ऋग्वेदः सूक्तं १०.५६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.५६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.५५ ऋग्वेदः - मण्डल १०
सूक्तं १०.५६
बृहदुक्थो वामदेव्यः
सूक्तं १०.५७ →
दे. विश्वे देवाः। त्रिष्टुप्, ४-६ जगती।


इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।
संवेशने तन्वश्चारुरेधि प्रियो देवानां परमे जनित्रे ॥१॥
तनूष्टे वाजिन्तन्वं नयन्ती वाममस्मभ्यं धातु शर्म तुभ्यम् ।
अह्रुतो महो धरुणाय देवान्दिवीव ज्योतिः स्वमा मिमीयाः ॥२॥
वाज्यसि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवं गाः ।
सुवितो धर्म प्रथमानु सत्या सुवितो देवान्सुवितोऽनु पत्म ॥३॥
महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपि क्रतुम् ।
समविव्यचुरुत यान्यत्विषुरैषां तनूषु नि विविशुः पुनः ॥४॥
सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमिता मिमानाः ।
तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु ॥५॥
द्विधा सूनवोऽसुरं स्वर्विदमास्थापयन्त तृतीयेन कर्मणा ।
स्वां प्रजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम् ॥६॥
नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिरति दुर्गाणि विश्वा ।
स्वां प्रजां बृहदुक्थो महित्वावरेष्वदधादा परेषु ॥७॥


सायणभाष्यम्

‘ इदं ते ' इति सप्तर्चं चतुर्दशं सूक्तम् । वामदेवपुत्रो बृहदुक्थ ऋषिः । चतुर्थीपञ्चमीषष्ठ्यो जगत्यः । आदितस्तिस्रः सप्तमी च त्रिष्टुभः । विश्वे देवा देवता । तथा चानुक्रान्तम् - इदं ते सप्त वैश्वदेवं तु चतुर्थ्याद्यास्तिस्रो जगत्य: ' इति । गतः सूक्तविनियोगः । आहवनीये वाय्वादिकारणेनायतनान्निष्क्रम्य शम्यापरासादर्वाचीने देशे दीप्यमाने सति तमग्निमनया पुनरायतने संवपेत् । सूत्रितं च - ‘ आहवनीयमवदीप्यमानमर्वाक् शम्यापरासादिदं त एकं पर ऊ त एकमिति संवपेत् । (आश्व. श्रौ. ३. १०) इति ॥


इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व ।

सं॒वेश॑ने त॒न्व१॒॑श्चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे॑ ॥१

इ॒दम् । ते॒ । एक॑म् । प॒रः । ऊं॒ इति॑ । ते॒ । एक॑म् । तृ॒तीये॑न । ज्योति॑षा । सम् । वि॒श॒स्व॒ ।

स॒म्ऽवेश॑ने । त॒न्वः॑ । चारुः॑ । ए॒धि॒ । प्रि॒यः । दे॒वाना॑म् । प॒र॒मे । ज॒नित्रे॑ ॥१

इदम् । ते । एकम् । परः । ऊं इति । ते । एकम् । तृतीयेन । ज्योतिषा । सम् । विशस्व ।

सम्ऽवेशने । तन्वः । चारुः । एधि । प्रियः । देवानाम् । परमे । जनित्रे ॥१

एतदादिभिर्बृहदुक्थो वाजिनं नाम स्वपुत्रं मृतं वदति । हे मृत पुत्र “ते तव “इदम् । उपरि ज्योतिषेति वक्ष्यमाणत्वादत्रेदंशब्देन ज्योतिरभिधीयते । इदं ज्योतिरग्न्याख्यम् “एकम् एकोंऽशः । अतस्तमग्निं तव देहगताग्न्यंशेन बाह्यमग्निं “सं “विशस्व संगच्छस्व । तथा “पर “उ अन्योऽपि “ते तत्र “एकं वाय्वावाख्योंऽशः ते तव प्राणवाय्वाख्येनांशेन से विशस्व । शरीराग्निप्राणवाय्वोर्बाह्याग्निवाय्वो श्चैकत्वादंशत्वमिति भावः । तथा “तृतीयेन “ज्योतिषा आदित्याख्येन तेजसा तवात्मना सं विशस्व । सूर्यगतात्मचैतन्यदेहगतात्मचैतन्ययोरभेदादंशत्वम् । तत् योऽहं सोऽसौ योऽसौ सोऽहं ‘ सूर्य आत्मा जगतस्तस्थुषश्च ' ( ऋ. सं. १.११५.१ ) इति श्रुतेरात्मनः सूर्यप्रवेशो युक्तः । “तन्वः तन्वा: “संवेशने तस्मिन्सूर्ये संविश्य “चारुरेधि कल्याणो भव । कीदृशस्त्वम् । “प्रियः तेन सह प्रीयमाणः । कीदृशे तस्मिन् ।"देवानां “परमे उत्तमे “जनित्रे जनके। देवानां ह्येतत्परमं जनित्रं यत्सूर्यः' इति हि श्रुतिः ॥


त॒नूष्टे॑ वाजिन्त॒न्वं१॒॑ नय॑न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य॑म् ।

अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वान्दि॒वी॑व॒ ज्योति॒ः स्वमा मि॑मीयाः ॥२

त॒नूः । ते॒ । वा॒जि॒न् । त॒न्व॑म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धातु॑ । शर्म॑ । तुभ्य॑म् ।

अह्रु॑तः । म॒हः । ध॒रुणा॑य । दे॒वान् । दि॒विऽइ॑व । ज्योतिः॑ । स्वम् । आ । मि॒मी॒याः॒ ॥२

तनूः । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धातु । शर्म । तुभ्यम् ।

अह्रुतः । महः । धरुणाय । देवान् । दिविऽइव । ज्योतिः । स्वम् । आ । मिमीयाः ॥२

हे “वाजिन् एतन्नामक पुत्र “ते तव “तन्वं शरीरं "नयन्ती स्वशरीरं प्रापयन्ती “तनूः इयं पृथिवी । उभयोरपि पार्थिवत्वात्तव शरीरस्य पृथिवीप्राप्तौ सत्यां तस्यास्तव शरीरनयनं युक्तम् । तादृशी पृथिवी “वामं वननीयं धनम् “अस्मभ्यं “धातु दधातु “शर्म च सुखं “तुभ्यं धातु दधातु । स त्वम् “अह्रुतः अनवपतितः सन् “महः महतः "देवान् तव कारणभूतान् “दिवीव “ज्योतिः द्युलोके वर्तमानं सूर्यं च । इवशब्दश्चार्थे निपातानामनेकार्थत्वात् । तं च “स्वं तव स्वभूतम् “आ “मिमीयाः आविश ॥


वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं॑ सुवि॒तो दिवं॑ गाः ।

सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान्सु॑वि॒तोऽनु॒ पत्म॑ ॥३

वा॒जी । अ॒सि॒ । वाजि॑नेन । सु॒ऽवे॒नीः । सु॒वि॒तः । स्तोम॑म् । सु॒वि॒तः । दिव॑म् । गाः॒ ।

सु॒वि॒तः । धर्म॑ । प्र॒थ॒मा । अनु॑ । स॒त्या । सु॒वि॒तः । दे॒वान् । सु॒वि॒तः । अनु॑ । पत्म॑ ॥३

वाजी । असि । वाजिनेन । सुऽवेनीः । सुवितः । स्तोमम् । सुवितः । दिवम् । गाः ।

सुवितः । धर्म । प्रथमा । अनु । सत्या । सुवितः । देवान् । सुवितः । अनु । पत्म ॥३

हे पुत्र त्वं “वाजिनेन अन्नरसेन बलेन वा “वाज्यसि तद्वान् भवसि । कीदृशस्त्वम् । “सुवेनीः सुष्ठु कान्तः । वी गत्यादिषु । तादृशस्त्वं “सुवितः सुष्ठु प्रेरितस्त्वं “स्तोमं पूर्वं त्वया कृतं स्तोत्रं तदभिमानिदेवम् “अनु “गाः अन्वगा: अनुगच्छ । तथा “सुवितो “दिवं गाः । तथा “सुवितो “धर्मं त्वया संपादितानि धर्माण्यनुगच्छ । कीदृशानि । “प्रथमा मुख्यानि “सत्या सत्यफलानि । तथा “सुवितो “देवान् इन्द्रादीन् । तथा “सुवितः "पत्म पतज्ज्योतिरादित्याख्यम् “अनु गाः ॥


म॒हि॒म्न ए॑षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतु॑म् ।

सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां॑ त॒नूषु॒ नि वि॑विशु॒ः पुन॑ः ॥४

म॒हि॒म्नः । ए॒षा॒म् । पि॒तरः॑ । च॒न । ई॒शि॒रे॒ । दे॒वाः । दे॒वेषु॑ । अ॒द॒धुः॒ । अपि॑ । क्रतु॑म् ।

सम् । अ॒वि॒व्य॒चुः॒ । उ॒त । यानि॑ । अत्वि॑षुः । आ । ए॒षा॒म् । त॒नूषु॑ । नि । वि॒वि॒शुः॒ । पुन॒रिति॑ ॥४

महिम्नः । एषाम् । पितरः । चन । ईशिरे । देवाः । देवेषु । अदधुः । अपि । क्रतुम् ।

सम् । अविव्यचुः । उत । यानि । अत्विषुः । आ । एषाम् । तनूषु । नि । विविशुः । पुनरिति ॥४

“पितरश्चन अस्मत्पितरोऽप्यङ्गिरसः “एषां देवानां “महिम्नः महत्व्“स्य “ईशिरे ईश्वरा अभवन् । ते “देवाः “अपि देवत्वं प्राप्ता अङ्गिरसः “देवेषु इन्द्रादिषु “क्रतुं संकल्पम् “अदधुः धृतवन्तः । "उत अपि च “यानि तेजांसि “अत्विषुः दीप्यन्ते तानि “समविव्यचुः संगता आसन् । “एषां देवानां “तनूषु शरीरेषु “नि “विविशुः निविशन्ति पितरोऽङ्गिरसः । अतस्त्वमपि तथा कुर्वित्यर्थः ॥


सहो॑भि॒र्विश्वं॒ परि॑ चक्रमू॒ रज॒ः पूर्वा॒ धामा॒न्यमि॑ता॒ मिमा॑नाः ।

त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये॑मिरे॒ प्रासा॑रयन्त पुरु॒ध प्र॒जा अनु॑ ॥५

सहः॑ऽभिः । विश्व॑म् । परि॑ । च॒क्र॒मुः॒ । रजः॑ । पूर्वा॑ । धामा॑नि । अमि॑ता । मिमा॑नाः ।

त॒नूषु॑ । विश्वा॑ । भुव॑ना । नि । ये॒मि॒रे॒ । प्र । अ॒सा॒र॒य॒न्त॒ । पु॒रु॒ध । प्र॒ऽजाः । अनु॑ ॥५

सहःऽभिः । विश्वम् । परि । चक्रमुः । रजः । पूर्वा । धामानि । अमिता । मिमानाः ।

तनूषु । विश्वा । भुवना । नि । येमिरे । प्र । असारयन्त । पुरुध । प्रऽजाः । अनु ॥५

मदीयाः पितरः “सहोभिः बलैः स्वीयैः “विश्वं सर्वं “रजः लोकम् । ‘लोका रजांस्युच्यन्ते । इति निरुक्तम् । “पूर्वा पूर्वाणि “धामानि स्थानानि “अमिता अन्यैरमितानि “मिमानाः परिच्छिन्दन्तः “परि “चक्रमुः पर्यक्रामन् । किंच तथा कुर्वन्तः “विश्वा सर्वाणि “भुवना भूतजातानि “नि “येमिरे नियमितवन्तः । किंच “पुरुध पुरुधा बहुप्रकारं “प्रजा “अनु ज्योतींष्युदकानि वा “प्रासारयन्त प्रसारितवन्तः । अस्मपितरः पूर्वेऽङ्गिरसः स्वसामर्थ्येन सर्वं लोकं व्याप्य पुरातनानि ग्रहनक्षत्रादीनि परिच्छिद्य सर्वभूतानि नियम्य प्रजा अनूदकानि तेजांसि वा प्रसारितवन्त इत्यर्थः । अतस्त्वमप्येवं कुर्विति भावः ।।


द्विधा॑ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था॑पयन्त तृ॒तीये॑न॒ कर्म॑णा ।

स्वां प्र॒जां पि॒तर॒ः पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् ॥६

द्विधा॑ । सू॒नवः॑ । असु॑रम् । स्वः॒ऽविद॑म् । आ । अ॒स्था॒प॒य॒न्त॒ । तृ॒तीये॑न । कर्म॑णा ।

स्वाम् । प्र॒ऽजाम् । पि॒तरः॑ । पित्र्य॑म् । सहः॑ । आ । अव॑रेषु । अ॒द॒धुः॒ । तन्तु॑म् । आऽत॑तम् ॥६

द्विधा । सूनवः । असुरम् । स्वःऽविदम् । आ । अस्थापयन्त । तृतीयेन । कर्मणा ।

स्वाम् । प्रऽजाम् । पितरः । पित्र्यम् । सहः । आ । अवरेषु । अदधुः । तन्तुम् । आऽततम् ॥६

"सूनवः आदित्यस्य पुत्रा देवा अङ्गिरसः । ‘ देवानां ह्येतत्परमं जनित्रं यत्सूर्यः' इति प्रदर्शितत्वादादित्यस्य सूनव इति गम्यते । “असुरं बलवन्तं “स्वर्विदं सर्वज्ञं स्वर्गस्य लम्भकं वादित्यं “तृतीयेन “कर्मणा प्रजोत्पत्त्याख्येन। ‘ ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' (तै. सं. ६. ३. १०. ५ ) इति श्रुतेः प्रजोत्पादनस्य तृतीयकर्मत्वम् । तेन आदित्यं “द्विधा “आस्थापयन्त द्विप्रकारमास्थापयन्ति । उदितं चास्तमितं च कुर्वन्ति ।' उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्' (तै. सं. १. १. १३. १ ) इति मन्त्रस्य ब्राह्मणे ' असौ वा अदित्य उद्यनुद्ग्राभ एष निम्रोचन्निग्राभः' (तै. सं. ५. ४. ६. ६ ) इति श्रुतत्वाद्देवानामादिस्यस्य द्विःस्थापनमुदयास्तमयकरणमिति गम्यते । किंच “पितरः मदीया अङ्गिरसः “स्वां “प्रजाम् । उत्पाद्येति शेषः । “पित्र्यं “सहः पितुरादित्यस्य संबन्धिनमपराभिभवक्षमं बलम् ”अवरेषु “आ “दधुः निकृष्टेषु स्वप्रजाभूतेषु मनुष्येषु स्थापितवन्तः । यथा पित्र्यं धनं सम्यक् परिरक्ष्य स्वपुत्रेभ्यः प्रयच्छन्ति तद्वत्पितुरादित्यस्य प्रकाशादिबलं मनुष्येषु न्यदधुरित्यर्थः । किंच “तन्तुं प्रजाम् “आततं विततं कृतवन्त इति शेषः । पुत्रपौत्रादिरूपेणानवच्छिन्नां प्रजामित्यर्थः । ‘ अयं ह्यातततन्तुर्यत्प्रजाः' इति ब्राह्मणं ‘ प्रजातन्तुं मा व्यवच्छेत्सीः ' ( तै. आ. ७. ११. १ ) इति च । तन्तुं तन्वन्' ( ऋ. सं. १०. ५३. ६ ) इत्यस्य ब्राह्मणं ‘ प्रजा वै तन्तुः' ( ऐ. ब्रा. ३. ३८ ) इति ॥


ना॒वा न क्षोद॑ः प्र॒दिश॑ः पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।

स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे॑षु ॥७

ना॒वा । न । क्षोदः॑ । प्र॒ऽदिशः॑ । पृ॒थि॒व्याः । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ ।

स्वाम् । प्र॒ऽजाम् । बृ॒हत्ऽउ॑क्थः । म॒हि॒ऽत्वा । आ । अव॑रेषु । अ॒द॒धा॒त् । आ । परे॑षु ॥७

नावा । न । क्षोदः । प्रऽदिशः । पृथिव्याः । स्वस्तिऽभिः । अति । दुःऽगानि । विश्वा ।

स्वाम् । प्रऽजाम् । बृहत्ऽउक्थः । महिऽत्वा । आ । अवरेषु । अदधात् । आ । परेषु ॥७

“नावा “न उदकोत्तरणसाधनेनेव “क्षोदः उदकं यथा मनुष्या नावोदकमतितरन्ति यथा वा “स्वस्तिभिः क्षेमैः “विश्वा सर्वाणि “दुर्गाणि दुःखेन गन्तव्यान्यतितरन्ति तद्वत् “बृहदुक्थः “स्वां “प्रजां वाजिनं मृतं पुत्रं “महित्वा स्वमहत्त्वेन “अवरेषु अग्न्यादिषु “आ “अदधात् कृतवान् । तदा “परेषु दिव्येषु सूर्यादिष्वादधात् । एवमृषिर्ब्रूते स्वयमेव वा स्वात्मानं परोक्षेणाह ॥ ॥ १८ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५६&oldid=202365" इत्यस्माद् पुनः प्राप्तिः