ऋग्वेदः सूक्तं १०.४०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.४० इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.३९ ऋग्वेदः - मण्डल १०
सूक्तं १०.४०
काक्षीवती घोषा
सूक्तं १०.४१ →
दे. अश्विनौ। जगती


रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति ।
प्रातर्यावाणं विभ्वं विशेविशे वस्तोर्वस्तोर्वहमानं धिया शमि ॥१॥
कुह स्विद्दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतः कुहोषतुः ।
को वां शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ ॥२॥
प्रातर्जरेथे जरणेव कापया वस्तोर्वस्तोर्यजता गच्छथो गृहम् ।
कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः ॥३॥
युवां मृगेव वारणा मृगण्यवो दोषा वस्तोर्हविषा नि ह्वयामहे ।
युवं होत्रामृतुथा जुह्वते नरेषं जनाय वहथः शुभस्पती ॥४॥
युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा ।
भूतं मे अह्न उत भूतमक्तवेऽश्वावते रथिने शक्तमर्वते ॥५॥
युवं कवी ष्ठः पर्यश्विना रथं विशो न कुत्सो जरितुर्नशायथः ।
युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्कृतं न योषणा ॥६॥
युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः ।
युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके ॥७॥
युवं ह कृशं युवमश्विना शयुं युवं विधन्तं विधवामुरुष्यथः ।
युवं सनिभ्य स्तनयन्तमश्विनाप व्रजमूर्णुथः सप्तास्यम् ॥८॥
जनिष्ट योषा पतयत्कनीनको वि चारुहन्वीरुधो दंसना अनु ।
आस्मै रीयन्ते निवनेव सिन्धवोऽस्मा अह्ने भवति तत्पतित्वनम् ॥९॥
जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः ।
वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥१०॥
न तस्य विद्म तदु षु प्र वोचत युवा ह यद्युवत्याः क्षेति योनिषु ।
प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि ॥११॥
आ वामगन्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अयंसत ।
अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्याँ अशीमहि ॥१२॥
ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे ।
कृतं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतम् ॥१३॥
क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेते शुभस्पती ।
क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहम् ॥१४॥

सायणभाष्यम्

‘रथं यान्तम्' इति चतुर्दशर्चमेकादशं सूक्तं काक्षीवत्या घोषाया आर्षं जागतमाश्विनम् । ‘रथं यान्तम् ' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


रथं॒ यांतं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मंतं॑ सुवि॒ताय॑ भूषति ।

प्रा॒त॒र्यावा॑णं वि॒भ्वं॑ वि॒शेवि॑शे॒ वस्तो॑र्वस्तो॒र्वह॑मानं धि॒या शमि॑ ॥१

रथ॑म् । यान्त॑म् । कुह॑ । कः । ह॒ । वा॒म् । न॒रा॒ । प्रति॑ । द्यु॒ऽमन्त॑म् । सु॒वि॒ताय॑ । भू॒ष॒ति॒ ।

प्रा॒तः॒ऽयावा॑नम् । वि॒ऽभ्व॑म् । वि॒शेऽवि॑शे । वस्तोः॑ऽवस्तोः । वह॑मानम् । धि॒या । शमि॑ ॥

रथम् । यान्तम् । कुह । कः । ह । वाम् । नरा । प्रति । द्युऽमन्तम् । सुविताय । भूषति ।

प्रातःऽयावानम् । विऽभ्वम् । विशेऽविशे । वस्तोःऽवस्तोः । वहमानम् । धिया । शमि ॥

हे “नरा कर्मणां नेतारावश्विनौ “वां युवयोः संबन्धिनं “द्युमन्तं दीप्तिमन्तं “प्रातर्यावाणं यज्ञं प्रति प्रातःकाले गन्तारं “विभ्वं विभुं व्यापिनं “विशेविशे सर्वेषु मनुष्येषु “वस्तोर्वस्तोः अन्वहं “वहमानं धनं प्रापयन्तं “यान्तं गच्छन्तं “रथं “कुह कस्मिन् देशे “को “ह कः खलु यजमानः “शमि यज्ञरूपे कर्मणि “धिया स्तुतिरूपेण कर्मणा “सुविताय अभ्युदयार्थं “प्रति “भूषति अलंकरोति । कस्मिन् देशे यज्ञे कोऽन्यो यजमानो युवां स्तुतिभिर्हविर्भिश्च पूजितवान् येनास्मद्यज्ञे प्रति विलम्बेनागतवन्तौ स्थ इत्यभिप्रायः ॥ ।


कुह॑ स्विद्दो॒षा कुह॒ वस्तो॑र॒श्विना॒ कुहा॑भिपि॒त्वं क॑रतः॒ कुहो॑षतुः ।

को वां॑ शयु॒त्रा वि॒धवे॑व दे॒वरं॒ मर्यं॒ न योषा॑ कृणुते स॒धस्थ॒ आ ॥२

कुह॑ । स्वि॒त् । दो॒षा । कुह॑ । वस्तोः॑ । अ॒श्विना॑ । कुह॑ । अ॒भि॒ऽपि॒त्वम् । क॒र॒तः॒ । कुह॑ । ऊ॒ष॒तुः॒ ।

कः । वा॒म् । श॒यु॒ऽत्रा । वि॒धवा॑ऽइव । दे॒वर॑म् । मर्य॑म् । न । योषा॑ । कृ॒णु॒ते॒ । स॒धऽस्थे॑ । आ ॥

कुह । स्वित् । दोषा । कुह । वस्तोः । अश्विना । कुह । अभिऽपित्वम् । करतः । कुह । ऊषतुः ।

कः । वाम् । शयुऽत्रा । विधवाऽइव । देवरम् । मर्यम् । न । योषा । कृणुते । सधऽस्थे । आ ॥

हे “अश्विना अश्विनौ “कुह “स्वित् क्व चित् “दोषा रात्रौ भवथ इति शेषः। “कुह “वस्तोः क्व वा दिवा भवथः । “कुह क्व वा अभिपित्वम् अभिप्राप्तिं “करतः कुरुथः। “कुह क्व वा “ऊषथुः वसथः । किंच “वां युवां “कः यजमानः “सधस्थे सहस्थाने वेद्याख्ये “आ “कृणुते आकुरुते । परिचरणार्थमात्माभिमुखीकरोति । तत्र दृष्टान्तौ दर्शयति । “शयुत्रा शयने “विधवेव यथा मृतभर्तका नारी "देवरं भर्तृभ्रातरमभिमुखीकरोति । “मर्यं “न यथा च सर्वं मनुष्यं “योषा सर्वा नारी संभोगकालेऽभिमुखीकरोति तद्वदित्यर्थः । तथा च यास्कः----’क्व स्विद्रात्रौ भवथः क्व दिवा क्वाभिप्राप्तिं कुरुथः क्व वसथः को वां शयने विधवेव' देवरम् । देवरः कस्माद्द्वितीयो वर उच्यते । विधवा विधातृका भवति विधवनाद्वा विधावनाद्वेति चर्म शिरा अपि वा धव इति मनुष्यनाम तद्वियोगाद्विधवा । देवरो दीव्यतिकर्मा । मर्यो मनुष्यो मरणधर्मा । योषा यौतेराकुरुते सधस्थाने ' ( निरु. ३. १५) इति ॥


प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो॑र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हं ।

कस्य॑ ध्व॒स्रा भ॑वथः॒ कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ॥३

प्रा॒तः । ज॒रे॒थे॒ इति॑ । ज॒र॒णाऽइ॑व । काप॑या । वस्तोः॑ऽवस्तोः । य॒ज॒ता । ग॒च्छ॒थः॒ । गृ॒हम् ।

कस्य॑ । ध्व॒स्रा । भ॒व॒थः॒ । कस्य॑ । वा॒ । न॒रा॒ । रा॒ज॒पु॒त्राऽइ॑व । सव॑ना । अव॑ । ग॒च्छ॒थः॒ ॥

प्रातः । जरेथे इति । जरणाऽइव । कापया । वस्तोःऽवस्तोः । यजता । गच्छथः । गृहम् ।

कस्य । ध्वस्रा । भवथः । कस्य । वा । नरा । राजपुत्राऽइव । सवना । अव । गच्छथः ॥

हे “नरा नेतारावश्विनौ युवां “प्रातः प्रातःकाले “जरेथे स्तोतृभिः स्तूयेथे । तत्र दृष्टान्तः । “जरणेव । यथा जरणौ ऐश्वर्येण वृद्धौ राजानौ “कापया। प्रातःप्रबोधकस्य बन्दिनो वाणी कापा । तया स्तूयेते । तद्वदित्यर्थः । किंच "वस्तोर्वस्तोः अन्वहं “यजता यष्टव्यौ युवां “गृहं यजमानस्य मन्दिरं “गच्छथः प्राप्नुथः । तौ युवाँ "कस्य यजमानसंबन्धिनो दोषस्य “ध्वस्रा ध्वंसकौ विनाशयितारौ “भवथः । “कस्य यजमानस्य “सवना सवनानि "राजपुत्रेव राजकुमाराविव युवाम् “अव “गच्छथः प्राप्नुथः ॥


यु॒वां मृ॒गेव॑ वार॒णा मृ॑ग॒ण्यवो॑ दो॒षा वस्तो॑र्ह॒विषा॒ नि ह्व॑यामहे ।

यु॒वं होत्रा॑मृतु॒था जुह्व॑ते न॒रेषं॒ जना॑य वहथः शुभस्पती ॥४

यु॒वाम् । मृ॒गाऽइ॑व । वा॒र॒णा । मृ॒ग॒ण्यवः॑ । दो॒षा । वस्तोः॑ । ह॒विषा॑ । नि । ह्व॒या॒म॒हे॒ ।

यु॒वम् । होत्रा॑म् । ऋ॒तु॒ऽथा । जुह्व॑ते । न॒रा॒ । इष॑म् । जना॑य । व॒ह॒थः॒ । शु॒भः॒ । प॒ती॒ इति॑ ॥

युवाम् । मृगाऽइव । वारणा । मृगण्यवः । दोषा । वस्तोः । हविषा । नि । ह्वयामहे ।

युवम् । होत्राम् । ऋतुऽथा । जुह्वते । नरा । इषम् । जनाय । वहथः । शुभः । पती इति ॥

हे अश्विनौ “युवां “वारणा वारणौ "मृगेव यथा शार्दूलौ “मृगण्यवः मृगयवः तद्वद्वयं “दोषा रात्रौ "वस्तोः अहनि च “हविषा “नि ह्वयामहे नियमेन हृयामः । किंच हे "नरा नेतारावश्विनौ "युवं युवाम् “ऋतुथा काले काले “होत्रम् आहुतिं “जुह्वते जुह्वति । यजमाना इति शेषः । किंच युवां “शुभः शुभस्य वृष्टयुदकस्य "पती स्वामिनौ सन्तौ “जनाय जनार्थम् “इषम् अन्नं "वहथः प्रापयथः॥


यु॒वां ह॒ घोषा॒ पर्य॑श्विना य॒ती राज्ञ॑ ऊचे दुहि॒ता पृ॒च्छे वां॑ नरा ।

भू॒तं मे॒ अह्न॑ उ॒त भू॑तम॒क्तवेऽश्वा॑वते र॒थिने॑ शक्त॒मर्व॑ते ॥५

यु॒वाम् । ह॒ । घोषा॑ । परि॑ । अ॒श्वि॒ना॒ । य॒ती । राज्ञः॑ । ऊ॒चे॒ । दु॒हि॒ता । पृ॒च्छे । वा॒म् । न॒रा॒ ।

भू॒तम् । मे॒ । अह्ने॑ । उ॒त । भू॒त॒म् । अ॒क्तवे॑ । अश्व॑ऽवते । र॒थिने॑ । श॒क्त॒म् । अर्व॑ते ॥

युवाम् । ह । घोषा । परि । अश्विना । यती । राज्ञः । ऊचे । दुहिता । पृच्छे । वाम् । नरा ।

भूतम् । मे । अह्ने । उत । भूतम् । अक्तवे । अश्वऽवते । रथिने । शक्तम् । अर्वते ॥

हे “नरा नेतारावश्विनौ “युवां खलु “परि परितो “यती गच्छन्ती “राज्ञः दीप्तस्य कक्षीवतः “दुहिता पुत्री “घोषा घोषाख्या अहम् "ऊचे संनिहितेभ्यो वृद्धेभ्य उक्तवत्यस्मि । किंच “वां युवां “पृच्छे वृद्धान् संनिहितान् कीदृशावश्विनाविति पृच्छामि । तथा सति “मे मम अह्ने दिवसाय दिवसनिर्वर्त्यकर्मणे “भूतं भवतम् । "उत अपि च "अक्तवे रात्र्यै रात्रिनिर्वर्त्यकर्मणे “भूतं भवतम् । तथा “अश्ववते अश्वयुक्ताय “रथिने रथवते च “अर्वते भ्रातृव्याय “शक्तं निरसने शक्तौ भवतम्॥ ॥१८॥


यु॒वं क॒वी ष्ठः॒ पर्य॑श्विना॒ रथं॒ विशो॒ न कुत्सो॑ जरि॒तुर्न॑शायथः ।

यु॒वोर्ह॒ मक्षा॒ पर्य॑श्विना॒ मध्वा॒सा भ॑रत निष्कृ॒तं न योष॑णा ॥६

यु॒वम् । क॒वी इति॑ । स्थः॒ । परि॑ । अ॒श्वि॒ना॒ । रथ॑म् । विशः॑ । न । कुत्सः॑ । ज॒रि॒तुः । न॒शा॒य॒थः॒ ।

यु॒वोः । ह॒ । मक्षा॑ । परि॑ । अ॒श्वि॒ना॒ । मधु॑ । आ॒सा । भ॒र॒त॒ । निः॒ऽकृ॒तम् । न । योष॑णा ॥

युवम् । कवी इति । स्थः । परि । अश्विना । रथम् । विशः । न । कुत्सः । जरितुः । नशायथः ।

युवोः । ह । मक्षा । परि । अश्विना । मधु । आसा । भरत । निःऽकृतम् । न । योषणा ॥

हे “अश्विना अश्विनौ “कवी मेधाविनौ "युवं युवां “रथं परि “ष्ठः परितो भवथः । अथ “जरितुः स्तोतुर्यज्ञं प्रति गमनाय “नशायथः रथं प्राप्नुथः । तत्र दृष्टान्तः । “कुत्सः “न । यथा कुत्सश्चेन्द्रश्च सरथमधितिष्ठतः । तथा च मन्त्रान्तरं -- यासि कुत्सेन सरथमवस्युस्तोदो वातस्य हर्योरीशानः ' (ऋ. सं. ४. १६. ११ ) इति । किंच हे “अश्विना अश्विनौ "युवोर्ह युवयोः खलु स्वभूतं “मधु “मक्षा मक्षिका “आसा आस्येन “परि “भरत बिभर्ति । तत्र दृष्टान्तः । “निष्कृतं “न यथा निष्कृतं संस्कृतं मधु “योषणा नारी तद्वदित्यर्थः। तथा च मन्त्रान्तरम् -- उत स्था वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति ' ( ऋ. सं. १. ११९. ९) इति ॥


यु॒वं ह॑ भु॒ज्युं यु॒वम॑श्विना॒ वशं॑ यु॒वं शिं॒जार॑मु॒शना॒मुपा॑रथुः ।

यु॒वो ररा॑वा॒ परि॑ स॒ख्यमा॑सते यु॒वोर॒हमव॑सा सु॒म्नमा च॑के ॥७

यु॒वम् । ह॒ । भु॒ज्युम् । यु॒वम् । अ॒श्वि॒ना॒ । वश॑म् । यु॒वम् । शि॒ञ्जार॑म् । उ॒शना॑म् । उप॑ । आ॒र॒थुः॒ ।

यु॒वोः । ररा॑वा । परि॑ । स॒ख्यम् । आ॒स॒ते॒ । यु॒वोः । अ॒हम् । अव॑सा । सु॒म्नम् । आ । च॒के॒ ॥

युवम् । ह । भुज्युम् । युवम् । अश्विना । वशम् । युवम् । शिञ्जारम् । उशनाम् । उप । आरथुः ।

युवोः । ररावा । परि । सख्यम् । आसते । युवोः । अहम् । अवसा । सुम्नम् । आ । चके ॥

हे “अश्विना अश्विनौ “युवं “ह युवां खलु “भुज्युं समुद्रमध्ये विपन्न`नावं तुग्रपुत्रं भुज्युम् “उपारथुः उत्तारयितुमुपगतवन्तौ भवथः । किंच “युवं युवां “वशं हस्तिबलेन शत्रुभिः पराजीयमानं वशनामधेयं राजानं रक्षणाय उपारथुः । किंच “युवं युवां “शिञ्जारम् अत्रिमग्निकूटादुत्तारयितुम् “उशनां कमनीयां स्तुतिं च श्रोतुमुपारथुः । तथा च मन्त्रान्तरम्---’अत्रिं शिञ्जारमश्विना ' (ऋ . सं. ८..५. २५) इति । किंच “युवोः युवयोः “सख्यं मित्रत्वं “ररावा हविषां प्रदाता यजमानः “परि आसते पर्यास्ते । वचनव्यत्ययः । किं च “युवोः युवयोः “अवसा रक्षणेन “अहं घोषा “सुम्नं सुखम् “आ “चके कामये ॥


यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धंतं॑ वि॒धवा॑मुरुष्यथः ।

यु॒वं स॒निभ्यः॑ स्त॒नयं॑तमश्वि॒नाप॑ व्र॒जमू॑र्णुथः स॒प्तास्यं॑ ॥८

यु॒वम् । ह॒ । कृ॒शम् । यु॒वम् । अ॒श्वि॒ना॒ । श॒युम् । यु॒वम् । वि॒धन्त॑म् । वि॒धवा॑म् । उ॒रु॒ष्य॒थः॒ ।

यु॒वम् । स॒निऽभ्यः॑ । स्त॒नय॑न्तम् । अ॒श्वि॒ना॒ । अप॑ । व्र॒जम् । ऊ॒र्णु॒थः॒ । स॒प्तऽआ॑स्यम् ॥

युवम् । ह । कृशम् । युवम् । अश्विना । शयुम् । युवम् । विधन्तम् । विधवाम् । उरुष्यथः ।

युवम् । सनिऽभ्यः । स्तनयन्तम् । अश्विना । अप । व्रजम् । ऊर्णुथः । सप्तऽआस्यम् ॥

हे “अश्विना अश्विनौ “युवं “ह युवां खलु “कृशं दुर्बलं कृशनामधेयं वा "उरुष्यथः रक्षथः । किंच "युवं युवां “शयुं शयुनामानमृषिमुरुष्यथः। किंच “युवं युवां “विधन्तं परिचरन्तं मनुष्यं “विधवां च अपतिकां वध्रिमतीं योद्ध्रीं स्त्रियं च उरुष्यथः । किंच हे “अश्विना अश्विनौ “युवं युवां “स्तनयन्तं शब्दं कुर्वन्तं “सप्तास्यं सर्पणशीलद्वारं व्रजं मेघम् । व्रजश्चरुः' इति मेघनामसु पाठात् । “सनिभ्यः हविषां दातृभ्यः “अप “ऊर्णुथः विवृतद्वारं कृतवन्तौ स्थ इत्यर्थः ॥


जनि॑ष्ट॒ योषा॑ प॒तय॑त्कनीन॒को वि चारु॑हन्वी॒रुधो॑ दं॒सना॒ अनु॑ ।

आस्मै॑ रीयंते निव॒नेव॒ सिंध॑वो॒ऽस्मा अह्ने॑ भवति॒ तत्प॑तित्व॒नं ॥९

जनि॑ष्ट । योषा॑ । प॒तय॑त् । क॒नी॒न॒कः । वि । च॒ । अरु॑हन् । वी॒रुधः॑ । दं॒सनाः॑ । अनु॑ ।

आ । अ॒स्मै॒ । री॒य॒न्ते॒ । नि॒व॒नाऽइ॑व । सिन्ध॑वः । अ॒स्मै । अह्ने॑ । भ॒व॒ति॒ । तत् । प॒ति॒ऽत्व॒नम् ॥

जनिष्ट । योषा । पतयत् । कनीनकः । वि । च । अरुहन् । वीरुधः । दंसनाः । अनु ।

आ । अस्मै । रीयन्ते । निवनाऽइव । सिन्धवः । अस्मै । अह्ने । भवति । तत् । पतिऽत्वनम् ॥

हे अश्विनौ युवयोः प्रसादादियं घोषा “योषा स्त्रीगुणोपेता सुभगा “जनिष्ट जाता । अस्याः समीपं “कनीनकः कन्याकामः पतिः “पतयत् पततु । अस्मै कनीनकाय युवयोः “दंसनाः “अनु वृष्टिलक्षणानि कर्माणि लक्षीकृस्य “वीरुधः ओषधयः “वि “चारुहन विरोहन्तु प्रादुर्भवन्तु । “अस्मै कनीनकाय “निवनेव प्रवणेनेव “सिन्धवः उदकानि “आ “रीयन्ते । ता वीरुधोऽभिगच्छन्तु । किंच “अह्रे केनाप्यहन्तव्याय “अस्मै कनीनकाय “तत् संभोगसमर्थं “पतित्वनं यौवनं “भवति भवतु ॥


जी॒वं रु॑दंति॒ वि म॑यंते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ ।

वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ॥१०

जी॒वम् । रु॒द॒न्ति॒ । वि । म॒य॒न्ते॒ । अ॒ध्व॒रे । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । दी॒धि॒युः॒ । नरः॑ ।

वा॒मम् । पि॒तृऽभ्यः॑ । ये । इ॒दम् । स॒म्ऽए॒रि॒रे । मयः॑ । पति॑ऽभ्यः । जन॑यः । प॒रि॒ऽस्वजे॑ ॥

जीवम् । रुदन्ति । वि । मयन्ते । अध्वरे । दीर्घाम् । अनु । प्रऽसितिम् । दीधियुः । नरः ।

वामम् । पितृऽभ्यः । ये । इदम् । सम्ऽएरिरे । मयः । पतिऽभ्यः । जनयः । परिऽस्वजे ॥

हे अश्विनौ युवथोरनुग्रहात “ये “नरः पतयो जायानां “जीवं जीवनमुद्दिश्य "रुदन्ति । रोदनेनापि जायानां जीवनमेवाशासत इत्यर्थः । ता जायाः अध्वरे यज्ञे “वि “मयन्ते निवेशयन्ति च किंच तासु “दीर्घां महतीं “प्रसितिं भुजयोः प्रबन्धनम् “अनु “दीधियुः अनुदधति । “इदं “वामं वननीयमपत्यं “पितृभ्यः “समीरिरे संप्रेरयन्ति च। तेभ्यः पतिभ्यः “जनयः जायाः “परिष्वजे परिष्वङ्गार्थं “मयः सुखं कुर्वन्तीति शेषः ॥ ॥ १९ ॥


न तस्य॑ विद्म॒ तदु॒ षु प्र वो॑चत॒ युवा॑ ह॒ यद्यु॑व॒त्याः क्षेति॒ योनि॑षु ।

प्रि॒योस्रि॑यस्य वृष॒भस्य॑ रे॒तिनो॑ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ॥११

न । तस्य॑ । वि॒द्म॒ । तत् । ऊं॒ इति॑ । सु । प्र । वो॒च॒त॒ । युवा॑ । ह॒ । यत् । यु॒व॒त्याः । क्षेति॑ । योनि॑षु ।

प्रि॒यऽउ॑स्रियस्य । वृ॒ष॒भस्य॑ । रे॒तिनः॑ । गृ॒हम् । ग॒मे॒म॒ । अ॒श्वि॒ना॒ । तत् । उ॒श्म॒सि॒ ॥

न । तस्य । विद्म । तत् । ऊं इति । सु । प्र । वोचत । युवा । ह । यत् । युवत्याः । क्षेति । योनिषु ।

प्रियऽउस्रियस्य । वृषभस्य । रेतिनः । गृहम् । गमेम । अश्विना । तत् । उश्मसि ॥

हे “अश्विना अश्विनौ तस्य “तत् सुखं वयं “न “विद्म न जानीमः। तत्सुखं यूयं “सु सुष्ठु “प्र “वोचत । बहुवचनं पूजार्थम् । “युवा “ह तरुणः खलु मत्पतिः "युवत्याः यौवनान्विताया मम “योनिषु गृहेषु “यत् “क्षेति निवसतीति । किंच “प्रियोस्रियस्य प्रिययुवतेः “वृषभस्य सेक्तुः “रेतिनः रेतस्विनो मत्पतेः “गृहं “गमेम गच्छेम । वयं “तत् गृहम् “उश्मसि कामयामहे ॥


आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा॑ अयंसत ।

अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्याँ॑ अशीमहि ॥१२

आ । वा॒म् । अ॒ग॒न् । सु॒ऽम॒तिः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । नि । अ॒श्वि॒ना॒ । हृ॒त्ऽसु । कामाः॑ । अ॒यं॒स॒त॒ ।

अभू॑तम् । गो॒पा । मि॒थु॒ना । शु॒भः॒ । प॒ती॒ इति॑ । प्रि॒याः । अ॒र्य॒म्णः । दुर्या॑न् । अ॒शी॒म॒हि॒ ॥

आ । वाम् । अगन् । सुऽमतिः । वाजिनीवसू इति वाजिनीऽवसू । नि । अश्विना । हृत्ऽसु । कामाः । अयंसत ।

अभूतम् । गोपा । मिथुना । शुभः । पती इति । प्रियाः । अर्यम्णः । दुर्यान् । अशीमहि ॥

हे वाजिनीवसू अन्नधनौ “शुभस्पती उदकस्य स्वामिनौ हे “अश्विना अश्विनौ “मिथुना मिथुनौ परस्परं सहितौ “वां युवां “सुमतिः “आ “अगन् आगच्छतु । “हृत्सु अस्मदीयेषु हृदयेषु “कामाः अभिलाषा: “नि अयंसत नियम्यन्ताम् । किंच युवां “गोपा मम गोपयितारौ “अभूतं भवतम् । अपि च "प्रियाः सत्यो वयम् “अर्यम्णः पत्युः "दुर्यान गृहान् "अशीमहि प्राप्नुयाम ॥


ता मं॑दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी॑रं वच॒स्यवे॑ ।

कृ॒तं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिं ह॑तं ॥१३

ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । ध॒त्तम् । र॒यिम् । स॒हऽवी॑रम् । व॒च॒स्यवे॑ ।

कृ॒तम् । ती॒र्थम् । सु॒ऽप्र॒पा॒नम् । शु॒भः॒ । प॒ती॒ इति॑ । स्था॒णुम् । प॒थे॒ऽस्थाम् । अप॑ । दुः॒ऽम॒तिम् । ह॒त॒म् ॥

ता । मन्दसाना । मनुषः । दुरोणे । आ । धत्तम् । रयिम् । सहऽवीरम् । वचस्यवे ।

कृतम् । तीर्थम् । सुऽप्रपानम् । शुभः । पती इति । स्थाणुम् । पथेऽस्थाम् । अप । दुःऽमतिम् । हतम् ॥

हे अश्विनौ “मन्दसाना मन्दसानौ “ता तौ युवां “मनुषः मनुष्यस्य मत्पतेः "दुरोणे गृहे “वचस्यवे युष्मत्स्तुतिकामायै मह्यं “सहवीरं पुत्रादिसहितं “रयिं धनम् “आ “धत्तं स्थापयतम् । किंच हे अश्विनौ "शुभस्पती उदकस्य स्वामिनौ युवां पतिगृहं गच्छन्त्या मम “तीर्थं पानाय "सुप्रपाणं “कृतं कुरुतम् । किंच युवां “पथेष्ठां मार्गस्थं “स्थाणुं वृक्षं “दुर्मतिं दुर्बुद्धिं परिपन्थिनं च “अप “हतम् अपगमयतम् ॥


क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना॑ वि॒क्षु द॒स्रा मा॑दयेते शु॒भस्पती॑ ।

क ईं॒ नि ये॑मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हं ॥१४

क्व॑ । स्वि॒त् । अ॒द्य । क॒त॒मासु॑ । अ॒श्विना॑ । वि॒क्षु । द॒स्रा । मा॒द॒ये॒ते॒ इति॑ । शु॒भः । पती॒ इति॑ ।

कः । ई॒म् । नि । ये॒मे॒ । क॒त॒मस्य॑ । ज॒ग्म॒तुः॒ । विप्र॑स्य । वा॒ । यज॑मानस्य । वा॒ । गृ॒हम् ॥

क्व । स्वित् । अद्य । कतमासु । अश्विना । विक्षु । दस्रा । मादयेते इति । शुभः । पती इति ।

कः । ईम् । नि । येमे । कतमस्य । जग्मतुः । विप्रस्य । वा । यजमानस्य । वा । गृहम् ॥

हे “अश्विना अश्विनौ “दस्रा दर्शनीयौ “शुभस्पती उदकस्य पती स्वामिनौ भवन्तौ "क्व “स्वित् क्व स्थितौ जनपदे “अद्य अस्मिन्नहनि “कतमासु कासु “विक्षु प्रजासु “मादयेते आत्मानं तर्पयतः । किंच कः यजमानः “ईम् एतौ “नि “येमे नियच्छति । किंच भवन्तौ “कतमस्य “विप्रस्य मेधाविनः स्तोतुः यजमानस्य "गृहं “वा “जग्मतुः गतवन्तौ ॥ ॥ २०॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.४०&oldid=163798" इत्यस्माद् पुनः प्राप्तिः