ऋग्वेदः सूक्तं १०.३०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.३० इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.२९ ऋग्वेदः - मण्डल १०
सूक्तं १०.३०
कवष ऐलूषः
सूक्तं १०.३१ →
दे. आपः, अपांनपात् वा। त्रिष्टुप्


प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति ।
महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तिम् ॥१॥
अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीरुशन्तः ।
अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः ॥२॥
अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वम् ।
स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोत ॥३॥
यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळते अध्वरेषु ।
अपां नपान्मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्याय ॥४॥
याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्न मर्यः ।
ता अध्वर्यो अपो अच्छा परेहि यदासिञ्चा ओषधीभिः पुनीतात् ॥५॥
एवेद्यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यच्छ ।
सं जानते मनसा सं चिकित्रेऽध्वर्यवो धिषणापश्च देवीः ॥६॥
यो वो वृताभ्यो अकृणोदु लोकं यो वो मह्या अभिशस्तेरमुञ्चत् ।
तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनं प्र हिणोतनापः ॥७॥
प्रास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः ।
घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीः शृणुता हवं मे ॥८॥
तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं प्र हेत य उभे इयर्ति ।
मदच्युतमौशानं नभोजां परि त्रितन्तुं विचरन्तमुत्सम् ॥९॥
आवर्वृततीरध नु द्विधारा गोषुयुधो न नियवं चरन्तीः ।
ऋषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्व सवृधः सयोनीः ॥१०॥
हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् ।
ऋतस्य योगे वि ष्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः ॥११॥
आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च ।
रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात् ॥१२॥
प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि ।
अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमं सुषुतं भरन्तीः ॥१३॥
एमा अग्मन्रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायः ।
नि बर्हिषि धत्तन सोम्यासोऽपां नप्त्रा संविदानास एनाः ॥१४॥
आग्मन्नाप उशतीर्बर्हिरेदं न्यध्वरे असदन्देवयन्तीः ।
अध्वर्यवः सुनुतेन्द्राय सोममभूदु वः सुशका देवयज्या ॥१५॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

सायणभाष्यम्

तृतीयेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘प्र देवत्रा' इति पञ्चदशर्चं प्रथम सूक्तम् । इलूषपुत्रस्य कवषस्यार्षं त्रैष्टुभमब्देवत्यमपांनपाद्देवताकं वा । तथा चानुक्रान्तं--- प्र देवत्रा पञ्चोना कवष ऐलूष आपमपोनप्त्रीयं वा' इति । ‘अप इष्य होत:' इत्युक्तः सन् होता ‘प्र देवत्रा' इत्याद्या नवर्चोऽनुब्रूयात् । सूत्रितं च---’प्र देवत्रा ब्रह्मणे गातुरेत्विति नव हिनोता नो अध्वरं देवयज्येति दशमीम् ' ( आश्व. श्रौ. ५. १ ) इति ।।


प्र दे॑व॒त्रा ब्रह्म॑णे गा॒तुरे॑त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति ।

म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिं ॥१

प्र । दे॒व॒ऽत्रा । ब्रह्म॑णे । गा॒तुः । ए॒तु॒ । अ॒पः । अच्छ॑ । मन॑सः । न । प्रऽयु॑क्ति ।

म॒हीम् । मि॒त्रस्य॑ । वरु॑णस्य । धा॒सिम् । पृ॒थु॒ऽज्रय॑से । री॒र॒ध॒ । सु॒ऽवृ॒क्तिम् ॥

प्र । देवऽत्रा । ब्रह्मणे । गातुः । एतु । अपः । अच्छ । मनसः । न । प्रऽयुक्ति ।

महीम् । मित्रस्य । वरुणस्य । धासिम् । पृथुऽज्रयसे । रीरध । सुऽवृक्तिम् ॥

"ब्रह्मणे । तृतीयार्थे चतुर्थी । ब्रह्मणा स्तोत्रेण । स्तूयमान इति शेषः। “गातुः देवानपो वा प्रतिगमनशीलः सोमः “देवत्रा देवीर्द्योतमानाः "अपः वसतीवर्येकधनालक्षणान्युदकानि “अच्छ अभि “प्र “एतु प्रकर्षेण गच्छतु । तत्र दृष्टान्तः । मनसो “न “प्रयुक्ति । यथा मनसः प्रयुक्तिः प्रयोग उद्योगः शीघ्रं गच्छति तद्वत् । एवं सोमेऽपः प्रतिगते सति हे मदीयात्मन् अध्वर्यो वा "महीं “धासिं महत्सोमलक्षणमन्नं “मित्रस्य "वरुणस्य चार्थाय “पृथुज्रयसे विस्तीर्णजवाय। महागतेरिन्द्रस्य चार्थायेत्यर्थः । "रीरध संसाधय संस्कुरु । दानयोग्यं कुरु । "सुवृक्तिं सुष्ठु दोषैर्वर्जितां स्तुतिं च कुरु ॥


अध्व॑र्यवो ह॒विष्मं॑तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शंतः ।

अव॒ याश्चष्टे॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥२

अध्व॑र्यवः । ह॒विष्म॑न्तः । हि । भू॒त । अच्छ॑ । अ॒पः । इ॒त॒ । उ॒श॒तीः । उ॒श॒न्तः॒ ।

अव॑ । याः । चष्टे॑ । अ॒रु॒णः । सु॒ऽप॒र्णः । तम् । आ । अ॒स्य॒ध्व॒म् । ऊ॒र्मिम् । अ॒द्य । सु॒ऽह॒स्ताः॒ ॥

अध्वर्यवः । हविष्मन्तः । हि । भूत । अच्छ । अपः । इत । उशतीः । उशन्तः ।

अव । याः । चष्टे । अरुणः । सुऽपर्णः । तम् । आ । अस्यध्वम् । ऊर्मिम् । अद्य । सुऽहस्ताः ॥

हे “अध्वर्यवः यूयं "हविष्मन्तो "हि अभिषोतव्येन सोमलक्षणेन हविषा युक्ताः खलु "भूत भवत । किंच हे "उशन्तः सोमाभिषवं कर्तुं कामयमाना अध्वर्यवो यूयम् "उशतीः सोमाभिषवाङ्गभावमभिलषन्तीरेकधनालक्षणाः “अपः “अच्छ आभिमुख्येन “इत गच्छत । “अरुणः रक्तवर्णः “सुपर्णः सुपतनः सोमः “अव अधस्तात् अन्तरिक्षे “याः मेघोदरगता अपः “चष्टे पश्यति हे “सुहस्ताः सोमाभिषवादिशोभनकर्मकारित्वात् सुवर्णमयपवित्राद्यलंकृताः। यद्वा शोभनहस्ताः । एतेऽध्वर्यवः यूयम् “अद्य इदानीं “तं तादृशम् “ऊर्मिं सोमसंघातं ताभिरद्भिः सह “अस्यध्वम् आभिमुख्येन स्थित्वा महतादरेण दशापवित्रे शोधनार्थं प्रक्षिपत ॥


अध्व॑र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा॑तं ह॒विषा॑ यजध्वं ।

स वो॑ दददू॒र्मिम॒द्या सुपू॑तं॒ तस्मै॒ सोमं॒ मधु॑मंतं सुनोत ॥३

अध्व॑र्यवः । अ॒पः । इ॒त॒ । स॒मु॒द्रम् । अ॒पाम् । नपा॑तम् । ह॒विषा॑ । य॒ज॒ध्व॒म् ।

सः । वः॒ । द॒द॒त् । ऊ॒र्मिम् । अ॒द्य । सुऽपू॑तम् । तस्मै॑ । सोम॑म् । मधु॑ऽमन्तम् । सु॒नो॒त॒ ॥

अध्वर्यवः । अपः । इत । समुद्रम् । अपाम् । नपातम् । हविषा । यजध्वम् ।

सः । वः । ददत् । ऊर्मिम् । अद्य । सुऽपूतम् । तस्मै । सोमम् । मधुऽमन्तम् । सुनोत ॥

हे “अध्वर्यवः यूयम् "अपः एकधनालक्षणान्युदकानि । आहर्तुमिति शेषः । “समुद्रम् उदधिस्थानीयं जलाशयम् “इत गच्छत । इदानीमुत्तरोऽर्धर्चो व्याख्यायते पश्चात् द्वितीयः पादः । आर्थिकोऽयं क्रमः। अद्य इदानीं “सः अपां नपात् “वः जलाशयं प्रतिगतेभ्यो युष्मभ्यं “सुपूतं सुशुद्धम् “ऊर्मिं जलसमूहं “ददत् ददातु । यूयमपि तेन समूहेन “तस्मै अपां नपाते "मधुमन्तं मधुरस्वादूपेतं “सोम "सुनोत अभिषुणुत । अभिषुतेन सोमाख्येन “हविषा “अपां “नपातं वृष्टिकर्मण्यधिकृतं देवं “यजध्वम्॥


यो अ॑नि॒ध्मो दीद॑यद॒प्स्वं१॒॑तर्यं विप्रा॑स॒ ईळ॑ते अध्व॒रेषु॑ ।

अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिंद्रो॑ वावृ॒धे वी॒र्या॑य ॥४

यः । अ॒नि॒ध्मः । दीद॑यत् । अ॒प्ऽसु । अ॒न्तः । यम् । विप्रा॑सः । ईळ॑ते । अ॒ध्व॒रेषु॑ ।

अपा॑म् । न॒पा॒त् । मधु॑ऽमतीः । अ॒पः । दाः॒ । याभिः॑ । इन्द्रः॑ । व॒वृ॒धे । वी॒र्या॑य ॥

यः । अनिध्मः । दीदयत् । अप्ऽसु । अन्तः । यम् । विप्रासः । ईळते । अध्वरेषु ।

अपाम् । नपात् । मधुऽमतीः । अपः । दाः । याभिः । इन्द्रः । ववृधे । वीर्याय ॥

उत्तरार्धस्य प्रत्यक्षकृतत्वादेकवाक्यतायै युष्मच्छब्देन समानार्थो भवच्छब्दः प्रथमार्धेऽध्याहार्यः। “यः भवान् अपां नपात् "अप्स्वन्तः अपां मध्ये मेघस्थाने “अनिध्मः काष्ठवर्जितः सन् “दीदयत दीप्यते । “विप्रासः मेधाविन ऋत्विग्यजमानाः “अध्वरेषु यागेषु “यं भवन्तम् “ईळते स्तुवन्ति हे “अपां “नपात् स त्वं “मधुमतीः मधुररसयुक्ताः “अपः वृष्टिलक्षणाः “दाः अस्मभ्यं देहि। “याभिः वसतीवर्येकधनारूपाभिः सोमेन मिश्रिताभिरद्भिः “इन्द्रः “वीर्याय वृत्रवधादिशूरकर्मणे “ववृधे वर्धते ता अपो देहीति संबन्धः ॥ ।


याभिः॒ सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि॑र्युव॒तिभि॒र्न मर्यः॑ ।

ता अ॑ध्वर्यो अ॒पो अच्छा॒ परे॑हि॒ यदा॑सिं॒चा ओष॑धीभिः पुनीतात् ॥५

याभिः॑ । सोमः॑ । मोद॑ते । हर्ष॑ते । च॒ । क॒ल्या॒णीभिः॑ । यु॒व॒तिऽभिः॑ । न । मर्यः॑ ।

ताः । अ॒ध्व॒र्यो॒ इति॑ । अ॒पः । अच्छ॑ । परा॑ । इ॒हि॒ । यत् । आ॒ऽसि॒ञ्चाः । ओष॑धीभिः । पु॒नी॒ता॒त् ॥

याभिः । सोमः । मोदते । हर्षते । च । कल्याणीभिः । युवतिऽभिः । न । मर्यः ।

ताः । अध्वर्यो इति । अपः । अच्छ । परा । इहि । यत् । आऽसिञ्चाः । ओषधीभिः । पुनीतात् ॥

अभिषुतः सोमः “याभिः वसतीवर्येकधनाख्याभिरद्भिः सह “मोदते मुदितो भवति “हर्षते “च । पुनरुक्तिरादार्था । अत्यर्थं हृष्यतीत्यर्थः । तत्र दृष्टान्तः। “कल्याणीभिः कमनीयाभिः “युवतिभिः तरुणीभिः स्त्रीभिः सह “मर्यो “न यथा मनुष्यो मोदते तद्वत् । हे “अध्वर्यो त्वं “ताः तादृशीः "अपः “अच्छ अभिप्राप्तुं “परेहि जलाशयं प्रतिगच्छ। किंच “यत् यदा आहृताभिस्ताभिरद्भिः आसिञ्चाः आ समन्तात्सोमानासिञ्चसि तदा “ओषधीभिः सोमैः सहापश्च “पुनीतात् दशापवित्रेण पुनीहि॥ ॥२४॥


ए॒वेद्यूने॑ युव॒तयो॑ नमंत॒ यदी॑मु॒शन्नु॑श॒तीरेत्यच्छ॑ ।

सं जा॑नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो॑ धि॒षणाप॑श्च दे॒वीः ॥६

ए॒व । इत् । यूने॑ । यु॒व॒तयः॑ । न॒म॒न्त॒ । यत् । ई॒म् । उ॒शन् । उ॒श॒तीः । एति॑ । अच्छ॑ ।

सम् । जा॒न॒ते॒ । मन॑सा । सम् । चि॒कि॒त्रे॒ । अ॒ध्व॒र्यवः॑ । धि॒षणा॑ । आपः॑ । च॒ । दे॒वीः ॥

एव । इत् । यूने । युवतयः । नमन्त । यत् । ईम् । उशन् । उशतीः । एति । अच्छ ।

सम् । जानते । मनसा । सम् । चिकित्रे । अध्वर्यवः । धिषणा । आपः । च । देवीः ॥

“युवतयः तरुण्यः स्त्रियः "यूने तरुणाय “नमन्त यथा प्रह्वीभवन्ति “एव एवं वसतीवर्येकधनाख्या आपः सोमाय प्रह्वीभवन्ति । यद्वा । युवतयः सोमेन सह मिश्रयित्र्य आपो यूने अभिषवादिकर्मणामात्मना सह मिश्रयित्रे कर्त्रेऽध्वर्यवे नमन्त प्रह्वीभवन्त्येव । “इत् इति पूरणः । कदा । “यत् यदा “उशन् अभिषवार्थं वसतीवरीः कामयमानः सोमः सोमाभिषवं कर्तुं कामयमानः अध्वर्युर्वा "उशतीः सोमेन सह मिश्रीभावमभिषवादिकर्माङ्गभावं च कामयमानाः “ईम् एना अपः “अच्छ प्राप्तुम् “एति गच्छति तदोपनमन्ते । “अध्वर्यवो “धिषणा तदीया स्तुतिलक्षणा वाक् च “देवीः देव्यः “आपश्च “मनसा विशिष्टया बुद्ध्या “सं “जानते सम्यग्जानन्ति “सं “चिकित्रे स्वं स्वमधिकारं परस्परोपकारं च चक्षुषा सम्यक् पश्यन्ति ॥


यो वो॑ वृ॒ताभ्यो॒ अकृ॑णोदु लो॒कं यो वो॑ म॒ह्या अ॒भिश॑स्ते॒रमुं॑चत् ।

तस्मा॒ इंद्रा॑य॒ मधु॑मंतमू॒र्मिं दे॑व॒माद॑नं॒ प्र हि॑णोतनापः ॥७

यः । वः॒ । वृ॒ताभ्यः॑ । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । यः । वः॒ । म॒ह्याः । अ॒भिऽश॑स्तेः । अमु॑ञ्चत् ।

तस्मै॑ । इन्द्रा॑य । मधु॑ऽमन्तम् । ऊ॒र्मिम् । दे॒व॒ऽमाद॑नम् । प्र । हि॒णो॒त॒न॒ । आ॒पः॒ ॥

यः । वः । वृताभ्यः । अकृणोत् । ऊं इति । लोकम् । यः । वः । मह्याः । अभिऽशस्तेः । अमुञ्चत् ।

तस्मै । इन्द्राय । मधुऽमन्तम् । ऊर्मिम् । देवऽमादनम् । प्र । हिणोतन । आपः ॥

“यः इन्द्रः “वृताभ्यः मेघेरावृताभ्यः परिवेष्टिताभ्यः “वः युष्मभ्यमद्यः म “लोकं मेघोदरान्निर्गमनमार्गम् “अकृणोत् अकरोत् । “उ इति पूरणः । किंच “यो “वः युष्मानपः “मह्याः महत्याः “अभिशस्तेः मेघपरिवेष्टनाभिहिंसनात् "अमुञ्चत् मोचितवान् । हे “आपः यूयं “तस्मै तादृशाय “इन्द्राय "मधुमन्तं मधुरस्वादुयुक्तं “देवमादनम् इन्द्रादिदेवानां सोमेन सह मिश्रीभूय तर्पयितारम् “ऊर्मिम् अप्संघातं "प्र “हिणोतन अस्मद्यज्ञं प्रति गमयत । सोमाभिषवकर्माङ्गभावाय प्रस्थापयत ॥


प्रास्मै॑ हिनोत॒ मधु॑मंतमू॒र्मिं गर्भो॒ यो वः॑ सिंधवो॒ मध्व॒ उत्सः॑ ।

घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो॑ रेवतीः शृणु॒ता हवं॑ मे ॥८

प्र । अ॒स्मै॒ । हि॒नो॒त॒ । मधु॑ऽमन्तम् । ऊ॒र्मिम् । गर्भः॑ । यः । वः॒ । सि॒न्ध॒वः॒ । मध्वः॑ । उत्सः॑ ।

घृ॒तऽपृ॑ष्ठम् । ईड्य॑म् । अ॒ध्व॒रेषु॑ । आपः॑ । रे॒व॒तीः॒ । शृ॒णु॒त । हव॑म् । मे॒ ॥

प्र । अस्मै । हिनोत । मधुऽमन्तम् । ऊर्मिम् । गर्भः । यः । वः । सिन्धवः । मध्वः । उत्सः ।

घृतऽपृष्ठम् । ईड्यम् । अध्वरेषु । आपः । रेवतीः । शृणुत । हवम् । मे ॥

अत्र यच्छब्दसंबन्धाद्द्वितीयः पादः पूर्वं व्याख्येयः । हे “सिन्धवः स्यन्दनशीला आपः “वः युष्माकं “यः “गर्भः “मध्वः मधुररसस्य “उत्सः उत्स्यन्दनः प्रस्रवणः । यच्छब्दयोगात्तच्छब्दोऽध्याहार्यः । तं “मधुमन्तं मधुररसोपेतम् “ऊर्मिम् अप्संघातम् । सारमित्यर्थः । “अस्मै अस्येन्द्रस्यार्थाय “प्र “हिनोत प्रहिणुत । प्रगमयत । कीदृशम् । “अध्वरेषु यज्ञेषु “घृतपृष्ठं घृतमाज्यं पृष्ठे यस्य तम् । पश्चाद्घृतपातिनमित्यर्थः । “ईड्यं स्तुत्यम्। किंच हे “आपः यूयं “रेवतीः रेवत्यः अस्मभ्यं यानि धनानि दातव्यानि तैर्धनवत्यः "मे मदीयं “हवम् आह्वानं “शृणुत ॥


तं सिं॑धवो मत्स॒रमिं॑द्र॒पान॑मू॒र्मिं प्र हे॑त॒ य उ॒भे इय॑र्ति ।

म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तंतुं॑ वि॒चरं॑त॒मुत्सं॑ ॥९

तम् । सि॒न्ध॒वः॒ । म॒त्स॒रम् । इ॒न्द्र॒ऽपान॑म् । ऊ॒र्मिम् । प्र । हे॒त॒ । यः । उ॒भे इति॑ । इय॑र्ति ।

म॒द॒ऽच्युत॑म् । औ॒शा॒नम् । न॒भः॒ऽजाम् । परि॑ । त्रि॒ऽतन्तु॑म् । वि॒ऽचर॑न्तम् । उत्स॑म् ॥

तम् । सिन्धवः । मत्सरम् । इन्द्रऽपानम् । ऊर्मिम् । प्र । हेत । यः । उभे इति । इयर्ति ।

मदऽच्युतम् । औशानम् । नभःऽजाम् । परि । त्रिऽतन्तुम् । विऽचरन्तम् । उत्सम् ॥

हे “सिन्धवः स्यन्दनशीला आपः “यः युष्मदीयः सारभूतः समूहः “उभे अस्मभ्यं दृष्टादृष्टफले दाता सन् “इयर्ति कर्माङ्गभावं प्रतिपद्यते “मत्सरं मादयितारमिन्द्रादिदेवानां तर्पयितारम् “इन्द्रपानं देवानां प्रमुखेनेन्द्रेण पानीयं “तं तादृशम् “ऊर्मिम् उदकसमूहं “प्र “हेत प्रगमयत अस्मद्यज्ञं प्रति प्रेरयत । कीदृशम् । “मदच्युतं मदस्य च्यावकम् “औशानं सोमेन सह मिश्रीभावं कामयमानं “नभोजां नभस्यन्तरिक्षे वृष्टिरूपेण जातं “परि सर्वतः “त्रितन्तुं त्रयाणां लोकानां तनितारं विस्तारयितारं “विचरन्तं यज्ञपात्रेषु गच्छन्तम् “उत्सम् उत्स्यन्दनम् । तर्पितारं देवान् प्रत्यूर्ध्वं गन्तारमित्यर्थः ॥


आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा॑ गोषु॒युधो॒ न नि॑य॒वं चरं॑तीः ।

ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी॑र॒पो वं॑दस्व स॒वृधः॒ सयो॑नीः ॥१०

आ॒ऽवर्वृ॑ततीः । अध॑ । नु । द्वि॒ऽधाराः॑ । गो॒षु॒ऽयुधः॑ । न । नि॒ऽय॒वम् । चर॑न्तीः ।

ऋषे॑ । जनि॑त्रीः । भुव॑नस्य । पत्नीः॑ । अ॒पः । व॒न्द॒स्व॒ । स॒ऽवृधः॑ । सऽयो॑नीः ॥

आऽवर्वृततीः । अध । नु । द्विऽधाराः । गोषुऽयुधः । न । निऽयवम् । चरन्तीः ।

ऋषे । जनित्रीः । भुवनस्य । पत्नीः । अपः । वन्दस्व । सऽवृधः । सऽयोनीः ॥

“अध अथानन्तरं गोषुयुधो “न । गोष्वप्सु निमित्तभूतासु मेघैः सह युध्यत इति गोषुयुदिन्द्रः। तस्य यथा वृष्टिलक्षणा अपः “द्विधाराः। द्विशब्दोऽत्रानेकत्ववाची । अनेकधाराः । अपर्यन्तधारा इत्यर्थः । अस्माकमप्येवंस्थिताः “आवर्वृततीः आवृत्ताः “नियवं सोमं प्रति निश्चयेन “मिश्रीभावं “चरन्तीः गच्छन्तीः “भुवनस्य लोकस्य “जनित्रीः जनयित्रीः “पत्नीः पालयित्रीश्च “सवृधः सह सोमस्य वर्धयित्रीः “सयोनीः सोमेन सह समानस्थानाः हे “ऋषे मदीयान्तरात्मन् अध्वर्यो वा त्वमेवंभूताः “अपः “नु क्षिप्रं “वन्दस्व स्तुहीत्यर्थः ॥ ॥ २५ ॥


हि॒नोता॑ नो अध्व॒रं दे॑वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना॑नां ।

ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूधः॑ श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥११

हि॒नोत॑ । नः॒ । अ॒ध्व॒रम् । दे॒व॒ऽय॒ज्या । हि॒नोत॑ । ब्रह्म॑ । स॒नये॑ । धना॑नाम् ।

ऋ॒तस्य॑ । योगे॑ । वि । स्य॒ध्व॒म् । ऊधः॑ । श्रु॒ष्टी॒ऽवरीः॑ । भू॒त॒न॒ । अ॒स्मभ्य॑म् । आ॒पः॒ ॥

हिनोत । नः । अध्वरम् । देवऽयज्या । हिनोत । ब्रह्म । सनये । धनानाम् ।

ऋतस्य । योगे । वि । स्यध्वम् । ऊधः । श्रुष्टीऽवरीः । भूतन । अस्मभ्यम् । आपः ॥

हे “ऋत्विजः “हिनोत प्रहिणुत प्रगमयत प्रोत्सर्पयतैतम् “अध्वरं यज्ञं “देवयज्या देखयज्यायै देवयजनार्थम् । किंच प्रहिणुत “ब्रह्म स्तुत्याख्यं यथाशास्त्रक्रमेण “सनये लब्धये “नः अस्माकं “धनानाम् । किच “ऋतस्य यज्ञस्य “योगे संयोगे यदेतदूधरिव सोमपूर्णमधिषवणचर्म वर्तते । अथवा योगसंबन्धाच्छकटं योगः । तद्धि तत्रैव युज्यते । तेनाधिषवणचर्मणा ऊधसोऽधस्तादवस्थितेनेति मन्यमानो निरुक्तकारो ब्रवीति...’याज्ञे शकट इति वा ' (निरु. ६. २२) इति । यदेतद्यज्ञशकटस्याधस्तादुपरि चाधिषवणचर्म एतत् “वि “ष्यध्वं विमुञ्चध्वम् । ग्रहचमसस्थाल्यादिषु यो निषेकः सोमस्यैतद्विमोचनमधिषवणचर्मोधसः । तद्धि सोम उत्सिच्यमाने श्लथीभवति यथेतरद्गोरूधो दुह्यमानायां गवि । एवमृत्विज उक्त्वाधुनैव सोमसंमिश्रा अपो ब्रवीति । यूयमपि हे "आपः एभिः ऋत्विग्भिरुत्सिच्यमानाः “श्रुष्टीवरीः सुखवत्यः “भूतन भवत “अस्मभ्यम् । एवमत्र प्रशब्देनार्थस्य सुतरां प्रकटता भवतीति भाष्यकारेण प्रशब्दोऽध्याहृतः । प्रहिणुतेति । अध्वरमित्यनेन संबन्धाद्धिनोतेः गत्यर्थत्वमुपपद्यते । एतस्या ऋचो व्याख्यानं निरुक्तटीकाया उद्धृतम् ॥४

प्रातरनुवाकस्य ‘आपो रेवतीः ' इत्येषा प्रतिपत् । सूत्रितं च--’आपो रेवतीः क्षयथा हि वस्व उप प्रयन्त इति सूक्ते ' ( आश्व. श्रौ. ४. १ ३ ) इति ॥

आपो॑ रेवतीः॒ क्षय॑था॒ हि वस्वः॒ क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च ।

रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः॒ सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥१२

आपः॑ । रे॒व॒तीः॒ । क्षय॑थ । हि । वस्वः॑ । क्रतु॑म् । च॒ । भ॒द्रम् । बि॒भृ॒थ । अ॒मृत॑म् । च॒ ।

रा॒यः । च॒ । स्थ । सु॒ऽअ॒प॒त्यस्य॑ । पत्नीः॑ । सर॑स्वती । तत् । गृ॒ण॒ते । वयः॑ । धा॒त् ॥

आपः । रेवतीः । क्षयथ । हि । वस्वः । क्रतुम् । च । भद्रम् । बिभृथ । अमृतम् । च ।

रायः । च । स्थ । सुऽअपत्यस्य । पत्नीः । सरस्वती । तत् । गृणते । वयः । धात् ॥

हे “आपो “रेवतीः रेवत्यो धनवत्यः यूयं “वस्वः वसुनः धनस्य “क्षयथ हि ईशिध्वे खलु। किंच “भद्रं भजनीयं “क्रतुं “च सोमयागादिलक्षणं कर्म च "अमृतं “च अमरणरूपं तज्जन्यफलं च “बिभृथ धारयथ । पुष्णीथ वा । तथा “रायश्च धनस्य च “स्वपत्यस्य शोभनपुत्रस्य च "पत्नीः पत्न्यः पालयित्र्यः "स्थ भवथ । तथा “सरस्वती तदभिमानिनी देवता “गृणते स्तुवते मह्यं “तत् इदं सर्वं “वयः अन्नलक्षणं धनं “धात् ददातु ॥


अपोनप्त्रीये ‘प्रति यदापः' इत्येषा । सूत्रितं च - ’प्रति यदापो अदृश्रमायतीरिति प्रतिदृश्यमानासु' (आश्व. श्रौ. ५. १ ) इति ॥

प्रति॒ यदापो॒ अदृ॑श्रमाय॒तीर्घृ॒तं पयां॑सि॒ बिभ्र॑ती॒र्मधू॑नि ।

अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना इंद्रा॑य॒ सोमं॒ सुषु॑तं॒ भरं॑तीः ॥१३

प्रति॑ । यत् । आपः॑ । अदृ॑श्रम् । आ॒ऽय॒तीः । घृ॒तम् । पयां॑सि । बिभ्र॑तीः । मधू॑नि ।

अ॒ध्व॒र्युऽभिः॑ । मन॑सा । स॒म्ऽवि॒दा॒नाः । इन्द्रा॑य । सोम॑म् । सुऽसु॑तम् । भर॑न्तीः ॥

प्रति । यत् । आपः । अदृश्रम् । आऽयतीः । घृतम् । पयांसि । बिभ्रतीः । मधूनि ।

अध्वर्युऽभिः । मनसा । सम्ऽविदानाः । इन्द्राय । सोमम् । सुऽसुतम् । भरन्तीः ॥

हे “आपः “आयतीः अस्मद्यज्ञं प्रत्यागच्छन्तीः “यत् । ‘सुपां सुलुक्” इति विभक्तेरर्लुक् । याः युष्मान् “प्रति “अदृश्रं प्रतिपश्यामि “घृतं सोमसंसृष्टमाज्यं “मधूनि मधुसदृशानि मृष्टरसानि “पयांसि उदकानि च संभूय “बिभ्रतीः यागकाले धारयन्तीः तथा “अध्वर्युभिः "मनसा अन्तःकरणेन “संविदानाः संभाषमाणाः किंच “इन्द्राय इन्द्रार्थं "सुषुतं सुष्ठु सुतं “सोमं “भरन्तीः धारयन्तीः एवंभूतास्ता युष्मान्स्तौमीति शेषः ।।


अपोनप्त्रीये ‘एमा अग्मन् ' इति द्वे। सूत्रितं च---' एमा अग्मन्रेवतीर्जीवधन्या इति द्वे। सन्नासूत्तरया परिधाय' (आश्व. श्रौ. ५ : १) इति ॥

एमा अ॑ग्मन्रे॒वती॑र्जी॒वध॑न्या॒ अध्व॑र्यवः सा॒दय॑ता सखायः ।

नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा॑ संविदा॒नास॑ एनाः ॥१४

आ । इ॒माः । अ॒ग्म॒न् । रे॒वतीः॑ । जी॒वऽध॑न्याः । अध्व॑र्यवः । सा॒दय॑त । स॒खा॒यः॒ ।

नि । ब॒र्हिषि॑ । ध॒त्त॒न॒ । सो॒म्या॒सः॒ । अ॒पाम् । नप्त्रा॑ । स॒म्ऽवि॒दा॒नासः॑ । ए॒नाः॒ ॥

आ । इमाः । अग्मन् । रेवतीः । जीवऽधन्याः । अध्वर्यवः । सादयत । सखायः ।

नि । बर्हिषि । धत्तन । सोम्यासः । अपाम् । नप्त्रा । सम्ऽविदानासः । एनाः ॥

“रेवतीः रेवत्यः धनवत्यः “जीवधन्याः जीवानां पालयित्र्यः प्रीणयित्र्यो वा “इमाः ईदृग्भूता आपः “आ “अग्मन् अस्मद्यज्ञं प्रत्यागच्छन् । एतज्ज्ञात्वा हे "सखायः सखिभूता हे “अध्वर्यवः यूयम् “अपां “नप्त्रा वृष्टिकर्मस्वधिकृतेन देवेन सह “संविदानाः संमन्त्रयमाणाः “एनाः एता अपः। “सादयत स्थापयत । कुत्र सादयाम इति उच्यते । “सोम्यासः सोमसंपादिनोऽध्वर्यवः यूयं “बर्हिषि वेद्यामास्तीर्णे कुशमये “नि “धत्तन नियमेन स्थापयत ।


आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदंदेव॒यंतीः॑ ।

अध्व॑र्यवः सुनु॒तेंद्रा॑य॒ सोम॒मभू॑दु वः सु॒शका॑ देवय॒ज्या ॥१५

आ । अ॒ग्म॒न् । आपः॑ । उ॒श॒तीः । ब॒र्हिः । आ । इ॒दम् । नि । अ॒ध्व॒रे । अ॒स॒द॒न् । दे॒व॒ऽयन्तीः॑ ।

अध्व॑र्यवः । सु॒नु॒त । इन्द्रा॑य । सोम॑म् । अभू॑त् । ऊं॒ इति॑ । वः॒ । सु॒ऽशका॑ । दे॒व॒ऽय॒ज्या ॥

आ । अग्मन् । आपः । उशतीः । बर्हिः । आ । इदम् । नि । अध्वरे । असदन् । देवऽयन्तीः ।

अध्वर्यवः । सुनुत । इन्द्राय । सोमम् । अभूत् । ऊं इति । वः । सुऽशका । देवऽयज्या ॥

“आपः वसतीवर्येकधनाख्याः “इदम् ईदृशं “बर्हिः वेदिस्तरणम् “उशतीः उशत्यः कामयमानाः “आग्मन् आगच्छन् । अस्मद्यज्ञं प्रति “आ आगत्य च “अध्वरे अस्मदीये यज्ञे “देवयन्तीः देवान् कामयमानाः। तर्पयितुमिच्छन्त्य इत्यर्थः । “नि “असदन् न्यसीदन्। एतज्ज्ञात्वा हे अध्वर्यवः यूयम् “इन्द्राय इन्द्रार्थं “सोमं “सुनुत अभिषुणुत । इदानीमपां प्रसादात् “वः युष्माकं “देवयज्या देवानिन्द्रादीनुद्दिश्य क्रियमाणा यागक्रिया “सुशका सुष्ठु कर्तुं शक्या “अभूदु आसीदेव ॥ ॥ २६ ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.३०&oldid=164982" इत्यस्माद् पुनः प्राप्तिः