ऋग्वेदः सूक्तं १०.१०९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१०९ इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← सूक्तं १०.१०८ ऋग्वेदः - मण्डल १०
सूक्तं १०.१०९
जुहूर्ब्रह्मजाया, ब्राह्मः ऊर्ध्वनाभा वा।
सूक्तं १०.११० →
दे. विश्वे देवाः। त्रिष्टुप्, ६-७ अनुष्टुप्
जुहू - स्रुवा


तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।
वीळुहरास्तप उग्रो मयोभूरापो देवीः प्रथमजा ऋतेन ॥१॥
सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः ।
अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥२॥
हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् ।
न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥
देवा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसे ये निषेदुः ।
भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥४॥
ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।
तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥
पुनर्वै देवा अददुः पुनर्मनुष्या उत ।
राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥६॥
पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् ।
ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासते ॥७॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

सायणभाष्यम्

तेऽवदन्निति सप्तर्चं दशमं सूक्तं जुहूर्नामब्रह्मवादिनी ऋषिः ब्रह्मपुत्रऊर्ध्वनाभानाम वा षष्ठी सप्तम्यावनुष्टुभौ शिष्टाः पञ्च त्रिष्टुभः विश्वेदेवा देवता । तथा चानुक्रान्तम्-तेऽवदन्त्सप्त जुहूर्ब्रह्मजाया ब्राह्मो वोर्धनाभा वैश्वदेवं द्व्यनुष्टुबन्तमिति । गतो विनियोगः ।।


ते॑ऽवदन्प्रथ॒मा ब्र॑ह्मकिल्बि॒षेऽकू॑पारः सलि॒लो मा॑त॒रिश्वा॑ ।

वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ॥

ते । अवदन् । प्रथमाः । ब्रह्मा किल्बिषे । अकूपारः । सलिलः । मातरिश्वा ।

वीळुऽहराः । तपः । उग्रः । मयःभूः । आपः। देवीः । प्रथमाजाः । ऋतेनं ॥ १ ॥

अत्रेतिहासमाचक्षते जुहूरिति वाङ्नाम सा ब्रह्मणो जाया च बृहस्पतेर्वाचस्पतित्वाद्बृहस्पतेर्जुहूर्नामभार्या बभूव कदाचिदस्य किल्बिषमस्या दौर्भाग्यरूपेणासांचक्रे अतएव स एनां पर्यत्याक्षीत् अनन्तरमादित्यादयो देवाः मिथो विचार्य एनामकिल्बिषां कृत्वा पुनर्बृहस्पतये प्रादुरिति । तदत्र वर्ण्यते-प्रथमा मुख्यास्ते देवाः ब्रह्मकिल्बिषे षष्ठीसमासः समासःस्वरः ब्रह्मणो बृहस्पतेः किल्बिषे पापे जुहूदौर्भाग्यरूपे विषये अवदन् निष्कृत्युपायमवोचन् वकारपरत्वादत्रप्रतिभावाभावः ।। के ते अकूपारः । अत्र यास्कः - आदित्योप्यकूपार उच्यते कूपारो भवति दूरपार इति । अकुत्सितपारः महागतिरादित्यः सलिलः अब्देवतावरुणः मातरिश्वा वायुः वीळुहराः हरतेरसुनिरूपं हरइति हरति विनाशयति तमांसीति हरस्तेजः प्रभूततेजस्कः तपः तृतीयायाःसुः तपसा तापनेन उग्रः उद्गूर्णोग्निः मयोभूः सुखस्यभावयिता सोमः देवीः देव्यः आपः कीदृश्यः ऋतेन सत्यभूतेन ब्रह्मणा प्रथमजाः आदित एवोत्पादिताः एते उपायमुक्त्वा प्रायश्चित्तमप्यकारयन्निति भावः॥१॥


सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुन॒ः प्राय॑च्छ॒दहृ॑णीयमानः ।

अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ॥

सोमः । राजा । प्रथमः । ब्रह्मऽजायाम् । पुनरिति । प्र। अयच्छत् । अहृणीयमानः ।

अनुऽअर्तिता । वरुणः । मित्रः । आसीत् । अग्निः । होता । हस्तऽगृह्य । आ । निनाय ॥ २ ॥

प्रथमोमुख्यः सोमोराजा अहृणीयमानः पापापगमनेनालज्जमानः सन् तामेनामकिल्बिषां ब्रह्मजायां पुनर्बहस्पतये प्रायच्छत् । ततः वरुणः अन्वर्तिता ऋतिः सौत्रो धातुः घृणायां वर्तते तस्य तृचिरूपं सोममनुमोदयितासीत् सर्वथा त्वं गृहाणेति दयामकार्षीत् तथा मित्रश्च अनन्तरं होता देवानां आह्वाता मनुष्याणां होमनिष्पादको वाग्निः हस्तगृह्य तां हस्ते गृहीत्वा आनिनाय आनैषीत् प्रादादित्यर्थः । हस्तगृह्य नित्यं हस्ते पाणावुपयमन इति हस्ते शब्दस्य गतिसंज्ञायां ग्रहिणासमासेल्यप् एकारलोपश्छान्दसः।यद्वा हस्तशब्दात्परस्यगृहेश्छान्दसौ समासल्यपौ॥२॥


हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो॑चन् ।

न दू॒ताय॑ प्र॒ह्ये॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥

हस्तेन । एव । ग्राह्यः । आऽधिः । अस्याः । ब्रह्मजाया । इयम् । इति । च । इत् । अवोचन् ।

न । दूताय । प्रऽह्ये । तस्थे । एषा। तथा । राष्ट्रम्। गुपितम् । क्षत्रियस्य ॥ ३ ॥

देवा बृहस्पतिमूचुः हे बृहस्पते अस्याः आधिः आधीयन्ते आभरणान्यत्रेति आधिः शरीरं उपसर्गे घोः किरिति किप्रत्ययः अस्याः शरीरं हस्तेनैव ग्राह्यः गृहीतव्यमेव पुनः ते देवा इदानीमियं ब्रह्मजायेत्येवावोचन् अवादिषुः च शब्दश्चेदर्थे अतएव निपातैर्यद्यदिहन्तेति तिङोनिघाताभावः ब्रूञ्-व्यक्तायां वाचि लुङिब्रुवोवचिः अस्यतिवक्तिख्यातिभ्योङितिचुरादेशः वच उमित्युमागमः अडागमस्वरः इवधारणे एषा ब्रह्मजाया पुरा प्रह्ये हि गतौ वृद्धौ च कर्मण्यौणादिकः क्विप् तुगभावश्छान्दसः ङिद्वचने संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः उदात्तस्वरितयोर्यणइति सुपः स्वरितत्वं प्रहिताय त्वया भार्यान्वेषणार्थं प्रेषिताय दूताय तथा नतस्थं स्वात्मानं न प्रकाशयति तिष्ठतेर्लिटि प्रकाशनस्थेयाख्ययोश्चेत्यात्मनेपदं श्लाघन्हुङ्स्थाशपामितिदूतस्य संप्रदानसंज्ञा । तत्र दृष्टान्तः–यथा क्षत्रियस्य राज्ञः गुपितं रक्षितं राष्ट्रं राज्यं शत्रवे यथा न प्रकाशयति तद्वदसौ दौर्भाग्ययुक्ततया तस्मै स्वात्मानं न प्रकाशितवती – इदानीं तु तद्राहित्येन प्रकाशमाना इयं ब्रह्मजायैवेत्यब्रुवन् ॥ ३ ॥


दे॒वा ए॒तस्या॑मवदन्त॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः ।

भी॒मा जा॒या ब्रा॑ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो॑मन् ॥

देवाः । एतस्याम् । अवदन्त । पूर्वे । सप्तऋषयः । तपसे । ये। निऽसेदुः ।

भीमा । जाया । ब्राह्मणस्य । उपनीता। दुःऽधाम् । दधाति । परमे । विऽ औमन् ॥ ४ ॥

पूर्वे चिरन्तना देवाः आदित्यादयः एतस्यां विषये अवदन्त इयं पापरहितेत्यवादिषुः तथा ये सप्तऋषयः समासस्वरः सप्तसंख्याका ऋषयः तपसे तपश्चरणाय निषेदुर्निषण्णा बभूवुः । सदेर्लिटिरूपं उपसर्गेण समासः यद्योगादनिघातः तेष्यवादिषुः ततः भीमा शत्रुरूपाणां पापानां भयंकरी पतिवत्नी एषा जाया ब्राह्मणस्य बृहस्पतेरुपनीता समीपे देवैः स्थापिता णीञ् प्रापणे कर्मणि क्तः गतिरनन्तरइति गते प्रकृतिस्वरत्वं तथाहि तपःप्रभावः दुर्धां दुर्धानामपि परमे व्योमन् व्योमनि उत्तमे स्थाने दधाति विदधाति खलु । तस्मादेनामपि देवतापरिग्रहरूपः तपोमहिमा बृहस्पतेरन्तिके स्थापयति ॥ ४ ॥


ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विष॒ः स दे॒वानां॑ भव॒त्येक॒मङ्ग॑म् ।

तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पति॒ः सोमे॑न नी॒तां जु॒ह्वं१॒॑ न दे॑वाः ॥

ब्रह्मचारी । चरति । वेविषत् । विषः । सः । देवानाम् । भवति । एकम् । अङ्गम् ।

तेन । जायाम् । अनु । अविन्दत् । बृहस्पतिः । सोमेन । नीताम् । जुह्वम् । न । देवाः ॥ ५ ॥

एवं स्वपतिः मामलभतेति जुहूः परोक्षतया वदति हे देवाः पूर्वं स ब्रह्मचारी जायाभावेन ब्रह्मचारी चरति अतएव विषः सर्वेषु यज्ञेषु व्याप्तवान् देवान्वेविषत् स्तुतिभिर्हविर्भिश्च व्याप्नुवन् देवानामेकमंगं भवति जायापती यज्ञस्यद्वे अंगे खलु वेविषत् विष्लृ व्याप्तौ जौहोत्यादिकः णिजांत्रयाणांगुणः श्लावित्यभ्यासस्यगुणः शतुर्नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः अभ्यस्तानामादिरित्याद्युदात्तत्वं । तेन देवानां परिचरणेन बृहस्पतिः जायां जुहूनामिकां मां अन्वविन्दत् अनुगम्यालभत् । नशब्द उपमार्थे पूर्वं यथा सोमेन नीतां सोमो ददद्गन्धर्वायेत्यादि क्रमेण नीतां जुह्वं जुहूं यथा लब्धवान् तद्वदिदानीमपि जुह्वं हुदामादनयोः अन्येभ्योपि दृश्यन्ते इति क्विप् जुहोतेर्द्वे चेति द्विवचनं दीर्घश्च उदात्तयणोहल्पूर्वदिति विभत्युदात्तत्वे प्राप्ते नोङ्धात्वोरिति प्रतिषेधे उदात्तस्वरितयोर्यणइति स्वरितत्वं ।। ५ ।।।


पुन॒र्वै दे॒वा अ॑ददु॒ः पुन॑र्मनु॒ष्या॑ उ॒त ।

राजा॑नः स॒त्यं कृ॑ण्वा॒ना ब्र॑ह्मजा॒यां पुन॑र्ददुः ॥

पुनः । वै। देवाः । अददुः । पुनः । मनुष्याः । उत ।

राजानः । सत्यम् । कृण्वानाः । ब्रह्मऽजायाम् । पुनः । ददुः ॥ ६ ॥

लाभहेतुमाह देवाः ब्रह्मजायां जुहूं बृहस्पतये पुनरददुः वै शब्दः प्रसिद्धवाची उताप्यथें मनुष्या अपि पुनरददुः एवं देवमनुष्यैः कृतं दानं सत्यं यथार्थं कृण्वानाः कुर्वाणा राजानोपि पुनस्तस्मै ददुः एवं अव्यवहार्यत्वनिमित्तं पापमपि व्यनाशयन्निति भावः ॥ ६ ॥


पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षम् ।

ऊर्जं॑ पृथि॒व्या भ॒क्त्वायो॑रुगा॒यमुपा॑सते ॥

पुनःऽदाय । ब्रह्मजायाम् । कृत्वी । देवैः । निऽकिल्बिषम् ।

ऊर्जम् । पृथिव्याः । भक्त्वाय । उरुऽगायम् । उप । आसते।।७॥७॥

देवैः सुपांसुपोभवन्तीति जसस्तृतीयादेशः देवाः निकिल्बिषं अर्थाभावे व्ययीभावः समासस्वरः तस्या किल्बिषाभावं कृत्वी स्नात्व्यादयश्चेति निपातितः कृत्वा ब्रह्मजायां ब्रह्मणो बृहस्पतेर्भार्यां पुनर्दाय पुनर्दत्वा पुनश्चनसोश्छन्दसि गतिसंज्ञावक्तव्येति पुनःशब्दस्य गतिसंज्ञायां समासल्यपौ नल्यपीतीत्वप्रतिषेधः कृदुत्तरपदप्रकृतिस्वरत्वं पृथिव्या ऊर्जं रसभूतं अन्नं हवीरूपं भक्वािसय क्त्वोयगितियगागमः भक्त्वा विभज्य उरुगायं बहुकीर्तिं बहुभिः स्तोतव्यं वा बार्हस्पत्यं यज्ञं उपासते सेवन्ते ॥ ७ ॥

॥ इत्यष्टमस्य षष्ठे सप्तमोवर्गः ॥ ७ ॥


[सम्पाद्यताम्]

टिप्पणी

तुलनीय - अथर्ववेदः ५.१७

जुहूपरि संदर्भाः


१०.१०९.१ अकूपारः द्र. जैमिनीयं ब्राह्मणम् ३.२०३, निरुक्तम् ४.१८


१०.१०९.२ तुलनीय - सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।

तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥४०॥

सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।

रयिं च पुत्राँश्चादादग्निर्मह्यमथो इमाम् ॥ऋ. १०.८५.४१, भविष्यपुराणम् १.१८२.३१


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१०९&oldid=141981" इत्यस्माद् पुनः प्राप्तिः