ऋग्वेदः सूक्तं १०.८५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.८५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.८४ ऋग्वेदः - मण्डल १०
सूक्तं १०.८५
सावित्री सूर्या ऋषिका
सूक्तं १०.८६ →
दे. १-५ सोमः, ६-१६ सूर्याविवाहः, १७ देवाः, १८ सोमार्कौ, १९ चन्द्रमाः, २०-२८ नृणां विवाहमन्त्रा आशीप्रायाः, २९-३० वधूवासःसंस्पर्शनिन्दा, ३१ दम्पत्योर्यक्ष्मनाशनम्, ३२-४७ सूर्या सावित्री।। अनुष्टुप्, १४, १९-२1, २३-२४, २६, ३६-३७, ४४ त्रिष्टुप्, १८, २७, ४३ जगती, ४४ उरोबृहती।
मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।
ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥
सोमेनादित्या बलिनः सोमेन पृथिवी मही ।
अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥२॥
सोमं मन्यते पपिवान्यत्सम्पिंषन्त्योषधिम् ।
सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥३॥
आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।
ग्राव्णामिच्छृण्वन्तिष्ठसि न ते अश्नाति पार्थिवः ॥४॥
यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः ।
वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥५॥
रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।
सूर्याया भद्रमिद्वासो गाथयैति परिष्कृतम् ॥६॥
चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।
द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥७॥
स्तोमा आसन्प्रतिधयः कुरीरं छन्द ओपशः ।
सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥८॥
सोमो वधूयुरभवदश्विनास्तामुभा वरा ।
सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात् ॥९॥
मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः ।
शुक्रावनड्वाहावास्तां यदयात्सूर्या गृहम् ॥१०॥
ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः ।
श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश्चराचारः ॥११॥
शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।
अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥१२॥
सूर्याया वहतुः प्रागात्सविता यमवासृजत् ।
अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते ॥१३॥
यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।
विश्वे देवा अनु तद्वामजानन्पुत्रः पितराववृणीत पूषा ॥१४॥
यदयातं शुभस्पती वरेयं सूर्यामुप ।
क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥१५॥
द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥१६॥
सूर्यायै देवेभ्यो मित्राय वरुणाय च ।
ये भूतस्य प्रचेतस इदं तेभ्योऽकरं नमः ॥१७॥
पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् ।
विश्वान्यन्यो भुवनाभिचष्ट ऋतूँरन्यो विदधज्जायते पुनः ॥१८॥
नवोनवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रम् ।
भागं देवेभ्यो वि दधात्यायन्प्र चन्द्रमास्तिरते दीर्घमायुः ॥१९॥
सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व ॥२०॥
उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीळे ।
अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥२१॥
उदीर्ष्वातो विश्वावसो नमसेळा महे त्वा ।
अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज ॥२२॥
अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् ।
समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवाः ॥२३॥
प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवः ।
ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि ॥२४॥
प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् ।
यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥२५॥
पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।
गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥२६॥
इह प्रियं प्रजया ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि ।
एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः ॥२७॥
नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।
एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥२८॥
परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।
कृत्यैषा पद्वती भूत्व्या जाया विशते पतिम् ॥२९॥
अश्रीरा तनूर्भवति रुशती पापयामुया ।
पतिर्यद्वध्वो वाससा स्वमङ्गमभिधित्सते ॥३०॥
ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु ।
पुनस्तान्यज्ञिया देवा नयन्तु यत आगताः ॥३१॥
मा विदन्परिपन्थिनो य आसीदन्ति दम्पती ।
सुगेभिर्दुर्गमतीतामप द्रान्त्वरातयः ॥३२॥
सुमङ्गलीरियं वधूरिमां समेत पश्यत ।
सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन ॥३३॥
तृष्टमेतत्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे ।
सूर्यां यो ब्रह्मा विद्यात्स इद्वाधूयमर्हति ॥३४॥
आशसनं विशसनमथो अधिविकर्तनम् ।
सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥३५॥
गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।
भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥३६॥
तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।
या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम् ॥३७॥
तुभ्यमग्रे पर्यवहन्सूर्यां वहतुना सह ।
पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥३८॥
पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।
दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥३९॥
सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।*
तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥४०॥
सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।
रयिं च पुत्राँश्चादादग्निर्मह्यमथो इमाम् ॥४१॥
इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।
क्रीळन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ॥४२॥
आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्वर्यमा ।
अदुर्मङ्गलीः पतिलोकमा विश शं नो भव द्विपदे शं चतुष्पदे ॥४३॥
अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।
वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥४४॥
इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु ।
दशास्यां पुत्राना धेहि पतिमेकादशं कृधि ॥४५॥
सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव ।
ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥४६॥
समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ ।
सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥४७॥


सायणभाष्यम्

सप्तमेऽनुवाके षट् सूक्तानि । तत्र 'सत्येन' इति सप्तचत्वारिंशदृचं प्रथमं सूक्तं सवितृसुतायाः सूर्याया आर्षम्। 'नवोनवः' इति तिस्रः ‘अनृक्षराः' इति द्वे ‘गृभ्णामि' इति द्वे ‘यदश्विना पृच्छमानौ' इत्येका ‘ पूषा त्वेतो नयतु' इत्येका ‘अघोरचक्षुः' इति चैवमेता दशर्चस्त्रिष्टुभः । ‘तृष्टमेतत्' इत्येषोरोबृहत्यष्टकद्वादशद्वयष्टकवती । “पूर्वपरं चरतः ' ‘इह प्रियं प्रजया' ‘आ नः प्रजां जनयतु' इत्येतास्तिस्रो जगत्यः । शिष्टास्त्र्यत्रिंशदनुष्टुभः । आदितः पञ्चानामृचां सोमो देवता । तत एकादशभिः सूर्या स्वविवाहं स्तुतवती । अतस्तत्र योऽर्थः प्रतिपाद्यते स एव देवतात्वेन विज्ञेयः। ‘या तेनोच्यते सा देवता' इति न्यायात् । सप्तदश्या देवी देवता । अष्टादश्याः सोमार्कौ। एकोनविंश्याश्चन्द्रमाः । सुकिंशुकम्' इत्याद्या नवर्चो विवाहमन्त्रा आशिषः प्रतिपादकाः । अतस्तत्र तत्र प्रतिपाद्योऽर्थों देवता । ‘परा देहि' अश्रीरा तनूः' इति द्वे वध्वा विवाहकाले परिहितस्य वाससः संस्पर्शनिन्दयित्र्यौ।' ये वध्वश्चन्द्रम्' इति दंपत्योः क्षयरोगस्य नाशिनी । अतस्तद्देवताका'। परिशिष्टानां षोडशाना सूर्या देवता । तथा चानुक्रान्तं-' सत्येन सप्तचत्वारिंशत् ' सर्वमनुक्रान्तम्। सूक्तविनियोगो लैङ्गिकः ॥


स॒त्येनोत्त॑भिता॒ भूमि॒ः सूर्ये॒णोत्त॑भिता॒ द्यौः ।

ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ॥

सत्येन । उत्तभिता । भूमिः । सूर्येण । उत्तभिता । द्यौः ।।

ऋतेन । आदित्याः । तिष्ठन्ति । दिवि । सोमः । अधि । श्रितः ॥ १ ॥

"सत्येन ब्रह्मणानन्तात्मना । ब्रह्मा खलु देवानां मध्ये सत्यभूतः । तेनाधःस्थितेन "भूमिः “उत्तभिता उपरि स्तम्भिता । यथाधो न पतेत्तथा कृताः। यद्वा । सत्येन अनृतप्रतियोगिना धर्मण भूमिरुत्तभितोद्धृता फलिता भवतीत्यर्थः । असति सत्ये भूम्यां सस्यादयो न फलन्ति । तथा "सूर्येण देवेन "द्यौः "उत्तभिता । सूर्यो हि द्युस्थानत्वाद्दिवं दधार। “ऋतेन यज्ञेन आदित्याः अदितेः पुत्रा देवाः "तिष्ठन्ति । यज्ञे यजमानदत्तेन खल्वाहुत्या देवा उपजीवन्ति । "दिवि द्युलोके “सोमः देवानामाप्यायनकारी वल्लीरूपो देवतारूपश्च अधि “श्रितः अधितिष्ठति । इति स्वपतिं सोमं सूर्या स्तौति॥


सोमे॑नादि॒त्या ब॒लिन॒ः सोमे॑न पृथि॒वी म॒ही ।

अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥

सोमेन । आदित्याः । बलिनः । सोमेन । पृथिवी । मही।

अथो इति । नक्षत्राणाम् । एषाम् । उपऽस्थे । सोमः । आऽहितः ॥ २ ॥

“सोमेनादित्याः अदितेः पुत्रा इन्द्रादयः "बलिनः भवन्ति । ऐन्द्रवायवादिग्रहपरिग्रहादिति भावः । तथा “सोमेन आहुत्यात्मनाग्नौ हुतेन "पृथिवी भूमिः "मही महती भवति । आहुत्या वृष्टिद्वारेण सस्यादिसंपत्तेः । "अथो अपि चायं सोमः "नक्षत्राणामेषाम् । न क्षं त्रायन्त इति नक्षत्रा ग्रहचमसादयः । तेषामेषाम् "उपस्थे "सोमः रसात्मकः “आहितः । यद्वा । प्रसिद्धानामेव नक्षत्राणामुपस्थ उपस्थाने द्युलोके सोम आहितः । तृतीयस्यामितो दिवि सोम आसीत्तं गायत्र्याहरत्' (तै. ब्रा. ३. २. १. १ ) इत्यादिश्रुतेः । देवतारूपसोमपक्षे । सोमेनादित्या देवा बलिनो बलवन्तो भवन्ति तस्यैकैककलास्वादनात् । प्रथमां पिबते वह्रिर्द्वितीयां पिबते रविः' इत्यादिस्मृतेः । सोमेन पृथिवी मही। अमृतसेकेनौषध्याद्यभिवृद्ध्या पृथिव्या बलवत्त्वम् । चन्द्रस्य नक्षत्राणामुपस्थे स्थितिः प्रसिद्धा ॥


सोमं॑ मन्यते पपि॒वान्यत्स॑म्पिं॒षन्त्योष॑धिम् ।

सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥

सोमम् । मन्यते । पपिऽवान् । यत् । सम्ऽपिंषन्ति। ओषधिम् ।।

सोमम् । यम् । ब्रह्माणः । विदुः । न । तस्य । अश्नाति । कः । चन ॥ ३ ॥

तं सोमं मन्यते । 'कः । यः “पपिवान् । वर्धनकामार्थं चिकित्सार्थं पीतः सोमो येन । “यत् यमित्यर्थः । यं सोमम् “ओषधिं वल्लीरूपं “संपिंषन्ति सामर्थ्यद्रासायनिकाः । न च स साक्षात्सोमः । तर्हि कः । उच्यते । सोमं हि तं मन्यते “यं “ब्रह्माणः । यद्ब्रह्मशब्दो ब्राह्मणशब्दपर्यायोsस्ति । कुतो नु चरसि ब्रह्मन् ' ' तस्मै मा ब्रूया निधिपाय ब्रह्मन्' इत्यादिप्रयोगात् । ब्राह्मणा इत्यर्थः । ते चर्त्विजो यजमानश्च यागसाधनभूतं संस्कर्तुं “विदुः जानन्ति “तस्य अंशम् । यद्वा । कर्मणि षष्ठी। तं सोमं "कश्चन “न अश्नाति । कश्चिदप्ययज्वेति शेषः । यज्वैनं भक्षयितुमर्हति नान्य इत्यर्थः । एवमोषधिपक्षे । अथ चन्द्रपक्ष उच्यते । तं सोमं मन्यते पपिवान् पीतवान् यजमानो यद्यमोषधिरूपं संपिंषन्त्यभिषवग्रावभिरध्वर्य्वादयो यजमानश्च:। न च स सोमः। कस्तहिं । यं ब्रह्माणो ब्राह्मणा अभिज्ञा दैवज्ञा विदुः कथयन्ति चन्द्रमसं न तस्याश्नाति कश्चनादेवो देवेभ्योऽन्यो मनुष्यादिः । देवा अग्न्यादयो रश्मयो वा । यज्ञार्हसोमस्यासमत्वं न निन्दायै अपि तु इतरस्य स्तुत्यै इति मन्तव्यम् । “ अपशवो वा अन्ये गोअश्वेभ्यः' (तै. सं. ५. २. ९. ४) इत्यादिवत् । एवमत्र सोम्या उभयथा योज्याः ॥


आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः ।

ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ॥

आच्छत्ऽविधानैः । गुपितः । बार्हतैः । सोम । रक्षितः ।

ग्राव्णाम् । इत् । शृण्वन् । तिष्ठसि । न । ते । अश्नाति । पार्थिवः ॥ ४ ॥

हे "सोम “आच्छद्विधानैः । आच्छादयन्ति विधानानि येषां विद्यन्ते त आच्छद्विधानाः । तैः “गुपितः । तथा “बार्हतैः गुपितः स्वानभ्राजाङ्घार्यादिभिः सप्तभिः सोमपालैः रक्षितः त्वम् । एते वा अमुष्मिँल्लोके सोममरक्षन् ' (तै. सं. ६.१.१०.५) इति ब्राह्मणम् । "ग्राव्णामिच्छृण्वन् अभिषवग्राव्णां ध्वनिं शृण्वन्नेव “तिष्ठसि । “ते त्वां “पार्थिवः पार्थिवो जनः “न “अश्नाति । न हि द्युस्थश्चन्द्ररूपः सोमोऽत्रत्यैः पानयोग्यो भवति । चन्द्रमा वै सोमो देवानामन्नं तं पौर्णमास्यामभिषुण्वन्ति' (श. ब्रा. ११.१.५.३ ) इति वाजसनेयकम् ॥


यत्त्वा॑ देव प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ ।

वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥

यत् । त्वा । देव । प्रऽपिबन्ति । ततः । आ । प्यायसे । पुनरिति ।।

वायुः । सोमस्य । रक्षिता । समानाम् । मासः । आऽकृतिः ॥ ५ ॥

हे “देव सोम “यत् यदा “त्वा त्वां प्रपिबन्ति ओषधिरूपं त्रिष्वपि सवनेषु “ततः अनन्तरमेव “पुनः “आ “प्यायसे ।“ आ प्यायस्व सम् ' ( ऋ. सं. १. ९१. १६) इति प्रातःसवने ‘सं ते पयांसि' (ऋ. सं. १. ९१. १८) इत्युत्तरयोः सवनयोराप्यायसे । किंच “वायुः तव “सोमस्य “रक्षिता । यथा न शुष्यति तथा । वायुः शोषकः प्रसिद्धो लोके । किंच "मासः । ‘मसी परिमाणे । मस्यते परिमीयत इति मासः सोमः। स च "समानां संवत्सराणाम् "आकृतिः आकर्ता व्यवच्छेदको भवति । संवत्सरे संवत्सरे वसन्तादिकालेष्वनुष्ठीयमानत्वात् ' वसन्ते वसन्ते ज्योतिषा यजेत' इति श्रुतेः । यद्वा । सोमाधारवनस्पतिविकारग्रहद्वारेण वायुः सोमरसस्य रक्षिता भवति । ‘वायुगोपा वनस्पतयः' इति श्रुतेः । एवं वल्लीरूपसोमपक्षे योजना । चन्द्रपक्षे तु । हे देव सोम यद्यदा वा त्वां प्रपिबन्ति रश्मयोऽपरपक्षे ततोऽनन्तरमेव पूर्वपक्षे पुनराप्यायसे । वायुश्च सोमस्य तव रक्षिता । वाय्वधीनत्वाच्चन्द्रगतेः । किंच समानां संवत्सराणां मासः । षष्ठ्येकवचनमेतत् । मासस्याकृतिश्च कर्ता त्वं चासि । एकैककलाहासवृद्धिभ्यां हि मासः पूर्यते तैः संवत्सर इति ॥ ॥ २० ॥


रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी ।

सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ॥

रैभी। आसीत् । अनुऽदेयी । नाराशंसी । निऽओचनी ।।

सूर्यायाः । भद्रम् । इत् । वासः । गाथया । एति । परिऽकृतम् ॥ ६ ॥

आभिः सूर्या स्वविवाहमस्तौदिस्युक्तम् । सूर्या सावित्री ब्रूते । "रैभी। रैभ्यः काश्चनर्चः । ‘रैभीः शंसति रेभन्तो वै देवाश्चर्षयश्च स्वर्गं लोकमायन्' (ऐ. ब्रा. ६. ३२) इत्यादिब्राह्मणविहिता रैभ्यः । सा रैभी “अनुदेयी “आसीत् । दीयमानवधूविनोदनायानुदीयमाना वयस्यासीत् । तथा “नाराशंसी। प्राता रत्नम् ' (ऋ. सं. १. १२५. १ ) इत्यादिका मनुष्याणां स्तुतयो नाराशंस्यः । सा नाराशंसी “न्योचनी । उचतिः सेवाकर्मा । सा वधूशुश्रूषार्थं दीयमाना दास्यभवत् । “सूर्यायाः मम “भद्रं “वासः विचित्रं दुकूलादिकमाच्छादनयोग्यं वस्त्रं “गाथया “परिष्कृतम् अलंकृतम् “एति । 'गाथा गीयते' इत्यादिब्राह्मणोक्ता गाथा । तया गाथया यत्परिष्कृतमस्ति तद्वासोऽभवदिति ॥


चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम् ।

द्यौर्भूमि॒ः कोश॑ आसी॒द्यदया॑त्सू॒र्या पति॑म् ॥

चित्तिः । आः । उपऽबर्हणम् । चक्षुः । आः । अभिऽअञ्जनम् ।

द्यौः । भूमिः । कोशः । आसीत् । यत् । अयात् । सूर्या । पतिम् ॥ ७ ॥

“चित्तिः देवता “उपबर्हणम् “आः आसीत् । “चक्षुः "अभ्यञ्जनम् “आः आसीत् । तथा हि। वृत्रस्य कनीनिका परापतत्त्रिककुन्नाम पर्वते । तेन त्रैककुदेनाञ्जनसजातीयेन चक्षुषी अञ्जते । तच्चक्षुरेवाञ्जनमासीदिति । “द्यौः च "भूमिः च "कोशः आसीत् । कोशस्थानीये अभूताम् । “यत् यदा "सूर्या "पतिं स्वकीयं नवभर्तारं सोमम् "अयात् अगच्छत् तदैवमुपकरणान्यासन् ॥


स्तोमा॑ आसन्प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः ।

सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत्पुरोग॒वः ॥

स्तोमाः । आसन् । प्रतिऽधयः । कुरीरम् । छन्दः । ओपशः ।

सूर्यायाः । अश्विना । वरा । अग्निः । आसीत् । पुरःऽगवः ॥ ८ ॥

सूर्याया रथस्य “स्तोमाः त्रिवृदादयः “प्रतिधयः “आसन् । प्रतिधीयन्त इति प्रतिधय ईषातिर्यगायतकाष्ठादयः । तथा “कुरीरं “छन्दः कुरीरनामकं छन्दोऽनसः "ओपशः अभवत् । येनोपशेरते स ओपशः । तादृशायाः “सूर्यायाः “अश्विना अश्विनौ “वरा वरावास्तामिति शेषः । तस्या विवाहे “पुरोगवः पुरोगन्ता पुरतो गन्ता' यः पूर्वमेव प्रस्तावार्थं गच्छति तत्स्थानीयः “अग्निरासीत् । ‘प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीं तस्यै सर्वे देवा वरा आगच्छन् ' (ऐ. ब्रा. ४.७) इत्यादि हि ब्राह्मणम् । अत्रायमभिप्रायः । प्रजापतिः सविता स्वदुहितरं सोमाय प्रायच्छत् । सोमाय दास्यामीति मनीषामकरोत् । तस्मिन् समये पुत्र्या उपचारार्थं प्रदानान्युक्तान्यभवन् । तथा च सत्यश्विनौ प्रबलौ सन्तावाजिं पुरतो गत्वा तामलभेतामिति । उत्तरत्रापि सोमो वधूयुरभवत् । इत्यादिनायमेवार्थः स्पष्टो भविष्यति । 'योषावृणीत जेन्या' (ऋ.सं.१.११९.५) इत्यादिकमुक्तम् ॥


सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा ।

सू॒र्यां यत्पत्ये॒ शंस॑न्तीं॒ मन॑सा सवि॒ताद॑दात् ॥

सोमः । वधूऽयुः । अभवत् । अश्विना । आस्ताम् । उभा । वरा ।।

सूर्याम् । यत् । पत्ये । शंसन्तीम् । मनसा । सविता । अददात् ॥ ९ ॥

“सोमो “वधूयुः वधूकामो वरः “अभवत् । तस्मिन् समये “अश्विना अश्विनौ "उभा उभौ “वरा वरौ "आस्ताम् अभूताम् । “यत् यदा "सूर्याँ “पत्ये "शंसन्तीं पतिं कामयमानाम् । पर्याप्तयौवनामित्यर्थः। सूर्यां "मनसा सहिताय' सोमाय वराय "सविता तत्पिता अददात् प्रादात् दित्सां चकार ॥


मनो॑ अस्या॒ अन॑ आसी॒द्द्यौरा॑सीदु॒त च्छ॒दिः ।

शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त्सू॒र्या गृ॒हम् ॥

मनः । अस्याः । अनः । आसीत् । द्यौः । आसीत् । उत । छदिः ।

शुक्रौ । अनड़्वाहौ। आस्ताम् । यत् । अयात् । सूर्या । गृहम् ॥ १० ॥

“अस्याः सूर्यायाः पत्युर्गृहं गच्छन्त्याः "अनः रथः “मनः “आसीत् । या पतिगृहं त्वया गच्छामीति मतिरस्ति सा अन आसीत् । "उत अपि च तस्या अनसः “द्यौः द्युलोकः “छदिः उपर्यपिधानम् “आसीत् । शुक्रौ दीप्तौ सूर्याचन्द्रमसौ "अनड्वाहौ रथस्य वोढारौ “आस्ताम् अभवताम् । “यत् यदा "सूर्या गृहं सोमम् अयात् अगात् ॥ ॥ २१ ॥


ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावि॑तः ।

श्रोत्रं॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराचा॒रः ॥

ऋक्ऽसामाभ्याम् । अभिऽहितौ । गावौ । ते। सामनौ । इतः ।

श्रोत्रम् । ते । चक्रे इति । आस्ताम् । दिवि । पन्थाः । चराचरः ॥ ११ ॥

हे सूर्ये देवि ते तव “ऋक्सामाभ्याम् अभिधानीस्थानाभ्याम् “अभिहितौ “गाव गोस्थानीयौ सूर्याचन्द्रमसौ “सामनौ सामानौ सन्तौ “इतः गच्छतः । अनोवाहौ पत्युर्गृहं प्रति गच्छतः । “ते तव “श्रोत्रम् । श्रोत्रे इत्यर्थः । वरस्य गुणग्राहिणी श्रोत्रे एव “चक्रे "आस्ताम् । मनोरूपस्य रथस्य श्रोत्रे चक्रे अभवतामित्यर्थः । “दिवि “पन्थाश्चराचरः चलाचलोऽप्यन्तं गमनसाधनभूतो मार्गोऽभूत् । रथसंचारप्रदेशो द्युलोक आसीत् ॥


शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः ।

अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म् ॥

शुची इति । ते । चक्रे इति । यात्याः । विऽआनः । अक्षः । आऽहतः ।

अनः । मनस्मयम् । सूर्या । आ । अरोहत् । प्रऽयती । पतिम् ।। १२ ।।

“यात्याः गच्छन्त्याः “ते तव अनसः “चक्रे चङ्क्रमणशीले रथाङ्गे “शुची श्रोत्रे आस्ताम् । “व्यानः तव व्यानो वायुः “अक्षः । उभयरथचक्रच्छिद्रगामिनी या काष्ठा सा च रथस्य सर्वं भारं वहति । सोऽक्षो व्यानोऽभूत् । “मनस्मयं मनोमयम् “अनः शकटं “सूर्या “पतिं सोमं प्रति “प्रयती प्रकर्षेण गच्छन्ती “आरोहत् आरूढवती । पतिं प्रति जिगमिषोर्मनोरूपस्य रथस्य पत्युर्गुणश्राविणी श्रोत्रे एव चक्रे अभूतां व्यानो धारको वायुश्चेष्टकोऽक्षोऽभूदित्यर्थः ।।


सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् ।

अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु॑न्यो॒ः पर्यु॑ह्यते ॥

सूर्यायाः । वहतुः । प्र । अगात् । सविता । यम् । अवऽअसृजत् ।

अघासु । हन्यन्ते । गावः । अर्जुन्योः । परि । उह्यते ॥ १३ ॥

सोमाय प्रदित्सितायाः “सूर्याया वहतुः । कन्याप्रियार्थं दातव्यो गवादिपदार्थों वहतुः । स च “प्रागात् तस्या अपि पूर्वमगच्छत् । “यं वहतुं “सविता अस्याः पिता “अवासृजत् अवसृष्टवान् । प्रादादित्यर्थः। कदा सागच्छत् कदा वहतुरित्युभयोः काल उच्यते । “अघासु । मघास्वित्यर्थः । मघानक्षत्रेषु “गावः सवित्रा दत्ता गावः सोमगृहं प्रति “हन्यन्ते दण्डैस्ताड्यन्ते प्रेरणार्थम् । “अर्जुन्योः । फल्गुन्योरित्यर्थः। तयोर्नक्षत्रयोः सवितुः सकाशात् परि सोमगृहं प्रति “उह्यते नीयते रथेन ॥


यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ ।

विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ॥

यत् । अश्विना । पृच्छमानौ । अयातम् । त्रिऽचक्रेण । वहतुम् । सूर्यायाः ।

विश्वे । देवाः । अनु । तत् । वाम् । अजानन् । पुत्रः । पितरौ । अवृणीत । पूषा ॥ १४ ॥

हे "अश्विना अश्विनौ "यत् यदा “पृच्छमानौ सवितारं प्रष्टुम् "अयातम् अगच्छतम् । केन साधनेनायातं तदुच्यते । "त्रिचक्रेण चक्रत्रययुक्तेन रथेन । किं पृच्छमानौ । "सूर्यायाः “वहतुम् । विवाहमित्यर्थः । "तत् तदानीं “वां युवां सवितारं प्रति गच्छन्तौ “विश्व सर्वे "देवाः “अनु "अजानन् अनुज्ञातवन्तः । तथा “पितरौ "पुत्रः अश्विनोः पुत्रः "पूषा "अवृणीत वृतवान् ॥


यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ ।

क्वैकं॑ च॒क्रं वा॑मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ॥

यत् । अयातम् । शुभः । पती इति । वरेऽयम् । सूर्याम् । उप ।

क्व । एकम् । चक्रम् । वाम् । आसीत् । क्व। देष्ट्राय । तस्थथुः ॥ १५ ॥

हे “शुभस्पती उदकस्य स्वामिनौ "यत् यौ “अयातम् अगच्छतम् । कं प्रति। “वरेयं वरणीयायाः सूर्यायाः संबन्धिनं वरैर्याचितव्यं वा । सवितारमित्यर्थः । किमर्थम् । "सूर्यामुप गन्तुम् । “वां भवतोः संप्रति दृश्यमानमिदम् "एकं चक्रं “क्व “आसीत् पुरा । "क्व वा युवां “देष्ट्राय दानाय प्रवृत्तौ “तस्थथुः इत्यश्विनोर्निवासं पृच्छति ॥ ॥ २२ ॥


द्वे ते॑ च॒क्रे सू॑र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः ।

अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ॥

द्वे इति । ते । चक्रे इति । सूर्ये । ब्रह्माणः । ऋतुऽथा। विदुः ।।

अथ । एकम् । चक्रम् । यत् । गुहा । तत् । अद्धातयः । इत् । विदुः ॥ १६ ॥

अथ स्वयमेव स्वात्मानं प्रति सूर्यां वदति । हे "सूर्ये ते तव “द्वे "चक्रे प्रज्ञाते पुरा दृष्टे द्वे एव चन्द्रसूर्यात्मके “ऋतुथा ऋतुषु विनिर्दिष्टे चक्रे “ब्रह्माणः ब्राह्मणाः विदुः । "अथैकं "चक्रं तृतीयं संवत्सरात्मकं "गुहा गुहायां निहितं "यत् अस्ति "तदद्धातय “इत् । एतन्मेधाविनामसु पठितम् (नि. ३. १५, २१ ) । मेधाविन एव "विदुः जानन्ति ॥


सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च ।

ये भू॒तस्य॒ प्रचे॑तस इ॒दं तेभ्यो॑ऽकरं॒ नमः॑ ॥

सूर्यायै । देवेभ्यः । मित्राय । वरुणाय । च ।

ये। भूतस्य । प्रऽचेतसः । इदम् । तेभ्यः । अकरम् । नमः ॥ १७ ॥

"सूर्यायै सूर्यस्य पत्न्यै "देवेभ्यः अग्न्यादिभ्यः "मित्राय "वरुणाय च "ये च "भूतस्य भूतजातस्य “प्रचेतसः सुमतयोऽभिमतप्रदा भवन्ति "तेभ्यः सर्वेभ्यः इदं "नमः नमस्कारम् "अकरं करोमि ॥


पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळ॑न्तौ॒ परि॑ यातो अध्व॒रम् ।

विश्वा॑न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ॥

पूर्वऽअपरम् । चरतः । मायया । एतौ । शिशू इति । क्रीळन्तौ । परि । यातः । अध्वरम् ।

विश्वानि । अन्यः ।भुव॑ना । अभिऽचष्टे । ऋतून् । अन्यः । विऽदधत् । जायते । पुनरिति ॥१८॥

कश्चित्पूर्वं गच्छति सूर्यः । अन्यस्तमनुचरति चन्द्रमाः। एवं पूर्वापरं पौर्वापर्येण "मायया स्वप्रज्ञानेन "एतौ आदित्यचन्द्रौ "चरतः गच्छतो दिवि । तौ “शिशू । शिशुवद्भ्रमणाज्जायमानत्वाद्वा शिशू इत्युच्येते । शिशू सन्तौ "क्रीळन्तौ अन्तरिक्षे विहरन्तौ "अध्वरं "परि "यातः यज्ञं प्रतिगच्छतः । तयोः "अन्यः आदित्यः "विश्वानि “भुवना भुवनानि “अभिचष्टे अभिपश्यति । “ऋतून् वसन्तादीन् “अन्यः चन्द्रमाः “विदधत् कुर्वन् मासानर्धमासांश्च कुर्वन् "पुनः "जायते । यद्यप्युभयोरपि पुनर्जनिरस्ति तथापि सूर्यस्य सर्वदा प्रवृद्धेरुदयो नाभिप्रेतः । चन्द्रस्य तु हासवृद्धि सद्भावात्पुनःपुनर्जायत इत्युक्तिर्युक्ता।' चन्द्रमा वै जायते पुनः' (तै. ब्रा. ३. ९. ५. ४) इत्यादिश्रुतेः ॥


अतिमूर्तिनाम्न्येकाहे शुक्लपक्षे चान्द्रमसीष्टिः । तत्र ‘नवोनवः' इत्येषा याज्या। सूत्रितं च--- ‘नवोनवो भवति जायमानस्तरणिर्विश्वदर्शतः' (आश्व. श्रौ. ९. ८) इति ॥

नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्र॑म् ।

भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरते दी॒र्घमायुः॑ ॥

नवःऽनवः । भवति । जायमानः । अह्राम् । केतुः । उषसाम् । एति । अग्रम् ।

भागम् । देवेभ्यः । वि । दधाति । आऽयन् । प्र । चन्द्रमाः । तिरते । दीर्घम् । आयुः ॥१९॥

अयं चन्द्रमाः “जायमानः प्रतिदिनं जायमान एकैककलाधिक्येनोत्पद्यमानः सन् "नवोनवो “भवति प्रतिदिनं नूतन एव भवति । एतत्पूर्वपक्षाद्यभिप्रायम् । तथा “अह्नां दिवसानां "केतुः प्रज्ञापकः प्रतिपदादीनां तिथीनां चन्द्रकलाहासवृद्ध्यधीनत्वात् । तादृशश्चन्द्रमाः “उषसां प्रभातीनाम् "अग्रम् “एति। एतरकृष्णपक्षान्ताभिप्रायम् । केचनैतं पादमादित्यदैवत्यमाहुः । तस्मिन् पक्षेऽह्नां केतुत्वमुषसामग्रगतिश्च प्रसिद्धे । "देवेभ्यः "भागं हविर्भागं “वि “दधाति करोति उभयपक्षान्ते । किं कुर्वन् । “आयन प्रतिदिनं हासवृद्ध्या पक्षान्तमभिगच्छन्। एतदर्धमासाभिप्रायम्। "चन्द्रमाः उक्तलक्षणो देवः "दीर्घमायुः “तिरते वर्धयति ॥


सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम् ।

आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व ॥

सुऽकिंशुकम् । शल्मलिम् । विश्वऽरूपम् । हिरण्यऽवर्णम् । सुऽवृतम् । सुऽचक्रम् ।

आ। रोह। सूर्ये । अमृतस्य । लोकम् । स्योनम् । पत्ये । वहतुम् । कृणुष्व ॥ २० ॥

“सुकिंशुकं शोभनकिंशुकवृक्षनिर्मितं तथा “शल्मलिं शल्मलिवृक्षनिर्मितं "विश्वरूपं नानारूपं हिरण्यवर्णं हितरमणीयवर्णं हिरण्यालंकारयुक्तं वा "सुवृतं सुष्ठुवर्तनं "सुचक्रं शोभनचक्रोपेतं रथं हे "सूर्ये “आ “रोह । अमृतस्य लोकं स्थानं "स्योनं सुखकरं "पत्ये सोमाय "वहतुं वहनमात्मनः प्रापणं "कृणुष्व कुरुष्व । अत्र निरुक्तं (१२. ८) द्रष्टव्यम् ॥ ॥ २३ ॥


उदी॒र्ष्वात॒ः पति॑वती॒ ह्ये॒३॒॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे ।

अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥

उत् । ईर्ष्व । अतः । पतिऽवती । हि । एषा । विश्वऽवसुम् । नमसा । गी:ऽभिः । ईळे।

अन्याम् । इच्छ । पितृऽसदम् । विऽअक्ताम् । सः । ते । भागः । जनुषा । तस्य । विद्धि ॥२१॥

आभिर्नृणां विवाहः स्तूयते । हे विश्वावसो "अतः स्थानात् कन्यासमीपात् "उदीर्ष्व उत्तिष्ठ । यतः “एषा कन्या “पतिवती “हि संजाता अत उदीर्ष्वेति वा अतःशब्दो योज्यः । "विश्वावसुम् एतन्नामानं गन्धर्वं नमसा नमस्कारेण “गीर्भिः स्तुतिभिश्च “ईळे स्तौमि । तर्ह्येनां विहाय कां स्वीकरोमीति यदि ब्रूषे तर्हि "अन्यां "पितृषदं पितृकुले स्थितां “व्यक्ताम् अनूढेति परिस्फुटां विगताञ्जनां वा । स्तनोद्ग-- मादिराहित्येनाप्रौढामित्यर्थः । "सः तादृशः पदार्थः "ते तव “भागः कल्पितः । "तस्य तं भागं “विद्धि जानीहि "जनुषा जन्मना । लभस्वेत्यर्थः ॥


उदी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेळा महे त्वा ।

अ॒न्यामि॑च्छ प्रफ॒र्व्यं१॒॑ सं जा॒यां पत्या॑ सृज ॥

उत् । ईर्ष्व । अतः । विश्ववसो इति विश्वऽवसो । नमसा । ईळामहे । त्वा ।।

अन्याम् । इच्छ। प्रऽफर्व्यम् । सम् । जायाम् । पत्या । सृज ॥ २२ ॥

“अतः अस्माच्छयनात् हे "विश्वावसो कन्यास्वामिन् गन्धर्व “उदीर्ष्व उद्गच्छ। ‘ईर गतौ ' । आदादिकः । अनुदात्तेत् । तस्य लोटि रूपम् । विश्वावसुर्नाम गन्धर्वः कन्यानामधिपतिर्यतः । लभामि तेन कन्याम्' इति हि मन्त्रः । तादृश देव त्वां "नमसा नमस्कारेण ईळामहे स्तुमः । स त्वम् "अन्यां "प्रफर्व्यं बृहन्नितम्बां कन्याम् इच्छ। "जायां मां “पत्या सह पुनः "सं "सृज ॥


अ॒नृ॒क्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्था॒ येभि॒ः सखा॑यो॒ यन्ति॑ नो वरे॒यम् ।

सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ॥

अनृक्षराः । ऋजवः । सन्तु। पन्थाः । येभिः । सखायः । यन्ति । नः । वरेऽयम् ।

सम् । अर्यमा । सम् । भगः । नः । निनीयात् ।। सम् । जापत्यम् । सुऽयमम् । अस्तु । देवाः ॥ २३ ॥

हे देवाः "पन्थाः पन्थानो मार्गाः अनृक्षराः । ऋक्षरः कण्टक उच्यते । कण्टकरहिताः “ऋजवः अकुटिलाश्च "सन्तु "येभिः यैः पथिभिः "नः अस्माकं “सखायः वरप्रेषिताः “वरेयं वरैर्याचितव्यं पितरं प्रति “यन्ति गच्छन्ति ते पन्था इति । किंच “अर्यमा देवः “नः अस्मान् “सं “निनीयात् सम्यक् प्रापयेत् । तथा भगः देवः "सं निनीयात् । हे "देवाः आसंगतमस्तु पतिकुलमिति शेषः । तथेदं "जास्पत्यं जायापत्योर्युगलं "सुयममस्तु सुमिथुनमस्तु ॥


पत्न्या योक्त्रविमोचने ‘प्र त्वा मुञ्चामि' इत्येषा । सूत्रितं च– अथास्या योक्त्रं विचृतेत्प्र त्वा मुञ्चामि वरुणस्य पाशात् ' ( आश्व. श्रौ. १. ११ ) इति ॥

प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवः॑ ।

ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥

प्र । त्वा । मुञ्चामि । वरुणस्य । पाशात् । येन । त्वा । अबध्नात् । सविता । सुऽशेवः ।

ऋतस्य । योनौ । सुऽकृतस्य । लोके । अरिष्टाम् । त्वा । सह । पत्या । दधामि ।। २४ ।।

जातं प्राणिनं सवित्रा प्रेरितो वरुण आत्मपाशैर्बध्नाति । तस्मात् “वरुणस्य “पाशात् हे वधु “त्वा त्वां “प्र “मुञ्चामि “येन पाशेन “त्वा त्वां “सविता वरुणस्य प्रेरकः “सुशेवः सुसुखः “अबध्नात् बन्धनं कृतवान् । यज्ञविनियोगपक्षे पत्नीं योक्त्रेण बध्नाति । बन्धनस्य वरुणोऽभिमानी। अतो वरुणपाशयोक्त्रात्प्र मुञ्चामि येन योक्त्रेण सविता कर्मणामनुज्ञाता देव ऋत्विक्पाशेनाबध्नात् । तं मोचयित्वा च "ऋतस्य यज्ञस्य “योनौ स्थाने यागभूमौ "सुकृतस्य “लोके कर्मक्षेत्रे भूलोके च “अरिष्टाम् अहिंसितां त्वां पुत्राद्यर्थं “पत्या “सह “दधामि स्थापयामि ॥


प्रेतो मु॒ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् ।

यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥

प्र । इतः । मुञ्चामि । न । अमुतः । सुऽबद्धाम् । अमुतः । करम् ।

यथा । इयम् । इन्द्र । मीढ्वः । सुऽपुत्रा । सुऽभगा । असति ॥ २५ ॥

“इतः पितृकुलात् “प्र “मुञ्चामि त्वां “नामुतः भर्तृगृहात्प्रमुञ्चामि । “अमुतः भर्तृगृहे "सुबद्धां “करम् । “यथेयं कन्या हे “इन्द्र “मीढ़्वः सेक्तः “सुपुत्रा “सुभगा सुष्ठुभाग्या वा “असति भवति तथा कुरु ॥ ॥ २४ ॥


विवाहानन्तरभाविनि प्रयाणे ‘पूषा त्वेतो नयतु' इत्यनया रथादियानमारोहयेत् । सूत्रितं च- पूषा त्वेतो नयतु हस्तगृह्येति यानमारोहयेत्' (आश्व. गृ. १. ८. १ ) इति ॥

पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न ।

गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥

पूषा । त्वा । इतः । नयतु । हस्तऽगृह्य । अश्विना । त्वा । प्र । वहताम् । रथेन ।

गृहान् । गच्छ । गृहऽपत्नी । यथा । असः । वशिनी । त्वम् । विदथम् । आ। वदासि॥२६॥

“हस्तगृह्य ग्राह्यहस्तः पूषा “त्वा त्वाम् इतः “नयतु प्रापयतु । “अश्विना अश्विनौ “त्वा त्वां “रथेन “प्र “वहतां प्रगमयताम् । “गृहान् भर्तृसंबन्धिनः “गच्छ त्वं “गृहपत्नी “यथासः भवसि स्वगृहस्वामिनी भवसि । “वशिनी सर्वेषां गृहगतानां वंशं प्रापयित्री पत्युर्वशे वर्तमाना वा “विदथं पतिगृहम् “आ “वदासि आवदसि । गृहस्थितं भृत्यादिजनमावद ॥


‘इह प्रियम्' इत्येषा वध्वा गृहप्रवेशनी । सूत्रितं च-’इह प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेशयेत्' (आश्व. गृ. १. ८. ८) इति ॥

इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।

ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥

इह । प्रियम् । प्रऽजया । ते । सम् । ऋध्यताम् । अस्मिन् । गृहे । गार्हऽपत्याय । जागृहि ।

एना। पत्या । तन्वम् । सम् । सृजस्व । अध । जिव्री इति । विदथम् । आ । वदाथः ॥२७॥

हे वधु “ते तव “इह अस्मिन् पतिकुले “प्रियं “प्रजया सह "समृध्यताम् । “अस्मिन्गृहे “गार्हपत्याय गृहपतित्वाय “जागृहि बुध्यस्व। “एना अनेन “पत्या सह “तन्वं स्वीयं शरीरं “सं “सृजस्व । संसृष्टा भव । “अध अथ "जिव्री जीर्णौ जायापती युवां “विदथं गृहम् आ “वदाथः आभिमुख्येन वदतम् ।।


नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते ।

एध॑न्ते अस्या ज्ञा॒तय॒ः पति॑र्ब॒न्धेषु॑ बध्यते ॥

नीललोहितम् । भवति । कृत्या । आसक्तिः । वि । अज्यते ।

एधन्ते । अस्याः । ज्ञातयः । पतिः । बन्धेषु । बध्यते ॥ २८ ॥

“कृत्या अभिचाराभिमानिनी देवता “नीललोहितं भवति । नीलं च लोहितं च तस्या रूपं भवतीत्यर्थः । सा कृत्या “आसक्तिः आसक्तास्यां संबद्धा “व्यज्यते । त्यज्यत इत्यर्थः । तस्यां कृत्यायामपगतायाम् “अस्याः वध्वाः "ज्ञातयः “एधन्ते वर्धन्ते । पतिः च “बन्धेषु सांसारिकेषु "बध्यते ॥


परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।

कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पति॑म् ॥

परा । देहि । शामुल्यम् । ब्रह्मऽभ्यः । वि । भज । वसु ।

कृत्या । एषा । पत्ऽवती । भूत्वी । आ । जाया। विशते । पतिम् ॥ २९ ॥

“शामुल्यम् । शामलमित्यर्थः । शमलं शरीरं मलम् । शरीरावच्छन्नस्य मलस्य धारकं वस्त्रं “परा “देहि परात्यज । धृतप्रायश्चित्तार्थं “ब्रह्मभ्यः ब्राह्मणेभ्यः "वसु धनं “वि “भज प्रयच्छेत्यर्थः । किमर्थं वधूवासः परित्याग इति चेत् उच्यते । “एषा “कृत्या “पद्वती पदवती सती "जाया “भूत्वी भूत्वा “पतिं “विशते । कृत्यारूपवासःप्रवेशात् कृत्या जाया भूत्वा विशत इत्युपचर्यते । अतस्तत्परित्यागे कृत्यैव त्यक्ता भवतीत्यर्थः । यदि वधूवासः स्वयं निधत्ते तदैवं भवतीति वधूवासःसंस्पर्शनं निन्दायुक्तम् ॥


अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या ।

पति॒र्यद्व॒ध्वो॒३॒॑ वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ॥

अश्रीरा । तनूः । भवति । रुशती । पापया । अमुया ।।

पतिः । यत् । वध्वः । वाससा । स्वम् । अङ्गम् । अभिऽधित्सते ॥ ३० ॥

अत्रापि वधूवासःसंस्पर्शनिन्दोच्यते । “तनूः वरस्य संबन्धिनी अश्रीराः अश्रीका “भवति । कथं स्याच्चेदिति उच्यते । “रुशती । रुशदिति वर्णनाम । दीप्तया "अमुया अनया "पापया पापरूपया कृत्यया युक्ता चेत्तनूः । तदेवाह । “पतिर्यत् यदि “वध्वो “वाससा “स्वमङ्गमभिधित्सते परिधातुमिच्छति ॥ ॥ २५ ॥


ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ ।

पुन॒स्तान्य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ॥

ये । वध्वः । चन्द्रम् । वहतुम् । यक्ष्माः । यन्ति । जनात् । अनु ।

पुनरिति । तान् । यज्ञियाः । देवाः । नयन्तु । यतः । आऽगताः ॥ ३१ ॥

“वध्वश्चन्द्रं हिरण्यरूपं “वहतुं “ये यक्ष्माः व्याधयः “अनु “यन्ति प्राप्नुवन्ति “जनात् अस्मद्विरोधिनः सकाशात् । यद्वा । जनाद्यमाख्यात् । “तान “पुनः “नयन्तु प्रापयन्तु “यज्ञियाः यज्ञार्हाः "देवाः इन्द्रादयः । “यत “आगताः यस्मात्ते यक्ष्मा आगतास्तत्र तान्नयन्तु ॥


वध्वाः प्रयाणे ‘मा विदन्' इत्येषा जप्या। सूत्रितं च-’कल्याणेषु देशवृक्षचतुष्पथेषु मा विदन् परिपन्थिन इति जपेत ' ( आश्व. गृ. १. ८. ६ ) इति ॥

मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती ।

सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ॥

मा । विदन् । परिऽपन्थिनः । ये । आऽसीदन्ति । दंपती इति दम्ऽपती ।

सुऽगेभिः । दुःऽगम् । अति । इताम् । अप । द्रान्तु । अरातयः ॥ ३२ ॥

“परिपन्थिनः पर्यवस्थातारः शत्रवः “मा “विदन् मा प्रापयन् ये “परिपन्थिनः “दंपती “आसीदन्ति अभिगच्छन्ति । "सुगेभिः सुगैर्मार्गैः "दुर्गं दुःखेन गन्तुं शक्यं दुर्गमं देशम् “अतीतां अतिगच्छताम्। “अरातयः अदातारः शत्रवः “अप "द्रान्तु अपगच्छन्तु ॥


सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त ।

सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥

सुऽमङ्गलीः । इयम् । वधूः । इमाम् । सम्ऽएत । पश्यत ।

सौभाग्यम् । अस्यै । दत्त्वाय । अथ । अस्तम् । वि । परा । इतन ॥ ३३ ॥

“इयं “वधूः “सुमङ्गलीः शोभनमङ्गला । अतः “इमां सर्वं आशीःकर्तारः “समेत संगच्छत । तां “पश्यत च । तां संगताश्च दृष्ट्वा “अस्यै ऊढायै सौभाग्यं “दत्वाय दत्त्वा “अथ “अस्तम् । गृहनामैतत् । स्वस्वसंबन्धिनं “वि “परेतन विविधं परागच्छत ॥


तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे ।

सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ॥

तृष्टम् । एतत् । कटुकम् । एतत् । अपाष्ठऽवत् । विषऽवत् । न । एतत् । अत्तवे ।

सूर्याम् । यः । ब्रह्मा । विद्यात् । सः । इत् । वाधूऽयम् । अर्हति ।। ३४ ।।

अनयापि वधूवस्त्रपरित्यागः प्रतिपाद्यते । एतत् वस्त्रं “तृष्टं दाहजनकम् । तथा “एतत् “कटुकम् । तथा “अपाष्ठवत् । अपाष्ठमपस्थितमृजीषम् । तद्वत् । तथा “विषवत् । “नैतत् वस्त्रम् “अत्तवे अत्तव्यम् । अनुपयोग्यम्। “यो “ब्रह्मा ब्राह्मणः “सूर्याम् इदानीं प्रस्तुतां देवीं “विद्यात् सम्यग्जानीयात् “स “इत् स एव “वाधूयं वधूवस्त्रम् “अर्हति।।


आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् ।

सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु॑न्धति ॥

आऽशसनम् । विऽशसनम् । अथो इति । अधिऽविकर्तनम् ।।

सूर्यायाः । पश्य । रूपाणि । तानि । ब्रह्मा । तु । शुन्धति ।। ३५ ।।

“आशसनं तूषाधानम्। तच्चान्यवर्णं भवति । “विशसनं शिरसि निधीयमानम् । तादृशं दशान्ते निधीयमानम् “अधिविकर्तनं यत्त्रिधा वासो विकृन्तन्ति । तान्याशसनादीनि वासांस्यवस्थितानि “सूर्यायाः "रूपाणि भवन्ति । तानि “पश्य। एवंभूतान्याशसनादीनि पुरा सूर्यास्वशरीरे स्थितान्यमङ्गलानि वासांसि विधत्ते । “तानि रूपाणि सूर्यावित् “ब्रह्मा “तु ब्राह्मण एव तस्माद्वाससः सकाशात् “शुन्धति अपनयति ॥ ॥ २६ ॥


विवाहे कन्याहस्तग्रहणे 'गृभ्णामि' इत्येषा । सूत्रितं च--- गृभ्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयात् ' ( आश्व. गृ. १. ७. ३) इति ॥

गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ ।

भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥

गृभ्णामि । ते। सौभगऽत्वाय । हस्तम् । मया । पत्या । जरत्ऽअष्टिः । यथा । असः ।

भगः । अर्यमा । सविता । पुरम्ऽधिः । मह्यम् । त्वा । अदुः । गार्हऽपत्याय । देवाः ॥३६॥

हे वधु "ते तव “हस्तम् अहं “गृभ्णामि गृह्णामि । किमर्थम् । “सौभगत्वाय सौभाग्याय । “मया “पत्या त्वं यथा "जरदष्टिः प्राप्तवार्धक्या “असः भवसि । “भगो “अर्यमा “सविता “पुरंधिः पूषा एते "देवाः “त्वा त्वां “मह्यम् अदुः दत्तवन्तः। किमर्थम् । “गार्हपत्याय । यथाहं गृहपतिः स्यामिति॥


तां पू॑षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३॒॑ वप॑न्ति ।

या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शन्तः॑ प्र॒हरा॑म॒ शेप॑म् ॥

ताम् । पूषन् । शिवऽतमाम् । आ । ईरयस्व । यस्याम् । बीजम् । मनुष्याः । वपन्ति ।

या। नः । ऊरू इति । उशती । विऽश्रयते । यस्याम् । उशन्तः । प्रऽहराम । शेपम् ॥३७॥

हे "पूषन् पोषकैतन्नामक देव "शिवतमाम् अत्यन्तमङ्गलभूतां "ताम् “एरयस्व आ ईरय सर्वतः प्रेरय । “यस्याम् ऊरौ "बीजं रेतोलक्षणं "मनुष्या “वपन्ति आदधते । “या “नः अस्माकम् “ऊरू “उशती कामयमाना “विश्रयाते । “यस्याम् ऊरौ "उशन्तः कामयमाना वयं “शेपं स्पर्शनयोग्यं पुंस्प्रजननं “प्रहराम । ऊरौ व्यञ्जनसंबन्धं करवामेत्यर्थः ॥


तुभ्य॒मग्रे॒ पर्य॑वहन्सू॒र्यां व॑ह॒तुना॑ स॒ह ।

पुन॒ः पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ॥

तुभ्यम् । अग्रे । परि । अवहन् । सूर्याम् । वहतुना । सह ।।

पुनरिति । पतिऽभ्यः । जायाम् । दाः । अग्ने । प्रऽजया । सह ॥ ३८ ॥

गन्धर्वा हे अग्ने "तुभ्यमग्ने "पर्यवहन् । प्रायच्छन्नित्यर्थः । काम् । "सूर्याम् । केन सह । “वहतुना “सह । त्वं च तां सूर्यां वहतुना सह सोमाय प्रायच्छः । तद्वदिदानीमपि हे अग्ने “पुनः "पतिभ्यः अस्मभ्यं "जायां "प्रजया "सह "दाः देहि ॥


पुन॒ः पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा ।

दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तम् ॥

पुनरिति । पत्नीम्। अग्निः । अदात् । आयुषा । सह । वर्चसा ।

दीर्घऽआयुः । अस्याः । यः । पतिः । जीवति । शरदः । शतम् ॥ ३९ ॥

“पुनः स्वगृहीतां "पत्नीम् "अग्निः "आयुषा “सह वर्चसा सह “अदात् प्रायच्छत् ।। "अस्याः अग्निदत्तायाः "यः "पतिः पुमान् सः "दीर्घायुः सन् "शरदः "शतं शतसंवत्सरं "जीवाति जीवतु ॥


सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।

तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥

सोमः । प्रथमः । विविदे। गन्धर्वः । विविदे। उत्तरः ।

तृतीयः । अग्निः । ते। पतिः । तुरीयः । ते । मनुष्यऽजाः ॥ ४० ॥

जातां कन्यां "सोमः प्रथमभावी सन् "विविदे लब्धवान् । "गन्धर्वः "उत्तरः सन् "विविदे लब्धवान् । "अग्निः "तृतीयः "पतिः “ते तव । पश्चात् "मनुष्यजाः पतिः “तुरीयः चतुर्थः ॥ ॥२७॥


सोमो॑ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑ ।

र॒यिं च॑ पु॒त्राँश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ॥

सोमः । ददत् । गन्धर्वाय । गन्धर्वः । ददत् । अग्नये ।

रयिम् । च । पुत्रान् । च । अदात् । अग्निः । मह्यम् । अथो इति । इमाम् ॥ ४१ ॥

“सोमः "गन्धर्वाय प्रथमं "ददत् प्रादात् । "गन्धर्वः "अग्नये प्रादात् । "अथो अपि च "अग्निः “इमां कन्यां "रयिं धनं “पुत्रांश्च "मह्यम् अदात् ॥


इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् ।

क्रीळ॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ॥

इह । एव । स्तम्। मा । वि । यौष्टम् । विश्वम् । आयुः । वि। अश्नुतम् ।

क्रीळन्तौ । पुत्रैः । नप्तृऽभिः । मोदमानौ । स्वे । गृहे ॥ ४२ ॥

“इहैव "स्तम् इहैवास्मिँल्लोके स्तं भवतम् । “मा "वियौष्टं मा पृथग्भूतम् । विश्वमायुर्व्यश्नुतं प्राप्नुतम् । किंच “पुत्रैर्नप्तृभिः पौत्रैः सह "स्वे "गृहे "मोदमानौ भवतमिति शेषः ॥


गृहप्रवेशे ‘आ नः प्रजां जनयतु ' इत्याद्याश्चतस्रो होमार्थाः । सूत्रितं च-’आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः प्रत्यृचं हुत्वा' (आश्व. गृ. १. ८. ९) इति ॥

आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा ।

अदु॑र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥

आ । नः । प्रऽजाम् । जनयतु । प्रजाऽपतिः । आऽजरसाय । सम् । अनक्तु । अर्यमा ।

अदुःऽमङ्गलीः । पतिऽलोकम् । आ। विश। शम्। नः । भव । द्विऽपदे । शम् । चतु:ऽपदे॥४३॥

“प्रजापतिः देवः नः अस्माकं "प्रजाम् आ “जनयतु । "अर्यमा च "आजरसाय जरापर्यन्तं जीवनाय "समनक्तु संगमयतु । सा त्वम् "अदुर्मङ्गलीः दुर्मङ्गलरहिता सुमङ्गली। यद्वा । या मङ्गलाचारान् दूषयति सा दुर्मङ्गली । ततोऽन्या अदुर्मङ्गली । तादृशी सती “पतिलोकं पतिसमीपम् "आ “विश प्राप्नुहि । "नः अस्माकं “द्विपदे “शं "भव । तथा च "शं चतुष्पदे भव ॥ ।


अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑ ।

वी॒र॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥

अघोरऽचक्षुः । अपतिऽघ्नी । एधि । शिवा । पशुऽभ्यः । सुऽमनाः । सुऽवर्चाः ।

वीरऽसूः । देवऽकामा । स्योना । शम् । नः । भव । द्विऽपदे । शम्। चतुःऽपदे ।। ४४ ॥

हे वधु “त्वम् "अघोरचक्षुः क्रोधादभयंकरचक्षुः “एधि भव । तथा "अपतिघ्नी भव । तथा “पशुभ्यः "शिवा हितकरी भव "सुमनाः "सुवर्चाः च भव । वीरसूः पुत्राणामेव प्रसवित्री “देवकामा "स्योना सुखकरा च भव ॥


इ॒मां त्वमि॑न्द्र मीढ्वः सुपु॒त्रां सु॒भगां॑ कृणु ।

दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ॥

इमाम् । त्वम् । इन्द्र । मीढ्वः । सुऽपुत्राम् । सुऽभगाम् । कृणु।

दश । अस्याम् । पुत्रान् । आ । धेहि । पतिम् । एकादशम् । कृधि ॥ ४५ ॥

हे इन्द्र “त्वम् "इमां वधूं "सुपुत्रां सुभगां च कृणु कृधि । अस्यां वध्वां "दश पुत्रान् “आ “धेहि । “पतिमेकादशं "कृधि । दश पुत्राः पतिरेकादशो यथा स्यात्तथा कृधि कृणु ॥


स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वां भ॑व ।

नना॑न्दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ॥

सम्ऽराज्ञी । श्वशुरे । भव । सम्ऽराज्ञी । श्वश्र्वाम् । भव ।

ननान्दरि । सम्ऽराज्ञी । भव । सम्ऽराज्ञी । अधि । देवृषु ॥ ४६॥

हे वधु श्वशुरादिषु त्वं "सम्राज्ञी “भव। "देवृषु । देवरेष्वित्यर्थः ॥


‘समञ्जन्तु ' इत्येषा वरस्य दधिप्राशने वधूवरयोर्हृदयस्पर्शने वा विनियुक्ता। तथा च सूत्रितं - समञ्जन्तु विश्वे देवा इति दध्नः प्राश्य प्रतिप्रयच्छेदाज्यशेषेण वानक्ति हृदये' (आश्व. गृ. १. ८. ९) इति ॥

सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ ।

सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ॥

सम् । अञ्जन्तु। विश्वे । देवाः । सम्। आपः । हृदयानि । नौ।

सम् । मातरिश्वा। सम् । धाता। सम् । ॐ इति । देष्ट्री । दधातु । नौ ।। ४७ ॥

“विश्वे "देवाः सर्वे देवाः "नौ "हृदयानि मानसानि "समञ्जन्तु सम्यगञ्जन्तु । अपगतदुःखादिक्लेशानि कृत्वा लौकिकवैदिकविषयेषु प्रकाशयुक्तानि कुर्वन्त्वित्यर्थः। “आपः च “सम् अञ्जन्तु । तथा "मातरिश्वा नौ हृदयानि "सं "दधातु । आवयोर्बुद्धीः परस्परानुकूलाः करोत्वित्यर्थः । “धाता च “सं दधातु । “देष्ट्री दात्री फलानाम् । सरस्वतीत्यर्थः । सा च "सं दधातु संधानं करोतु ॥ ॥२८॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्येऽष्टमाष्टके तृतीयोऽध्यायः ॥

[सम्पाद्यताम्]

यदा तु वाग्भवत्येषा सूर्यामुं लोकमाश्रिता । तथा सूक्तमुषा भूत्वा सूर्या च भजतेऽखिलम् । । बृहद्देवता २.७९ ।।

वटसावित्री उपरि टिप्पणी

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८५&oldid=146456" इत्यस्माद् पुनः प्राप्तिः