ऋग्वेदः सूक्तं १०.१७२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१७२ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१७१ ऋग्वेदः - मण्डल १०
सूक्तं १०.१७२
संवर्त आङ्गिरसः
सूक्तं १०.१७३ →
दे. उषाः। द्विपदा विराट्



आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः ॥१॥
आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः ॥२॥
पितुभृतो न तन्तुमित्सुदानवः प्रति दध्मो यजामसि ॥३॥
उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता ॥४॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

सायणभाष्यम्

  • आ याहि' इति चतुर्ऋचमेकविंशं सूक्तमाङ्गिरसस्य संवर्तस्यार्षमुषोदेवताकम् । चतस्रोऽपि विंशतिका द्विपदा विराजः । तथा चानुकान्तम्---* आ याहि संवर्त उषस्यं द्वैपदम्' इति । प्रथमे छन्दोमे वैश्वदेवसूक्तात्पूर्वमिदं सूक्तम् । सूत्रित च--* आ याहि वनसेमा नु कं बभ्रुरेक इति द्विपदासूक्तानि (आश्व. श्रौ. ८. ७) इति । महाव्रतेऽपि निष्केवल्य एतत् । तथैव पञ्चमारण्यके सूत्रितम्-- आ याहि वनसा सहेति नव समाम्नाताः' (ऐ. आ. ५. २. २) इति ।।


आ या॑हि॒ वन॑सा स॒ह गावः॑ सचन्त वर्त॒निं यदूध॑भिः ॥

आ। याहि । वनसा । सह । गावः । सचन्त । वर्तनिम् । यत् । ऊधऽभिः ।। १ ।।

हे उषः "वनसा वननीयेन तेजसा धनेन वा सार्धम् vआ vयाहि आगच्छ । vगावः उषसो वाहनभूताः vवर्तनिं रथं सचन्त सेवन्ते । अतस्तेन रथेनायाहीत्यर्थः । vयत् या गावः ऊधभिः उपलक्षिताः प्रभूताः । पीना इत्यर्थः । ता गाव इति संबन्धः ॥


आ या॑हि॒ वस्व्या॑ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ॥

आ। याहि । वस्व्या । धिया । मंहिष्ठः । जारयत्ऽमखः । सुदानुऽभिः ।। २ ।।

हे उषः "वस्व्या प्रशस्तया धिया अनुग्रहबुद्ध्या कर्मणा स्तुत्या वा सार्धम् vआ vयाहि आगच्छ । स चोषःकालः सुदानुभिः शोभनदानैर्यातृभिः पुरुषैः vमंहिष्ठः धनानां दातृतमः अत एव जारयन्मखः समापयद्यज्ञश्च भवति ॥


पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑व॒ः प्रति॑ दध्मो॒ यजा॑मसि ॥

पितुऽभृतः । न । तन्तुम् । इत् । सुऽदानवः । प्रति । दध्मः । यजामसि ।। ३ ।।

vपितुभृतो न अन्नस्य भर्तार इव "सुदानवः शोभनदाना वयं तन्तुमित् तन्तुं विस्तीर्णमेव vप्रति दध्मः। उषसं प्रत्युपायनरूपेण धारयामः । तेन च यज्ञेन तमुषसं यजामसि ।


दशमेऽहनि प्रातरनुवाक उषस्ये क्रतौ * उषो भद्रेभिः' इत्यस्याः स्थाने ' उषा अप स्वसुः । इत्येषा। सूत्रितं च-* उषा अप स्वसुस्तम इति पच्छो द्विपदां त्रिरुषस्ये ' ( आश्व. श्रौ. ८. १२) इति ॥

उ॒षा अप॒ स्वसु॒स्तम॒ः सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ ॥

उषाः । अप । स्वसुः । तमः । सम् । वर्तयति । वर्तनिम्। सुऽजातता ।। ४ ।।

इयम् "उषाः स्वसुः भगिन्या रात्रेः संबन्धि तमः अन्धकारम् अप vसं वर्तयति । आत्मीयेन तेजसापगमयति । "सुजातता सुजातत्वमात्मनः सुप्रजातत्वं च "वर्तनिं रथं प्रापयति॥॥३०॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१७२&oldid=142158" इत्यस्माद् पुनः प्राप्तिः