ऋग्वेदः सूक्तं १०.१२७
← सूक्तं १०.१२६ | ऋग्वेदः - मण्डल १० सूक्तं १०.१२७ कुशिकः सौभरः, रात्रिर्वा भारद्वाजी। |
सूक्तं १०.१२८ → |
दे. रात्रिः। गायत्री। |
रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः ।
विश्वा अधि श्रियोऽधित ॥१॥
ओर्वप्रा अमर्त्या निवतो देव्युद्वतः ।
ज्योतिषा बाधते तमः ॥२॥
निरु स्वसारमस्कृतोषसं देव्यायती ।
अपेदु हासते तमः ॥३॥
सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि ।
वृक्षे न वसतिं वयः ॥४॥
नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः ।
नि श्येनासश्चिदर्थिनः ॥५॥
यावया वृक्यं वृकं यवय स्तेनमूर्म्ये ।
अथा नः सुतरा भव ॥६॥
उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित ।
उष ऋणेव यातय ॥७॥
उप ते गा इवाकरं वृणीष्व दुहितर्दिवः ।
रात्रि स्तोमं न जिग्युषे ॥८॥
सायणभाष्यम्
‘ रात्री ' इत्यष्टर्चं पञ्चदशं सूक्तं सोभरिपुत्रस्य कुशिकस्यार्षम् । यद्वा । भारद्वाजस्य सुता रात्र्याख्या अस्य सूक्तस्यर्षिका । गायत्रं रात्रिदेवताकम् । तथा चानुक्रान्तं - रात्री कुशिकः सौभरो रात्रिर्वा भारद्वाजी रात्रिस्तवं गायत्रम् इति । दुःस्वप्नदर्शन उपोषितेन कर्त्रा पायसेन होतव्यम् । तत्रैत्सूक्तं करणत्वेन विनि युक्तम् । तथा चारण्यके श्रूयते -- स यद्येतेषां किंचित्पश्येदुपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्यृचं हुत्वा ' ( ऐ. आ. ३. २. ४ ) इति ।।
रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभिः॑ ।
विश्वा॒ अधि॒ श्रियो॑ऽधित ॥ १
रात्री॑ । वि । अ॒ख्य॒त् । आ॒ऽय॒ती । पु॒रु॒ऽत्रा । दे॒वी । अ॒क्षऽभिः॑ ।
विश्वाः॑ । अधि॑ । श्रियः॑ । अ॒धि॒त॒ ॥१
रात्री । वि । अख्यत् । आऽयती । पुरुऽत्रा । देवी । अक्षऽभिः ।
विश्वाः । अधि । श्रियः । अधित ॥१
“आयती आगच्छन्ती । आङ्पूर्वादेतैः शतर्यदादित्वाच्छपी लुक् । ‘इणो यण् ' ( पा. सू. ६. ४.८१ ) इति यणादेशः । ‘ उगितश्च ' (पा. सू. ४. १. ६ ) इति ङीप् । ‘ शतुरनुमः ' इति नद्या उदात्तत्वम् ॥ “अक्षभिः अक्षिस्थानीयैः प्रकाशमानैर्नक्षत्रैः ।। 'छन्दस्यपि दृश्यते ' इत्यक्षिशब्दस्थानङादेशः ।। यद्वा । अक्षभिरञ्जकैः तेजोभिः । “पुरुत्रा बहुषु देशेषु “देवी देवनशीला । ‘ देवमनुष्यपुरुषपुरुमर्त्येभ्यः' इत्यादिना पुरुशब्दात्सप्तम्यर्थे त्राप्रत्ययः ॥ “रात्री इयं रात्रिदेवता “व्यख्यत् विचष्टे विशेषेण पश्यति ।। ' रात्रेश्चाजसौ ' ( पा. सू. ४. १. ३१) इति । ङीप् । ख्यातेश्छान्दसे लुङि • अस्यतिवक्ति । इत्यादिना च्लेरङादेशः । अपि चैषा “विश्वाः सर्वाः “श्रियः शोभाः “अधि “अधित अधिधारयति ।। दधातैर्लुङि ' स्थाध्वोरिच्च ' इतीत्वम् । सिचः 'कित्त्वम् । ' ह्रस्वादङ्गात् ' इति सिचो लोपः ।।
ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१॒॑द्वतः॑ ।
ज्योति॑षा बाधते॒ तमः॑ ॥ २
आ । उ॒रु । अ॒प्राः॒ । अम॑र्त्या । नि॒ऽवतः॑ । दे॒वी । उ॒त्ऽवतः॑ ।
ज्योति॑षा । बा॒ध॒ते॒ । तमः॑ ॥२
आ । उरु । अप्राः । अमर्त्या । निऽवतः । देवी । उत्ऽवतः ।
ज्योतिषा । बाधते । तमः ॥२
“अमर्त्या मरणरहिता “देवी देवनशीला रात्रिः “उरु विस्तीर्णमन्तरिक्षम् “आ “अप्राः । प्रथमतस्तमसापूरयति ॥ ‘ प्रा पूरणे '। आदादिकः । लङि व्यत्ययेन मध्यमः ॥ तथा “निवतः नीचीनाँल्लतागुल्मादीन “उद्वतः उत्थितान् वृक्षादींश्च स्वकीयेन तेजसावृणोति । तदनन्तरं तत् “तमः अन्धकारं “ज्योतिषा ग्रहनक्षत्रादिरूपेण तेजसा “बाधते पीडयति ॥
निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती ।
अपेदु॑ हासते॒ तमः॑ ॥ ३
निः । ऊं॒ इति॑ । स्वसा॑रम् । अ॒कृ॒त॒ । उ॒षस॑म् । दे॒वी । आ॒ऽय॒ती ।
अप॑ । इत् । ऊं॒ इति॑ । हा॒स॒ते॒ । तमः॑ ॥३
निः । ऊं इति । स्वसारम् । अकृत । उषसम् । देवी । आऽयती ।
अप । इत् । ऊं इति । हासते । तमः ॥३
“आयती आगच्छन्ती “देवी देवनशीला रात्रिः “स्वसारं भगिनीम् “उषसं “निः “अकृत निष्करोति । प्रकाशेन संस्करोति । निवर्तयतीत्यर्थः । तस्यामुषसि जातायां नैशं “तमः “अपेत् “हासते अपैव गच्छति ॥ ' ओहाङ् गतौ ' । लेट्यडागमः । ‘ सिब्बहुलम् ' इति सिप् ॥
सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि ।
वृ॒क्षे न व॑स॒तिं वयः॑ ॥ ४
सा । नः॒ । अ॒द्य । यस्याः॑ । व॒यम् । नि । ते॒ । याम॑न् । अवि॑क्ष्महि ।
वृ॒क्षे । न । व॒स॒तिम् । वयः॑ ॥४
सा । नः । अद्य । यस्याः । वयम् । नि । ते । यामन् । अविक्ष्महि ।
वृक्षे । न । वसतिम् । वयः ॥४
“अद्य अस्मिन् काले “नः अस्माकं “सा रात्रिदेवता प्रसीदतु “यस्याः रात्रेः “यामन् यामनि प्राप्तौ सत्यां “वयं “नि “अविक्ष्महि निविशामहे सुखेन गृह आस्महे ॥ विशेर्लङि ‘ नेर्विशः ' ( पा. सू. १. ३. १७) इत्यात्मनेपदम् । छान्दसः शपो लुक् ।। तत्र दृष्टान्तः । “वयः पक्षिणः “वृक्षे “न यथा वृक्षे नीडाश्रये “वसतिं रात्रौ निवासं कुर्वन्ति तथा निवसाम इत्यर्थः ॥
नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ ।
नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥ ५
नि । ग्रामा॑सः । अ॒वि॒क्ष॒त॒ । नि । प॒त्ऽवन्तः॑ । नि । प॒क्षिणः॑ ।
नि । श्ये॒नासः॑ । चि॒त् । अ॒र्थिनः॑ ॥५
नि । ग्रामासः । अविक्षत । नि । पत्ऽवन्तः । नि । पक्षिणः ।
नि । श्येनासः । चित् । अर्थिनः ॥५
“ग्रामासः ग्रामाः । अन्न ग्रामशब्दो जनसमूहे वर्तते यथा ग्राम आगत इति । सर्वे जनाः “नि “अविक्षत । तस्यां रात्रावागतायां निविशन्ते । शेरते ॥ निपूर्वाद्विशतेश्छान्दसे लुङि पूर्ववदात्मनेपदम् । ‘शल इगुपधादनिटः क्सः ' (पा. सू. ३. १. ४५), ‘ क्सस्याचि ' (पा. सू. ७. ३.७३ ) इत्यकारलोपः ॥ तथा “पद्वन्तः पादयुक्ता गवाश्वादयश्च निविशन्ते । तथा “पक्षिणः पक्षोपेताश्च निविशन्ते । “अर्थिनः । अर्तेरर्थो गमनम् । शीघ्रगमनयुक्ताः । “श्येनासश्चित् श्येना अपि तस्यां रात्र्यां निविशन्ते एषा रात्रिः सर्वाणि भूतजातान्यहनि संचारेण श्रान्तानि स्वयमागत्य सुखयतीत्यर्थः ॥
या॒वया॑ वृ॒क्यं१॒॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये ।
अथा॑ नः सु॒तरा॑ भव ॥ ६
य॒वय॑ । वृ॒क्य॑म् । वृक॑म् । य॒वय॑ । स्ते॒नम् । ऊ॒र्म्ये॒ ।
अथ॑ । नः॒ । सु॒ऽतरा॑ । भ॒व॒ ॥६
यवय । वृक्यम् । वृकम् । यवय । स्तेनम् । ऊर्म्ये ।
अथ । नः । सुऽतरा । भव ॥६
हे “ऊर्म्ये । रात्रिनामैतत् । रात्रे “वृक्यं वृकस्य स्त्रियं “वृकं चास्मान् हिंसन्तं “यवय अस्मत्तः पृथक्कुरु । अस्मान् बाधितुं यथा न प्राप्नोति तथा । “स्तेनं तस्करं च “यवय । अस्मत्तो वियोजय । “अथ अनन्तरं “नः अस्माकं “सुतरा सुखेन तरणीया क्षेमकरी “भव ॥
उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित ।
उष॑ ऋ॒णेव॑ यातय ॥ ७
उप॑ । मा॒ । पेपि॑शत् । तमः॑ । कृ॒ष्णम् । विऽअ॑क्तम् । अ॒स्थि॒त॒ ।
उषः॑ । ऋ॒णाऽइ॑व । या॒त॒य॒ ॥७
उप । मा । पेपिशत् । तमः । कृष्णम् । विऽअक्तम् । अस्थित ।
उषः । ऋणाऽइव । यातय ॥७
“पेपिशत् भृशं पिंशत् सर्ववस्तुष्वाश्लिष्टं “तमः अन्धकारं “कृष्णं कृष्णवर्णं “व्यक्तं विशेषेण स्वभासा सर्वस्याञ्जकं स्पष्टरूपं वा ईदृशं नैशं तमो माम् “उप “अस्थित उपागच्छत् ॥ संगतकरण आत्मनेपदम् ॥ हे “उषः उषोदेवते त्वम् “ऋणेव ऋणानीव तत्तमो “यातय अपगमय । स्तोतॄणामृणानि यथा धनप्रदानेनापाकरोषि तथा तमोऽप्यपसारयेत्यर्थः ॥
उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः ।
रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥ ८
उप॑ । ते॒ । गाःऽइ॑व । आ । अ॒क॒र॒म् । वृ॒णी॒ष्व । दु॒हि॒तः॒ । दि॒वः॒ ।
रात्रि॑ । स्तोम॑म् । न । जि॒ग्युषे॑ ॥८
उप । ते । गाःऽइव । आ । अकरम् । वृणीष्व । दुहितः । दिवः ।
रात्रि । स्तोमम् । न । जिग्युषे ॥८
हे “रात्रि रात्रिदेवते “ते त्वां “गाइव पयसो दोग्ध्रीर्धेनूरिव उपेत्य “आकरं स्तुतिभिरभिमुखीकरोमि ॥ करोतेश्छान्दसे लुङि ‘कृमृदृरुहिभ्यः' इति च्लेरङादेशः ॥ “दिवः “दुहितः द्योतमानस्य सूर्यस्य पुत्रि यद्वा दिवसस्य तनये ।। ‘ परमपि च्छन्दसि ' (पा. सू. २. १, २. ६) इति परस्य षष्ठ्यन्तस्य पूर्वामन्त्रिताङ्गवद्भावात् पदद्वयसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् ॥ त्वत्प्रसादात् “जिग्युषे शत्रून् जिग्युषो मम “स्तोमं “न स्तोत्रमिव हविरपि “वृणीष्व त्वं भजस्व ॥ जयतेर्लिटः क्वसुः । ‘ सन्लिटोर्जेः ' इत्यभ्यासादुत्तरस्य जकारस्य कुत्वम् । षष्ठ्यर्थे चतुर्थी वक्तव्या ' इति चतुर्थी । ‘ वसोः संप्रसारणम् ' इति संप्रसारणम् ॥ ॥ १४ ।।
मण्डल १० | ||||
---|---|---|---|---|