ऋग्वेदः सूक्तं १०.२६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.२६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.२५ ऋग्वेदः - मण्डल १०
सूक्तं १०.२६
ऐन्द्रोविमदः, प्राजापत्यो वा, वासुक्रो वसुकृद्वा।
सूक्तं १०.२७ →
दे. पूषा। अनुष्टुप्, १, ४ उष्णिक्


प्र ह्यच्छा मनीषा स्पार्हा यन्ति नियुतः ।
प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥१॥
यस्य त्यन्महित्वं वाताप्यमयं जनः ।
विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम् ॥२॥
स वेद सुष्टुतीनामिन्दुर्न पूषा वृषा ।
अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥३॥
मंसीमहि त्वा वयमस्माकं देव पूषन् ।
मतीनां च साधनं विप्राणां चाधवम् ॥४॥
प्रत्यर्धिर्यज्ञानामश्वहयो रथानाम् ।
ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ॥५॥
आधीषमाणायाः पतिः शुचायाश्च शुचस्य च ।
वासोवायोऽवीनामा वासांसि मर्मृजत् ॥६॥
इनो वाजानां पतिरिनः पुष्टीनां सखा ।
प्र श्मश्रु हर्यतो दूधोद्वि वृथा यो अदाभ्यः ॥७॥
आ ते रथस्य पूषन्नजा धुरं ववृत्युः ।
विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥८॥
अस्माकमूर्जा रथं पूषा अविष्टु माहिनः ।
भुवद्वाजानां वृध इमं नः शृणवद्धवम् ॥९॥

सायणभाष्यम्

‘ प्र हि' इति नवर्चं दशमं सूक्तमानुष्टुभं पूषदेवताकम् । आद्याचतुर्थ्यावुष्णिहौ। ऋषिः पूर्ववत् । तथा चानुक्रान्तं -- प्र हि नव पौष्णमानुष्टुभमाद्याचतुर्थ्या उष्णिहौ' इति । गतो विनियोगः ॥


प्र ह्यच्छा॑ मनी॒षा स्पा॒र्हा यंति॑ नि॒युतः॑ ।

प्र द॒स्रा नि॒युद्र॑थः पू॒षा अ॑विष्टु॒ माहि॑नः ॥१

प्र । हि । अच्छ॑ । म॒नी॒षाः । स्पा॒र्हाः । यन्ति॑ । नि॒ऽयुतः॑ ।

प्र । द॒स्रा । नि॒युत्ऽर॑थः । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ॥१

प्र । हि । अच्छ । मनीषाः । स्पार्हाः । यन्ति । निऽयुतः ।

प्र । दस्रा । नियुत्ऽरथः । पूषा । अविष्टु । माहिनः ॥१

“हि यस्मात्कारणात् “मनीषाः अस्मदीयाः स्तुतिलक्षणा वाचः “अच्छ गुणग्रहणद्वारेण पूषणमभिप्राप्तुं “प्र “यन्ति प्रकर्षेण गच्छन्ति । कीदृश्यः । स्पार्हाः सर्वगुणोपेतत्वात्स्पृहणीयाः “नियुतः । नियमनाद्वा नियोजनाद्वेत्येतद्रूपम् । अस्माभिर्नियमिता वा नियुक्ता वा । उच्चारिता इत्यर्थः । एतत् ज्ञात्वोपकारस्य प्रत्युपकारं कर्तुं “दस्रा दर्शनीयः “नियुद्रथः गमनाय सर्वदा नियतरथो नियुक्तरथो वा “माहिनः महान् “पूषा देवः “प्राविष्टु अस्मान् प्रकर्षेण रक्षतु । यद्वा । दस्रा दंसयितारौ कर्मणामुपक्षपयितारौ । परिसमापयितारावित्यर्थः । एवंभूतौ पत्नीयजमानौ पूषा रक्षत्विति योज्यम् ।।


यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ ।

विप्र॒ आ वं॑सद्धी॒तिभि॒श्चिके॑त सुष्टुती॒नां ॥२

यस्य॑ । त्यत् । म॒हि॒ऽत्वम् । वा॒ताप्य॑म् । अ॒यम् । जनः॑ ।

विप्रः॑ । आ । वं॒स॒त् । धी॒तिऽभिः॑ । चिके॑त । सु॒ऽस्तु॒ती॒नाम् ॥२

यस्य । त्यत् । महिऽत्वम् । वाताप्यम् । अयम् । जनः ।

विप्रः । आ । वंसत् । धीतिऽभिः । चिकेत । सुऽस्तुतीनाम् ॥२

“विप्रः मेधावी “अयं "जनः यजमान: “यस्य पूष्णः संबन्धि “त्यत् तत् प्रसिद्ध “महित्वं महत्त्वं “वाताप्यं मण्डले संभृतं परिपक्वमुदकं “धीतिभिः यागादिकर्मभिः “आ “वंसत् संभजते स देवः “सुष्टुतीनां तदीयाः शोभनाः स्तुतीः "चिकेत जानातु ॥


स वे॑द सुष्टुती॒नामिंदु॒र्न पू॒षा वृषा॑ ।

अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ॥३

सः । वे॒द॒ । सु॒ऽस्तु॒ती॒नाम् । इन्दुः॑ । न । पू॒षा । वृषा॑ ।

अ॒भि । प्सुरः॑ । प्रु॒षा॒य॒ति॒ । व्र॒जम् । नः॒ । आ । प्रु॒षा॒य॒ति॒ ॥३

सः । वेद । सुऽस्तुतीनाम् । इन्दुः । न । पूषा । वृषा ।

अभि । प्सुरः । प्रुषायति । व्रजम् । नः । आ । प्रुषायति ॥३

य उक्तगुणः “सः पूषा “सुष्टुतीनां शोभनस्तोत्राणाम् । स्वरूपमिति शेषः । “वेद जानाति । अपि च "इन्दुर्न सोम इव तथायं “पूषा “वृषा कामानां वर्षिता भवति । “प्सुरः . रूपवान् सः। “अभि अस्मानभिलक्ष्य “प्रुषायति सिञ्चति । तथा “नः अस्माकं “व्रजं गोष्ठं च “आ “प्रुषायति आभिमुख्येन सिञ्चति । अस्मभ्यं हिरण्यपश्वादिकं ददातीत्यर्थः ॥


मं॒सी॒महि॑ त्वा व॒यम॒स्माकं॑ देव पूषन् ।

म॒ती॒नां च॒ साध॑नं॒ विप्रा॑णां चाध॒वं ॥४

मं॒सी॒महि॑ । त्वा॒ । व॒यम् । अ॒स्माक॑म् । दे॒व॒ । पू॒ष॒न् ।

म॒ती॒नाम् । च॒ । साध॑नम् । विप्रा॑णाम् । च॒ । आ॒ऽध॒वम् ॥४

मंसीमहि । त्वा । वयम् । अस्माकम् । देव । पूषन् ।

मतीनाम् । च । साधनम् । विप्राणाम् । च । आऽधवम् ॥४

हे "देव द्योतमान “पूषन् “वयं स्तोतारः “त्वा त्वां “मंसीमहि स्तुमः । कीदृशम् । “अस्माकम् अस्मदीयानां “मतीनां “च अभिलषितानां च “साधनं साधयितारं “विप्राणां “च मेधाविनामपि “आधवं परिचर्याद्वारेण कम्पयितारम् ॥


प्रत्य॑र्धिर्य॒ज्ञाना॑मश्वह॒यो रथा॑नां ।

ऋषिः॒ स यो मनु॑र्हितो॒ विप्र॑स्य यावयत्स॒खः ॥५

प्रति॑ऽअर्धिः । य॒ज्ञाना॑म् । अ॒श्व॒ऽह॒यः । रथा॑नाम् ।

ऋषिः॑ । सः । यः । मनुः॑ऽहितः । विप्र॑स्य । य॒व॒य॒त्ऽस॒खः ॥५

प्रतिऽअर्धिः । यज्ञानाम् । अश्वऽहयः । रथानाम् ।

ऋषिः । सः । यः । मनुःऽहितः । विप्रस्य । यवयत्ऽसखः ॥५

“ऋषिः सर्वस्य द्रष्टा “सः पूषा "यज्ञानां “प्रत्यर्धिः अर्धभाक् “रथानां “अश्वहयः । हयतिर्गतिकर्मा। रथानां संबन्धिभिरश्वैर्गमनशीलो भवति । अश्वयुक्तेन रथेन सदा गन्तेत्यर्थः । “मनुर्हितः मनुष्यहितः “यः “विप्रस्य मेधाविनः स्तोतुः “यावयत्सखः शत्रूणां पृथक्कर्ता सखा भवति स इति पूर्वेण संबन्धः ॥ ॥ १३ ॥


आ॒धीष॑माणायाः॒ पतिः॑ शु॒चाया॑श्च शु॒चस्य॑ च ।

वा॒सो॒वा॒योऽवी॑ना॒मा वासां॑सि॒ मर्मृ॑जत् ॥६

आ॒ऽधीष॑माणायाः । पतिः॑ । शु॒चायाः॑ । च॒ । शु॒चस्य॑ । च॒ ।

वा॒सः॒ऽवा॒यः । अवी॑नाम् । आ । वासां॑सि । मर्मृ॑जत् ॥६

आऽधीषमाणायाः । पतिः । शुचायाः । च । शुचस्य । च ।

वासःऽवायः । अवीनाम् । आ । वासांसि । मर्मृजत् ॥६

“आधीषमाणायाः आत्मार्थं धीयमानायाः “शुचायाश्च दीप्ताया अजायाश्च “पतिः स्वामी । न केवलं स्त्रीमात्रस्य किंतु “शुचस्य दीप्तस्य पुंपशोः “च पतिरित्यर्थः । एवंभूतः पूषा देवः “अवीनाम् उरणानां संबन्धिभी रोमभिः “वासोवायः दशापवित्रादीनि वस्त्राणि प्रेरयन “वासांसि रजकशोध्यानि तानि वस्त्राणि “आ “मर्मृजत् आ समन्तात् प्रकाशोष्णाभ्यां शोधयन् भवति ॥


इ॒नो वाजा॑नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा॑ ।

प्र श्मश्रु॑ हर्य॒तो दू॑धो॒द्वि वृथा॒ यो अदा॑भ्यः ॥७

इ॒नः । वाजा॑नाम् । पतिः॑ । इ॒नः । पु॒ष्टी॒नाम् । सखा॑ ।

प्र । श्मश्रु॑ । ह॒र्य॒तः । दू॒धो॒त् । वि । वृथा॑ । यः । अदा॑भ्यः ॥७

इनः । वाजानाम् । पतिः । इनः । पुष्टीनाम् । सखा ।

प्र । श्मश्रु । हर्यतः । दूधोत् । वि । वृथा । यः । अदाभ्यः ॥७

“इनः ईश्वरः पूषा “वाजानां हविरादीनां सर्वेषामन्नानां “पतिः स्वामी “इनः प्रभुः “पुष्टीनां सर्वेषां प्राणिनां स्वभूतानां पोषणानां करणे “सखा मित्रभूतः । सर्वस्योपकारित्वात् । किंच “हर्यतः कामयमानस्य यजमानस्य स्वभूतं सोमं पिबन्निति शेषः। “श्मश्रु श्मश्रूणि "वृथा अनायासेनाप्रयत्नेन “प्र “वि "अदूधोत् प्रकर्षेण विविधं कम्पयति “यः पूषा “अदाभ्यः शत्रुभिरहिंस्यः स इति पूर्वेण संबन्धः ॥


आ ते॒ रथ॑स्य पूषन्न॒जा धुरं॑ ववृत्युः ।

विश्व॑स्या॒र्थिनः॒ सखा॑ सनो॒जा अन॑पच्युतः ॥८

आ । ते॒ । रथ॑स्य । पू॒ष॒न् । अ॒जाः । धुर॑म् । व॒वृ॒त्युः॒ ।

विश्व॑स्य । अ॒र्थिनः॑ । सखा॑ । स॒नः॒ऽजाः । अन॑पऽच्युतः ॥८

आ । ते । रथस्य । पूषन् । अजाः । धुरम् । ववृत्युः ।

विश्वस्य । अर्थिनः । सखा । सनःऽजाः । अनपऽच्युतः ॥८

हे “पूषन् देव “ते त्वदीयस्य “रथस्य “धुरम् "अजाः वाहनत्वेन “आ “ववृत्युः आवर्तयन्ति । आवहन्तीत्यर्थः । यस्त्वं “विश्वस्य सर्वस्य “अर्थिनः याचकस्य अभिलषितार्थप्रदातृत्वात्सखिभूतः “सनोजाः चिरं जातः "अनपच्युतः स्वाधिकारादनपगतः तस्य ते रथमिति संबन्धः ॥


अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः ।

भुव॒द्वाजा॑नां वृ॒ध इ॒मं नः॑ शृणव॒द्धवं॑ ॥९

अ॒स्माक॑म् । ऊ॒र्जा । रथ॑म् । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ।

भुव॑त् । वाजा॑नाम् । वृ॒धः । इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥९

अस्माकम् । ऊर्जा । रथम् । पूषा । अविष्टु । माहिनः ।

भुवत् । वाजानाम् । वृधः । इमम् । नः । शृणवत् । हवम् ॥९

“माहिनः महान् “पूषा “अस्माकं स्वभूतं “रथम् “ऊर्जा बलेन अन्नेन वा “अविष्टु अवतु रक्षतु । किंच “वाजानाम् अन्नानां “वृधः वर्धकः “भुवत् भवतु । “नः अस्मदीयम् “इमम् ईदृग्भूतं “हवम् आह्वानं “शृणवत् शृणोतु ॥ ॥ १४ ॥

[सम्पाद्यताम्]

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.२६&oldid=196559" इत्यस्माद् पुनः प्राप्तिः