ऋग्वेदः सूक्तं १०.२३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.२३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.२२ ऋग्वेदः - मण्डल १०
सूक्तं १०.२३
ऐन्द्रोविमदः, प्राजापत्यो वा, वासुक्रो वसुकृद्वा।
सूक्तं १०.२४ →
दे. इन्द्रः। जगती, १, ७ त्रिष्टुप्, ५ अभिसारिणी


यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् ।
प्र श्मश्रु दोधुवदूर्ध्वथा भूद्वि सेनाभिर्दयमानो वि राधसा ॥१॥
हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत् ।
ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित् ॥२॥
यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः ।
आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥३॥
सो चिन्नु वृष्टिर्यूथ्या स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते ।
अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् ॥४॥
यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।
तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥५॥
स्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमं सुदानवे ।
विद्मा ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे ॥६॥
माकिर्न एना सख्या वि यौषुस्तव चेन्द्र विमदस्य च ऋषेः ।
विद्मा हि ते प्रमतिं देव जामिवदस्मे ते सन्तु सख्या शिवानि ॥७॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

सायणभाष्यम्

' यजामहे' इति सप्तर्चं सप्तमं सूक्तम् । प्रथमासप्तम्यौ त्रिष्टुभौ । पञ्चम्यभिसारिणी । द्विर्दशकद्विर्वान्दशकवतीत्यभिसारिणीत्युच्यते । शिष्टाश्चतस्रो जगत्यः। पूर्ववदृषिदेवते। तथा चानुक्रान्तं--- ‘यजामहे सप्ताद्यान्त्ये त्रिष्टुभौ पञ्चम्यभिसारिणी' इति । चतुर्थेऽहनि माध्यंदिनसवने तृतीयापञ्चम्योरावर्तनेन त्रींस्तृचान् होत्रका एकैकं तृचमावपेरन् । सूत्रितं च -- यजामह इन्द्रं वज्रदक्षिणमिति द्वितीयानेवमेव ' ( आश्व. श्रौ. ७. ११ ) इति ॥


यजा॑मह॒ इंद्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानां ।

प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा॑ भू॒द्वि सेना॑भि॒र्दय॑मानो॒ वि राध॑सा ॥१

यजा॑महे । इन्द्र॑म् । वज्र॑ऽदक्षिणम् । हरी॑णाम् । र॒थ्य॑म् । विऽव्र॑तानाम् ।

प्र । श्मश्रु॑ । दोधु॑वत् । ऊ॒र्ध्वऽथा॑ । भू॒त् । वि । सेना॑भिः । दय॑मानः । वि । राध॑सा ॥

यजामहे । इन्द्रम् । वज्रऽदक्षिणम् । हरीणाम् । रथ्यम् । विऽव्रतानाम् ।

प्र । श्मश्रु । दोधुवत् । ऊर्ध्वऽथा । भूत् । वि । सेनाभिः । दयमानः । वि । राधसा ॥

वयम् “इन्द्रं “यजामहे सोमलक्षणैर्हविर्भिः पूजयामः । कीदृशम् । “वज्रदक्षिणं शत्रुवधाय सततं वज्रो दक्षिणे हस्ते यस्य तं “विव्रतानां रथवहनादिविविधकर्मणां “हरीणाम् एतत्संज्ञकानामश्वानां “रथ्यम् आनेतारम् । स इन्द्रः सोमपानानन्तरं “श्मश्रु स्वकीयानि श्मश्रूणि “दोधुवत् पुनःपुनः धुन्वानः सन् “ऊर्ध्वथा ऊर्ध्वं “प्र “भूत् प्रादुरभूत् । किंच “सेनाभिः मरुदादिस्वकीयैः सैन्यैः “वि “दयमानः विविधं शत्रून् हिंसन् 'राधसा । द्वितीयार्थे तृतीया। राधो धनम्। वीत्युपसर्ग श्रुतेर्योग्यक्रियाध्याहारः । विविधं स्तोतृभ्यो ददाति ॥


हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विंद्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् ।

ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥२

हरी॒ इति॑ । नु । अ॒स्य॒ । या । वने॑ । वि॒दे । वसु॑ । इन्द्रः॑ । म॒घैः । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् ।

ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्षाः । प॒त्य॒ते॒ । शवः॑ । अव॑ । क्ष्णौ॒मि॒ । दास॑स्य । नाम॑ । चि॒त् ॥

हरी इति । नु । अस्य । या । वने । विदे । वसु । इन्द्रः । मघैः । मघऽवा । वृत्रऽहा । भुवत् ।

ऋभुः । वाजः । ऋभुक्षाः । पत्यते । शवः । अव । क्ष्णौमि । दासस्य । नाम । चित् ॥

“अस्य इन्द्रस्य संबन्धिनौ “या यौ “हरी अश्वौ “वने । वन्यन्ते संभज्यन्तेऽस्मिन् देवा इति वनं यज्ञोऽरण्यं वा । तस्मिन् “वसु ऋजीषलक्षणं धनं यवसलक्षणं वा “नु क्षिप्रं “विदे विन्देते लभेते । यद्वा । यौ हरी अस्येन्द्रस्य वने संभजनार्थं वसु वसुनो लाभाय क्षिप्रं भवत इति शेषः । ताभ्यां हरिभ्यां “मघैः धनैः “मघवा धनवान् “इन्द्रः “वृत्रहा वृत्राख्यस्यासुरस्य मेघस्य वा हन्ता “भुवत् भवति । अपि च “ऋभुः दीप्तः “वाजः बलवान् “ऋभुक्षाः महानिन्द्रः “शवः शवसो बलस्य धनस्य वा “पत्यते ईष्टे । यद्वा । शत्रूणां बलं प्रति पत्यते प्रतिपद्यते गच्छति । अहमपि तस्य प्रसादात् “दासस्य उपक्षपयितव्यस्य शत्रोः “नाम “चित् । नम्यतेऽनेनेति नाम शिरः। तदपि “अव “क्ष्णौमि अव हन्मि । किमुतान्यदङ्गम् । अथवा नामधेयमपि नाशयामि किमुत शत्रुम् ॥


य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑ ।

आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इंद्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ॥३

य॒दा । वज्र॑म् । हिर॑ण्यम् । इत् । अथ॑ । रथ॑म् । हरी॒ इति॑ । यम् । अ॒स्य॒ । वह॑तः । वि । सू॒रिऽभिः॑ ।

आ । ति॒ष्ठ॒ति॒ । म॒घऽवा॑ । सन॑ऽश्रुतः । इन्द्रः॑ । वाज॑स्य । दी॒र्घऽश्र॑वसः । पतिः॑ ॥

यदा । वज्रम् । हिरण्यम् । इत् । अथ । रथम् । हरी इति । यम् । अस्य । वहतः । वि । सूरिऽभिः ।

आ । तिष्ठति । मघऽवा । सनऽश्रुतः । इन्द्रः । वाजस्य । दीर्घऽश्रवसः । पतिः ॥

"यदा इन्द्रः “हिरण्यं हितरमणीयं “वज्रं स्वकीयमायुधं शत्रुहननाय गृह्णातीति शेषः । “इत् इति पूरणः। “अथ तदानीम् “अस्य इन्द्रस्य “हरी अश्वौ “यं “रथं “वहतः गन्तृप्रदेशं विशेषण प्रापयतः “मघवा धनवान् “इन्द्रः “सूरिभिः स्तोतृभिः कुत्सादिभिः सह तं रथम् “आ “तिष्ठति आरोहति । कीदृशः । “सनश्रुतः चिरप्रख्यातः । जगति स्वभावत एव विख्यात इत्यर्थः । “दीर्घश्रवसः बहुकीर्तेः “वाजस्य अन्नस्य “पतिः स्वामी । एवंभूत इन्द्रस्तं रथमारोहतीत्यर्थः ॥


सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचाँ॒ इंद्रः॒ श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते ।

अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वनं॑ ॥४

सो इति॑ । चि॒त् । नु । वृ॒ष्टिः । यू॒थ्या॑ । स्वा । सचा॑ । इन्द्रः॑ । श्मश्रू॑णि । हरि॑ता । अ॒भि । प्रु॒ष्णु॒ते॒ ।

अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । मधु॑ । उत् । इत् । धू॒नो॒ति॒ । वातः॑ । यथा॑ । वन॑म् ॥

सो इति । चित् । नु । वृष्टिः । यूथ्या । स्वा । सचा । इन्द्रः । श्मश्रूणि । हरिता । अभि । प्रुष्णुते ।

अव । वेति । सुऽक्षयम् । सुते । मधु । उत् । इत् । धूनोति । वातः । यथा । वनम् ॥

तच्छब्दश्रुतेर्यच्छब्दोऽध्याहर्तव्यः । या महती वृष्टिरस्ति “सो सा “वृष्टिः “नु क्षिप्रम् । “चित् इत्युपमार्थे। यथा सर्वं सिञ्चति तथा “इन्द्रः “स्वा स्वानि “यूथ्या यूथानि मरुदादिगणलक्षणानि “सचा सह स्वानि “श्मश्रूणि च “हरिता हरिद्वर्णेन सोमेन “अभि “प्रुष्णुते । ‘प्रुष प्लुष स्नेहनसेचनपूरणेषु' इति धातुः । आभिमुख्येन स्थित्वा क्षिप्रं सिञ्चति । सोमं पाययति पिबति चेत्यर्थः । अपि च “सुक्षयं शोभनं यज्ञगृहम् “अव “वेति अभिगच्छति । गत्वा च "सुते सोमे अभिषुते सति “मधु मधुररसोपेतं सोमं पीत्वा । मत्तः सन्निति शेषः। “उदिद्धूनोति स्वशरीरमुत्कम्पयति । तत्र दृष्टान्तः । “वातः वायुः “यथा “वनं वृक्षसमूहमुत्कम्पयति तद्वत् ॥


यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ ।

तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ॥५

यः । वा॒चा । विऽवा॑चः । मृ॒ध्रऽवा॑चः । पु॒रु । स॒हस्रा॑ । अशि॑वा । ज॒घान॑ ।

तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । यः । तवि॑षीम् । व॒वृ॒धे । शवः॑ ॥

यः । वाचा । विऽवाचः । मृध्रऽवाचः । पुरु । सहस्रा । अशिवा । जघान ।

तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । पिताऽइव । यः । तविषीम् । ववृधे । शवः ॥

"यः इन्द्रः "वाचा वाङ्मात्रेणैव “विवाचः विविधवाचः स्वशत्रून् “मृधवाचः हिंसितवाचः। कृत्वेति शेषः । “पुरु पुरूणि बहूनि “अशिवा अशिवान्यसुखकराणि । दुःखकराणीत्यर्थः। “सहस्रा शत्रूणां सहस्राणि "जघान हन्ति । अपि च “यः च इन्द्रः “पितेव यथा पिता पुत्रस्य “तविषीं बलमन्नप्रदानैः वर्धयति तथा वृष्टिद्वारेण सर्वस्य जगतः “शवः बलं “ववृधे वर्धयति “अस्य इन्द्रस्य “तत्तदित् तत्तदेव “पौंस्यं बलं “गृणीमसि वयं स्तुमः । इन्द्रो येन येन बलेन शत्रून् हन्ति तस्य तत्तद्बलं वयं स्तुम इत्यर्थः ॥


स्तोमं॑ त इंद्र विम॒दा अ॑जीजन॒न्नपू॑र्व्यं पुरु॒तमं॑ सु॒दान॑वे ।

वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ॥६

स्तोम॑म् । ते॒ । इ॒न्द्र॒ । वि॒ऽम॒दाः । अ॒जी॒ज॒न॒न् । अपू॑र्व्यम् । पु॒रु॒ऽतम॑म् । सु॒ऽदान॑वे ।

वि॒द्म । हि । अ॒स्य॒ । भोज॑नम् । इ॒नस्य॑ । यत् । आ । प॒शुम् । न । गो॒पाः । क॒रा॒म॒हे॒ ॥

स्तोमम् । ते । इन्द्र । विऽमदाः । अजीजनन् । अपूर्व्यम् । पुरुऽतमम् । सुऽदानवे ।

विद्म । हि । अस्य । भोजनम् । इनस्य । यत् । आ । पशुम् । न । गोपाः । करामहे ॥

हे “इन्द्र “ते तुभ्यं “सुदानवे शोभनदानस्यार्थाय “विमदाः विमदनामानो वयं “स्तोमं स्तोत्रविशेषम् “अजीजनन् जनितवन्तः । कृतवन्त इत्यर्थः । अत्र पूर्वोत्तरयोरेकवाक्ययोः पुरुषव्यत्ययः। कीदृशम् । “अपूर्व्यम् अपूर्वमन्यैः पूर्वमकृतम्। उत्कृष्टमित्यर्थः । पुरुतमं बहुतमम् । नानाप्रकारोपेतमित्यर्थः । “हि यस्मात्कारणात् हे इन्द्र “इनस्य ईश्वरस्य “अस्य ईदृशस्य तव “यत् “भोजनं धनमस्तीति “विद्म वयं जानीमः तस्मात् कारणात् त्वदीयं तद्धनम् “आ “करामहे वयमस्मदभिमुखं कुर्महे । तत्र दृष्टान्तः । “पशुं “न “गोपाः । यथा गोपालो धेनुमाह्वयन् स्वस्याभिमुखीं करोति तद्वत् ॥


माकि॑र्न ए॒ना स॒ख्या वि यौ॑षु॒स्तव॑ चेंद्र विम॒दस्य॑ च॒ ऋषेः॑ ।

वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते॑ संतु स॒ख्या शि॒वानि॑ ॥७

माकिः॑ । नः॒ । ए॒ना । स॒ख्या । वि । यौ॒षुः॒ । तव॑ । च॒ । इ॒न्द्र॒ । वि॒ऽम॒दस्य॑ । च॒ । ऋषेः॑ ।

वि॒द्म । हि । ते॒ । प्रऽम॑तिम् । दे॒व॒ । जा॒मि॒ऽवत् । अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ ॥

माकिः । नः । एना । सख्या । वि । यौषुः । तव । च । इन्द्र । विऽमदस्य । च । ऋषेः ।

विद्म । हि । ते । प्रऽमतिम् । देव । जामिऽवत् । अस्मे इति । ते । सन्तु । सख्या । शिवानि ॥

हे “इन्द्र “तव “च “विमदस्य “ऋषेः मम “च “नः । ‘अस्मदो द्वयोश्च' (पा. सू. १. २. ५९) इति द्वयोर्बहुवचनम् । आवयोः “एना एनानि “सख्या सख्यानि स्तुत्यस्तोतृत्वेज्ययष्टृत्वलक्षणानि सखिकर्माणि “माकिः “वि “यौषुः केचिदपि न विश्लथयेयुः। अपि च “हि यस्मात् कारणात् हे “देव द्योतमानेन्द्र “ते तव “प्रमतिं प्रकृष्टां मतिमनुग्राहिकां बुद्धिं “विद्म वयं जानीमः। तत्र दृष्टान्तः । “जामिवत् । यथा भ्राता स्वभगिन्यां स्नेहयुक्तां मतिं जानाति तद्वत् । तस्मात्कारणात् “अस्मे अस्माकं “ते तव च “सख्या सख्यानि “शिवानि “सन्तु मङ्गलानि भवन्तु । अनपायानीत्यर्थः ॥ ॥ ९ ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.२३&oldid=161417" इत्यस्माद् पुनः प्राप्तिः