सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.१०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.९ ऋग्वेदः - मण्डल १०
सूक्तं १०.१०
[[लेखकः :|]]
सूक्तं १०.११ →
नवमीवर्ज्यानामयुजां षष्ठ्याश्च वैवस्वती यमी ऋषिका। दे. यमः।

षष्ठीवर्ज्यानां युजां नवम्याश्च वैवस्वतो यमः ऋषिः। दे. यमी। त्रिष्टुप्, १३ विराट्स्थाना


ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् ।
पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥१॥
न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति ।
महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥
उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य ।
नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ॥३॥
न यत्पुरा चकृमा कद्ध नूनमृता वदन्तो अनृतं रपेम ।
गन्धर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ ॥४॥
गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः ।
नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥
को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् ।
बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥६॥
यमस्य मा यम्यं काम आगन्समाने योनौ सहशेय्याय ।
जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥७॥
न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति ।
अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥८॥
रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन्मिमीयात् ।
दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य बिभृयादजामि ॥९॥
आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि ।
उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥१०॥
किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निरृतिर्निगच्छात् ।
काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥११॥
न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् ।
अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥१२॥
बतो बतासि यम नैव ते मनो हृदयं चाविदाम ।
अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् ॥१३॥
अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् ।
तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१४॥


सायणभाष्यम्

‘ओ चित्' इति चतुर्दशर्चं दशमं सूक्तम् । अत्रानुक्रम्यते- ओ चित् षळूना वैवस्वतयोर्यमयम्योः संवादः षष्ठ्ययुग्भिर्यमी मिथुनार्थं यमं प्रोवाच स तां नवमीयुग्भिरनिच्छन् प्रत्याचष्टे ' इति । ततः षष्ठ्यां प्रथमातृतीयाद्ययुक्षु विवस्वतः पुत्री यम्यृषिर्यमो देवता । 'यस्य वाक्यं स ऋषिर्या तेनोच्यते सा देवता' इति न्यायात्। तथा नवम्यां द्वितीयाचतुर्थीप्रभृतिषु युक्षु वैवस्वतो यम ऋषिर्यमी देवता । अनादेशपरिभाषया त्रिष्टुप् । गतो विनियोगः ॥


ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् ।

पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥१

ओ इति॑ । चि॒त् । सखा॑यम् । स॒ख्या । व॒वृ॒त्या॒म् । ति॒रः । पु॒रु । चि॒त् । अ॒र्ण॒वम् । ज॒ग॒न्वान् ।

पि॒तुः । नपा॑तम् । आ । द॒धी॒त॒ । वे॒धाः । अधि॑ । क्षमि॑ । प्र॒ऽत॒रम् । दीध्या॑नः ॥१

ओ इति । चित् । सखायम् । सख्या । ववृत्याम् । तिरः । पुरु । चित् । अर्णवम् । जगन्वान् ।

पितुः । नपातम् । आ । दधीत । वेधाः । अधि । क्षमि । प्रऽतरम् । दीध्यानः ॥१

अत्रास्मिन् सूक्ते वैवस्वतयोर्यमयम्योः संवाद उच्यते । अस्यामृचि यमं प्रति यमी प्रोवाच । "तिरः अन्तर्हितमप्रकाशमानम् । निर्जनप्रदेशमित्यर्थः । “पुरु “चित् बह्वपि विस्तीर्णं च “अर्णवं समुद्रैकदेशमवान्तरद्वीपं “जगन्वान् गतवती यमी । “चित् इति पूजार्थे । पूजितमिष्टम् । श्रेष्ठमित्यर्थः। “सखायं गर्भवासादारभ्य सखीभूतं यमं “सख्या सख्याय स्त्रीपुरुषसंपर्कजनितमित्रत्वाय “ओ “ववृत्याम् आवर्तयामि । आभिमुख्येन स्थित्वा लज्जां परित्यज्य त्वत्संभोग करोमीत्यर्थः । ‘धर्मस्य त्वरिता गतिः' इति न्यायेन कामस्य त्वरितत्वात् । अपि च “पितुः आवयोर्भविष्यतः पुत्रस्य पितृभूतस्य तवार्थाय “अधि “क्षमि अधि पृथिव्याम् । पृथिवीस्थानीये ममोदर इत्यर्थः । “प्रतरं प्रकृष्टम्। सर्वगुणोपेतमित्यर्थः । “नपातं गर्भलक्षणमपत्यं “वेधाः विधाता प्रजापतिः “दीध्यानः आवयोरनुरूपस्य पुत्रस्य जननार्थमावां ध्यायन “आ “दधीत। ‘प्रजापतिर्धाता गर्भं दधातु ते ' (ऋ. सं. १०. १८४. १) इत्युक्तत्वात् ॥ ।


न ते॒ सखा॑ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति ।

म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥२

न । ते॒ । सखा॑ । स॒ख्यम् । व॒ष्टि॒ । ए॒तत् । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति ।

म॒हः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । दि॒वः । ध॒र्तारः॑ । उ॒र्वि॒या । परि॑ । ख्य॒न् ॥२

न । ते । सखा । सख्यम् । वष्टि । एतत् । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति ।

महः । पुत्रासः । असुरस्य । वीराः । दिवः । धर्तारः । उर्विया । परि । ख्यन् ॥२

यम आत्मानं परोक्षीकृत्य यमीं प्रत्युवाच । हे यमि “ते तव “सखा गर्भवासलक्षणेन सखीभूतो यमः “एतत् ईदृशं त्वयोक्तं स्त्रीपुरुषलक्षणं "सख्यं “न “वष्टि न कामयते । “यत् यस्मात् कारणात् यमी “सलक्ष्मा समानयोनित्वलक्षणा “विषुरूपा भगिनीत्वाद्विषमरूपा “भवाति भवति । तस्मान्न वष्टीत्यर्थः । इदानीं 'तिरः पुरू चिदर्णवं जगन्वान्' इत्यस्य प्रतिवचनमुच्यते । “महः महतः “असुरस्य प्राणवतः प्रज्ञावतो वा प्रजापतेः “पुत्रासः पुत्रभूताः “वीराः । ‘वीरो वीरयत्यमित्रान् वेतेर्वा स्याद्गतिकर्मणो वीरयतेर्वा' (निरु. १. ७) इति निरुक्तम् । शत्रूणां विविधमीरयितारः “धर्तारः धारयितारः “दिवः द्युलोकस्य । प्रदर्शनमेतत् । द्युप्रभृतीनां लोकानामित्यर्थः । - - - ॥


उ॒शंति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य ।

नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्युः॒ पति॑स्त॒न्व१॒॑मा वि॑विश्याः ॥३

उ॒शन्ति॑ । घ॒ । ते । अ॒मृता॑सः । ए॒तत् । एक॑स्य । चि॒त् । त्य॒जस॑म् । मर्त्य॑स्य ।

नि । ते॒ । मनः॑ । मन॑सि । धा॒यि॒ । अ॒स्मे इति॑ । जन्युः॑ । पतिः॑ । त॒न्व॑म् । आ । वि॒वि॒श्याः॒ ॥३

उशन्ति । घ । ते । अमृतासः । एतत् । एकस्य । चित् । त्यजसम् । मर्त्यस्य ।

नि । ते । मनः । मनसि । धायि । अस्मे इति । जन्युः । पतिः । तन्वम् । आ । विविश्याः ॥३

पुनरपि यमी यमं प्रत्युवाच । “घ इति निपातोऽप्यर्थे । हे यम “ते प्रसिद्धाः "अमृतासः प्रजापत्यादयो देवा अपि “एतत् ईदृशं शास्त्रेणागम्यत्वेनोक्तं “त्यजसम्। त्यज्यते परस्मै प्रदीयते इति त्यजसं दुहितृभगिन्यादिस्त्रीजातम् । "उशन्ति कामयन्ते । “एकस्य “चित् सर्वस्य जगतः मुख्यस्यापि प्रजापत्यादेः स्वदुहितृभगिन्यादीनां संबन्धोऽस्तीति शेषः । अतः कारणात् “ते तव “मनः चित्तम् “अस्मे अस्माकम् । ममेत्यर्थः। “मनसि चित्ते “नि “धायि निधीयताम् । अहं त्वां कामये त्वं मामपि कामयस्वेत्यर्थः । अपि च । “जन्युः इति लुप्तोपममेतत् । जन्युरिव यथा जनयिता प्रजापतिः “पतिः भर्ता भूत्वा स्वदुहितुः शरीरं संभोगेनाविष्टवान् तथा त्वमपि मम पतिर्भूत्वा “तन्वं मदीयं शरीरम् “आ “विविश्याः संभोगेनाविश । योनौ प्रजननप्रक्षेपोपगूहनचुम्बनादिना मां संभुङ्क्ष्वेत्यर्थः ॥


न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वदं॑तो॒ अनृ॑तं रपेम ।

गं॒ध॒र्वो अ॒प्स्वप्या॑ च॒ योषा॒ सा नो॒ नाभिः॑ पर॒मं जा॒मि तन्नौ॑ ॥४

न । यत् । पु॒रा । च॒कृ॒म । कत् । ह॒ । नू॒नम् । ऋ॒ता । वद॑न्तः । अनृ॑तम् । र॒पे॒म॒ ।

ग॒न्ध॒र्वः । अ॒प्ऽसु । अप्या॑ । च॒ । योषा॑ । सा । नः॒ । नाभिः॑ । प॒र॒मम् । जा॒मि । तत् । नौ॒ ॥४

न । यत् । पुरा । चकृम । कत् । ह । नूनम् । ऋता । वदन्तः । अनृतम् । रपेम ।

गन्धर्वः । अप्ऽसु । अप्या । च । योषा । सा । नः । नाभिः । परमम् । जामि । तत् । नौ ॥४

यमो यमीं पुनर्रूमीते । “पुरा पूर्वं प्रजापतिः यत् अगम्यागमनमपरिमितसामर्थ्योपेतत्वात् कृतवान् तथा वयं “न “चकृम नाकुर्म । वयम् “ऋता ऋतानि सत्यानि “वदन्तः ब्रुवन्तः “अनृतम् असत्यं “कद्ध कदा खलु “नूनं निश्चितं “रपेम वदेम । न कदाचिदपीत्यर्थः । अगम्यागमनं न कुर्म इति यावत् । अपि च “अप्सु । अन्तरिक्षनामैतत् । अन्तरिक्षे स्थितः “गन्धर्वः गवां रश्मीनामुदकानां वा धारयिता आदित्यः “अप्या अन्तरिक्षस्था “सा प्रसिद्धा “योषा आदित्यस्य भार्या सरण्यूः “च “नः नावावयोः “नाभिः उत्पत्तिस्थानम् । मातापितरावित्यर्थः । तत् तस्मात् कारणात् “नौ आवयोः “जामि बान्धवमुत्कृष्टम्। एवं सत्यावयोरगम्यागमनरूपत्वात् कर्तुमयुक्तं तस्मादेतन्न करोमीत्यभिप्रायः ॥


गर्भे॒ नु नौ॑ जनि॒ता दंप॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः ।

नकि॑रस्य॒ प्र मि॑नंति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ॥५

गर्भे॑ । नु । नौ॒ । ज॒नि॒ता । दम्प॑ती॒ इति॒ दम्ऽप॑ती । कः॒ । दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः ।

नकिः॑ । अ॒स्य॒ । प्र । मि॒न॒न्ति॒ । व्र॒तानि॑ । वेद॑ । नौ॒ । अ॒स्य । पृ॒थि॒वी । उ॒त । द्यौः ॥५

गर्भे । नु । नौ । जनिता । दम्पती इति दम्ऽपती । कः । देवः । त्वष्टा । सविता । विश्वऽरूपः ।

नकिः । अस्य । प्र । मिनन्ति । व्रतानि । वेद । नौ । अस्य । पृथिवी । उत । द्यौः ॥५

“त्वष्टा रूपाणां कर्ता सविता सर्वेषां शुभाशुभस्य प्रेरकः “विश्वरूपः सर्वात्मकः “देवः दानादिगुणयुक्तः “जनिता जनयिता प्रजापतिः “गर्भे “नु गर्भावस्थायामेव “नौ आवां “दंपती जायापती “कः कृतवान् एकोदरे सहवासित्वात् । “अस्य प्रजापतेः “व्रतानि कर्माणि “नकिः “प्र “मिनन्ति न केचित् प्रहिंसन्ति । न लोपयन्तीत्यर्थः । अतः कारणाद्गर्भावस्थायामेवावयोः प्रजापतिकृते दंपतित्वे सति संभोगं कुर्वित्यर्थः । अपि च “नौ आवयोः “अस्य इदं मातुरुदरे सहवासजनितं दंपतित्वं “पृथिवी भूमिः “वेद जानाति । "उत अपि च “द्यौः द्युलोकोऽपि जानाति ॥ ॥ ६ ॥


को अ॒स्य वे॑द प्रथ॒मस्याह्नः॒ क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत् ।

बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥६

कः । अ॒स्य । वे॒द॒ । प्र॒थ॒मस्य॑ । अह्नः॑ । कः । ई॒म् । द॒द॒र्श॒ । कः । इ॒ह । प्र । वो॒च॒त् ।

बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । कत् । ऊं॒ इति॑ । ब्र॒वः॒ । आ॒ह॒नः॒ । वीच्या॑ । नॄन् ॥६

कः । अस्य । वेद । प्रथमस्य । अह्नः । कः । ईम् । ददर्श । कः । इह । प्र । वोचत् ।

बृहत् । मित्रस्य । वरुणस्य । धाम । कत् । ऊं इति । ब्रवः । आहनः । वीच्या । नॄन् ॥६

“प्रथमस्याह्नः संबन्धि “अस्य इदमन्योन्यसंगमनं “कः वेद जानाति । प्रथमेऽहनि यत्क्रियते तदनुमानमाश्रित्य न कश्चिदपि ज्ञातुं शक्नोतीत्यर्थः । “इह अस्मिन् प्रदेशे प्रत्यक्षतः “क “ईम् इदं संगमनं “ददर्श पश्यति “कः “प्र “वोचत् प्रख्यापयति । न कोऽपीत्यर्थः । “मित्रस्य “वरुणस्य मित्रावरुणयोः “बृहत् महत् “धाम स्थानमहोरात्रं यदस्ति तत्र “नॄन् मनुष्यान् “वीच्या नरकेण हे “आहनः आहन्तर्मर्यादया हिंसितः । स्वकृतशुभाशुभकर्मापेक्षया मनुष्यादिप्राणिनां नरकपातेन स्वर्गप्रापणेन निग्रहानुग्रहयोः कर्तरित्यर्थः । एवंभूत हे यम त्वं “कदु “ब्रवः किं वा ब्रवीषि ।।


य॒मस्य॑ मा य॒म्यं१॒॑ काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य ।

जा॒येव॒ पत्ये॑ त॒न्वं॑ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥७

य॒मस्य॑ । मा॒ । य॒म्य॑म् । कामः॑ । आ । अ॒ग॒न् । स॒मा॒ने । योनौ॑ । स॒ह॒ऽशेय्या॑य ।

जा॒याऽइ॑व । पत्ये॑ । त॒न्व॑म् । रि॒रि॒च्या॒म् । वि । चि॒त् । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥७

यमस्य । मा । यम्यम् । कामः । आ । अगन् । समाने । योनौ । सहऽशेय्याय ।

जायाऽइव । पत्ये । तन्वम् । रिरिच्याम् । वि । चित् । वृहेव । रथ्याऽइव । चक्रा ॥७

“यमस्य तव "कामः अभिलाषः “यम्यं यमीं “मा मां प्रति “आगन् आगच्छतु । ममोपरि तव यमस्य संभोगेच्छा जायतामित्यर्थः । किमर्थम् । “समाने “योनौ एकस्मिन् स्थाने शय्याख्ये “सहशेय्याय सहशयनार्थम् । तदनन्तरं पूर्णमनोरथा सती “जायेव “पत्ये यथा भार्या पत्युरर्थाय परया प्रीत्या विश्वस्ता सती रतिकामा स्वशरीरं प्रकाशयति एवं “तन्वम् आत्मीयं शरीरं “रिरिच्यां विविच्याम् । त्वदर्थं प्रकाशयेयमित्यर्थः । किंच । 'चित् इति पूरणः । “वि “वृहेव । ‘वृहू उद्यमने' । धर्मार्थकामान् विविधमुद्यच्छावः । तत्र दृष्टान्तः । “रथ्येव “चक्रा । रथस्यावयवभूते चक्रे यथा रथमुद्यच्छतस्तद्वत् ॥


न ति॑ष्ठंति॒ न नि मि॑षंत्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चरं॑ति ।

अ॒न्येन॒ मदा॑हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ॥८

न । ति॒ष्ठ॒न्ति॒ । न । नि । मि॒ष॒न्ति॒ । ए॒ते । दे॒वाना॑म् । स्पशः॑ । इ॒ह । ये । चर॑न्ति ।

अ॒न्येन॑ । मत् । आ॒ह॒नः॒ । या॒हि॒ । तूय॑म् । तेन॑ । वि । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥८

न । तिष्ठन्ति । न । नि । मिषन्ति । एते । देवानाम् । स्पशः । इह । ये । चरन्ति ।

अन्येन । मत् । आहनः । याहि । तूयम् । तेन । वि । वृहेव । रथ्याऽइव । चक्रा ॥८

यम्या प्रख्यातो यमः पुनराह । “इह अस्मिँल्लोके “देवानां संबन्धिनः “ये “स्पशः अहोरात्रादयश्चाराः “चरन्ति सर्वेषां शुभाशुभलक्षणकर्मप्रत्यवेक्षणार्थं परिभ्रमन्ति “एते चाराः क्षणमात्रमपि चरणव्यापाररहिताः “न “तिष्ठन्ति । “न “नि मिषन्ति मेषणं न कुर्वन्ति । शुभमशुभं वा यः करोति तं निरीक्षन्ते चेत्यर्थः । हे “आहनः ममापहन्त्रि असह्यभाषणेन दुःखयित्रि त्वं “मत् मत्तः “अन्येन त्वत्सदृशेन सह “तूयं क्षिप्रं “याहि संगच्छ । गत्वा च "तेन “वि “वृह धर्मार्थकामानुद्यच्छ । तत्र दृष्टान्तः । “रथ्येव “चक्रा । यथा रथावयवभूते चक्रे रथमुद्यच्छतस्तद्वत् ॥


रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् ।

दि॒वा पृ॑थि॒व्या मि॑थु॒ना सबं॑धू य॒मीर्य॒मस्य॑ बिभृया॒दजा॑मि ॥९

रात्री॑भिः । अ॒स्मै॒ । अह॑ऽभिः । द॒श॒स्ये॒त् । सूर्य॑स्य । चक्षुः॑ । मुहुः॑ । उत् । मि॒मी॒या॒त् ।

दि॒वा । पृ॒थि॒व्या । मि॒थु॒ना । सब॑न्धू॒ इति॒ सऽब॑न्धू । य॒मीः । य॒मस्य॑ । बि॒भृ॒या॒त् । अजा॑मि ॥९

रात्रीभिः । अस्मै । अहऽभिः । दशस्येत् । सूर्यस्य । चक्षुः । मुहुः । उत् । मिमीयात् ।

दिवा । पृथिव्या । मिथुना । सबन्धू इति सऽबन्धू । यमीः । यमस्य । बिभृयात् । अजामि ॥९

“रात्रिभिः "अहभिः अहोरात्रयोः “अस्मै यमाय कल्पितं भागं सर्वो यजमानः “दशस्येत् प्रयच्छतु । “सूर्यस्य संबन्धि “चक्षुः तेजः "मुहुः मुहुः अस्मै यमाय “उन्मिमीयात् उदेतु। “दिवा “पृथिव्या द्यावापृथिवीभ्यां सह “मिथुना मिथुनौ “सबन्धू समानबन्धू अहोरात्रे अस्मै यमाय । एतज्ज्ञात्वा इयं “यमीः “यमस्य “अजामि अभ्रातरं “बिभृयात् धारयतु । यानेन परिगृह्णात्वित्यर्थः ।।


आ घा॒ ता ग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा॑मि ।

उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ॥१०

आ । घ॒ । ता । ग॒च्छा॒न् । उत्ऽत॑रा । यु॒गानि॑ । यत्र॑ । जा॒मयः॑ । कृ॒णव॑न् । अजा॑मि ।

उप॑ । ब॒र्बृ॒हि॒ । वृ॒ष॒भाय॑ । बा॒हुम् । अ॒न्यम् । इ॒च्छ॒स्व॒ । सु॒ऽभ॒गे॒ । पति॑म् । मत् ॥१०

आ । घ । ता । गच्छान् । उत्ऽतरा । युगानि । यत्र । जामयः । कृणवन् । अजामि ।

उप । बर्बृहि । वृषभाय । बाहुम् । अन्यम् । इच्छस्व । सुऽभगे । पतिम् । मत् ॥१०

“यत्र येषु कालेषु “जामयः भगिन्यः “अजामि अभ्रातरं पतिं “कृणवन् करिष्यन्ति “ता तानि “उत्तरा उत्तराणि “युगानि कालविशेषाः “आ “गच्छान् आगमिष्यन्ति। “घ इति पूरणः । यस्मादेवं तस्माद्धे “सुभगे त्वमिदानीं “मत् मत्तः “अन्यं “पतिं भर्तारम् “इच्छस्व कामयस्व । तदनन्तरं “वृषभाय तव योनौ रेतः सेक्त्रे पुरुषाय आत्मीयं “बाहुम् उप “बर्बृहि। शयनकाल उपबर्हणं कुरु ॥ ॥ ७ ॥


किं भ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निर्ऋ॑तिर्नि॒गच्छा॑त् ।

काम॑मूता ब॒ह्वे॒३॒॑तद्र॑पामि त॒न्वा॑ मे त॒न्वं१॒॑ सं पि॑पृग्धि ॥११

किम् । भ्राता॑ । अ॒स॒त् । यत् । अ॒ना॒थम् । भवा॑ति । किम् । ऊं॒ इति॑ । स्वसा॑ । यत् । निःऽऋ॑तिः । नि॒ऽगच्छा॑त् ।

काम॑ऽमूता । ब॒हु । ए॒तत् । र॒पा॒मि॒ । त॒न्वा॑ । मे॒ । त॒न्व॑म् । सम् । पि॒पृ॒ग्धि॒ ॥११

किम् । भ्राता । असत् । यत् । अनाथम् । भवाति । किम् । ऊं इति । स्वसा । यत् । निःऽऋतिः । निऽगच्छात् ।

कामऽमूता । बहु । एतत् । रपामि । तन्वा । मे । तन्वम् । सम् । पिपृग्धि ॥११

यमी यमेन प्रत्याख्याता पुनराह । “यत् यस्मिन् भ्रातरि सति स्वस्रादिकम् “अनाथं नाथरहितं भवति सः “भ्राता “किम् “असत् किं भवति । न भवतीत्यर्थः । किंच यस्यां भगिन्यां सत्यां भ्रातरं “निर्ऋतिः दुःखं “निगच्छात् नियमेन गच्छति प्राप्नोति सा “स्वसा “किमु किं वा भवति । भ्रातृभगिन्योश्च परस्परं प्रीतिर्येन केनचिदुपायेनावश्यं कार्येत्यभिप्रायः। साहं “काममूता कामेन मूर्च्छिता सती “बहु नानाप्रकारम् “एतत् ईदृशमुक्तं वक्ष्यमाणं च “रपामि प्रलपामि । एतज्ज्ञात्वा “मे मम “तन्वा शरीरेण “तन्वं शरीरं “सं “पिपृग्धि संपर्चय । संभोगेन संश्लेषय। मां सम्यग्भुङ्क्ष्वेत्यर्थः ॥


न वा उ॑ ते त॒न्वा॑ त॒न्वं१॒॑ सं प॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त् ।

अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥१२

न । वै । ऊं॒ इति॑ । ते॒ । त॒न्वा॑ । त॒न्व॑म् । सम् । प॒पृ॒च्या॒म् । पा॒पम् । आ॒हुः॒ । यः । स्वसा॑रम् । नि॒ऽगच्छा॑त् ।

अ॒न्येन॑ । मत् । प्र॒ऽमुदः॑ । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता॑ । सु॒ऽभ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥१२

न । वै । ऊं इति । ते । तन्वा । तन्वम् । सम् । पपृच्याम् । पापम् । आहुः । यः । स्वसारम् । निऽगच्छात् ।

अन्येन । मत् । प्रऽमुदः । कल्पयस्व । न । ते । भ्राता । सुऽभगे । वष्टि । एतत् ॥१२

यमो यमीं प्रत्युक्तवान् । हे यमि “ते तव “तन्वा शरीरेण “तन्वम् आत्मीयं शरीरं “न “वै “सं पपृच्यां नैव संपर्चयामि । नैवाहं त्वां संभोक्तुमिच्छामीत्यर्थः । “यः भ्राता “स्वसारं भगिनीं “निगच्छात् नियमेनोपगच्छति । संभुङ्त्श इत्यर्थः । तं “पापं पापकारिणम् “आहुः । शिष्टा वदन्ति । एतज्ज्ञात्वा हे “सुभगे सुष्ठु भजनीये हे यमि त्वं “मत् मत्तः “अन्येन त्वद्योग्येन पुरुषेण सह “प्रमुदः संभोगलक्षणान् प्रहर्षान् “कल्पयस्व समर्थय । “ते तव “भ्राता यमः “एतत् ईदृशं त्वया सह मैथुनं कर्तुं “न “वष्टि न कामयते । नेच्छति ॥


ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम ।

अ॒न्या किल॒ त्वां क॒क्ष्ये॑व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षं ॥१३

ब॒तः । ब॒त॒ । अ॒सि॒ । य॒म॒ । न । ए॒व । ते॒ । मनः॑ । हृद॑यम् । च॒ । अ॒वि॒दा॒म॒ ।

अ॒न्या । किल॑ । त्वाम् । क॒क्ष्या॑ऽइव । यु॒क्तम् । परि॑ । स्व॒जा॒ते॒ । लिबु॑जाऽइव । वृ॒क्षम् ॥१३

बतः । बत । असि । यम । न । एव । ते । मनः । हृदयम् । च । अविदाम ।

अन्या । किल । त्वाम् । कक्ष्याऽइव । युक्तम् । परि । स्वजाते । लिबुजाऽइव । वृक्षम् ॥१३

यमी प्रत्युवाच । हे “यम त्वं “बतः दुर्बलः असि । “बत इति निपातः खेदानुकम्पयोः । अनुकम्प्यश्चासि । “ते त्वदीयं “मनः मनोगतं संकल्पं “हृदयं “च बुद्धिगतमध्यवसायं च “नैव “अविदाम वयं न जानीम एव । मत्तः “अन्या काचित् स्त्री “त्वां “परि “ष्वजाते “किल । तत्र दृष्टान्तद्वयमुच्यते । “कक्ष्येव “युक्तम् । यथा कक्ष्या रज्जुर्युक्तमात्मना संबद्धमश्वं परिष्वजते तद्वत् । “लिबुजेव “वृक्षम् । यथा लिबुजा व्रततिर्गाढं वृक्षं परिष्वजते तद्वच्च । अन्यस्यां स्त्रियामासक्तस्त्वं मां परिष्वङ्क्तुं नेच्छसीत्यर्थः ॥


अ॒न्यमू॒ षु त्वं य॑म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षं ।

तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा॑ कृणुष्व सं॒विदं॒ सुभ॑द्रां ॥१४

अ॒न्यम् । ऊं॒ इति॑ । सु । त्वम् । य॒मि॒ । अ॒न्यः । ऊं॒ इति॑ । त्वाम् । परि॑ । स्व॒जा॒ते॒ । लिबु॑जाऽइव । वृ॒क्षम् ।

तस्य॑ । वा॒ । त्वम् । मनः॑ । इ॒च्छ । सः । वा॒ । तव॑ । अध॑ । कृ॒णु॒ष्व॒ । स॒म्ऽविद॑म् । सुऽभ॑द्राम् ॥१४

अन्यम् । ऊं इति । सु । त्वम् । यमि । अन्यः । ऊं इति । त्वाम् । परि । स्वजाते । लिबुजाऽइव । वृक्षम् ।

तस्य । वा । त्वम् । मनः । इच्छ । सः । वा । तव । अध । कृणुष्व । सम्ऽविदम् । सुऽभद्राम् ॥१४

यमः पुनरप्याह । हे "यमि “त्वम् “अन्यमु अन्यं पुरुषमेव “सु सुष्ठु परिष्वज । “अन्य “उ अन्योऽपि पुरुषः “त्वां “परि “ष्वजाते । तत्र दृष्टान्तः । “लिबुजेव “वृक्षम् । यथा वल्ली गाढं वृक्षं परिष्वजते तद्वत् । तथा सति । वाशब्दः समुच्चये । “त्वं “तस्य च पुरुषस्य “मनः “इच्छ कामय । तस्य त्वं वशवर्तिनी भवेत्यर्थः। “सः च पुरुषः “तव मन इच्छतु । “अध अथ परस्परवशवर्तित्वानन्तरं त्वं तेन सह "सुभद्रां सुकल्याणीं “संविदं परस्परसंभोगसुखसंवित्तिं कृणुष्व कुरुष्व ॥ ॥८॥


टिप्पणी

यमद्वितीयापर्वोपरि टिप्पणी

यमद्वितीयापर्वोपरि टिप्पण्याः केन्द्रबिन्दवः अधोलिखितानि सन्ति --

१. भ्राता एवं स्वसा मध्ये यः व्यावहारिकः सम्बन्धः अस्ति, पुराणेषु तस्य त्रयः चरणाः सन्ति -- (अ) निर्ऋति एवं तस्य भ्राता पापः। निर्ऋति स्वभ्रातृतः अपत्यस्य उत्पत्तिं करोति। (आ) यमी एवं तस्याः भ्राता यमः। पुराणेषु यमी स्वभ्राताय भोजनस्य प्रस्तुतिं करोति। स्थलपुराणानां कथानुसारेण प्रायः केनापि कारणेन भोजनः विषाक्तः भवति यस्य भगिन्या शोधनस्य आवश्यकता भवति। (इ) वेदस्य ऋचायाः सोमो भ्राता अदितिः स्वसा (ऋग्वेदः १.१९१.६)। अयं उच्चतमा स्थितिः अस्ति। यः प्रथमः चरणः अस्ति, यत्र स्वसा एवं भ्राता अपत्योत्पत्तिं कुर्वन्तः, तत् न प्रशंसनीयम्।

२. श्री रजनीशमहोदयानुसारेण वैयक्तिक चेतनायाः सप्तस्तराः सन्ति ( सात शरीर सात चक्र )। उपरिस्थितः सूक्ष्मस्तरः अधोस्थितं स्थूलं स्तरं ऊर्जाप्रदानं करोति। यदा सूक्ष्मऊर्जायाः स्थान्तरणं केनापि कारणेन बाधितं भवति, तदा स्थूलस्तरः असहायः भूत्वा धराशायी भवति। अत्र सूक्ष्मस्तरः यमः अस्ति, स्थूलस्तरः यमी।

नैर्ऋतीष्टकाचयनम् -- यमेन त्वं यम्या संविदानेत्यग्निर्वै यम इयं यम्याभ्यां हीदं सर्वं यतम् - माश ७.२.१.१०

अग्निर् वाव यम इयं यमी - तै.सं. ३.३.८.३


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१०&oldid=214277" इत्यस्माद् प्रतिप्राप्तम्