ऋग्वेदः सूक्तं १०.१३९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१३९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१३८ ऋग्वेदः - मण्डल १०
सूक्तं १०.१३९
देवगन्धर्वो विश्वावसुः
सूक्तं १०.१४० →
दे. सविता, ४-६ आत्मा। त्रिष्टुप्


सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँ अजस्रम् ।
तस्य पूषा प्रसवे याति विद्वान्सम्पश्यन्विश्वा भुवनानि गोपाः ॥१॥
नृचक्षा एष दिवो मध्य आस्त आपप्रिवान्रोदसी अन्तरिक्षम् ।
स विश्वाचीरभि चष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥२॥
रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः ।
देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥३॥
विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तदृतेना व्यायन् ।
तदन्ववैदिन्द्रो रारहाण आसां परि सूर्यस्य परिधीँरपश्यत् ॥४॥
विश्वावसुरभि तन्नो गृणातु दिव्यो गन्धर्वो रजसो विमानः ।
यद्वा घा सत्यमुत यन्न विद्म धियो हिन्वानो धिय इन्नो अव्याः ॥५॥
सस्निमविन्दच्चरणे नदीनामपावृणोद्दुरो अश्मव्रजानाम् ।
प्रासां गन्धर्वो अमृतानि वोचदिन्द्रो दक्षं परि जानादहीनाम् ॥६॥


सायणभाष्यम्

‘सूर्यरश्मिः' इति षडृचमेकादशं सूक्तं त्रैष्टुभम् । विश्वावसुर्नाम गन्धर्व ऋषिः । स च पूर्वेण तृचेन सवितारं स्तुतवान् उत्तरेण स्वात्मानम् । अतः प्रथमतृचस्य सविता देवता द्वितीयस्य गन्धर्वः। तथा चानुक्रान्तं— सूर्यरश्मिर्देवगन्धर्वो विश्वावसुरात्मानमस्तौत् पूर्वार्धे सवितारम् ' इति । गतो विनियोगः ।।


सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑या॒ँ अज॑स्रम् ।

तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥ १

सू॒र्य॑ऽरश्मिः । हरि॑ऽकेशः । पु॒रस्ता॑त् । स॒वि॒ता । ज्योतिः॑ । उत् । अ॒या॒न् । अज॑स्रम् ।

तस्य॑ । पू॒षा । प्र॒ऽस॒वे । या॒ति॒ । वि॒द्वान् । स॒म्ऽपश्य॑न् । विश्वा॑ । भुव॑नानि । गो॒पाः ॥१

सूर्यऽरश्मिः । हरिऽकेशः । पुरस्तात् । सविता । ज्योतिः । उत् । अयान् । अजस्रम् ।

तस्य । पूषा । प्रऽसवे । याति । विद्वान् । सम्ऽपश्यन् । विश्वा । भुवनानि । गोपाः ॥१

सूर्यरश्मिः । उषसः प्रादुर्भावानन्तरं सूर्यस्योदयात् पूर्वं यः कालस्तस्य कालस्याभिमानी देवः सवितेत्युच्यते । “सूर्यरश्मिः सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य रश्मिरेव रश्मिर्यस्य स तथोक्तः "हरिकेशः हरयो हरणशीला हरितवर्णा वा केशाः केशस्थानीयाः प्रकाशमाना वा दीप्तयो यस्य ईदृशः “सविता सर्वस्य प्रेरको देवः “पुरस्तात् पूर्वस्यां दिशि “अजस्रम् अनवरतं “ज्योतिः तेजः “उदयान् उद्याति उद्गमयति ॥ यातेरन्तर्भावितण्यर्थात् छन्दसो लङ् । व्यत्ययेन वहुवचनम्। संहितायां ‘ दीर्घादटि समानपादे ' इति नकारस्य रुत्वम् । आतोऽटि नित्यम् ' इति सानुनासिक आकारः ।। “तस्य सवितुः “प्रसवे प्रेरणेऽनुज्ञायां सत्यां “विद्वान् जानन् “गोपाः गोपायिता रक्षिता “पूषा पोषको देव आदित्यः “याति नभसि गच्छति । किं कुर्वन् । “विश्वा विश्वानि सर्वाणि “भुवनानि भूतजातानि “संपश्यन् सम्यक् प्रकाशयन् ।।


नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् ।

स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥ २

नृ॒ऽचक्षाः॑ । ए॒षः । दि॒वः । मध्ये॑ । आ॒स्ते॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ।

सः । वि॒श्वाचीः॑ । अ॒भि । च॒ष्टे॒ । घृ॒ताचीः॑ । अ॒न्त॒रा । पूर्व॑म् । अप॑रम् । च॒ । के॒तुम् ॥२

नृऽचक्षाः । एषः । दिवः । मध्ये । आस्ते । आपप्रिऽवान् । रोदसी इति । अन्तरिक्षम् ।

सः । विश्वाचीः । अभि । चष्टे । घृताचीः । अन्तरा । पूर्वम् । अपरम् । च । केतुम् ॥२

"नृचक्षाः नॄन् मनुष्यान् पश्यन् यद्वा नृभिर्नेतृभिः रश्मिभिः प्रकाशमानः “एषः सविता "दिवः द्युलोकस्य “मध्ये “आस्ते निषीदति । किं कुर्वन् । “रोदसी द्यावापृथिव्यौ “अन्तरिक्षं च “आपप्रिवान् स्वतेजसा आपूरयन् ॥ ‘ प्रा पूरणे '। अस्माच्छान्दसो लिट् । 'क्वसुश्च' इति तस्य क्वसुरादेशः । ‘ वस्वेकाजाद्धसाम् ' इतीडागमः ।। “सः देवः “विश्वाचीः विश्वमञ्चन्तीः सर्वव्यापिनीः प्राच्यादिमहादिशः “अभि “चष्टे प्रकाशयति । तथा “घृताचीः घृतं दीप्तं रूपमञ्चन्तीः आग्नेय्यादिविदिशश्च प्रकाशयति ।। अञ्चतेः क्विनन्तात् ' अञ्चतेश्चोपसंख्यानम्' इति ङीप् । ततो भसंज्ञायाम् ' अचः । इत्यकारलोपे ' चौ' इति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे प्राप्ते 'चौ ' इति पूर्वस्याच उदात्तत्वम् ॥ तथा “पूर्वं पूर्वभागं "केतुं प्रज्ञापनीयम् "अपरं पृष्ठभागं “च "अन्तरा अन्तरालं च अभि चष्टे प्रकाशयति ।।


रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः ।

दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥ ३

रा॒यः । बु॒ध्नः । स॒म्ऽगम॑नः । वसू॑नाम् । विश्वा॑ । रू॒पा । अ॒भि । च॒ष्टे॒ । शची॑भिः ।

दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । इन्द्रः॑ । न । त॒स्थौ॒ । स॒म्ऽअ॒रे । धना॑नाम् ॥३

रायः । बुध्नः । सम्ऽगमनः । वसूनाम् । विश्वा । रूपा । अभि । चष्टे । शचीभिः ।

देवःऽइव । सविता । सत्यऽधर्मा । इन्द्रः । न । तस्थौ । सम्ऽअरे । धनानाम् ॥३

“रायः धनस्य “बुध्नः बन्धको मूलभूतो वा ।। ‘ऊडिदम्” इत्यादिना रैशब्दाद्विभक्तेरुदात्तत्वम् ।। तथा “वसूनां धनानां “संगमनः संगमयिता प्रापयिता ईदृशः सविता “शचीभिः दीप्तिभिः “विश्वा “रूपा सर्वाणि रूपाणि निरूपणीयानि पदार्थजातानि “अभि “चष्टे अभिपश्यति । प्रकाशयति । अपि च “देवइव अयं “सविता सावको देवः “सत्यधर्मा सत्यमवितथं धर्मं धारणं धारणहेतुभूतं कर्म वा यस्य तादृशो भवति । तथा “इन्द्रो “न इन्द्र इव “धनानां “समरे संग्रामे सम्यक्प्रापणे “तस्थौ । अयं सविता उद्युक्तः संस्तिष्ठति ॥


वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् ।

तद॒न्ववै॒दिन्द्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥ ४

वि॒श्वऽव॑सुम् । सो॒म॒ । ग॒न्ध॒र्वम् । आपः॑ । द॒दृ॒शुषीः॑ । तत् । ऋ॒तेन॑ । वि । आ॒य॒न् ।

तत् । अ॒नु॒ऽअवै॑त् । इन्द्रः॑ । र॒र॒हा॒णः । आ॒सा॒म् । परि॑ । सूर्य॑स्य । प॒रि॒ऽधीन् । अ॒प॒श्य॒त् ॥४

विश्वऽवसुम् । सोम । गन्धर्वम् । आपः । ददृशुषीः । तत् । ऋतेन । वि । आयन् ।

तत् । अनुऽअवैत् । इन्द्रः । ररहाणः । आसाम् । परि । सूर्यस्य । परिऽधीन् । अपश्यत् ॥४

हे सोम त्वया सहितं “गन्धर्वं गीतरूपां गां शब्दं धारयन्तं “विश्वावसुम् एतत्संज्ञं माम् । उत्तरत्र तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । यत् "आपः वसतीवर्याख्याः “ददृशुषीः दृष्टवत्यः ।। दृशेर्लिटः क्वसुः। ‘ उगितश्च ' इति ङीप् । ‘ वसोः संप्रसारणम् ' इति संप्रसारणम् । जसि वा छन्दसि । इति पूर्वसवर्णदीर्घः॥ “तत् तदानीम् “ऋतेन यज्ञेन हेतुना “व्यायन् विविधमगच्छन् यष्टृजनाः । “तत् गमनम् "आसाम् अपां “ररहाणः गमयिता “इन्द्रः “अन्ववैत् अन्वबुध्यत । बुद्ध्वा च कुत्र यज्ञः प्रवृत्त इति “सूर्यस्य “परिधीन् परितो धीयमानान् प्राच्यादिदिग्भागान् “परि “अपश्यत् परितो दृष्टवान् ॥


वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मानः॑ ।

यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥ ५

वि॒श्वऽव॑सुः । अ॒भि । तत् । नः॒ । गृ॒णा॒तु॒ । दि॒व्यः । ग॒न्ध॒र्वः । रज॑सः । वि॒ऽमानः॑ ।

यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म । धियः॑ । हि॒न्वा॒नः । धियः॑ । इत् । नः॒ । अ॒व्याः॒ ॥५

विश्वऽवसुः । अभि । तत् । नः । गृणातु । दिव्यः । गन्धर्वः । रजसः । विऽमानः ।

यत् । वा । घ । सत्यम् । उत । यत् । न । विद्म । धियः । हिन्वानः । धियः । इत् । नः । अव्याः ॥५

“विश्वावसुः “गन्धर्वः “नः अस्माकं “तत् "अभि “गृणातु अभिमुखं ब्रवीतु ।। ' गॄ शब्दे । क्रैयादिकः । प्वादित्वात् ह्रस्वः । कीदृशः । “दिव्यः दिवि भवः तथा “रजसः उदकस्य “विमानः निर्माता । किं पुनस्तत् । “यद्वा “घ यच्च खलु "सत्यम् अवितथं यथार्थफलं कर्मजातम् । उतशब्दश्चार्थे । “यत् च “न “विद्म न जानीमः तदुभयं ब्रवीत्वित्यर्थः ॥ ‘ ऋचि तुनुघ° । इत्यादिना घशब्दस्य सांहितिको दीर्घः ॥ शिष्टः पादः प्रत्यक्षकृतः । हे विश्वावसो “धियः कर्माणि “हिन्वानः सोमेन प्रवर्धयन् ॥ ‘ हि गतौ वृद्धौ च ' । यद्वा । धियः स्तुतीर्हिन्वानः प्राप्नुवन् “नः अस्माकं “धिय “इत् कर्माण्येव बुद्धीरेव वा “अव्याः रक्ष ॥


सस्नि॑मविन्द॒च्चर॑णे न॒दीना॒मपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानाम् ।

प्रासां॑ गन्ध॒र्वो अ॒मृता॑नि वोच॒दिन्द्रो॒ दक्षं॒ परि॑ जानाद॒हीना॑म् ॥ ६

सस्नि॑म् । अ॒वि॒न्द॒त् । चर॑णे । न॒दीना॑म् । अप॑ । अ॒वृ॒णो॒त् । दुरः॑ । अश्म॑ऽव्रजानाम् ।

प्र । आ॒सा॒म् । ग॒न्ध॒र्वः । अ॒मृता॑नि । वो॒च॒त् । इन्द्रः॑ । दक्ष॑म् । परि॑ । जा॒ना॒त् । अ॒हीना॑म् ॥६

सस्निम् । अविन्दत् । चरणे । नदीनाम् । अप । अवृणोत् । दुरः । अश्मऽव्रजानाम् ।

प्र । आसाम् । गन्धर्वः । अमृतानि । वोचत् । इन्द्रः । दक्षम् । परि । जानात् । अहीनाम् ॥६

“सस्निम् अद्भिः संस्नातं प्रकर्षेण सर्वस्य जगतः स्नापयितारं मेघम् । ष्णा शौचे '। ‘ आदृगमहन° ' इति किन्प्रत्ययः । लिड्वद्भावात् द्विर्वचनम् । “नदीनां शब्दकारिणीनामपां “चरणे संचरणस्थानेऽन्तरिक्षे “अविन्दत् । इन्द्रोऽलभत । लब्ध्वा च "अश्मव्रजानाम् । अश्मा व्याप्तो मेघः । तत्र व्रजन्तीनाम् । यद्वा । मेघो व्रजो गोष्ठं निवासस्थानं यासां तादृशीनाम् । अपां “दुरः द्वाराणि मेघान्निर्गमनप्रदेशान् “अपावृणोत् अपावृतवान् । यद्वा । अश्मसु शिलासु व्रजन्तीनां गच्छन्तीनां व्याप्तगमनानां वा नदीनां गङ्गायमुनादीनां चरणे संचरणे प्रवहणे निमित्तभूते सति तदर्थमिन्द्रः सस्निं मेघमविन्दत् अलभत । लब्ध्वा चान्तर्गतानामपां निर्गमसाधनानि मेघस्य दुरो द्वाराणि अपावृणोत् अपावृतवान् । तथा “आसां नदीनाम् “अमृतानि अमरणसाधकानि उदकानि “गन्धर्वः गोर्वज्रस्य धर्ता विश्वावसुरूपेण वर्तमानः “इन्द्रः “प्र “वोचत् प्रब्रवीति । प्रवोढुमनुजानाति । तथा “दक्षम् । दक्षत्युदकं प्रयच्छतीति दक्षो वर्षणसमर्थो मेघः । तादृशं मेघम् “अहीनां मेघानां मध्ये “परि “जानात् परितः सर्वतो जानाति । ‘ज्ञा अवबोधने । लेट्याडागमः । ज्ञाजनोर्ज्ञा इति जादेशः । ॥ २७ ॥


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१