ऋग्वेदः सूक्तं १०.१२९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१२९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१२८ ऋग्वेदः - मण्डल १०
सूक्तं १०.१२९
प्रजापतिः परमेष्ठी।
सूक्तं १०.१३० →
दे. भाववृत्तम्। त्रिष्टुप् ।


नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥१॥
न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।
आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥२॥
तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् ।
तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥३॥
कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।
सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥४॥
तिरश्चीनो विततो रश्मिरेषामधः स्विदासी३दुपरि स्विदासी३त् ।
रेतोधा आसन्महिमान आसन्स्वधा अवस्तात्प्रयतिः परस्तात् ॥५॥
को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥६॥
इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन्सो अङ्ग वेद यदि वा न वेद ॥७॥


सायणभाष्यम्

"एकादशेऽनुवाके त्रयोविंशतिसंख्याकानि सूक्तानि । तत्र ‘नासदासीत् इति सप्तर्चं प्रथम सूक्तं त्रैष्टुभम् । परमेष्ठी नाम प्रजापतिर्ऋषिः । वियदादिभावानां सृष्टिस्थितिप्रलयादीनामत्र प्रतिपाद्यत्वात् तेषां कर्ता परमात्मा देवता। तथा चानुक्रान्तं - नासत्सप्त प्रजापतिः. परमेष्ठी भाववृत्तं तु ' इति । गतो विनियोगः ।।


नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् ।

किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा॑सी॒द्गह॑नं गभी॒रम् ॥ १

न । अस॑त् । आ॒सी॒त् । नो इति॑ । सत् । आ॒सी॒त् । त॒दानी॑म् । न । आ॒सी॒त् । रजः॑ । नो इति॑ । विऽओ॑म । प॒रः । यत् ।

किम् । आ । अ॒व॒री॒व॒रिति॑ । कुह॑ । कस्य॑ । शर्म॑न् । अम्भः॑ । किम् । आ॒सी॒त् । गह॑नम् । ग॒भी॒रम् ॥१

न । असत् । आसीत् । नो इति । सत् । आसीत् । तदानीम् । न । आसीत् । रजः । नो इति । विऽओम । परः । यत् ।

किम् । आ । अवरीवरिति । कुह । कस्य । शर्मन् । अम्भः । किम् । आसीत् । गहनम् । गभीरम् ॥१

‘तपसस्तन्महिनाजायतैकम् ' इत्यादिनाग्रे सृष्टिः प्रतिपादयिष्यते । अधुना ततः प्रागवस्था निरस्तसमस्तप्रपञ्चा या प्रलयावस्था सा निरूप्यते । “तदानीं प्रलयदशायामवस्थितं यदस्य जगतो मूलकारणं तत् “असत् शशविषाणवन्निरुपाख्यं “न “आसीत् । न हि तादृशात् कारणादस्य सतो जगत उत्पत्तिः संभवति । तथा “नो “सत् नैव सदात्मवत् सत्त्वेन निर्वाच्यम् “आसीत् । यद्यपि सदसदात्मकं प्रत्येकं विलक्षणं भवति तथापि भावाभावयोः सहावस्थानमपि संभवति । कुतस्तयोः तादात्म्यमिति उभयविलक्षणमनिर्वाच्यमेवासीदित्यर्थः । ननु नो सदिति पारमार्थिकसत्त्वस्य निषेधः। तर्ह्यात्मनोऽप्यनिर्वाच्यत्वप्रसङ्गः । अथोच्येत । न । आनीदवातमिति तस्य सत्त्वमग्रे वक्ष्यते परिशेषान्मायाया एवात्र सत्त्वं निषिध्यत इति । एवमपि तदानीमिति विशेषणानर्थक्यं व्यवहारदशायामपि तस्याः पारमार्थिकसत्त्वाभावात् । अथ व्यावहारिकसतां पृथिव्यादीनां भावानां विद्यमानत्वात् कथं नो सदिति निषेधः । तत्राह । “नासीद्रज इत्यादि । लोका रजांस्युच्यन्ते ' ( निरु, ४, १९) इति यास्कः। अत्र च सामान्यापेक्षमैकवचनम् । व्योम्नो वक्ष्यमाणत्वात्तस्याधस्तनाः पातालदयः पृथिव्यन्ता नासन्नित्यर्थः । तथा “व्योम अन्तरिक्षं तदपि “नो नैवासीत् । पर इति सकारान्तं परस्तादित्यर्थे वर्तते । परशब्दाच्छान्दसोऽस्तातेरर्थेऽसिप्रत्ययः । “परः व्योम्नः परस्तादुपरिदेशे द्युलोकप्रभृतिसत्यलोकान्तं “यत् अस्ति तदपि नासीदित्यर्थः । अनेन चतुर्दशभुवनगर्भं ब्रह्माण्डं स्वरूपेण निषिद्धं भवति । अथ तदावरकत्वेन पुराणेषु प्रसिद्धानि यानि वियदादिभूतानि तेषामवस्थानप्रदेशं तदावरणनिमित्तं चाक्षेपमुखेन क्रमेण निषेधयति किमावरीवरिति । “किम् आवरणीयं तत्त्वमावरकभूतजातम् ' “आवरीवः । अत्यन्तमावृणुयात् । अवार्थाभावात् तदावरकमपि नासीदित्यर्थः ।। वृणोतेर्यङ्लुगन्ताच्छान्दसे लङि तिपि रूपमैतत् ।। यद्वा । किमिति प्रथमैच । किं तत्त्वमावरकमावृणुयात् । आव्रियमाणवत्तदपि स्वरूपेण नासीदित्यर्थः । अवृण्वत् तत्तत्त्वं “कुह कुत्र देशेऽवस्थायावृणोति । आधारभूतस्तादृशो देशोऽपि नासीदित्यर्थः ।। किंशब्दात् सप्तम्यर्थे हप्रत्ययः । 'कु तिहोः (पा, सू, ७.३.१०४ ) हृति प्रकृतेः क्वादेशः ।। “कस्य “शर्मन् कस्य वा भोक्तुर्जीवस्य शर्मणि सुखदुःखसाक्षात्कारलक्षणे भोगे निमित्तभूते सति तदावरकं तत्व् मावृणुयात् । जीवानामुपभोगार्था हि सृष्टिः। तस्यां हि सत्यां ब्रह्माण्डस्य भूतैरावरणं प्रलयदशायां च भोक्तारो जीवा उपाधिविलयात प्रलीना इति कस्य कश्चिदपि भोक्ता न संभवतीत्यावरणस्य निमित्ताभावादपि तन्न घटत इत्यर्थः । एतेन भोग्यप्रपञ्चवत् भोक्तृप्रपञ्चोऽपि तदानीं नासीदित्युक्तं भवति ।। किंशब्दादुत्तरस्य ङसः ‘ सावेकाचः०' इति प्राप्तस्योदात्तत्वस्य ‘ न गोश्वन्साववर्ण ' इति प्रतिषेधः । ‘ सुपां सुलुक्° इति शर्मणः सप्तम्या लुक् ।। यद्यपि सावरणस्य ब्रह्माण्डस्य निषेधेन तदन्तर्गतमप्सत्त्वमपि निराकृतं तथापि ‘ आपो वा इदमग्रे सलिलमासीत् ' (तै. सं. ७, १, ५, १ ) इति श्रुत्या कश्चिदपां सद्भावमाशङ्केत । तं प्रत्याचष्टे अम्भः किमासीत् इति । ”गहनं दुष्प्रवेशं “गभीरं दुरवस्थानमत्यगाधम् ईदृशम् “अम्भः “किमासीत् । तदपि नैवासीदित्यर्थः । श्रुतिस्त्ववान्तरप्रलयविषया ।।


न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः ।

आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किं च॒नास॑ ॥ २

न । मृ॒त्युः । आ॒सी॒त् । अ॒मृत॑म् । न । तर्हि॑ । न । रात्र्याः॑ । अह्नः॑ । आ॒सी॒त् । प्र॒ऽके॒तः ।

आनी॑त् । अ॒वा॒तम् । स्व॒धया॑ । तत् । एक॑म् । तस्मा॑त् । ह॒ । अ॒न्यत् । न । प॒रः । किम् । च॒न । आ॒स॒ ॥२

न । मृत्युः । आसीत् । अमृतम् । न । तर्हि । न । रात्र्याः । अह्नः । आसीत् । प्रऽकेतः ।

आनीत् । अवातम् । स्वधया । तत् । एकम् । तस्मात् । ह । अन्यत् । न । परः । किम् । चन । आस ॥२

ननूक्तस्य प्रतिसंहारस्य संहर्त्रपेक्षत्वात् स एव संहर्ता मृत्युर्विद्यत इत्यत आह “न “मृत्युरासीत् इति । ननु यदि स नासीत् तर्हि तदभावकृतम् “अमृतम् अमरणं प्राणिनामवस्थानं तदानीमपि स्यात् तत्राह। “अमृतं “न “तर्हि इति । तर्हि तस्मिन् प्रतिहारसमये । अयं भावः । सर्वेषां प्राणिनां परिपक्वं भोगहेतुभूतं सर्वं करम यदोपभुक्तमासीत् तदा भोगाभावान्निष्ष्प्रयोजनमिदं जगदिति परमेश्वरस्य मनसि संजिहीर्षा जायते । परिपक्वं भोगहेतुभूतं सवं कर्म यदोपभुक्तमासीत् तदा भोगाभावान्निष्मग्रोजनमिदं जगदिति परमेश्वरस्य मनसि संजिहीर्षा जायते । तथैव स मृत्युः सर्वं जगत् संहरत इति किमनेन मृत्युना संहर्त्रा तदभावकृतं वा कथममरणं स्यादिति । एतदेवाभिप्रेत्य कठैराम्नायते-' यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ' ( क. उ. २.२५) इति । नन्वेतस्य सर्वस्याधिकरणभूतः कालो विद्यत इत्यत आह न रात्र्या इति । “रात्र्या “अह्नः च “प्रकेतः प्रज्ञानं “न “आसीत् । तद्धेतुभूतयोः सूर्याचन्द्रमसोरभावात् । एतेनाहोरात्रनिषेधेन तदात्मको मासर्तुसंवत्सरप्रभृतिकः सर्वः कालः प्रत्याख्यातः । कथं तर्हि नो सदासीत्तदानीमिति कालवाची प्रत्ययः । उपचारादिति ब्रूमः । यथेदानींतननिषेधस्य कालोऽवच्छेदकस्तथा मायापि तदवच्छेदहेतुरित्यवच्छेदकत्वसाम्येनाकालेऽपि कालवाची प्रत्ययः । यदवादिष्म ब्रह्मणः परमार्थसत्त्वमग्रे वक्ष्यत इति तदिदानीं दर्शयत्यानीदिति । “तत् सकलवेदान्तप्रसिद्धं ब्रह्मतत्त्वम् “आनीत् प्राणितवत् । नन्वेवं प्राणनकर्तुर्जीवभावापन्नस्यैव ब्रह्मणः सत्त्वं स्यात् न विवक्षितस्य निरुपाधिकस्य ब्रह्मणः । ' अप्राणो ह्यमनाः शुद्धः ' इति तस्य प्राणसंबन्धाभावात् तत्राह आनीदवातमिति । अयमाशयः । आनीदित्यत्र धात्वर्थक्रिया तत्कर्ता तस्य च भूतकालसंबन्ध इति त्रयोऽर्थाः प्रतीयन्ते । तत्र समुदायो न विधीयते यथाग्नेयोऽष्टाकपाल इति येन ब्रह्मणः सत्त्वं न स्यात् । किं तर्ह्यनेन कर्तृत्वमनूद्य भूतकालसत्तालक्षणो गुणो विधीयते दध्ना जुहोतीति वाक्यान्तरविहिताग्निहोत्रानुवादेन तत्र गुणविधानम् । तत्राप्यनेन कर्तृत्वविशिष्टस्य न पूर्वकालसत्ता विधीयते तन्निषेधानुपपत्तिप्रसङ्गात् अतोऽनेन कर्तृत्वेन इदानींतनेनोपलक्षितं यन्निरुपाधिकं परं ब्रह्म तस्यैव भूतकालसत्ता विधीयत इति न कश्चिद्दोष इति । नन्वीदृशस्य ब्रह्मणो मायया सह संबन्धासंभवात् सांख्याभिमता स्वतन्त्रा सद्रूपा सत्त्वरजस्तमोगुणात्मिका मूलप्रकृतिरेवाभिमतेति कथं नो सदिति निषेधः । तत्राह “स्वधया इति । स्वस्मिन् धीयते ध्रियत आश्रित्य वर्तत इति स्वधा माया । तया तद्ब्रह्मैकमविभागापन्नमासीत् । ' सहयुक्तेऽप्रधाने ' ( पा. सू. २.३.१ ९) इति तृतीया सहशब्दयोगाभावेऽपि सहार्थयोगे भवति ' वृद्धो यूना' ( पा. सू. १. २. ६५) इति निपातनाल्लिङ्गात् । अत्र प्रकृतिप्रत्ययाभ्यां तस्याः स्वातन्त्र्यं निवार्यते । यद्यपि असङ्गस्य ब्रह्मणस्तया सह संबन्धो न संभवति तथापि तस्मिन्नविद्यया तत्स्वरूपमिव संबन्धोऽप्यध्यस्यते यथा शुक्तिकायां रजतस्य । एतेन सद्रूपत्वमपि तस्याः प्रत्याख्यातम् । ननु यदि माया ब्रह्मणा सहाविभागापन्ना तर्हि तस्या अनिर्वाच्यत्वात् ब्रह्मणोऽपि तत्प्रसङ्ग इति कथं तस्य सत्त्वमुक्तम् आनीदवातमिति । ब्रह्मणो वा सत्त्वात्तस्या अपि सत्त्वप्रसङ्ग इति कथं नो सदासीदिति सत्त्वप्रतिषेधः । मैवम् । अयुक्तिदृष्ट्यैक्यावभासेऽपि युक्त्या विविच्य मायांशस्यानिर्वाच्यत्वं ब्रह्मणः सत्त्वं च प्रतिपादितम् । ननु दृग्दृश्याविति द्वावेव पदार्थौ आनीदवातं स्वधयेति तौ चेदङ्गीक्रियेते तत्किमपरमवशिष्यते यत् नासीद्रजः इत्यादिना प्रतिषिध्येत तत्राह तस्मादिति । “तस्माद्ध तस्मात् खलु पूर्वोक्तान्मायासहितात् ब्रह्मणः “अन्यत् “किं “चन किमपि वस्तु भूतभौतिकात्मकं जगत् “न “आस न बभूव ।। ' छन्दस्युभयथा ' इति लिटः सार्वधातुकत्वादस्तेर्भूभावाभावः ।। ननु तदानीमन्यस्य सत्त्वनिषेधो न शङ्क्यः । असत्त्वे चाप्रसक्तत्वान्न निषेधोपयोग इत्यत आह पर इति । “परः परस्तात् सृष्टेरूर्ध्वं वर्तमानमिदं जगत् तदानीं न बभूवेत्यर्थः । अन्यथा उक्तरीत्या क्वचिदपि निषेधो च स्यादिति भावः ।।


तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे॑ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दम् ।

तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् ॥ ३

तमः॑ । आ॒सी॒त् । तम॑सा । गू॒ळ्हम् । अग्रे॑ । अ॒प्र॒ऽके॒तम् । स॒लि॒लम् । सर्व॑म् । आः॒ । इ॒दम् ।

तु॒च्छ्येन॑ । आ॒भु । अपि॑ऽहितम् । यत् । आसी॑त् । तप॑सः । तत् । म॒हि॒ना । अ॒जा॒य॒त॒ । एक॑म् ॥३

तमः । आसीत् । तमसा । गूळ्हम् । अग्रे । अप्रऽकेतम् । सलिलम् । सर्वम् । आः । इदम् ।

तुच्छ्येन । आभु । अपिऽहितम् । यत् । आसीत् । तपसः । तत् । महिना । अजायत । एकम् ॥३

ननूक्तप्रकारेण यदि पूर्वमिदं जगन्नासीत् कथं तर्हि तस्य जन्म । जायमानस्य जनिक्रियायां कर्तृत्वेन कारकत्वात् कारकं च कारणावान्तरविशेष इति कारकस्य सतो नियतपूर्वक्षणवर्तित्वस्य अवश्यंभावात् । अथैतद्दोषपरिजिहीर्षया जनिक्रियायाः प्रागपि तद्विद्यत इत्युच्यते । कथं तस्य जन्म । अत आह तमसा गूळ्हमग्रे इति । “अग्रे सृष्टेः प्राक् प्रलयदशायां भूतभौतिकं सर्वं जगत् “तमसा “ग्रूळ्हम् । यथा नैशं तमः सर्वपदार्थजातमावृणोति तद्वत् । आत्मतत्त्वस्यावरकत्वान्मायापरसंज्ञं भावरूपाज्ञानमत्र तम इत्युच्यते । तेन तमसा निगूढं संवृतं कारणभूतेन तेनाच्छादितं भवति । आच्छादकात् तस्मात्तमसो नामरूपाभ्यां यदाविर्भवनं तदेव तस्य जन्मेत्युच्यते । एतेन कारणावस्थायामसदेव कार्यमुत्पद्यते इत्यसद्वादिनोऽसत्कार्यवादिनो ये मन्यन्ते ते प्रत्याख्याताः । ननु कारणे तमसि तज्जगदात्मकं कार्यं विद्यते चेत् कथं नासीद्रज इत्यादिनिषेधः । तत्राह “तम “आसीत् इति । तमोभावरूपाज्ञानं मूलकारणम् । तद्रूपता तदात्मनाम् । यतः सर्वं जगत् प्राक् तम आसीदतो निषिध्यत इत्यर्थः । नन्वावरकत्वादावरकं तमः कर्तृ आवार्यत्वाज्जगत्कर्म । कथं तयोः कर्मकर्त्रोस्तादात्य्थम् । तत्राह अप्रकेतमिति । “अप्रकेतम् अप्रज्ञायमानम् । अयमर्थः । यद्यपि जगतस्तमसश्च कर्मकर्तृभावो यौक्तिको विद्यते तथापि व्यवहारदशायामिव तस्यां दशायां नामरूपाभ्यां विस्पष्टं न ज्ञायत इति तादात्म्यवर्णनम् । । अत एव मनुना स्मर्यते - ' आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः ' ( मनु. १. ५) इति । कुतो वा न प्रज्ञायते तत्राह । “सलिलम् । ' षल गतौ । औणादिक इलच् । “इदं दृश्यमानं “सर्वं जगत् सलिलं कारणेन संगतमविभागापन्नम् “आः आसीत् । अस्तेर्लडिः तिपि ' बहुलं छन्दसि ' इतीडभावे ' हल्ङ्याब्भ्यः' इति तिलोपे ' तिप्यनस्तेः' ( पा. सू ८.२.७३) इति पर्युदासाद्दकाराभावः । यद्वा सलिलमिति लुप्तोपमम् । सलिलमिव । यथा क्षीरेणाविभागापन्नं नीरं दुर्विज्ञानं तथा तमसाविभागापन्नं जगन्न शक्यविज्ञानमित्यर्थः । ननु विविधविचित्ररूपभूयसः प्रपञ्चस्य कथमतितुच्छेन तमसा क्षीरेण नीरस्येवाभिभवः । तथा तमोऽपि क्षीरवद्बलवदित्येवोच्यते । तर्हि दुर्बलस्य जगतः सर्गसमयेऽपि नोद्भवसंभव इत्यत आह तुच्छ्येन इति । आ समन्ताद्भवतीति “आभुः “तुच्छ्येन । छान्दसो यकारोपजनः । तुच्छेन तुच्छकल्पनेन सदसद्विलक्षणेन भावरूपाज्ञानेन “अपिहितं छादितम् “आसीत् । दधातेः कर्मणि निष्ठा । दधातेर्हि । ' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । “एकम् एकीभूतं कारणेन तमसाविभागतां प्राप्तमपि तत्कार्यजातं “तपसः स्रष्टव्यपर्यालोचनरूपस्य “महिनामाहात्म्येन “अजायत उत्पन्नम् । तपसः स्रष्टव्यपर्यालोचनरूपत्वं चान्यत्राम्नायते-' यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ' ( मु. उ. १.१.९) इति।।


काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् ।

स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥ ४

कामः॑ । तत् । अग्रे॑ । सम् । अ॒व॒र्त॒त॒ । अधि॑ । मन॑सः । रेतः॑ । प्र॒थ॒मम् । यत् । आसी॑त् ।

स॒तः । बन्धु॑म् । अस॑ति । निः । अ॒वि॒न्द॒न् । हृ॒दि । प्र॒ति॒ऽइष्य॑ । क॒वयः॑ । म॒नी॒षा ॥४

कामः । तत् । अग्रे । सम् । अवर्तत । अधि । मनसः । रेतः । प्रथमम् । यत् । आसीत् ।

सतः । बन्धुम् । असति । निः । अविन्दन् । हृदि । प्रतिऽइष्य । कवयः । मनीषा ॥४

ननूक्तरीत्या यदीश्वरस्य पर्यालोचनं जगतः पुनरुत्पत्तौ कारणं तदेव किंनिबन्धनमित्यत आह कामस्तदग्र इति । “अग्रे अस्य विकारजातस्य सृष्टेः प्रागवस्थायां परमेश्वरस्य मनसि “कामः “समवर्तत सग्यगजायत । सिसृक्षा जातेत्यर्थः । ईश्वरस्य सिसृक्षा वा किंहेतुकेत्यत आह मनस इति । “मनसः अन्तःकरणस्य संबन्धि वासनाशेषेण मायायां विलीनेऽन्तःकरणे समवेतम् । सामान्यापेक्षमेकवचनम् । सर्वप्राण्यन्तःकरणेषु समवेतमित्यर्थः । एतेनात्मनो गुणाधारत्वं प्रत्याख्यातम् । तादृशं “रेतः भाविनः प्रपञ्चस्य बीजभूतं “प्रथमम् अतीते कल्पे प्राणिभिः कृतं पुण्यात्मकं कर्म “यत् यतः कारणात् सृष्टिसमये “आसीत् अभवत् । भूष्णु वर्धिष्ण्वजायत परिपक्वं सत् फलोन्मुखमासीदित्यर्थः । तत्ततो हेतोः फलप्रदस्य सर्वसाक्षिणः कर्माध्यक्षस्य परमेश्वरस्य मनसि सिसृक्षा अजायतेत्यर्थः । तस्यां च जातायां स्रष्टव्यं पर्यालोच्य ततः सर्वं जगत् सृजति । तथा चाम्नायते -' सोऽकामयत बहुः स्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वेदं सर्वमसृजत यदिदं किंच ' ( तै. आ. ८. ६) इति श्रुतिः । आत्मनेत्थमवगमितेऽर्थे विद्वदनुभवमप्यनुग्राहकत्वेन प्रमाणयति सत इति । “सतः सत्त्वेन इदानीमनुभूयमानस्य सर्वस्य जगतः “बन्धुं बन्धकं हेतुभूतं कल्पान्तरे प्राण्यनुष्ठितं कर्मसमूहं “कवयः क्रान्तदर्शना अतीतानागतवर्तमानाभिज्ञा योगिनः “हृदि हृदये निरुद्धया “मनीषा मनीषया बुद्ध्या । ' सुपां सुलुक्०' इति तृतीयाया लुक् । “प्रतीष्य विचार्य । ' अन्येषामपि' इति सांहितिको दीर्घः । “असति सद्विलक्षणेऽव्याकृते कारणे “निरविन्दन् निष्कृष्यालभन्त । विविच्याजानन्नित्यर्थः ।।


ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् ।

रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ॥ ५

ति॒र॒श्चीनः॑ । विऽत॑तः । र॒श्मिः । ए॒षा॒म् । अ॒धः । स्वि॒त् । आ॒सी॒३त् । उ॒परि॑ । स्वि॒त् । आ॒सी॒३त् ।

रे॒तः॒ऽधाः । आ॒स॒न् । म॒हि॒मानः॑ । आ॒स॒न् । स्व॒धा । अ॒वस्ता॑त् । प्रऽय॑तिः । प॒रस्ता॑त् ॥५

तिरश्चीनः । विऽततः । रश्मिः । एषाम् । अधः । स्वित् । आसीत् । उपरि । स्वित् । आसीत् ।

रेतःऽधाः । आसन् । महिमानः । आसन् । स्वधा । अवस्तात् । प्रऽयतिः । परस्तात् ॥५

एवमविद्याकामकर्माणि सृष्टेर्हेतुत्वेनोक्तानि । अधुना तेषां स्वकार्यजनने शैघ्र्यं प्रतिपाद्यते । येयं नासदासीदित्यविद्या प्रतिपादिता यश्च कामस्तदग्रे इति कामो मनसो रेतः प्रथमं यदासीदिति यत्कर्म “एषाम् अविद्याकामकर्मणां वियदादिभूतजातानि सृजतां “रश्मिः रश्मिसदृशो यथा सूर्यरश्मिः उदयानन्तरं निमेषमात्रेण युगपत् सर्वं जगत् व्याप्नोति तथा शीघ्रं सर्वत्र व्याप्नुवन् यः कार्यवर्गः “विततः विस्तृतः “आसीत् । स्विदासीत् इति वक्ष्यमाणमत्रापि संबध्यते । ' विचार्यमाणानाम् '( पा. सू. ८. २.९७) इति प्लुतः । तत्रोदात्त इत्यनुवृत्तेः स चोदात्तः । “स्वित् इति वितर्के । स कार्यवर्गः प्रथमतः किं “तिरश्चीनः तिर्यगवस्थितो मध्ये स्थित आसीत् किंवा “अधः. अधस्तात् “आसीत् । आहोस्वित् “उपरि उपरिष्टात् किमासीत् । ' उपरि स्विदासीदिति च ' ( पा. सू ८.२.१०२) इत्यनुदात्तः प्लुतः । ' आत्मन आकाशः संभूत आकाशाद्वायुर्वायोरग्निः ' ( तै.आ. ८. १) इत्यादिकया पञ्चमीश्रुत्या तत उद्गातारं ततो होतारमितिवत् क्रमप्रतिपत्तौ सत्यामपि विद्युत्प्रकाशवत् सर्गस्य शीघ्रव्यापनेन तस्य क्रमस्य दुर्लक्षणत्वादेतेषु त्रिषु स्थानेषु प्राथम्यं कुत्रेति विचार्यते । एवं नाम शीघ्रं सर्वतो दिक्षु सर्गो निष्पन्न इत्यर्थः । एतदेव विभजते । सृष्टेषु कार्येषु मध्ये केचिद्भावाः “रेतोधाः रेतसो बीजभूतस्य कर्मणो विधातारः कर्तारो भोक्तारश्च जीवाः “आसन् अन्ये भावाः “महिमानः । स्वार्थिक इमनिच् । महान्तो वियदादयो भोग्याः “आसन् । एवं मायासहितः परमेश्वरः सर्वं जगत् सृष्ट्वा स्वयं चानुप्रविश्य भोक्तृभोग्यादिरूपेण विभागं कृतवानित्यर्थः । अयमेवार्थस्तैत्तिरीयके ' तत्सृष्ट्वा तदेवानुप्राविशत् ' ( तै. आ. ८. ६) इत्यारभ्य प्रतिपाद्यते । तत्र च भोक्तृभोग्ययोर्मध्ये “स्वधा । अन्ननामैतत् । भोग्यप्रपञ्चः “अवस्तात् अवरो निकृष्ट आसीत् । “प्रयतिः प्रयतिता भोक्ता “परस्तात् पर उत्कृष्ट आसीत् । भोग्यप्रपञ्चं भोक्तृप्रपञ्चस्य शेषभूतं कृतवानित्यर्थः । ' विभाषा परावराभ्याम् ' ( पा. सू ५.३.२९) इति प्रथमार्थे अस्तातिः । ' अस्ताति च ' ( पा. सू. ५.३.४०) इत्यवरशब्दस्यावादेशः । अवस्तादिति संहितायाम् ईषाअक्षादित्वात् प्रकृतिभावः ।।


को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः ।

अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥ ६

कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । कुतः॑ । आऽजा॑ता । कुतः॑ । इ॒यम् । विऽसृ॑ष्टिः ।

अ॒र्वाक् । दे॒वाः । अ॒स्य । वि॒ऽसर्ज॑नेन । अथ॑ । कः । वे॒द॒ । यतः॑ । आ॒ऽब॒भूव॑ ॥६

कः । अद्धा । वेद । कः । इह । प्र । वोचत् । कुतः । आऽजाता । कुतः । इयम् । विऽसृष्टिः ।

अर्वाक् । देवाः । अस्य । विऽसर्जनेन । अथ । कः । वेद । यतः । आऽबभूव ॥६

एवं भोक्तृभोग्यरूपेण सृष्टिः संग्रहेण प्रतिपादिता । ' इ१तावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादन्(श ब्रा. १ ४.२.१३) इतिवत् । अथेदानीं सा सृष्टिर्दुर्विज्ञानेति न विस्तरेणाभिहितेत्याह को अद्धेति । “कः पुरुषः “अद्धा पारमार्थ्येन “वेद जानाति । “कः वा “इह अस्मिल्लोके “प्र “वोचत् प्रब्रूयात् । “इयं दृश्यमाना “विसृष्टिः विविधा भूतभौतिकभोक्तृभोग्यादिरूपेण बहुप्रकारा सृष्टिः “कुतः कस्मादुपादानकारणात् । “कुतः कस्माच्च निमित्तकारणात् “आजाता समन्ताज्जाता प्रादुर्भूता । एतदुभयं सम्यक् को वेद को वा विस्तरेण वक्तुं शक्नुयादित्यर्थः । ननु देवाः अजानन्तः । सर्वज्ञास्ते ज्ञास्यन्ति वक्तुं च शक्नुवन्तीत्यत आह अर्वागिति । “देवाः च “अस्य जगतो विसर्जनेन “वियदादिभूतोत्पत्त्यनन्तरं विविधं यद्भौतिकं सर्जनं सृष्टिस्तेन “अर्वाक् अर्वाचीनाः कृताः । भूतसृष्टेः पश्चाज्जाता इत्यर्थः । तथाविधास्ते कथं स्वोत्पत्तेः पूर्वकालीनां सृष्टिं जानीयुः । अजानन्तो वा कथं प्रब्रूयुः । उक्तं दुर्विज्ञानत्वं निगमयति । “अथ एवं सति देवा अपि च जानन्ति किल । तद्व्यतिरिक्तः “कः नाम मनुष्यादिः “वेद तज्जगत्कारणं जानाति “यतः कारणात् कृत्स्नं जगत् “आबभूव अजायत ।।


इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न ।

यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न्सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ॥ ७

इ॒यम् । विऽसृ॑ष्टिः । यतः॑ । आ॒ऽब॒भूव॑ । यदि॑ । वा॒ । द॒धे । यदि॑ । वा॒ । न ।

यः । अ॒स्य॒ । अधि॑ऽअक्षः । प॒र॒मे । विऽओ॑मन् । सः । अ॒ङ्ग । वे॒द॒ । यदि॑ । वा॒ । न । वेद॑ ॥७

इयम् । विऽसृष्टिः । यतः । आऽबभूव । यदि । वा । दधे । यदि । वा । न ।

यः । अस्य । अधिऽअक्षः । परमे । विऽओमन् । सः । अङ्ग । वेद । यदि । वा । न । वेद ॥७

उक्तप्रकारेण यथेदं जगत्सर्जनं दुर्विज्ञानं एवं सृष्टं तज्जगत् दुर्धरमपीत्याह इयमिति । “यतः उपादानभूतात् परमात्मनः “इयं “विसृष्टिः विविधा गिरिनदीसमुद्रादिरूपेण विचित्रा सृष्टिः “आबभूव आजाता सोऽपि किल “यदि “वा “दधे धारयति “यदि “वा “न धारयति । एवं च को नाम अन्यो धर्तुं शक्नुयात् । यदि धारयेदीश्वर एव धारयेन्नान्य इत्यर्थः । एतेन कार्यस्य धारयितृत्वप्रतिपादनेन ब्रह्मण उपादानकारणत्वमुक्तं भवति । तथा च पारमार्षं सूत्रं --' प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ' ( वे. सू. १. ४.२३) इति । यद्वा । अनेनार्धर्चेन पूर्वोक्तं सृष्टेर्दुर्ज्ञानत्वमेव द्रढयति । को वेदेत्यनुवर्त्तते । इयं विविधा षष्टिः यत आबभूव आ समन्तादजाययेति को वेद । न कोऽपि । नास्त्येव जगतो जन्म न कदाचिदनीदृशं जगदिति बहवो भ्रान्ता भवन्त्यपि । यतः । ' जनिकर्तुः प्रकृतिः ' ( पा. सू १ .४.३०) इत्यपादानसंज्ञायां पञ्चम्यास्तसिल् । यस्मात् परमात्मन उपादानभूतादाबभूव तं परमात्मानं को वेद । न कोऽपि । प्रकृतितः परमाणुभ्यो वा जगज्जन्मेति हि बहवो भ्रान्ताः । तथा स एवोपादानभूतः परमात्मा स्वयमेव निमित्तभूतोऽपि सन् यदि वा दधे विदधे इदं जगत् ससर्ज यदि वा न ससर्ज । असंदिग्धे संदिग्धवचनमेतच्छास्त्राणि चेत्प्रमाणं स्युरिति यथा । स एव विदधे । तं को वेद । अजानन्तोऽपि बहवो जडात् प्रधानादकर्तृकमेवेदं जगत् स्वयमजायतेति विपरीतं प्रतिपन्ना विदधतो विधानमजानन्तोऽपि । स एव उपादानभूत इत्यपि को वेद । न कोऽपि । उपादानादन्यः तटस्थ एवेश्वरो विदधे इति हि बहवः प्रतिपन्नाः । देवा अपि यन्न जानन्ति तदर्वाचीनानामेषां तत्परिज्ञाने कैव कथेत्यर्थः । यद्येवं जगत्सृष्टिरत्यन्तदुरवबोधा न तर्हि सा प्रमाणपद्धतिमध्यास्त इत्याशङ्क्य तत्सद्भाव ईश्वरमेव प्रमाणयति यो अस्येति । “अस्य भूतभौतिकात्मकस्य जगतः “यः “अध्यक्षः ईश्वरः “परमे उत्कृष्टे सत्यभूते “व्योमन् “व्योमन्याकाशे आकाशवन्निर्मले स्वप्रकाशे । यद्वा ।। अवतेस्तर्पणार्थात् ' अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ' नेड्वशि कृति ' इतीट्प्रतिषेधः । ' ज्वरत्वर०' इत्यादिना वकारोपधयोः ऊट् । सप्तम्या लुक् । ' न ङिसंबुद्ध्योः' इति नलोपप्रतिषेधः ।। व्योमनि विशेषेण तृप्ते' । निरतिशयानन्दस्वरूपे इत्यर्थः । यद्वा । अवति- ४त्यर्थः । व्योमनि विशेषेण गते व्याप्ते । देशकालवस्तुभिरपरिच्छिन्न इत्यर्थः । अथवा । अवतिर्ज्ञानार्थः । व्योमनि विशेषेण ज्ञातरि विशिष्टज्ञानात्मनि । ईदृशे स्वात्मनि प्रतिष्ठितः । श्रूयते हि सनत्कुमारनारदयोः संवादे -' स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि ' (छा. उ. ७.२४. १) इति । ईदृशो यः परमेश्वरः “सो “अङ्ग । अङ्गेति प्रसिद्धौ । सोऽपि नाम “वेद जानाति । “यदि “वा “न “वेद न जानाति । को नाम अन्यो जानीयात् । सर्वज्ञ ईश्वर एव तां सृष्टिं जानीयात् नान्य इत्यर्थः ।। १७ ।।


[सम्पाद्यताम्]

न मृत्युरासीदित्येताम् आचिख्यासां प्रचक्षते । अभिशापोऽप्रजाः सन्तु भद्रमाशीस्तु गोतमे ।। ५८ ।।

संशयोऽधः स्विदासीच्च कत्थना स्यादहं मनुः । इमं नो यज्ञमित्यस्यां नियोगः पाद उच्यते ।।बृहद्देवता १.५१ ।।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१