ऋग्वेदः सूक्तं १०.११

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.११ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१० ऋग्वेदः - मण्डल १०
सूक्तं १०.११
आङ्गिर्हविर्धानः
सूक्तं १०.१२ →
दे. अग्निः। जगती, ७-९ त्रिष्टुप्
उत्तरवेदी


वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः ।
विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाँ ऋतून् ॥१॥
रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु मे मनः ।
इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥२॥
सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।
यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥३॥
अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे ।
यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥४॥
सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः ।
विप्रस्य वा यच्छशमान उक्थ्यं वाजं ससवाँ उपयासि भूरिभिः ॥५॥
उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।
विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥६॥
यस्ते अग्ने सुमतिं मर्तो अक्षत्सहसः सूनो अति स प्र शृण्वे ।
इषं दधानो वहमानो अश्वैरा स द्युमाँ अमवान्भूषति द्यून् ॥७॥
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।
रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥८॥
श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।
आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥९॥

सायणभाष्यम्

‘वृषा' इति नवर्चमेकादशं सूक्तमाङ्गेर्हविर्धानस्यार्षमाग्नेयम् । सप्तम्याद्यास्तिस्रस्त्रिष्टुभः शिष्टा जगत्यः । तथा चानुक्रान्तं- वृषा नवाङ्गिर्हविर्धान आग्नेयं तु त्रित्रिष्टुबन्तम्' इति । गतः सूक्तविनियोगः ।।


वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः ।

विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञियाँ॑ ऋ॒तून् ॥१

वृषा॑ । वृष्णे॑ । दु॒दु॒हे॒ । दोह॑सा । दि॒वः । पयां॑सि । य॒ह्वः । अदि॑तेः । अदा॑भ्यः ।

विश्व॑म् । सः । वे॒द॒ । वरु॑णः । यथा॑ । धि॒या । सः । य॒ज्ञियः॑ । य॒ज॒तु॒ । य॒ज्ञिया॑न् । ऋ॒तून् ॥

वृषा । वृष्णे । दुदुहे । दोहसा । दिवः । पयांसि । यह्वः । अदितेः । अदाभ्यः ।

विश्वम् । सः । वेद । वरुणः । यथा । धिया । सः । यज्ञियः । यजतु । यज्ञियान् । ऋतून् ॥

“वृषा आहुतिद्वारेण वृष्टेर्वर्षिता “यह्वः महान् “अदाभ्यः केनाप्यहिंस्योऽग्निः “अदितेः अक्षीणयागक्रियस्य “वृष्णः यज्ञद्वारेण स्तुतीनां हविषां वा वर्षितुर्यजमानस्यार्थाय "दोहसा दोहनेन महता प्रक्षारणेन दिवः सकाशात् “पयांसि वृष्टिलक्षणान्युदकानि “दुदुहे दोग्धि प्रक्षारयति । किंच “यथा “वरुणः आदित्यः “धिया आत्मानुरूपया प्रज्ञया “विश्वं सर्वं “वेद जानाति तथा “सः अयमग्निः जानातीत्यर्थः । “यज्ञियः यज्ञार्हः “सः अग्निः “यज्ञियान् यज्ञार्हान् “ऋतून् “यजतु पूजयतु ॥


रप॑द्गंध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मनः॑ ।

इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ॥२

रप॑त् । ग॒न्ध॒र्वीः । अप्या॑ । च॒ । योष॑णा । न॒दस्य॑ । ना॒दे । परि॑ । पा॒तु॒ । मे॒ । मनः॑ ।

इ॒ष्टस्य॑ । मध्ये॑ । अदि॑तिः । नि । धा॒तु॒ । नः॒ । भ्राता॑ । नः॒ । ज्ये॒ष्ठः । प्र॒थ॒मः । वि । वो॒च॒ति॒ ॥

रपत् । गन्धर्वीः । अप्या । च । योषणा । नदस्य । नादे । परि । पातु । मे । मनः ।

इष्टस्य । मध्ये । अदितिः । नि । धातु । नः । भ्राता । नः । ज्येष्ठः । प्रथमः । वि । वोचति ॥

“रपत् रपितवत्यग्निगुणानुक्तवती “गन्धर्वीः गन्धर्वस्य स्त्री “अप्या अद्भिः संस्कृता “योषणा आहुतिलक्षणा स्त्री “च । अग्निं तर्पितवतीति शेषः । “नदस्य । स्तोतृनामैतत् । स्तोतुः "मे मम स्वभूतं “मनः “नादे स्तुतिलक्षणे शब्दे “परि “पातु अग्निः सम्यग्रक्षतु । अहं समाहितमना भूत्वा सम्यक् स्तुतिं करोमीत्यर्थः । किंच “अदितिः अखण्डनीयोऽग्निः “नः अस्मान् “इष्टस्य यागस्य “मध्ये “नि “धातु निदधातु नितरां स्थापयतु । “प्रथमः सर्वेषां यजमानानां मुख्यः “नः अस्माकं “ज्येष्ठः भ्राता “वि “वोचति विशेषेण ब्रवीति । स्तौतीत्यर्थः । नाहमेव केवलो यजनशीलः किंतु सर्वं एवास्मत्कुलीनो देवयागप्रिय इत्यर्थः ॥


सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती ।

यदी॑मु॒शंत॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥३

सो इति॑ । चि॒त् । नु । भ॒द्रा । क्षु॒ऽमती॑ । यश॑स्वती । उ॒षाः । उ॒वा॒स॒ । मन॑वे । स्वः॑ऽवती ।

यत् । ई॒म् । उ॒शन्त॑म् । उ॒श॒ताम् । अनु॑ । क्रतु॑म् । अ॒ग्निम् । होता॑रम् । वि॒दथा॑य । जीज॑नन् ॥

सो इति । चित् । नु । भद्रा । क्षुऽमती । यशस्वती । उषाः । उवास । मनवे । स्वःऽवती ।

यत् । ईम् । उशन्तम् । उशताम् । अनु । क्रतुम् । अग्निम् । होतारम् । विदथाय । जीजनन् ॥

“भद्रा भजनीया “क्षुमती शब्दवती “यशस्वती अन्नवती कीर्तिमती वा “सो चित् सैव प्रसिद्धा "उषाः “मनवे मनुष्याय यजमानाय “स्वर्वती आदित्यवती सती “नु क्षिप्रम् “उवास उषितवती । उदितवतीत्यर्थः। कदोदितवती इत्युच्यते । “यत् यदा “उशन्तं स्तुतिं हविश्च कामयमानम् "उशतां यष्टुं कामयमानानां संबन्धिनं “होतारं देवानामाह्वातारं होमनिष्पादकं वा “ईम् एनम् “अग्निम् “अनु “क्रतुं स्तुतिकर्मणः पश्चात् विदथाय यजनीयाय यज्ञार्थं "जीजनन् । ऋविग्यजमाना जनयन्तीत्यर्थः । तदोदितवतीति संबन्धः ॥


अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो अ॑ध्व॒रे ।

यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥४

अध॑ । त्यम् । द्र॒प्सम् । वि॒ऽभ्व॑म् । वि॒ऽच॒क्ष॒णम् । विः । आ । अ॒भ॒र॒त् । इ॒षि॒तः । श्ये॒नः । अ॒ध्व॒रे ।

यदि॑ । विशः॑ । वृ॒णते॑ । द॒स्मम् । आर्याः॑ । अ॒ग्निम् । होता॑रम् । अध॑ । धीः । अ॒जा॒य॒त॒ ॥

अध । त्यम् । द्रप्सम् । विऽभ्वम् । विऽचक्षणम् । विः । आ । अभरत् । इषितः । श्येनः । अध्वरे ।

यदि । विशः । वृणते । दस्मम् । आर्याः । अग्निम् । होतारम् । अध । धीः । अजायत ॥

“अध अथ अनन्तरं “श्येनः श्येनाख्यः “विः पक्षी “अध्वरे यागे “इषितः अभिप्रेषितः “विभ्वं महान्तं “विचक्षणं सर्वस्य विशेषेण द्रष्टारं “त्यं तं प्रसिद्ध “द्रप्सं नात्यल्पं नातिबहुलं सोमम् “आभरत् आहृतवान् । अपि च “यदि यदा "आर्याः अभिगमनीयं तं व्रजन्तः “विशः यजमाना मनुष्याः “दस्मं दर्शनीयं शत्रूणामुपक्षपयितारं वा “होतारम् “अग्निं “वृणते प्रार्थंयन्ते “अध तदा “धीः यागादिक्रिया “अजायत । यज्वभिः प्रतायत इत्यर्थः ॥


सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः ।

विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥५

सदा॑ । अ॒सि॒ । र॒ण्वः । यव॑साऽइव । पुष्य॑ते । होत्रा॑भिः । अ॒ग्ने॒ । मनु॑षः । सु॒ऽअ॒ध्व॒रः ।

विप्र॑स्य । वा॒ । यत् । श॒श॒मा॒नः । उ॒क्थ्य॑म् । वाज॑म् । स॒स॒ऽवान् । उ॒प॒ऽयासि॑ । भूरि॑ऽभिः ॥

सदा । असि । रण्वः । यवसाऽइव । पुष्यते । होत्राभिः । अग्ने । मनुषः । सुऽअध्वरः ।

विप्रस्य । वा । यत् । शशमानः । उक्थ्यम् । वाजम् । ससऽवान् । उपऽयासि । भूरिऽभिः ॥

हे “अग्ने त्वं “सदा सततं “रण्वः “असि रमणीयो भवसि। तत्र दृष्टान्तः । “यवसेव “पुष्यते । यथा यवसानि तृणानि स्वपुष्टिं कुर्वते हस्त्यश्वगौमहिषादिचतुष्पदाय सर्वदा रमणीयानि भवन्ति तद्वत् । अपि च हे अग्ने “मनुषः मनुष्यस्य स्वभूतैः “होत्राभिः । होत्रेति यज्ञनामैतत् । यज्ञैः “स्वध्वरः शोभनयज्ञो भवेति शेषः । “विप्रस्य “वा स्तोतुर्वा “यत् यस्य यजमानस्य वा स्वभूतम् “उक्थ्यं स्तोत्रं “शशमानः प्रशंसन् “वाजं हविर्लक्षणमन्नं “ससवान् संभजमानश्च “भूरिभिः बहुभिर्देवैः सह “उपयासि उपगच्छसि ॥ ॥ ९ ॥


उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति ।

विव॑क्ति॒ वह्निः॑ स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ॥६

उत् । ई॒र॒य॒ । पि॒तरा॑ । जा॒रः । आ । भग॑म् । इय॑क्षति । ह॒र्य॒तः । हृ॒त्तः । इ॒ष्य॒ति॒ ।

विव॑क्ति । वह्निः॑ । सु॒ऽअ॒प॒स्यते॑ । म॒खः । त॒वि॒ष्यते॑ । असु॑रः । वेप॑ते । म॒ती ॥

उत् । ईरय । पितरा । जारः । आ । भगम् । इयक्षति । हर्यतः । हृत्तः । इष्यति ।

विवक्ति । वह्निः । सुऽअपस्यते । मखः । तविष्यते । असुरः । वेपते । मती ॥

हे अग्ने त्वदीयं ज्योतिः “पितरा पितरौ सर्वप्राणिनां मातापितृभूते द्यावापृथिव्यौ प्रति “उदीरथ उद्गमय । तत्र दृष्टान्तः । आकार उपमार्थे । रात्रेर्नक्षत्रादिदीप्तीनां च जरयितृत्वात् “जारः आदित्यः । स यथा द्यावापृथिव्यौ प्रति “भगं भजनीयं स्वीयं ज्योतिरुद्गमयति तद्वत् । “हर्यतः यागं कामथमानान् प्रति “इयक्षति यजमानो यष्टुमिच्छति । “हृत्तः हृदयेन च इष्यति । इषिरयं गत्यर्थः शुद्धोऽप्युपसर्गपूर्वो द्रष्टव्यः । अधीष्यति देवान् यष्टुमधिगच्छति । “विवक्ति विवक्षति । शस्त्रलक्षणाः स्तुतीर्वक्तुमिच्छति च । “वह्निः वोढा स्तुतीनां देवान् प्रति प्रापयिता होता च स्वपस्यते शोभनमात्मीयं कर्म कर्तुमिच्छति । “मखः । यज्ञनामैतत् । अत्र तत्प्रयोक्ताध्वर्युरुच्यते । स च “तविष्यते । तविषिर्वृद्धयर्थः। स चात्रान्तर्णीतसनर्थश्च द्रष्टव्यः। तुतुविषति स्तोत्रलक्षणाः स्तुतीवर्धयितुमिच्छतीत्यर्थः । “असुरः प्राणवान् प्रज्ञावान् वा । ब्रह्मेति शेषः। “मती मत्या बुद्ध्या “वेपते । कर्मवैगुण्यात् बिभ्यत् कम्पते। हे अग्ने यतो यजमानः सर्वर्त्विजश्च स्वस्वकर्म कर्तुं त्वामागच्छन्ति अतस्त्वं शीघ्रमुद्गमयेत्यर्थः॥


यस्ते॑ अग्ने सुम॒तिं मर्तो॒ अक्ष॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे ।

इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥७

यः । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । मर्तः॑ । अक्ष॑त् । सह॑सः । सू॒नो॒ इति॑ । अति॑ । सः । प्र । शृ॒ण्वे॒ ।

इष॑म् । दधा॑नः । वह॑मानः । अश्वैः॑ । आ । सः । द्यु॒ऽमान् । अम॑ऽवान् । भू॒ष॒ति॒ । द्यून् ॥

यः । ते । अग्ने । सुऽमतिम् । मर्तः । अक्षत् । सहसः । सूनो इति । अति । सः । प्र । शृण्वे ।

इषम् । दधानः । वहमानः । अश्वैः । आ । सः । द्युऽमान् । अमऽवान् । भूषति । द्यून् ॥

हे सहसः सूनो बलस्य पुत्र “अग्ने ते त्वदीयां “सुमतिं शोभनामनुग्रहिकां बुद्धिं “यः “मर्तः मनुष्यो यजमानः “अक्षत् अश्नुते । अनुग्रहशीलं त्वां स्तुतिभिर्हविर्भिश्च परिचरतीत्यर्थः । “सः यजमानः “अति “प्र “शृण्वे सर्वाँल्लोकानतीत्य प्रकर्षेण श्रूयते । प्रख्यातो भवतीत्यर्थः । कीदृशः । “इषम् अन्नं “दधानः अर्थिभ्यः प्रयच्छन् “अश्वैः “वहमानः । किंच “सः एव “द्युमान् दीप्तिमान् शरीरपतनानन्तरं द्युस्थानवान् वा “अमवान् बलवान् “आ “द्यून् । द्युरित्यहर्नाम। ‘कालाध्वनोरत्यन्तसंयोगे' इत्येषा द्वितीया । आदित्यकर्तृकाण्यहानि । आचन्द्रार्कमित्यर्थः। “भूषति भवति ॥


महाव्रते संस्थिते मरुत्वतीये ‘यदग्न एषा' इत्यनया चतुर्ग्रहीतमाज्यं जुहुयात् । तथैव पञ्चमारण्यके सूत्रितं -- यदग्न एषा समितिर्भवाति' (ऐ. आ. ५. १. १) इति ।

यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र ।

रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मंतं वीतात् ॥८

यत् । अ॒ग्ने॒ । ए॒षा । सम्ऽइ॑तिः । भवा॑ति । दे॒वी । दे॒वेषु॑ । य॒ज॒ता । य॒ज॒त्र॒ ।

रत्ना॑ । च॒ । यत् । वि॒ऽभजा॑सि । स्व॒धा॒ऽवः॒ । भा॒गम् । नः॒ । अत्र॑ । वसु॑ऽमन्तम् । वी॒ता॒त् ॥

यत् । अग्ने । एषा । सम्ऽइतिः । भवाति । देवी । देवेषु । यजता । यजत्र ।

रत्ना । च । यत् । विऽभजासि । स्वधाऽवः । भागम् । नः । अत्र । वसुऽमन्तम् । वीतात् ॥

हे “यजत्र यष्टव्य “अग्ने “यत् यदा “एषा समितिः अस्मत्कर्तृका स्तुतिसंहतिः “यजता यजतेषु यष्टव्येषु “देवेषु मध्ये “देवी द्योतमाना “भवाति । यष्टव्या देवा अस्माभिः स्तूयन्त इज्यन्ते चेत्यर्थः। हे “स्वधावः हविर्लक्षणान्नवन्नग्ने त्वं “यत् यदा “रत्ना “च रत्नानि रमणीयानि धनानि स्तोतृभ्यो यष्टृभ्यश्च “विभजासि विभजसि “अत्र तदानीं तथा “नः अस्मान् प्रति “वसुमन्तं धनवन्तं नानाधनावयवभूतं “भागम् अंशं “वीतात् । वी गत्यादिषु। ‘तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् (पा. सू. ७. १. ३५) इति हेः स्थाने तातङ् । अन्तर्णीतण्यर्थश्चात्र द्रष्टव्यः । वयय आगमय । अस्मभ्यं प्रयच्छेत्यर्थः ॥


श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुं ।

आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥९

श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् ।

आ । नः॒ । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । माकिः॑ । दे॒वाना॑म् । अप॑ । भूः॒ । इ॒ह । स्याः॒ ॥

श्रुधि । नः । अग्ने । सदने । सधऽस्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् ।

आ । नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवानाम् । अप । भूः । इह । स्याः ॥

हे "अग्ने “सधस्थे सहस्थाने सर्वदेवतासाधारणे “सदने यज्ञगृहे स्थितः सन् “नः अस्मदीयं वचनं “श्रुधि शृणु । किं तद्वचनम् उच्यते । “अमृतस्य देवपानस्य मधुनः “द्रवित्नुं द्रावकं “रथम् आत्मीयं “युक्ष्व । आह्वानार्थं देवान् प्रति गमनाय अश्वैः संयुक्ष्व । संयुक्तेन रथेन गत्वा “नः अस्माकं यज्ञं प्रति "देवपुत्रे देवस्य प्रजापतेर्दुहितरौ ! यद्वा देवाः पुत्रा ययोस्ते । “रोदसी द्यावापृथिव्यौ “आ “वह प्रापय । “देवानां मध्ये कश्चिद्देवः “अप “भूः अपभविता अस्मद्यज्ञादपगन्ता “माकिः स्यात् । त्वं च “इह अस्मिन् यज्ञे “स्याः संनिहितो भव ॥ ॥ १० ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१


[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.११&oldid=165419" इत्यस्माद् पुनः प्राप्तिः