०.१७३
ध्रुव आङ्गिरसः
सूक्तं १०.१७४ →
दे. राजा। अनुष्टुप्

आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः ।
विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥१॥
इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः ।
इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥
इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा ।
तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥३॥
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ।
ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम् ॥४॥
ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।
ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥५॥
ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि ।
अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥६॥

सायणभाष्यम्

' आ त्वा ' इति षडृचं द्वाविंशं सूक्तमाङ्गिरसस्य ध्रुवस्यार्षमानुष्टुभम् । अभिषिक्तस्य राज्ञः स्तुतिरूपोऽर्थो देवता । तथा चानुक्रान्तम्-' आ त्वा षड् ध्रुवो राज्ञः स्तुतिस्त्वानुष्टुभं तु ' इति । राज्ञो युद्धाय संनहनेऽनेन सूक्तेनाभिमन्त्रणं पुरोधसा कर्तव्यम् । सूत्रितं च--' आ त्वाहार्धमन्तरेधीति पश्चाद्रथस्यावस्थाय ' ( आश्व. गृ. ३. १२.२) इति ।।


आ त्वा॑हार्षम॒न्तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।

विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥

आ । त्वा । अहार्षम् । अन्तः । एधि । ध्रुवः । तिष्ठ । अविऽचाचलिः ।

विश ऽ । त्वा । सर्वाः । वाच्छन्तु । मा । त्वत् । राष्ट्रम् । अधिं । भ्रशत् ।। १ ।।

हे राजन् त्वा त्वाम् आ अहार्षम् अस्मद्राष्ट्रस्य स्वामित्वेनानैषम् । स त्वम् अन्तः अस्मासु मध्ये एधि स्वामी भव । ध्रुवः नित्यः सन् अविचाचलिः अतिशयेन चलनरहित एव सन् तिष्ठ राष्ट्रमधितिष्ठ । सर्वाः च विशः प्रजाः त्वा त्वां वाञ्छन्तु । अयमेव अस्माकं राजास्त्विति कामयन्तु । ' वाछि इच्छायाम् ' ।' त्वत् त्वत्तः सकाशात् राष्ट्रं राज्यं मा अधि भ्रशत् मा भ्रश्यतु । मा वियुक्तं भवतु । ' भ्रन्शु अधःपतने ' ।।


इ॒हैवैधि॒ माप॑ च्योष्ठा॒ः पर्व॑त इ॒वावि॑चाचलिः ।

इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥

इह । एव । एधि । मा । अप । च्यौष्ठाः । पर्वतः ऽइव । अविऽचाचलिः ।

इन्द्रःऽइव । इह । ध्रुवः । तिष्ठ । इह । राष्ट्रम् । ॐ इति । धारय ।। २ ।।

हे राजन् इह अस्मिन् एव राज्ये एधि स्वामित्वेन सर्वदा वर्तमानो भव । माप च्योष्ठाः अपच्युतो मा भूः । मापगमः । पर्वतइव यथा पर्वतो नैश्चल्येनावतिष्ठते एवम् अविचाचलिः चलनरहितो भव । इन्द्रइव यथा स्वर्ग इन्द्रः एवम् इह लोके त्वं ध्रुवस्तिष्ठ स्थिरो भव । राष्ट्रमु राष्ट्रं च इह लोके धारय ।। स्वे स्वे कर्मण्यवस्थापय ।।


इ॒ममिन्द्रो॑ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ ।

तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पतिः॑ ॥

इमम् । इन्द्रः । अदीधरत् । ध्रुवम् । ध्रुवेण । हविषा ।

तस्मै । सोमः । अधि । ब्रवत् । तस्मै । ॐ इतिं । ब्रह्मणः । पतिः ।। ३ । ।

इमम् अभिषिक्तं ध्रुवेण स्थिरेण हविषा तर्प्यमाणः इन्द्रः ध्रुवं स्थिरम् अदीधरत् धारयतु । सोमः च तस्मै राज्ञे अधि ब्रवत् अधिब्रवीतु । मदीयोऽयमिति पक्षपातवचनं करोतु । तस्मा उ तस्मा एव ब्रह्मणस्पतिः मन्त्रस्य पालको देवश्चाधिब्रवीतु ।।


ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वास॒ः पर्व॑ता इ॒मे ।

ध्रु॒वं विश्व॑मि॒दं जग॑द्ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥

ध्रुवा । द्यौः । ध्रुवा । पृथिवी । ध्रुवासः । पर्वताः । इमे ।

ध्रुवम् । विश्वम् । इदम् । जगत् । ध्रुवः । राजा । विशाम् । अयम् । । ४ ।।

द्यौः ध्रुवा स्थिरा भवति । पृथिवी च ध्रुवा स्थिरा भवति । इमे दृश्यमानाः पर्वताः महीधराश्च ध्रुवासः स्थिराः । इदं विश्वं सर्वं जगत् ध्रुवं स्थिरं भवति । एवमेव अयं विशां प्रजानां राजा स्वामी सन् ध्रुवः स्थिरो भवतु ।।


ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ ।

ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥

ध्रुवम् । ते । राजा । वरुणः । ध्रुवम् । देवः । बृहस्पतिः ।

ध्रुवम् । त । इन्द्रः । च । अग्निः । च । राष्ट्रम् । धारयताम् । ध्रुवम् ।। ५ ।।

हे राजन् ते तव राष्ट्रं राजा राजमानः वरुणः ध्रुवं स्थिरं धारयतु । देवः दानादिगुणयुक्तः बृहस्पतिः ध्रुवं धारयतु । इन्द्रश्च अग्निश्च उभावपि ते तव राष्ट्रं ध्रुवं स्थिरं धारयताम् । इन्द्राग्न्योरुभयोरपेक्षया ध्रुवशब्दस्य द्विः प्रयोगः ।।


ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं॑ मृशामसि ।

अथो॑ त॒ इन्द्र॒ः केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत् ॥

ध्रुवम् । ध्रुवेण । हविषा । अभि । सोमम् । मृषामसि ।

अथो इति । ते । इन्द्रः । केवलीः । विशः । बलिऽहृतः । करत् । । ६ । ।

ध्रुवेण स्थिरेण हविषा पुरोडाशादिना युक्तं ध्रुवं स्थिरं सोमम् अभि मृशामसि अभिमृशामः । देवतामभिलक्ष्य यागार्थं वयमृत्विजः संस्पृशामः । अथो अथानन्तरमेव इन्द्रः विशः प्रजाः ते तवैव केवलीः असाधारणाः सतीः बलिहृतः करस्य प्रदात्रीः करत् करोतु।। ।। ३१ ।।


[सम्पाद्यताम्]

टिप्पणी

ध्रुवोपरि टिप्पणी

पुराणेषु ध्रुवस्य कथायाः सम्यग्भावः


आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः ।

विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥१॥

अहं ध्रुवः आङ्गिरसः त्वां सोमं राजानं आ - समन्तात्, सर्वतः आहार्षम् हर्षयामि। (तु. अह्रिषाद् अस्य तन् मुखम् एवेदं मामकं शिरः।। - पैप्पलाद संहिता १९.२६.१५)। केन प्रकारेण। अन्तरेधि। अन्तः प्रविश। एधि वर्धने। ध्रुवः एवं अविचाचलि, अविचलः तिष्ठ। विशः त्वा सर्वा वाञ्छन्तु। केवलं ध्रुव, निश्चलावस्थां अवस्थानं पर्याप्तं नास्ति। विशः, प्रजाः सर्वाः त्वां वाञ्छन्तु। रजनीशादि दार्शनिकाः कथयन्ति यत् अस्माकं अस्तित्वं एकाकी घटना नास्ति। भूतं, भविष्यं सर्वं अस्माकेन सह सहयोगं कुर्वन्ति। तेन वयं जीवामः। वाञ्छन्तु। वयं वाञ्छनीयाः भवामः। अपरिहार्याः। न अवाञ्छनीयाः। रजनीशस्य कथनमस्ति यत् जीवस्य मृत्योः प्रागेव समष्ट्यां तस्य मृत्युः घटितं भवति। मृत्युः अाकस्मिका घटना नास्ति। ध्रुवभवनं मृत्योः निवारणाय अनिवार्यमस्ति।


इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः ।

इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥

प्रथमायां ऋचायां अन्तः एधनस्य निर्देशमस्ति। द्वितीयायां इहैव एधनस्य। प्रथमायां ऋचायां अविचाचल्यभवनस्य निर्देशमस्ति। द्वितीयायां व्याख्या अस्ति - पर्वत इव। अग्निहोत्रे मह उपस्थानम् : स ह प्रजापतिरीक्षांचक्रे। कथं न्विमे लोका ध्रुवाः प्रतिष्ठिताः स्युरिति। स एभिश्चैव पर्वतैर्नदीभिश्चेमामदृंहत्। वयोभिश्च मरीचिभिश्चान्तरिक्षम्। जीमूतैश्च नक्षत्रैश्च दिवम्। - श.ब्रा. ११.८.१.२। पुराणेषु सार्वत्रिकेण रूपेण कथनमस्ति यत् पर्वताः भूमिं ध्रुवां कुर्वन्ति (शिव १.१८.४६( पर्वत के पुरुष और भूमि के प्रकृति का रूप होने का उल्लेख )। वैदिकेषु ग्रन्थेषु अग्निः पृथिवीं ध्रुवां करोति। यदा पृथिवी चेतना पृथिवी भवति, तदा पर्वतः अपि जडः पर्वतः न भवति। तत् चेतनायाः पुञ्जः भवति। किन्तु पुञ्ज एवं पर्वत शब्दे अन्तरमस्ति। पर्वतः पर्ववान् भवति। सूक्ष्मस्तरेषु जीवः सप्तशरीराणां, पर्वाणां पर्वतः अस्ति। तस्मिन् पर्वते एकः पर्वः अन्यस्य पर्वस्य पोषकः भवति। द्र. श्रीरजनीशस्य व्याख्यानमाला कुण्डलिनी और सात शरीर


इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा ।

तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥३॥

शतपथब्राह्मणः ध्रुवीकरणस्य त्रयाणां स्तराणां उल्लेखं करोति। अयं प्रतीयते यत् इन्द्रस्य उल्लेखं अन्तरिक्षस्य स्तरे ध्रुवीकरणेन सम्बद्धमस्ति। कारणं। अथर्ववेदे ५.२४.६ उल्लेखमस्ति यत् मरुतः पर्वतानां अधिपतयः सन्ति। ऋग्वेदे 1.64.3 मरुतां संज्ञा पर्वताःइव अस्ति – युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव। वाजसनेयि संहितायां १७.८५ मरुतानां सप्त गणानां उल्लेखमस्ति – स्वतवां, प्रघासी, सान्तपन, गृहमेधी, क्रीडी, शाकी, उज्जेषी। एते मरुतः ज्योतीनां पुञ्जाः सन्ति। तेषां व्यापनं पृथिवीतः द्युलोकपर्यन्तं अस्ति। मरुद्गणानां अधिपतिः इन्द्रः अस्ति। शतपथ ब्राह्मणे ११.८.१.२ ध्रुवीभवनस्य त्रयाः स्तराः कथितानि सन्ति - पृथिवी, अन्तरिक्ष, द्यौः। पृथिव्याः स्तरे पर्वताः ध्रुवतां प्रयच्छन्ति। अन्तरिक्षे वयांसि, मरीचयः। यदा चेतनायाः गतिः गुरुत्वाकर्षणशक्तेः विपरीतापि सम्भवा भवति, तदा वयांसि। अन्तरिक्षस्य प्रत्यक्षं उल्लेखं वर्तमानसूक्ते नास्ति।


ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ।

ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम् ॥४॥

अस्यां ऋचायां द्युलोकस्य ध्रुवीकरणस्य अपेक्षायाः उल्लेखमस्ति। शतपथब्राह्मणे द्युलोकस्य ध्रुवीकरणाय जीमूतस्य एवं नक्षत्राणां उल्लेखमस्ति। जीमूतः - वर्षणं यः जीवस्य पोषणं करोति। जीवं मरणरहितं करोति। पर्वताः येभिः पृथिवी ध्रुवा भवति, तेषां स्वयमपि ध्रुवीभवनस्य आवश्यकता अस्ति। पर्वतानां ध्रुवासः विशेषणं ऋग्वेदे अन्यत्रापि प्रकटयति।

भविष्यपुराणे ४.१९५.४२ धान्य, लवण, गुड, सुवर्ण, तिल, कार्पास, घृत, रत्न, रौप्य एवं शर्करा शैलानां दानस्य माहात्म्यं वर्णितमस्ति । अन्येषु पुराणेषु एषां संज्ञा दश धेनुरस्ति । एषां शैलानां एका व्याख्या सायणाचार्य महोदयेन शतपथब्राह्मणे स्वटीकायाः प्रत्येक अध्यायस्य अन्ते कृतमस्ति – धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः। आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः।।


ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।

ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥५॥


ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि ।

अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥६॥


कर्मकाण्डे पृथिवीस्तरे ध्रुवीभवनं ध्रुवापात्रेण भवति, अन्तरिक्षे उपभृतेन एवं द्युलोके जुहू - स्रुवा पात्रेभ्यः। जुहू वीणाधारिण्याः सरस्वत्याः प्रतीकमस्ति। ध्रुवापात्रतः जूहू यावत् साधनायाः गति ऊर्ध्वायां दिशायामस्ति। तदोपरि स्रुवा पात्रस्य साधना सर्वासु दिशासु भवति। -

ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।

जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥ अ. १८.४.६। द्र. स्रुक् उपरि संदर्भाः
यज्ञवाराहतुण्ड, खजुराहो
मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१७३&oldid=142062" इत्यस्माद् पुनः प्राप्तिः