ऋग्वेदः सूक्तं १०.१८७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१८७ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१८६ ऋग्वेदः - मण्डल १०
सूक्तं १०.१८७
आग्नेयो वत्सः।
सूक्तं १०.१८८ →
दे. अग्निः। गायत्री।


प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।
स नः पर्षदति द्विषः ॥१॥
यः परस्याः परावतस्तिरो धन्वातिरोचते ।
स नः पर्षदति द्विषः ॥२॥
यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा ।
स नः पर्षदति द्विषः ॥३॥
यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
स नः पर्षदति द्विषः ॥४॥
यो अस्य पारे रजसः शुक्रो अग्निरजायत ।
स नः पर्षदति द्विषः ॥५॥


सायणभाष्यम्

'प्राग्नये' इति पञ्चर्चं षट्त्रिंशं सूक्तमग्नेः पुत्रस्य वत्सस्यार्षं गायत्रमाग्नेयम् । तथा चानुक्रान्तं ---' प्राग्नये पञ्चाग्नेयो वत्स आग्नेयं तु ' इति । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसीदमादिके द्वे सूक्ते। सूत्र्यते हि--' प्राग्नये वाचमिति सूक्त इमां मे अग्ने समिधम्' (आश्व. श्रौ. ४. १३) इति । दशरात्रस्य नवमेऽहन्याग्निमारुत इदं जातवेदसं निविद्धानम् । सूत्रितं च--- मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतम् ' ( आश्व. श्रौ. ८, ११ ) इति ॥


प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नां ।

स नः॑ पर्ष॒दति॒ द्विषः॑ ॥१

प्र । अ॒ग्नये॑ । वाच॑म् । ई॒र॒य॒ । वृ॒ष॒भाय॑ । क्षि॒ती॒नाम् ।

सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥१

प्र । अग्नये । वाचम् । ईरय । वृषभाय । क्षितीनाम् ।

सः । नः । पर्षत् । अति । द्विषः ॥१

हे स्तोतः “अग्नये स्तुतिरूपां “वाचं “प्र “ईरय उच्चारय । कथंभूताय । “क्षितीनां मनुष्याणां यजमानानां “वृषभाय कामानां वर्षित्रे । किं प्रयोजनमिति चेत् । “सः अग्निः “नः अस्मान् “द्विषः द्वेष्टॄन् “अति "पर्षत् अतिपारयेत् ॥


यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते ।

स नः॑ पर्ष॒दति॒ द्विषः॑ ॥२

यः । पर॑स्याः । प॒रा॒ऽवतः॑ । ति॒रः । धन्व॑ । अ॒ति॒ऽरोच॑ते ।

सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥२

यः । परस्याः । पराऽवतः । तिरः । धन्व । अतिऽरोचते ।

सः । नः । पर्षत् । अति । द्विषः ॥२

“यः अग्निः “परस्याः “परावतः अतिशयिताद्दूरदेशात् “तिरः । प्राप्तनामैतत् । प्राप्तसंबन्धं “धन्व मरुभूमिं जलवर्जितं देशम् “अतिरोचते अतिक्रम्य प्रज्वलति । यद्वा । धन्व अन्तरिक्षम् । धन्वन्यन्तरिक्षे तिरस्तिर्यगतिरोचते भृशं प्रकाशते । गतमन्यत् ॥


यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑ ।

स नः॑ पर्ष॒दति॒ द्विषः॑ ॥३

यः । रक्षां॑सि । नि॒ऽजूर्व॑ति । वृषा॑ । शु॒क्रेण॑ । शो॒चिषा॑ ।

सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥३

यः । रक्षांसि । निऽजूर्वति । वृषा । शुक्रेण । शोचिषा ।

सः । नः । पर्षत् । अति । द्विषः ॥३

“वृषा वर्षिता "यः अग्निः “शुक्रेण निर्मलेन शुभ्रवर्णेन वा “शोचिषा तेजसा "रक्षांसि यज्ञस्य हन्तॄणि “निजूर्वति निहिनस्ति । जूर्वी हिंसार्थः । गतमन्यत् ॥


यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।

स नः॑ पर्ष॒दति॒ द्विषः॑ ॥४

यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति ।

सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥४

यः । विश्वा । अभि । विऽपश्यति । भुवना । सम् । च । पश्यति ।

सः । नः । पर्षत् । अति । द्विषः ॥४

"यः अग्निः सूर्यरूपेण “विश्वा विश्वानि सर्वाणि भूतजातानि “अभि अभिमुखं “विपश्यति विशेषेण तेजसा प्रेक्षते । प्रकाशयतीत्यर्थः । “भुवना भुवनानि भूतजातानि “सं “पश्यति “च सम्यग्जानाति च । अन्यत्सिद्धम् ॥


यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत ।

स नः॑ पर्ष॒दति॒ द्विषः॑ ॥५

यः । अ॒स्य । पा॒रे । रज॑सः । शु॒क्रः । अ॒ग्निः । अजा॑यत ।

सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥५

यः । अस्य । पारे । रजसः । शुक्रः । अग्निः । अजायत ।

सः । नः । पर्षत् । अति । द्विषः ॥५

“अस्य “रजसः लोकस्यान्तरिक्षस्य “पारे उपरिदेशे “शुक्रः शुभ्रवर्णः “यः “अग्निः विद्युदात्मना सूर्यात्मना वा “अजायत प्रादुर्भवति “सः “नः अस्मान् “द्विषः द्वेष्टॄन् “अति “पर्षत् अतिपारयतु ।। ॥ ४५ ॥

[सम्पाद्यताम्]

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१८७&oldid=220778" इत्यस्माद् प्रतिप्राप्तम्