ऋग्वेदः सूक्तं १०.१६१
← सूक्तं १०.१६० | ऋग्वेदः - मण्डल १० सूक्तं १०.१६१ प्राजापत्यो यक्ष्मनाशनः |
सूक्तं १०.१६२ → |
इन्द्राग्नी, राजयक्ष्मघ्नं वा । त्रिष्टुप्, ५ अनुष्टुप्। |
मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् ।
ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥१॥
यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव ।
तमा हरामि निरृतेरुपस्थादस्पार्षमेनं शतशारदाय ॥२॥
सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम् ।
शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् ॥३॥
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान् ।
शतमिन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमं पुनर्दुः ॥४॥
आहार्षं त्वाविदं त्वा पुनरागाः पुनर्नव ।
सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥५॥
सायणभाष्यम्
'मुञ्चामि' इति पञ्चर्चं दशमं सूक्तं प्रजापतिपुत्रस्य यक्ष्मनाशनाख्यस्यार्षम् । अन्त्यानुष्टुप् शिष्टास्त्रिष्टुभः । अनादेशे त्विन्द्र देवता । तथा चानुक्रान्तं-- मुञ्चामि प्राजापत्यो यक्ष्मनाशनो राजयक्ष्मघ्नमन्त्यानुष्टुप् ' इति । हृदयरोगप्रमुखस्य व्याधिजातस्योपशमनार्थमनेन सूक्तेन होतब्यम् । सूत्र्यते हि - व्याधितस्यातुरस्य यक्ष्मगृहीतस्य वा षळाहुतिश्चरुर्मुंञ्चामि त्वा हविषा जीवनाय कमित्येतेन' (आश्व. गृ. ३. ६. ४-५) इति ॥
मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् ।
ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥१
मु॒ञ्चामि॑ । त्वा॒ । ह॒विषा॑ । जीव॑नाय । कम् । अ॒ज्ञा॒त॒ऽय॒क्ष्मात् । उ॒त । रा॒ज॒ऽय॒क्ष्मात् ।
ग्राहिः॑ । ज॒ग्राह॑ । यदि॑ । वा॒ । ए॒तत् । ए॒न॒म् । तस्याः॑ । इ॒न्द्रा॒ग्नी॒ इति॑ । प्र । मु॒मु॒क्त॒म् । ए॒न॒म् ॥१
मुञ्चामि । त्वा । हविषा । जीवनाय । कम् । अज्ञातऽयक्ष्मात् । उत । राजऽयक्ष्मात् ।
ग्राहिः । जग्राह । यदि । वा । एतत् । एनम् । तस्याः । इन्द्राग्नी इति । प्र । मुमुक्तम् । एनम् ॥१
हे यक्ष्माभिभूत “हविषा अनेन चरुणा साधनेन होमेन “त्वा त्वाम् “अज्ञातयक्ष्मात् । अयमेतत्संज्ञ इत्यप्रज्ञातः शरीरगतो रोगोऽज्ञातयक्ष्मः । तादृशाद्रोगात् “मुञ्चामि विश्लेषयामि । किमर्थम् । “जीवनाय "कं जीवनार्थम् । इह लोके चिरकालावस्थानार्थमित्यर्थः । कमिति पूरकः । “उत अपि च “राजयक्ष्मात् । यक्ष्माणां राजा यक्ष्मरोगो राजयक्ष्मः । राजदन्तादित्वादुपसर्जनस्य परनिपातः (पा. सू. २, ३, ३१)। तस्मादपि त्वां मुञ्चामि। “यदि “वा यदि च “एतत् एतस्मिन् समये “एनं व्याधितं पुरुषं “ग्राहिः ग्रहणशीला ग्रहरूपा देवता “जग्राह गृहीतवती “तस्याः देवतायाः सकाशाद्धे “इन्द्राग्नी “एनं “प्र “मुमुक्तं प्रमोचयतम् ॥
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नी॑त ए॒व ।
तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्षमेनं श॒तशा॑रदाय ॥२
यदि॑ । क्षि॒तऽआ॑युः । यदि॑ । वा॒ । परा॑ऽइतः । यदि॑ । मृ॒त्योः । अ॒न्ति॒कम् । निऽइ॑तः । ए॒व ।
तम् । आ । ह॒रा॒मि॒ । निःऽऋ॑तेः । उ॒पऽस्था॑त् । अस्पा॑र्षम् । ए॒न॒म् । श॒तऽशा॑रदाय ॥२
यदि । क्षितऽआयुः । यदि । वा । पराऽइतः । यदि । मृत्योः । अन्तिकम् । निऽइतः । एव ।
तम् । आ । हरामि । निःऽऋतेः । उपऽस्थात् । अस्पार्षम् । एनम् । शतऽशारदाय ॥२
“यदि स रोगग्रस्तः “क्षितायुः क्षीणायुर्भवति “यदि “वा “परेतः अस्माल्लोकात् परागतो भवति “यदि च “मृत्योः वैवस्वतस्य “अन्तिकं निकटं “नीतः नितरां प्राप्तः “एव भवति एवंभूतमपि “तं पुरुषं “निऋतेः पापदेवताया आयुषः क्षयकारिण्याः “उपस्थात् उपस्थानात “आ “हरामि आनाययामि आवर्तयामि । आहृत्य च “एनं “शतशारदाय शतसंवत्सरजीवनार्थम् “अस्पार्षं प्रबलं करोमि ।' स्पृ प्रीतिबलनयोः ।
स॒ह॒स्रा॒क्षेण॑ श॒तशा॑रदेन श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ।
श॒तं यथे॒मं श॒रदो॒ नया॒तीन्द्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥३
स॒ह॒स्र॒ऽअ॒क्षेण॑ । श॒तऽशा॑रदेन । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ।
श॒तम् । यथा॑ । इ॒मम् । श॒रदः॑ । नया॑ति । इन्द्रः॑ । विश्व॑स्य । दुः॒ऽइ॒तस्य॑ । पा॒रम् ॥३
सहस्रऽअक्षेण । शतऽशारदेन । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ।
शतम् । यथा । इमम् । शरदः । नयाति । इन्द्रः । विश्वस्य । दुःऽइतस्य । पारम् ॥३
“सहस्राक्षेण । सहस्रमिति बहुनाम । सहस्रमक्षीणि चक्षूंषि यस्य हविषः फलत्वेन विद्यन्ते तत् सहस्राक्षम् ॥ ‘ बहुव्रीहौ सक्थ्यक्ष्णोः ' (पा. सू. ५, ४. ११३) इति पच् समासान्तः । शरदः संबन्धी शारदः संवत्सरः। शतं शारदा यस्य तत्तथोक्तम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अत एव “शतायुषा शतसंवत्सरपरिमितमायुर्जीवनं फलभूतं यस्य तादृशेन “हविषा । यद्वा । सहस्राक्ष इन्द्रः । तेन शतशारदेन शरदां संवत्सराणां शतस्य दातृत्वेन संबन्धिना कर्त्रा शतायुषा हविषा करणभूतेन । “एनं यक्ष्मगृहीतम् “आहार्षं रोगादनैषम् । “यथा येन प्रकारेण “इमं पुरुषं या “शतं “शरदः संवत्सरान् । अत्यन्तसंयोगे द्वितीया । एतावन्तं कालम् “इन्द्रो “विश्वस्य सर्वस्व “दुरितस्य दुःखस्य “पारम् अवसानं दुःखराहित्यं “नयाति नयेत् तथाहार्षमित्यर्थः ॥
श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्ताञ्छ॒तमु॑ वस॒न्तान् ।
श॒तमि॑न्द्रा॒ग्नी स॑वि॒ता बृह॒स्पति॑ः श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ॥४
श॒तम् । जी॒व॒ । श॒रदः॑ । वर्ध॑मानः । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ।
श॒तम् । इ॒न्द्रा॒ग्नी इति॑ । स॒वि॒ता । बृह॒स्पतिः॑ । श॒तऽआ॑युषा । ह॒विषा॑ । इ॒मम् । पुनः॑ । दुः॒ ॥४
शतम् । जीव । शरदः । वर्धमानः । शतम् । हेमन्तान् । शतम् । ऊं इति । वसन्तान् ।
शतम् । इन्द्राग्नी इति । सविता । बृहस्पतिः । शतऽआयुषा । हविषा । इमम् । पुनः । दुः ॥४
हे यक्ष्माद्विमुक्त “वर्धमानः अहरहरभिवृद्धिं प्राप्नुवंस्त्वं “शतं “शरदः शतसंख्याकान् शरदृतून् “जीव प्राणान् धारय । पूर्ववत्यन्तसंयोगे द्वितीया । “शतं “हेमन्तान हेमन्तर्तूंश्च जीव “शतं “वसन्तान् च । उशब्दः समुच्चये । अपि च “इन्द्राग्नी इन्द्रश्चाग्निश्च “सविता प्रेरको देवश्च “बृहस्पतिः बृहतां देवानां पालयिता देवश्व “शतायुषा शतसंवत्सरपरिमितस्यायुषो हेतुभूतेन “हविषा तर्प्यमाणाः सन्तः “इमं जनं “पुनर्दुः पुनरस्मभ्यं प्रादुः ।।
आहा॑र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागा॑ः पुनर्नव ।
सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षु॒ः सर्व॒मायु॑श्च तेऽविदम् ॥५
आ । अ॒हा॒र्ष॒म् । त्वा॒ । अवि॑दम् । त्वा॒ । पुनः॑ । आ । अ॒गाः॒ । पु॒नः॒ऽन॒व॒ ।
सर्व॑ऽअङ्ग । सर्व॑म् । ते॒ । चक्षुः॑ । सर्व॑म् । आयुः॑ । च॒ । ते॒ । अ॒वि॒द॒म् ॥५
आ । अहार्षम् । त्वा । अविदम् । त्वा । पुनः । आ । अगाः । पुनःऽनव ।
सर्वऽअङ्ग । सर्वम् । ते । चक्षुः । सर्वम् । आयुः । च । ते । अविदम् ॥५
हे व्याधिगृहीत “त्वा त्वाम् “आहार्षं मृत्योः सकाशादाहृतवानस्मि । अत एव “त्वा त्वाम् “अविदम् अलप्सि । है “पुनर्नव पुनरभिनव “पुनरागाः पुनरस्मत्समीपमागच्छ । हे “सर्वाङ्ग सर्वैरविकलैरङैरुपेत “ते तव “सर्वं “चक्षुः । उपलक्षणमेतत् । इन्द्रियवर्गं सकलम् “अविदं लब्धवानस्मि । “ते तव “आयुः जीवनं “च “सर्वं संपूर्णमविदम् ॥ ॥ १९ ॥
मण्डल १० | ||||
---|---|---|---|---|