ऋग्वेदः सूक्तं १०.१३०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१३० इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१२९ ऋग्वेदः - मण्डल १०
सूक्तं १०.१३०
यज्ञः प्राजापत्यः।
सूक्तं १०.१३१ →
दे. भाववृत्तम् । त्रिष्टुप्, १ जगती ।
यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः ।
इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्यासते तते ॥१॥
पुमाँ एनं तनुत उत्कृणत्ति पुमान्वि तत्ने अधि नाके अस्मिन् ।
इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे ॥२॥
कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् ।
छन्दः किमासीत्प्रउगं किमुक्थं यद्देवा देवमयजन्त विश्वे ॥३॥
अग्नेर्गायत्र्यभवत्सयुग्वोष्णिहया सविता सं बभूव ।
अनुष्टुभा सोम उक्थैर्महस्वान्बृहस्पतेर्बृहती वाचमावत् ॥४॥
विराण्मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः ।
विश्वान्देवाञ्जगत्या विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥५॥
चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे ।
पश्यन्मन्ये मनसा चक्षसा तान्य इमं यज्ञमयजन्त पूर्वे ॥६॥
सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः ।
पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥७॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

[सम्पाद्यताम्]

१०.१३०.३ प्रउग

टिप्पणी

सोमयागे प्रातःसवने पंच स्तोत्राणि एवं पंच शस्त्राणि भवन्ति। स्तोत्रेषु एकं बहिष्पवमान स्तोत्रं एवं चत्वारि आज्यस्तोत्राणि भवन्ति। पंच शस्त्रेषु एकं प्रउगं शस्त्रं एवं चत्वारीणि आज्य शस्त्राणि भवन्ति। प्रउगशस्त्रस्य कर्ता होता ऋत्विक् भवति। चतुर्षु आज्यशस्त्रेषु प्रथमस्य कर्ता होता, द्वितीयस्य मैत्रावरुणः, तृतीयस्य ब्राह्मणाच्छंसी एवं चतुर्थस्य अच्छावाकः भवति। - यज्ञतत्त्वप्रकाश (पृष्ठ ७६)

देवरथो वा एष यद्यज्ञस्तस्यैतावन्तरौ रश्मी यदाज्यप्रउगे तद्यदाज्येन पवमानमनुशंसति प्रउगेणाज्यं देवरथस्यैव तदन्तरौ रश्मी विहरत्यलोभाय तामनुकृतिम्मनुष्यरथस्यैवान्तरौ रश्मी विहरन्त्यलोभाय नास्य देवरथो लुभ्यति न मनुष्यरथो य एवं वेद- ऐ.ब्रा. २.३७

ग्रहोक्थं वा एतद्यत्प्रउगं – ऐ.ब्रा. ३.१

प्राणानां वा एतदुक्थं यत्प्रउगं सप्त देवताः शंसति सप्त वै शीर्षन्प्राणाः – ऐ.ब्रा. ३.३

नाकसदिष्टका - विराड् असि दक्षिणा दिग् रुद्रास् ते देवा अधिपतय इन्द्रो हेतीनाम् प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु प्रउगम् उक्थम् अव्यथयत् स्तभ्नातु बृहत् साम प्रतिष्ठित्यै – तैत्तिरीय संहिता ४.४.२.१

आज्यम् शस्त्वा प्रउगम् शंसति । आत्मा वै यजमानस्य आज्यम् । प्राणाः प्रउगम् । तद् यद् आज्यम् शस्त्वा प्रउगम् शंसति । तथा ह यजमानः सर्वम् आयुर् अस्मिंल् लोक एत्य आप्नोत्य् अमृतत्वम् अक्षितिम् स्वर्गे लोके । पवमाने स्तुत आज्यम् शंसति । आज्ये स्तुते प्रउगम् । तद् एतत् पवमान उक्थम् एव यत् प्रउगम् । आज्यम् एव आज्यस्य उक्थम् । ते एतद् विहरति । यथा रथस्य अन्तरौ रश्मी व्यतिषजेद् एवम् तत् । - कौशीतकि ब्रा. १४.४

अग्नेर् अग्रे प्रातःसवनम् आसीत् । इन्द्रस्य माध्यंदिनम् सवनम् । विश्वेषाम् देवानाम् तृतीय सवनम् । सो अग्निर् अकामयत । स्यान् मे माध्यंदिने सवने अथो तृतीय सवन इति । इन्द्रो अकामयत । स्यान् मे प्रातः सवने अथो तृतीय सवन इति । विश्वे देवा अकामयन्त । स्यान् नो माध्यंदिने सवने अथो प्रातःसवन इति । ता अमुतो अर्वाच्यो देवतास् तृतीय सवनात् प्रातःसवनम् अभिप्रायुञ्जत । तद् यद् अभिप्रायुञ्जत । तत् प्रउगस्य प्रउगत्वम् । तस्माद् बह्व्यो देवताः प्रउगे शस्यन्ते । कौ.ब्रा. १४.५

गायत्रं प्रउगं कुर्यादित्याहुस्तेजो वै ब्रह्मवर्चसं गायत्री तेजस्वी ब्रह्मवर्चसी भवतीति । औष्णिह प्रउगं कुर्यादित्याहुरायुर्वा उष्णिगायुष्मान्भवतीति । आनुष्टुभं प्रउगं कुर्यादित्याहुः क्षत्त्रं वा अनुष्टुप्क्षत्त्रस्याऽऽप्त्या इति बार्हतं प्रउगं कुर्यादित्याहुः श्रीर्वै बृहती श्रीमान्भवतीति पाङ्क्तं प्रउगं कुयादित्याहुरन्नं वै पङ्क्तिरन्नवान्भवतीति त्रैष्टुभं प्रउगं कुर्यादित्याहुर्वीर्यं वै त्रिष्टुब्वीर्यवान्भवतीति जागतं प्रउगं कुर्यादित्याहुर्जागता वै पशवः पशुमान्भवतीति, इति । तदु गायत्रमेव कुर्याद्ब्रह्म वै गायत्री ब्रह्मे तदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते, इति । तदु माधुच्छन्दसम्, इति । मधु ह स्म वा ऋषिभ्यो मधुच्छन्दाश्छन्दति तन्मधुच्छन्दसो मधुच्छन्दस्त्वम्, इति । - ऐ.आ. १.१.३

प्रउग- सा-) १. शकटे नीडस्य बहिर्भागः प्रउगपदवाच्यः । श्रौ ० प० नि० पृ० २५६ द्र० २. प्रउगंनाम शकटस्य वंशद्वयम् । यत् एकतः चक्रद्वयवच्छिद्रगतकाष्ठमयलोहमयान्यतरदण्डमध्ये बद्ध्यते, अपरतश्च युगमध्ये बध्यते । द्र० मी ० को ० पृ० २६५२ । प्रउगचित्- सोमयज्ञेषु साग्निचित्येषु अग्निचयन विकृतौ प्रउगः शकटस्याङ्गं शकटस्य त्र्यस्रि अग्रभागः । तदाकारा चितिः स्थण्डिलं प्रउगचिदुच्यते । प्रउगसदृशाकारं चयनं प्रउगचितमुच्यते । तच्च द्विविधं एकतः प्रउगचितं उभयतः प्रउगचितं चेति । द्र० मी ० को ० पृ० २६५३ ।

प्रउगशस्त्र- हौ०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु १. प्रातःसवने प्रउगं नाम शस्त्रं होत्रा शंसनीयम् । प्रातःसवने बहिष्पवमानोत्तरं ऋतुयाजोत्तरं आज्यशस्त्रं भक्षान्तमनुष्ठाय ततः परं प्रउगं शस्यते । द्र० मी ० को० पृ० २६५२ । २. वैश्वदेवग्रहणादूर्ध्वं होत्रा शंसनीयं प्रउगनामकं शस्त्रम् (तु०-ऐ० आ० सा० १ । १ । ३) । ३ आज्यस्तोत्रान्तरं होत्रा प्रउगशस्त्रं शस्यते । द्र० अग्निष्टोमे होतुः प्रउगशस्त्र- ।

प्रउगशस्त्रतृच- (हौ०) सोमयज्ञेषु प्रकृतिभूत- ज्योति-तद्विकृतिषु चैकाहाहीनसत्रेषु विशेषवर्जं प्रातःसवने होतुः प्रउगशस्त्रस्य 'वायवा याहि दर्शतं (ऋ० १ । २ । १- ३) इति वायव्यः प्रथमस्तृचः । 'इन्द्रवायू इमे सुताः' (ऋ० १ । २ ।४६ । इति ऐन्द्रवा- यवो द्वितीयस्तृचः । 'मित्रं हुवे पूतदक्षम् (ऋ० १ । २ ।६-८ इति मैत्रावरुणस्तृतीय- स्तृचः । ' आश्विना यज्वरीरिषः' (ऋ० १ । ३ । १-३) इति आश्विनश्चतुर्थस्तृचः । 'इन्द्राऽऽयाहि चित्रभानो' (ऋ० १ । ३ ।४- ६) इति ऐन्द्रः पञ्चमस्तृचः । ' ओमासश्चर्षणीधृतः' ऋ० १ । ३।७-९) इति वैश्वदेवः षष्ठस्तृचः । 'पावका नः सरस्वती' (ऋ० १ । ३ । १०- १२) इति सारस्वतः सप्तमस्तृचः । इति तत्तद्देवत्याः सप्ततृचा भवन्ति । तृचानां पुरस्तात् यथासंख्येन शोंसावोम्' इत्याहावहिताः 'वायुरग्रेगाः' इत्याद्याः सप्त पुरोरुचः (ऋ०खि० ५ ।६ । १ -७) पठितव्याः । शंसनप्रकारः-द्र० अग्निष्टोमे होतुः प्रउगशस्त्र-, का० श्रौ० १ । ३ ।८ टि० विद्याधरः । श्रौतयज्ञप्रक्रिया - पदार्थानुक्रमकोषः। प्रणेता पण्डित पीताम्बरदत्त शास्त्री


There is प्रउग, "yoke". It also occurs in Rk-saMhita. It is generally supposed to be a prakritic pronunciation of "prayuga". - तितउ

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१३०&oldid=161068" इत्यस्माद् पुनः प्राप्तिः