सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.१३०

विकिस्रोतः तः
← सूक्तं १०.१२९ ऋग्वेदः - मण्डल १०
सूक्तं १०.१३०
यज्ञः प्राजापत्यः।
सूक्तं १०.१३१ →
दे. भाववृत्तम् । त्रिष्टुप्, १ जगती ।


यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः ।
इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्यासते तते ॥१॥
पुमाँ एनं तनुत उत्कृणत्ति पुमान्वि तत्ने अधि नाके अस्मिन् ।
इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे ॥२॥
कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् ।
छन्दः किमासीत्प्रउगं किमुक्थं यद्देवा देवमयजन्त विश्वे ॥३॥
अग्नेर्गायत्र्यभवत्सयुग्वोष्णिहया सविता सं बभूव ।
अनुष्टुभा सोम उक्थैर्महस्वान्बृहस्पतेर्बृहती वाचमावत् ॥४॥
विराण्मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः ।
विश्वान्देवाञ्जगत्या विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥५॥
चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे ।
पश्यन्मन्ये मनसा चक्षसा तान्य इमं यज्ञमयजन्त पूर्वे ॥६॥
सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः ।
पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥७॥


सायणभाष्यम्

' यो यज्ञः ' इति सप्तर्चं द्वितीयं सूक्तं प्रजापतिपुत्रस्य यज्ञाख्यस्यार्षम् । आद्या जगती शिष्टास्त्रिष्टुभः । अत्रापि यज्ञादीनां केषांचिद्भावानां सृष्टिः प्रतिपाद्यते । अतः स्रष्टव्यत्वेन प्रधानभूतो योऽर्थः सैव देवता । तत्कर्ता प्रजापतिरेव देवता । तथा चानुक्रान्तं -' यो यज्ञो यज्ञः प्राजापत्यो जगत्याद्या ' इति । गतो विनियोगः ।।


यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः ।

इ॒मे व॑यन्ति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥ १

यः । य॒ज्ञः । वि॒श्वतः॑ । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । दे॒व॒ऽक॒र्मेभिः॑ । आऽय॑तः ।

इ॒मे । व॒य॒न्ति॒ । पि॒तरः॑ । ये । आ॒ऽय॒युः । प्र । व॒य॒ । अप॑ । व॒य॒ । इति॑ । आ॒स॒ते॒ । त॒ते ॥१

यः । यज्ञः । विश्वतः । तन्तुऽभिः । ततः । एकऽशतम् । देवऽकर्मेभिः । आऽयतः ।

इमे । वयन्ति । पितरः । ये । आऽययुः । प्र । वय । अप । वय । इति । आसते । तते ॥१

“तन्तुभिः तनितृभिर्विस्तारयितृभिर्वियदादिभूतैः “यः सर्गात्मकः “यज्ञः “विश्वतः सर्वतः “ततः विस्तृतः । तथा “एकशतम् । एकं च शतं चैकशतम् । ' संख्या ' इति पूर्वपदप्रकृतिस्वरत्वम् । एकोत्तरशतमित्यर्थः । ब्रह्मा येषु शतसंख्येषु आत्मीयसंवत्सरेषु जीवति तदभिप्रायेणात्र शतसंख्या । जीवता तेन प्रजापतिना सार्धमेकशतमित्युच्यते । यथा ' शतायुर्वै पुरुषः शतवीर्यं आत्मैकशतः ' ( तै. ब्रा. १ .७. ६४) इति । अत्यन्तसंयोगे द्वितीया । ब्रह्मणः शतसंवत्सरपर्यन्तं “देवकर्मेभिः देवानुद्दिश्य भोक्तृभिः कृतैः कर्मभिः “आयतः दीर्घीभूतः । तावत्कालावस्थायी । एवमायामविस्तारवान् यः उक्तः सर्गात्मको यक्षस्तं यज्ञम् “इमे “पितरः पालकाः प्रजापतेः प्राणभूता विश्वसृजो देवाः “वयन्ति निर्मिमते । “ये देवाः “आययुः स्रष्टव्यं सर्वं जगत् सर्जनेन व्यापुः । अपि च “प्र “वयाप “वयेति । प्रवाणं नाम प्रकृष्टस्य चेतनस्य भोक्तृप्रपञ्चस्य सर्जनम् । अपवानं नाम अपकृष्टस्य निकृष्टस्य अचेतनस्य भोग्यप्रपञ्चस्य सर्जनम् । ' वेञ् तन्तुसंताने ' । ' समुच्चयेऽन्यतरस्याम् ' ( पा. सू ३.४. ३) इति लोट् । तस्य ' लोटो हिस्वौ' ' इत्यनुवृत्तेर्हिरादेशः । शब्गुणायादेशाः । ' अतो हेः ' इति लुक् । प्र वयाप वयेति वयन्तः प्रवाणमपवानं च कुर्वन्त इत्यर्थः । एवंभूताः सन्तस्ते विश्वसृजः “तते विस्तृते सत्यलोके “आसते प्राणरूपेण प्रजापतिमुपासते । यद्वा ज्योतिष्टोमादिर्यज्ञ एवंरूपकत्वेन पटात्मना वर्ण्यते । यो यज्ञो ज्योतिष्टोमादिस्तन्तुभिः तन्तुस्थानीयैः अग्निष्टोमात्यग्निष्टोमादिसंस्थाभेदैः सप्तभिश्छन्दोभिर्वा विश्वतः सर्वतस्ततो विस्तृतः ।' तथैकशतम् । तृतीयार्थे प्रथमा । एकाधिकेनाग्निचयनेन युक्तैः देवकर्मेभिः' गवामयनप्रभृतिकैः विश्वसृजामयनान्तैः एकाहादिसत्रात्मकैर्वा आयतो दीर्घीभूत् एवमायामविस्तारवान् यज्ञात्मकोऽयं पटः प्रजापतिना सृष्टः । तं पटं पितरोऽस्माकं पितृभूता इमेऽङ्गिरसो वयन्ति । तस्य पटस्य प्राचीनतन्तुस्थानीयानि स्तुतशस्त्राणि प्र वय त्वं कुरु अप वय तिरश्चीनतन्तुस्थानीयानि यजूंषि त्वं कुरु इत्येवं परस्परं नियुञ्जाना आसते नियुञ्जन्ति।। एवं विरुतस्य यज्ञस्य प्रजापतेः सकाशादुत्पत्तिरुत्तरया प्रतिपाद्यते ।।


पुमा॑ँ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् ।

इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सदः॒ सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ॥ २

पुमा॑न् । ए॒न॒म् । त॒नु॒ते॒ । उत् । कृ॒ण॒त्ति॒ । पुमा॑न् । वि । त॒त्ने॒ । अधि॑ । नाके॑ । अ॒स्मिन् ।

इ॒मे । म॒यूखाः॑ । उप॑ । से॒दुः॒ । ऊं॒ इति॑ । सदः॑ । सामा॑नि । च॒क्रुः॒ । तस॑राणि । ओत॑वे ॥२

पुमान् । एनम् । तनुते । उत् । कृणत्ति । पुमान् । वि । तत्ने । अधि । नाके । अस्मिन् ।

इमे । मयूखाः । उप । सेदुः । ऊं इति । सदः । सामानि । चक्रुः । तसराणि । ओतवे ॥२

“पुमान् पुरुष आदिपुरुषः प्रजापतिः “एनं यज्ञं “तनुते विस्तारयति । सृष्टवानित्यर्थः । तथा च ब्राह्मणं - ' स प्रजापतिर्यज्ञमतनुत तमाहरत्तेनायजत ' ( ऐ. ब्रा. ५.३.२) इति ' प्रजापतिर्यज्ञमसृजत यज्ञं सृष्टमनु ब्रह्मक्षत्रे असृज्येताम् ' ( ऐ- ब्रा. ७-१९) इति च । स एव पुमान् सृष्टं तं यज्ञम् “उत्कृणत्ति उद्वेष्टयति । ' कृती वेष्टने ' । रौधादिकः । रा एव “पुमान् प्रजापतिः “अस्मिन् भूलोके “नाके । अकं दुःखं नास्त्यस्मिन्निति नाकः स्वर्गलोकः । ' नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । तत्र च “वि “तत्ने इमं यज्ञं विस्तारयति । अधिः सप्तम्यर्थानुवादी । तनोतेर्लिटि ' तनिपत्योश्छन्दसि ' इत्युपधालोपः । तस्य स्थानिवद्भावात् द्विर्वचनम् । “मयूखाः रश्मिभूतास्तस्य प्रजापतेः प्राणात्मकाः “इमे विश्वसृजो देवाः “सदः सदनं देवयजनस्थानम् “उप “सेदुः । विश्वसर्जनहेतुभूतं विश्वसृजामयनाख्यं यज्ञं कर्तुमुपसीदन्ति । उपसद्य च “सामानि रथन्तरादीनि “ओतवे वयनाय यज्ञाख्यं वस्त्रमोतुं “तसराणि तिर्यक्सराणि तिरश्चीनसूत्राणि “चक्रुः ।।


कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् ।

छन्दः॒ किमा॑सी॒त्प्रउ॑ागं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ॥ ३

का । आ॒सी॒त् । प्र॒ऽमा । प्र॒ति॒ऽमा । किम् । नि॒ऽदान॑म् । आज्य॑म् । किम् । आ॒सी॒त् । प॒रि॒ऽधिः । कः । आ॒सी॒त् ।

छन्दः॑ । किम् । आ॒सी॒त् । प्रउ॑गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय॑जन्त । विश्वे॑ ॥३

का । आसीत् । प्रऽमा । प्रतिऽमा । किम् । निऽदानम् । आज्यम् । किम् । आसीत् । परिऽधिः । कः । आसीत् ।

छन्दः । किम् । आसीत् । प्रउगम् । किम् । उक्थम् । यत् । देवाः । देवम् । अयजन्त । विश्वे ॥३

विश्वसर्जनोपायत्वेन प्रजापतिना सृष्टे यज्ञे विश्वस्य स्रष्टारो विश्वसृजो देवा विश्वसर्जनाय तं यज्ञमन्वतिष्ठन् । तस्मिन् समये जगतोऽनुत्पत्तेर्जगदन्त:पातिनो यागोपकरणभूताः पदार्थाः कथमासन्नित्यनया प्रश्नः क्रियते । “यत् यदा “विश्वे सर्वे साध्याः “देवाः “देवं प्रजापतिम् “अयजन्तु तदानीं तस्य यज्ञस्य “प्रमा प्रमाणम् इयत्ता “का कथंभूता “आसीत् । तथा “प्रतिमा । हविष्प्रतियोगित्वेन मीयते निर्मीयत इति प्रतिमा देवता । सा च तस्य यज्ञस्य कासीत् । तथा “निदानम् आदिकारणं यागेऽप्रवृत्तस्य प्रवर्तकं फलं “किम् आसीत् । तथा “आज्यं घृतमेतदुपलक्षितं हविर्वा तस्य यज्ञस्य “किमासीत् । तथा “परिधिः । परितो धीयन्त इति त्रयः परिधयो बाहुमात्राः पलाशादिवृक्षजन्याः । परिपूर्वात् दधातेः उपसर्गे धोः किः' ( पा. सू. ३, ३.९२) इति कित्ययः । सामान्यापेक्षमेकवचनम् । परिधयः क आसन्नित्यर्थः । तथा तस्य यज्ञस्य गायत्र्यादिकं “छन्दः “किमासीत् । तथा “प्रउगम् “उक्थम् । उपलक्षणमेतत् ! आज्यप्रउगादीन्युक्थानि शस्त्राणि वा कान्यासन् । एतेषु प्रश्नेषु त्रयाणामुत्तरं द्वृचेनाह ॥


अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव ।

अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥ ४

अ॒ग्नेः । गा॒य॒त्री । अ॒भ॒व॒त् । स॒ऽयुग्वा॑ । उ॒ष्णिह॑या । स॒वि॒ता । सम् । ब॒भू॒व॒ ।

अ॒नु॒ऽस्तुभा॑ । सोमः॑ । उ॒क्थैः । मह॑स्वान् । बृह॒स्पतेः॑ । बृ॒ह॒ती । वाच॑म् । आ॒व॒त् ॥४

अग्नेः । गायत्री । अभवत् । सऽयुग्वा । उष्णिहया । सविता । सम् । बभूव ।

अनुऽस्तुभा । सोमः । उक्थैः । महस्वान् । बृहस्पतेः । बृहती । वाचम् । आवत् ॥४

“सयुग्वा सहयुक्ता “अग्नेः सहायभूता “गायत्र्यभवत् । यष्टव्यात् प्रजापतेर्मुखादजायत । देवतासु मध्येऽग्निः छन्दःसु गायत्री च उभावप्यजायेतामित्यर्थः । तथा च तैत्तिरीयकं - ‘ प्रजापतिरकामयत प्र जायेयेति स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवतान्वसृज्यत गायत्री छन्दः ( तै. सं. ७. १. १. ४ ) इति । “उष्णिहया उष्णिक्छन्दसा सह “सविता देवः “सं “बभूव तस्मात् प्रजापते र्जज्ञे । ‘ टापं चापि हलन्तानाम् इति वचनादुष्णिहशब्दात टाप् । तथा “महस्वान् तेजस्वी “सोमः “उक्थैः स्तुतशस्रैःाप “अनुष्टुभा अनुष्टुप्छन्दसा च सार्धं तस्मादेव प्रजापतेरजायत । तथा “बृहस्पतेः देवस्य “वाचं वाक्यं “बृहती छन्दः “आवत् अरक्षत् अच्छद्वा । बृहत्या सार्धं बृहस्पतिरपि तस्मात् प्रजापतेर्जज्ञ इत्यर्थः ॥


वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्नः॑ ।

विश्वा॑न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्याः॑ ॥ ५

वि॒राट् । मि॒त्रावरु॑णयोः । अ॒भि॒ऽश्रीः । इन्द्र॑स्य । त्रि॒ऽस्तुप् । इ॒ह । भा॒गः । अह्नः॑ ।

विश्वा॑न् । दे॒वान् । जग॒ती । आ । वि॒वे॒श॒ । तेन॑ । चा॒कॢ॒प्रे॒ । ऋष॑यः । म॒नु॒ष्याः॑ ॥५

विराट् । मित्रावरुणयोः । अभिऽश्रीः । इन्द्रस्य । त्रिऽस्तुप् । इह । भागः । अह्नः ।

विश्वान् । देवान् । जगती । आ । विवेश । तेन । चाकॢप्रे । ऋषयः । मनुष्याः ॥५

अपि च “मित्रावरुणयोः देवयोः “विराट् छन्दः “अभिश्रीः अभिश्रिता आश्रितासीत् । विराजा सह मित्रावरुणावपि प्रजापतेः सकाशादजायेतामित्यर्थः । “इह अस्मिन् यज्ञे “अह्नः सवनत्रयरूपस्य “भागः मध्यंदिनसवनाख्यः अंशः “त्रिष्टुप् छन्दश्च इन्द्रस्य अभिश्रयणीयौ आस्ताम् । ताविन्द्रश्च प्रजापतेः सकाशादजायन्तेत्यर्थः । तथा च तैत्तिरीयकम् -- उरसो बाहुभ्यां पञ्चदशं निरमिमीत तमिन्द्रो देवतान्वसृज्यत त्रिष्टुप्छन्दो बृहत्साम ' ( तै. सं. ७,१.१.४ ) इति । तथा “विश्वान् सर्वान् “देवान् “जगती छन्दः “आ “विवेश प्रविष्टवती । विश्वे देवा जगती व प्रजापतेरजायन्तेत्यर्थः । तथा च तैत्तिरीयकं -- तं विश्वे देवा देवता अन्वसृज्यन्त जगती छन्दो वैरूपं साम ' ( तै. सं. ७. १. १, ५) इति । उक्तेन प्रकारेण प्रतिमा कासीत् छन्दः किमासीत् प्रउगं किमुक्थमिति त्रयाणामुत्तरं जातम् । आज्यं किमासीत् परिधिः क आसीदित्यनयोरुत्तरं पुरुषसूक्ते द्रष्टव्यम् । तत्र इहेवमाम्नायते---- देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः' ‘ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ' ( क्र. सं. १०, ९०, ६; १५ ) इति । अयमर्थः । सर्वरसोत्पादको वसन्तः तस्य जगत्सर्जनसाधनस्य यज्ञस्याज्यमासीत् । आज्यदध्यादिभी रसैः सार्धं तादृशो वसन्तोऽजायतेत्यर्थः । सर्वरसानां शोषको ग्रीष्म ऋतुरिध्म आसीत् । शुष्कैः काष्ठैः सार्धं ग्रीष्मोऽजायतेत्यर्थः । पच्यमानव्रीहियुक्तः शरदृतुस्तस्य यज्ञस्य हविरासीत् । सप्त छन्दांसि त्रिः सप्तैकविंशतिधा भूत्वा अष्टादश समिधस्त्रयः परिधयश्चासन् । कासीत् प्रमा प्रतिमा किं निदानमित्यनयोरपि प्रश्नयोरप्येवमुत्तरं ‘ पूर्वे विश्वसृजोऽमृताः शतं वर्षसहस्राणि दीक्षिताः सत्रमासत ' इति ‘ एतेन वै विश्वसृज इदं विश्वमसृजन्त ' ( तै, ब्रा. ३. १२. ९. २; ८) इति च तैत्तिरीयके समाम्नायते । अतस्तस्य यज्ञस्य सहस्रसंवत्सरपरिमितः कालः प्रमाणम् । विश्वस्य जगतः सर्जनमादिकारणं प्रवर्तकं फलमित्यर्थः । एतदुक्तं भवति । यदा विश्वसृजो देवा देवं प्रजापतिं विश्वसृजामयनाख्येन यागेनायजन् तदोक्ताः सर्वयागोपकरणाः प्रजापतेः सकाशादजायन्तेति । यतोऽग्न्यादिदेवताभिः सह गायत्र्यादीनि सप्त छन्दांसि जातानि अतो हेतोस्तेषां छन्दसामग्न्यादयो देवता इति । छन्दोविचितौ सूत्रितं च -- अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वे देवा देवताः । (पि. सू. ३.६३ ) इति । एवं प्राजापत्यो यज्ञोऽनुष्ठितः । “तेन यज्ञेन “ऋषयः “मनुष्याः च “चाक्लृप्रे चक्लृपिरे । क्लृप्ताः सृष्टा आसन् ॥ कृपेः कर्मणि लिटि • इरयोः० ' इति रेआदेशः । ‘ कृपो रो लः ' ( पा. सू.८.२.१८) इति लत्वम् । तुजादित्वात् अभ्यासदीर्घः । तेनैव यज्ञेन सर्वं जगदसृजन्नित्यर्थः ॥


चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे ।

पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे॑ ॥ ६

चा॒कॢ॒प्रे । तेन॑ । ऋष॑यः । म॒नु॒ष्याः॑ । य॒ज्ञे । जा॒ते । पि॒तरः॑ । नः॒ । पु॒रा॒णे ।

पश्य॑न् । म॒न्ये॒ । मन॑सा । चक्ष॑सा । तान् । ये । इ॒मम् । य॒ज्ञम् । अय॑जन्त । पूर्वे॑ ॥६

चाकॢप्रे । तेन । ऋषयः । मनुष्याः । यज्ञे । जाते । पितरः । नः । पुराणे ।

पश्यन् । मन्ये । मनसा । चक्षसा । तान् । ये । इमम् । यज्ञम् । अयजन्त । पूर्वे ॥६

“पुराणे चिरंतने अस्मिन् “यज्ञे “जाते विश्वसृड्भिर्देवैः सम्यगनुष्ठिते सति “तेन यज्ञेन “ऋषयो “मनुष्याः “नः अस्माकं “पितरः पूर्वपुरुषाश्च “चाक्लृप्रे अकल्प्यन्त । असृज्यन्त । “इमम् ईदृशं “यज्ञं “ये “पूर्वे साध्या देवाः प्रजापतेः प्राणभूताः “अयजन्त अन्वतिष्ठन् “तान् देवान् प्राणात्मना सर्वत्र वर्तमानान् “चक्षसा दर्शनहेतुना “मनसा “पश्यन् जानन् “मन्ये । तानेव विश्वस्रष्टॄन् देवान् स्तौमि । मन्यतिरर्चतिकर्मा ।।


स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः॑ ।

पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन् ॥ ७

स॒हऽस्तो॑माः । स॒हऽछ॑न्दसः । आ॒ऽवृतः॑ । स॒हऽप्र॑माः । ऋष॑यः । स॒प्त । दैव्याः॑ ।

पूर्वे॑षाम् । पन्था॑म् । अ॒नु॒ऽदृश्य॑ । धीराः॑ । अ॒नु॒ऽआले॑भिरे । र॒थ्यः॑ । न । र॒श्मीन् ॥७

सहऽस्तोमाः । सहऽछन्दसः । आऽवृतः । सहऽप्रमाः । ऋषयः । सप्त । दैव्याः ।

पूर्वेषाम् । पन्थाम् । अनुऽदृश्य । धीराः । अनुऽआलेभिरे । रथ्यः । न । रश्मीन् ॥७

स्तोमैः त्रिवृत्पञ्चदशादिभिः सह वर्तमानाः “सहस्तोमाः “सहछन्दसः गायत्र्यादिभिः छन्दोभिः सह वर्तमानाः “आवृतः आवर्तमानाः “सहप्रमाः । प्रमितिः प्रमा यज्ञस्येद्यत्तापरिज्ञानम् । तेन सह वर्तमानाः “दैब्याः देवस्य प्रजापतेः संबन्धिनः यद्वा देवानां यष्टव्यानां संबन्धिनः “ऋषयः द्रष्टारः सप्तसंख्याकाः शीर्षण्याः । यद्वा । मरीचिप्रमुखाः सप्तर्षयो होत्रादयः सप्त वषट्कर्तारो वा । एवंविधा एते “पूर्वेषां पूर्वपुरुषाणामङ्गिरःप्रभृतीनां विश्वसृजां देवानां वा “पन्थां पन्थानमनुष्ठानमार्गम् “अनुदृश्य क्रमेण ज्ञात्वा “धीराः धीमन्तः सन्तः “अन्वालेभिरे अनुक्रमेण आरब्धवन्तः । यागानुष्ठाने प्रवृत्ता इत्यर्थः । “रथ्यो “न यथा रथिनो रथेन युक्ता रथस्य नेतारः सूताः “रश्मीन् अश्वनियोजनार्थान् प्रग्रहान् सम्यग्रथस्य नयनाय हस्तेनान्वारभन्ते । अन्वारभ्य च सम्यक् तं रथं प्रवर्तयन्ति एवमेतेऽप्यनुष्ठानमार्गं श्रुतितोऽवगम्य सम्यगन्वतिष्ठन्नित्यर्थः ।। ।।३ ८।।


टिप्पणी

१०.१३०.३ छन्दः किमासीत्प्रउगं किमुक्थं इति

सोमयागे प्रातःसवने पंच स्तोत्राणि एवं पंच शस्त्राणि भवन्ति। स्तोत्रेषु एकं बहिष्पवमान स्तोत्रं एवं चत्वारि आज्यस्तोत्राणि भवन्ति। पंच शस्त्रेषु एकं प्रउगं शस्त्रं एवं चत्वारीणि आज्य शस्त्राणि भवन्ति। प्रउगशस्त्रस्य कर्ता होता ऋत्विक् भवति। चतुर्षु आज्यशस्त्रेषु प्रथमस्य कर्ता होता, द्वितीयस्य मैत्रावरुणः, तृतीयस्य ब्राह्मणाच्छंसी एवं चतुर्थस्य अच्छावाकः भवति। - यज्ञतत्त्वप्रकाश (पृष्ठ ७६)

देवरथो वा एष यद्यज्ञस्तस्यैतावन्तरौ रश्मी यदाज्यप्रउगे तद्यदाज्येन पवमानमनुशंसति प्रउगेणाज्यं देवरथस्यैव तदन्तरौ रश्मी विहरत्यलोभाय तामनुकृतिम्मनुष्यरथस्यैवान्तरौ रश्मी विहरन्त्यलोभाय नास्य देवरथो लुभ्यति न मनुष्यरथो य एवं वेद- ऐ.ब्रा. २.३७

ग्रहोक्थं वा एतद्यत्प्रउगं – ऐ.ब्रा. ३.१

प्राणानां वा एतदुक्थं यत्प्रउगं सप्त देवताः शंसति सप्त वै शीर्षन्प्राणाः – ऐ.ब्रा. ३.३

नाकसदिष्टका - विराड् असि दक्षिणा दिग् रुद्रास् ते देवा अधिपतय इन्द्रो हेतीनाम् प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु प्रउगम् उक्थम् अव्यथयत् स्तभ्नातु बृहत् साम प्रतिष्ठित्यै – तैत्तिरीय संहिता ४.४.२.१

आज्यम् शस्त्वा प्रउगम् शंसति । आत्मा वै यजमानस्य आज्यम् । प्राणाः प्रउगम् । तद् यद् आज्यम् शस्त्वा प्रउगम् शंसति । तथा ह यजमानः सर्वम् आयुर् अस्मिंल् लोक एत्य आप्नोत्य् अमृतत्वम् अक्षितिम् स्वर्गे लोके । पवमाने स्तुत आज्यम् शंसति । आज्ये स्तुते प्रउगम् । तद् एतत् पवमान उक्थम् एव यत् प्रउगम् । आज्यम् एव आज्यस्य उक्थम् । ते एतद् विहरति । यथा रथस्य अन्तरौ रश्मी व्यतिषजेद् एवम् तत् । - कौशीतकि ब्रा. १४.४

अग्नेर् अग्रे प्रातःसवनम् आसीत् । इन्द्रस्य माध्यंदिनम् सवनम् । विश्वेषाम् देवानाम् तृतीय सवनम् । सो अग्निर् अकामयत । स्यान् मे माध्यंदिने सवने अथो तृतीय सवन इति । इन्द्रो अकामयत । स्यान् मे प्रातः सवने अथो तृतीय सवन इति । विश्वे देवा अकामयन्त । स्यान् नो माध्यंदिने सवने अथो प्रातःसवन इति । ता अमुतो अर्वाच्यो देवतास् तृतीय सवनात् प्रातःसवनम् अभिप्रायुञ्जत । तद् यद् अभिप्रायुञ्जत । तत् प्रउगस्य प्रउगत्वम् । तस्माद् बह्व्यो देवताः प्रउगे शस्यन्ते । कौ.ब्रा. १४.५

गायत्रं प्रउगं कुर्यादित्याहुस्तेजो वै ब्रह्मवर्चसं गायत्री तेजस्वी ब्रह्मवर्चसी भवतीति । औष्णिह प्रउगं कुर्यादित्याहुरायुर्वा उष्णिगायुष्मान्भवतीति । आनुष्टुभं प्रउगं कुर्यादित्याहुः क्षत्त्रं वा अनुष्टुप्क्षत्त्रस्याऽऽप्त्या इति बार्हतं प्रउगं कुर्यादित्याहुः श्रीर्वै बृहती श्रीमान्भवतीति पाङ्क्तं प्रउगं कुयादित्याहुरन्नं वै पङ्क्तिरन्नवान्भवतीति त्रैष्टुभं प्रउगं कुर्यादित्याहुर्वीर्यं वै त्रिष्टुब्वीर्यवान्भवतीति जागतं प्रउगं कुर्यादित्याहुर्जागता वै पशवः पशुमान्भवतीति, इति । तदु गायत्रमेव कुर्याद्ब्रह्म वै गायत्री ब्रह्मे तदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते, इति । तदु माधुच्छन्दसम्, इति । मधु ह स्म वा ऋषिभ्यो मधुच्छन्दाश्छन्दति तन्मधुच्छन्दसो मधुच्छन्दस्त्वम्, इति । - ऐ.आ. १.१.३

प्रउग- सा-) १. शकटे नीडस्य बहिर्भागः प्रउगपदवाच्यः । श्रौ ० प० नि० पृ० २५६ द्र० २. प्रउगंनाम शकटस्य वंशद्वयम् । यत् एकतः चक्रद्वयवच्छिद्रगतकाष्ठमयलोहमयान्यतरदण्डमध्ये बद्ध्यते, अपरतश्च युगमध्ये बध्यते । द्र० मी ० को ० पृ० २६५२ । प्रउगचित्- सोमयज्ञेषु साग्निचित्येषु अग्निचयन विकृतौ प्रउगः शकटस्याङ्गं शकटस्य त्र्यस्रि अग्रभागः । तदाकारा चितिः स्थण्डिलं प्रउगचिदुच्यते । प्रउगसदृशाकारं चयनं प्रउगचितमुच्यते । तच्च द्विविधं एकतः प्रउगचितं उभयतः प्रउगचितं चेति । द्र० मी ० को ० पृ० २६५३ ।

प्रउगशस्त्र- हौ०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु १. प्रातःसवने प्रउगं नाम शस्त्रं होत्रा शंसनीयम् । प्रातःसवने बहिष्पवमानोत्तरं ऋतुयाजोत्तरं आज्यशस्त्रं भक्षान्तमनुष्ठाय ततः परं प्रउगं शस्यते । द्र० मी ० को० पृ० २६५२ । २. वैश्वदेवग्रहणादूर्ध्वं होत्रा शंसनीयं प्रउगनामकं शस्त्रम् (तु०-ऐ० आ० सा० १ । १ । ३) । ३ आज्यस्तोत्रान्तरं होत्रा प्रउगशस्त्रं शस्यते । द्र० अग्निष्टोमे होतुः प्रउगशस्त्र- ।

प्रउगशस्त्रतृच- (हौ०) सोमयज्ञेषु प्रकृतिभूत- ज्योति-तद्विकृतिषु चैकाहाहीनसत्रेषु विशेषवर्जं प्रातःसवने होतुः प्रउगशस्त्रस्य 'वायवा याहि दर्शतं (ऋ० १ । २ । १- ३) इति वायव्यः प्रथमस्तृचः । 'इन्द्रवायू इमे सुताः' (ऋ० १ । २ ।४६ । इति ऐन्द्रवा- यवो द्वितीयस्तृचः । 'मित्रं हुवे पूतदक्षम् (ऋ० १ । २ ।६-८ इति मैत्रावरुणस्तृतीय- स्तृचः । ' आश्विना यज्वरीरिषः' (ऋ० १ । ३ । १-३) इति आश्विनश्चतुर्थस्तृचः । 'इन्द्राऽऽयाहि चित्रभानो' (ऋ० १ । ३ ।४- ६) इति ऐन्द्रः पञ्चमस्तृचः । ' ओमासश्चर्षणीधृतः' ऋ० १ । ३।७-९) इति वैश्वदेवः षष्ठस्तृचः । 'पावका नः सरस्वती' (ऋ० १ । ३ । १०- १२) इति सारस्वतः सप्तमस्तृचः । इति तत्तद्देवत्याः सप्ततृचा भवन्ति । तृचानां पुरस्तात् यथासंख्येन शोंसावोम्' इत्याहावहिताः 'वायुरग्रेगाः' इत्याद्याः सप्त पुरोरुचः (ऋ०खि० ५ ।६ । १ -७) पठितव्याः । शंसनप्रकारः-द्र० अग्निष्टोमे होतुः प्रउगशस्त्र-, का० श्रौ० १ । ३ ।८ टि० विद्याधरः । श्रौतयज्ञप्रक्रिया - पदार्थानुक्रमकोषः। प्रणेता पण्डित पीताम्बरदत्त शास्त्री


There is प्रउग, "yoke". It also occurs in Rk-saMhita. It is generally supposed to be a prakritic pronunciation of "prayuga". - तितउ

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१३०&oldid=268387" इत्यस्माद् प्रतिप्राप्तम्