ऋग्वेदः सूक्तं १०.१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
ऋग्वेदः - मण्डल १०
सूक्तं १०.१
त्रित आप्त्यः
सूक्तं १०.२ →
दे. अग्निः। त्रिष्टुप्
मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् ।
अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥१॥
स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु ।
चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥२॥
विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम् ।
आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र ॥३॥
अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः ।
ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥४॥
होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम् ।
प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम् ॥५॥
स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः ।
अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् ॥६॥
आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ ।
प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥७॥

सायणभाष्यम्

॥ अथ दशमं मण्डलम् ॥ दशमे मण्डले द्वादशानुवाकाः । तत्र प्रथमानुवाके षोश सूकानि । तत्र 'अग्रे बृहन्' इति सप्तर्चं प्रथमं सूक्तमाप्त्यस्य त्रितस्यार्षम् । अनादेशपरिभाषया त्रिष्टुप् । मण्डलादिपरिभाषयाग्निर्देवता। तथा चानुक्रम्यते---- अग्रे सप्त त्रितः ' इति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीदमादीन्यष्ट सूक्तान्यष्टमस्यान्त्यास्तिस्रो वर्जयित्वा । सूत्र्यते हि---- 'अग्ने नयाग्रे बृहन्नित्यष्टानामुत्तमोत्तमास्तिस्र उद्धरेदिति त्रैष्टुभम्' (आश्व. श्रौ. ४. १३) इति । 'प्रातरनुवाकन्यायेन तस्यैव समाम्नायस्य सहस्रावममोदेतोः शंसेत् ' (आश्व. श्रौ, ६. ५) इति च । होमार्थं प्रणीत आहवनीये प्राग्घोमादुपशान्ते ज्योतिष्मद्गुणकाग्निदेवताका काचिदिष्टिः । तत्राद्या याज्या। सूत्रितं च ----- इष्टिरग्निर्ज्योतिष्मान् वरुण उदग्ने शुचयस्तवाग्रे बृहन्नुषसामूर्ध्वो अस्थात् ' ( आश्व. श्रौ. ३. १३) इति । उपकरणोत्सर्जनयोर्मण्डलादिहोमेऽप्येषा। सूत्रमुदाहृतम् ।।


अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा॑त् ।

अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥

अग्रे । बृहन् । उषसाम् । ऊर्ध्वः । अस्थात् ।। निःऽजगन्वान् । तमसः । ज्योतिषा । आ । अगात् ।

अग्निः । भानुना । रुशता । सुऽअङ्गः। आ । जातः । विश्वा । सद्मानि । अप्राः ॥ १ ॥

“बृहन् महानेषोऽग्निः उषसाम् अग्रे उषसामुपर्युषःकाले “ऊर्ध्वः प्रज्वलितः सन् ज्वालारूपेण “अस्थात् तिष्ठति। ततः “तमसः। रात्रिनामैतत् । रात्रेः “निर्जगन्वान् निर्गतः ॥ गमेः क्वसाविडभावे रूपम् ॥ निगतो निष्क्रान्तवान् सोऽग्निः “ज्योतिषा स्वीयेन तेजसा लक्षितः सन् "आगात् । गार्हपत्याद्विह्रियमाण आहवनीयं प्रत्यागच्छति । अनन्तरं “स्वङ्गः शोभनज्वालावयवः “जातः कर्मार्थं समुत्पन्न एषः "अग्निः “रुशता। रोचतेर्ज्वलतिकर्मण इदं रूपम् । आरोचमानेन । यद्वा । रुशतिर्हिंसार्थः। तमसां हिंसकेन । “भानुना तेजसा विश्वा “सद्मानि सर्वाँल्लोकान् यद्वा सदनानि यज्ञगृहाणि "आ “अप्राः आपूरयति । ‘प्रा पूरणे'।' तिङां तिङो भवन्ति' इति तिपः सिबादेशः । अत्र वाजसनेयकम्-‘अग्रे बृहन्नुषसामूर्ध्वो अस्थादित्यग्रे ह्येष बृहन्नुषसामूर्ध्वस्तिष्ठति । निर्जगन्वान्तमसो ज्योतिषागादिति निर्जगन्वान् रात्रेस्तमसो ज्योतिषैति । अग्निर्भानुना रुशता स्वङ्ग इत्यग्निर्वा एष भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्रा इतीमे वै लोका विश्वा सद्मानि तानेष जात आपूरयति' (श. ब्रा. ६. ७. ३. १०) इति ॥


स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।

चि॒त्रः शिशु॒ः परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥

सः । जातः । गर्भः । असि । रोदस्योः । अग्ने । चारुः । विऽभृतः । ओषधीषु ।

चित्रः । शिशुः । परि । तमांसि । अक्तून् । प्र । मातृऽभ्यः। अधि। कनिक्रदत् । गाः ॥२॥

हे “अग्ने “जातः उत्पन्नः “चारुः कल्याणरूपः “ओषधीषु ओषधिविकारेश्वरणीषु “विभृतः विशेषेण मथितो यद्वा विभृतः आहवनीयाद्त्यामना विविधं ह्रियमाण ओषधीषु वर्तमानः “सः त्वं "रोदस्योः द्यावापृथियोः “गर्भोsसि गर्भो भवसि । अग्निरूप आदित्यरूपश्चेति । किंच “चित्रः चित्रवर्णः ‘काली कराली च मनोजवा' (मु. उ. १. २. ४) इत्यादि सप्तजिह्वाभिः नानारूपः यद्वा चित्रश्चायनीयः “शिशुः ओषधीनां शिशुरग्निः “तमांसि “अक्तून् रात्रिवत् कृष्णान् शत्रूंश्च “परि भवसि । स्वतेजसाभिभवसि । स त्वं “मातृभ्यः मातृभूताभ्य ओषधीभ्यः । अधिः पञ्चम्यर्थद्योतकः । ताभ्यः कनिक्रदत् पुनःपुनः शब्दं कुर्वन् “प्र “गाः प्रगच्छसि प्रजायसे ॥


विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीय॑म् ।

आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्च॒न्त्यत्र॑ ॥

विष्णुः । इत्था । परमम् । अस्य । विद्वान् । जातः । बृहन् । अभि । पाति । तृतीयम् ।।

आसा । यत् । अस्य । पयः । अक्रत । स्वम् । सऽचेतसः । अभि । अर्चन्ति । अत्र ॥ ३ ॥

“विद्वान् जानाना जातः प्रादुर्भूतः “बृहन् महान् विष्णुः “इत्था इत्थमनेन प्रकारेण विष्णुः स्थापनशीलो ज्ञानादिगुणयुक्तोऽग्निः “अस्य इमं “तृतीयं त्रयाणां पूरकं त्रितं माम् “अभि “पाति अभिरक्षतु । 'एकतो द्वितस्त्रित इति त्रयो बभूवुः' (निरु. ४. ६) इति यास्केनोक्तम् । किंच “अस्य अग्नेः “स्वम् आत्मीयं पयः उदकम् “आसा आस्येन “यत् यदा “अक्रत कुर्वन्ति यजमाना याचन्ते तदानीम् “अत्र अस्मिँल्लोके स्थिताः स्तोतरः सचेतसः समानमनस्का भूत्वैनम् “अभ्यर्चन्ति अभिष्टुवन्ति ॥


अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नैः॑ ।

ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥

अतः । ॐ इति । त्वा । पितुऽभृतः । जनित्रीः । अन्नऽवृधम् । प्रति । चरन्ति । अन्नैः ।।

ताः । ईम् । प्रति । एषि । पुनः । अन्यऽरूपाः । असि । त्वम् । विक्षु । मानुषीषु । होता ॥४॥

हे अग्ने “अतः । उ इत्यवधारणे । अस्मादेव कारणात् “पितुभृतः पितुनान्नेन सर्वस्य जगतो धारयित्र्यः पोषयित्र्यो वा जनित्रीः जनयित्र्य ओषधयः अन्नावृधम् अन्नस्य वर्धकं “त्वा त्वाम् “अन्नैः हेतुभिः प्रति “चरन्ति परिचरन्ति अभिगच्छन्ति । ततस्त्वम् ईम् एना: “ताः ओषधीः “प्रत्येषि प्रतिगच्छसि । पुनरपि “अन्यरूपाः जीर्णा ओषधीर्दावभूतस्त्वं गच्छसि । किंच “मानुषीषु मनुष्यजातिषु “विक्षु प्रजासु । यद्वा। विश्वग्निहोत्रादिक्रियास्वभिनिविशन्तीषु मानुषीषु मनुष्यजातिषु । "होता देवानामाह्वाता होमनिष्पादको वा “असि भवसि । मनुष्येषु स्थित इत्यर्थे ब्राह्मणं-- देवो ह्येष मर्त्येषु' (तै. सं. ६. १. ४. ६-७ ) इति ॥


आतिथ्यायां स्विष्टकृतोऽनुवाक्या होतारम्' इत्येषा । सूत्रितं च---' होतारं चित्ररथमध्वरस्य प्रप्रायमग्निनिर्भरतस्य शृण्व इति संयाज्ये ' ( आश्व. श्रौ. ४, ५) इति ॥

होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश॑न्तम् ।

प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नाम् ॥

होतारम् । चित्रऽरथम् । अध्वरस्य । यज्ञस्यऽयज्ञस्य । केतुम् । रुशन्तम् ।

प्रतिऽअर्धिम् । देवस्यऽदेवस्य । मह्ना । श्रिया । तु । अग्निम् । अतिथिम् । जनानाम् ।५।।

“अध्वरस्य यज्ञस्य “होतारम् एतन्नामानमृत्विजं यद्वा होतारं देवानामाह्वातारं “चित्ररथं नानारूपरथमध्वरस्य रक्षोभिरहिंसितस्य “यज्ञस्य सर्वस्य यज्ञस्य “केतुं प्रज्ञापकं पताकास्थानीयं वा “रुशन्तं श्वेतवर्णं “मह्ना स्वमहत्त्वेन “देवस्यदेवस्य सर्वेषां देवानाम् “अर्धिम् इन्द्रं “प्रति भवन्तम् । “यत्सर्वेषामधिमिन्द्रं प्रति' इति ब्राह्मणम् । तादृशं जनानां यजमानानाम् “अतिथिम् अतिथिवत् पूज्यम् अग्निं तु क्षिप्रं श्रिया श्रियोऽर्थं वयं स्तुमः ॥


स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः ।

अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥

सः । तु । वस्त्राणि । अध । पेशनानि । वसानः । अग्निः । नाभा । पृथिव्याः ।।

अरुषः । जातः । पदे । इळायाः । पुरःऽहितः । राजन् । यक्षि । इह । देवान् ॥ ६ ॥

हे “राजन् दीप्यमानाग्ने “वस्त्राणि आच्छादकानि तेजांसि “अध अपि च "पेशनानि तेषां तेजसां कार्यशौक्ल्यादीनि रूपाणि । यद्वा । अधानन्तरं पेशनानि । पेश इति हिरण्यनाम । हिरण्यवत् हिरण्यसदृशानि भास्वराणि तेजांसि । “वसानः अच्छादयन् पृथिव्याः “नाभा नाभौ नाभिस्थानीये “इळायाः “पदे उत्तरवेद्याम् । एतद्वा इळायास्पदं यदुत्तरवेदीनाभिः' (ऐ. ब्रा. १. २८) इत्याम्नानात् । तस्यां “जातः समुत्पन्नः “अरुषः अरोचमानो यः अग्निः एवंविधोऽसि स त्वं “पुरोहितः पुरतो निहितः पूर्वस्यां दिशि आहवनीयायतने स्थापितः सन् इह अस्मिन् यज्ञे “देवान् इन्द्रादीन् "यक्षि यज पूजय ॥


आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तन्थ॑ ।

प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥

आ । हि । द्यावापृथिवी इति । अग्ने । उभे इति । सदा । पुत्रः । न । मातरा । ततन्थ ।

प्र। याहि । अच्छ । उशतः । यविष्ठ । अथ । आ । वह । सहस्य । इह । देवान् ॥ ७ ॥

हे अग्ने त्वम् “उभे “द्यावापृथिवी द्यावापृथिव्यौ “सदा सर्वदा “आ “ततन्थ आतेनिथ । स्वतेजोभिर्विस्तारयसि खलु ॥ * बभूथा ततन्थ' इति थलि निपातितः । तत्र दृष्टान्तः। “पुत्रो “न यथा पुत्रः "मातरा मातापितरौ क्षीणौ धनैस्तनोति तद्वत् । किंच हे "यविष्ठ युवतम स त्वम् "उशतः कामयमानान् “अच्छ अभिलक्ष्य “प्र “याहि प्रकर्षेणागच्छ । “अथ अनन्तरं हे “सहस्य सहसो बलस्य पुत्र हे अग्ने त्वम् “इह अस्मदीये यज्ञे “देवान् इन्द्रादीन् “आ “वह प्रापय ॥ ॥२९॥

[सम्पाद्यताम्]

टिप्पणी

त्रेता उपरि पौराणिकाः संदर्भाः

त्रितोपरि पौराणिकाः संदर्भाः

त्रितोपरि टिप्पणी

आप्त्योपरि वैदिकसंदर्भाः

केचन जनाः कथयन्ति यत् ऋग्वेदस्य दशममण्डलः परवर्ती रचना अस्ति। आम्, ऋषिरूपेण त्रितस्य उल्लेखमस्य प्रमाणमस्ति यत् दशमं मण्डलस्य आरम्भं त्रेतायुगेन प्रारभ्यते। परोक्षरूपेण, किं अस्याभिप्रायमस्ति यत् ऋग्वेदस्य पूर्ववर्तिनः नव मण्डलाः कृतयुगेन सम्बद्धाः सन्ति, अयं अन्वेषणीयः। पुराणकथनानुसारेण, कृतयुगः कल्पवृक्षस्य स्थितिः अस्ति। न किञ्चिदपि पुरुषार्थस्य आवश्यकता अस्ति। सर्वैश्वर्यं सर्वदा सुलभमस्ति। त्रेतायां कल्पवृक्षस्य स्थितेः क्षयं भवति। कामनापूर्तिहेतु पुरुषार्थस्य आवश्यकता भवति। अस्य पुरुषार्थस्य वैदिक संज्ञा यज्ञः अस्ति। किमयं पुरुषार्थः, श्रमः, यज्ञः आदर्शमस्ति। आदर्शस्थितिः सा अस्ति यत्र ऊर्जायाः रूपान्तरणं शतप्रतिशतं भवति। आधुनिकविज्ञानानुसारेण अयं सम्भवं नास्ति। यज्ञे कामनापूर्त्यर्थं सर्वेषां देवानां अनुग्रहस्य आवश्यकता भवति। ऋग्वेदस्य त्रितऋषेः संदर्भे देवतारूपेण केवलं अग्नेः उल्लेखमस्ति। सूर्यस्य साकं अन्ये सर्वे देवाः अनिरुक्ताः सन्ति। स्थूलपदार्थे अग्नेः विकसनतः यत्किंचित् प्राप्तव्यमस्ति, तत् त्रितऋषेः सूक्तानां विषयवस्तु भवितुं शक्यते।

त्रितस्य आप्त्यविशेषणस्य किं अभिप्रायं भवितुं शक्यते। पुराणेषु अप्तोर्यामस्य संदर्भे कथनमस्ति यत् पृथोः राज्ञस्य अप्तोर्यामयागे सूतस्य प्राकट्यमभवत्। तेन उपस्थितेभ्यः ऋत्विग्भ्यः पृष्टमासीत् मम किं कर्तव्यमस्ति। तेभ्यः कथितमासीत् - त्वं पृथोः गुणानां गानं कुरु। सूतः कथयति - पृथोः राज्ञस्य गुणाः अनिरुक्ताः, अप्रकटिताः सन्ति। अहं तस्य गुणेभ्यः अनभिज्ञः अस्मि। तदा कथमहं अनृतं वदिष्ये। ऋत्विजः कथयन्ति - पृथोः राज्ञः येषां गुणानां भविष्ये प्रकटनस्य संभावना अस्ति, त्वं तेषां गानं कुरु। अयं संकेतमस्ति यत् आप्त्यां स्थित्यां केषां गुणानां केन प्रकारेण विकसनं संभवं अस्ति, अस्य अनुमानं भवति।

त्रितस्य पराकाष्ठा का अस्ति। सः त्रिशिरा विश्वरूपस्य वधं कर्तुं शक्नोति। ब्राह्मणग्रन्थानां अस्य कथनस्य निदर्शनं दशममण्डलस्य अष्टमे सूक्ते भवति।

पुराणेषु त्रेतायुगस्य आरम्भरूपेण पुरूरवसः आख्यानस्य कथनमस्ति। यदा पुरूरवा उर्वश्याः वियोगे व्यथितः आसीत्, तदा देवेभिः अनुग्रहरूपेण तस्मै पुत्रः एवं अग्निस्थाल्यादि प्रदत्ता आसीत्। यदा पुरूरवा पुत्रं नगरे स्थापयित्वा अरण्ये पुनरागच्छति, तदा अग्निस्थाली अदृश्या आसीत्। तत्स्थले शमी एवं तस्योपरि अश्वत्थवृक्षः विद्यमानौ आस्ताम्। पुरूरवा ताभ्यां अग्निजननहेतु अरणयोः निर्माणं कृत्वा अग्नित्रयस्य जननं करोति। अयं पुरुषार्थस्य उदाहरणमस्ति।

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१&oldid=166113" इत्यस्माद् पुनः प्राप्तिः