सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.२२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.२२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.२१ ऋग्वेदः - मण्डल १०
सूक्तं १०.२२
ऐन्द्रोविमदः, प्राजापत्यो वा,वासुक्रो वसुकृद्वा।
सूक्तं १०.२३ →
दे. इन्द्रः। पुरस्ताद्बृहती, ५, ७, ९ अनुष्टुप्, १५ त्रिष्टुप्


कुह श्रुत इन्द्रः कस्मिन्नद्य जने मित्रो न श्रूयते ।
ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥१॥
इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्यृचीषमः ।
मित्रो न यो जनेष्वा यशश्चक्रे असाम्या ॥२॥
महो यस्पतिः शवसो असाम्या महो नृम्णस्य तूतुजिः ।
भर्ता वज्रस्य धृष्णोः पिता पुत्रमिव प्रियम् ॥३॥
युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः ।
स्यन्ता पथा विरुक्मता सृजान स्तोष्यध्वनः ॥४॥
त्वं त्या चिद्वातस्याश्वागा ऋज्रा त्मना वहध्यै ।
ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः ॥५॥
अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम् ।
आ जग्मथुः पराकाद्दिवश्च ग्मश्च मर्त्यम् ॥६॥
आ न इन्द्र पृक्षसेऽस्माकं ब्रह्मोद्यतम् ।
तत्त्वा याचामहेऽवः शुष्णं यद्धन्नमानुषम् ॥७॥
अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः ।
त्वं तस्यामित्रहन्वधर्दासस्य दम्भय ॥८॥
त्वं न इन्द्र शूर शूरैरुत त्वोतासो बर्हणा ।
पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा ॥९॥
त्वं तान्वृत्रहत्ये चोदयो नॄन्कार्पाणे शूर वज्रिवः ।
गुहा यदी कवीनां विशां नक्षत्रशवसाम् ॥१०॥
मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः ।
यद्ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥११॥
माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः ।
वयंवयं त आसां सुम्ने स्याम वज्रिवः ॥१२॥
अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्पृशः ।
विद्याम यासां भुजो धेनूनां न वज्रिवः ॥१३॥
अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम् ।
शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः ॥१४॥
पिबापिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुः सन् ।
उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः ॥१५॥


सायणभाष्यम्

‘कुह ' इति पञ्चदशर्चं षष्ठं सूक्तमैन्द्रम् । पञ्चदशी त्रिष्टुप् पञ्चमीसप्तमीनवम्यस्तिस्रोऽनुष्टुभः शिष्टाः पुरस्ताद्बृहत्यः । आद्यद्वादशकर्त्र्यष्टकवती पुरस्ताद्बृहती। पूर्ववदृषिः । तथा चानुक्रान्तं-- ’कुह पञ्चोना पुरस्ताद्बार्हतं त्रिष्टुबन्तं त्वं त्या चिदा नस्त्वं नोऽनुष्टुभः' इति । चतुर्थेऽहनि निष्केवल्य एतत्सूक्तम् । सूत्रितं च--- कुह श्रुत इन्द्रो युध्मस्य त इति निष्केवल्यम्' (आश्व. श्रौ. ७, ११ ) इति ॥


कुह॑ श्रु॒त इंद्रः॒ कस्मि॑न्न॒द्य जने॑ मि॒त्रो न श्रू॑यते ।

ऋषी॑णां वा॒ यः क्षये॒ गुहा॑ वा॒ चर्कृ॑षे गि॒रा ॥१

कुह॑ । श्रु॒तः । इन्द्रः॑ । कस्मि॑न् । अ॒द्य । जने॑ । मि॒त्रः । न । श्रू॒य॒ते॒ ।

ऋषी॑णाम् । वा॒ । यः । क्षये॑ । गुहा॑ । वा॒ । चर्कृ॑षे । गि॒रा ॥१

कुह । श्रुतः । इन्द्रः । कस्मिन् । अद्य । जने । मित्रः । न । श्रूयते ।

ऋषीणाम् । वा । यः । क्षये । गुहा । वा । चर्कृषे । गिरा ॥१

“अद्य अस्मिन् दिने “इन्द्रः “कुह कुत्र स्थाने “श्रुतः विश्रुतः प्रख्यातः । “कस्मिन् “जने यजमान इज्यत्वेन स्तुत्यत्वेनावस्थितः “श्रूयते प्रख्यायते । तत्र दृष्टान्तः । “मित्रो “न सूर्य इव सखेव वा तद्वत् । “यः इन्द्रः “ऋषीणां भृग्वादीनां “क्षये निवास आश्रमे “गुहा “वा गुहायामरण्ये वा “गिरा स्तुतिलक्षणया वाचा चर्कृषे अत्यर्थमाकृष्यते । अत्यर्थं स्तूयत इत्यर्थः । स इन्द्रः कुह श्रुत इति पूर्वेण संबन्धः ॥


इ॒ह श्रु॒त इंद्रो॑ अ॒स्मे अ॒द्य स्तवे॑ व॒ज्र्यृची॑षमः ।

मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे असा॒म्या ॥२

इ॒ह । श्रु॒तः । इन्द्रः॑ । अ॒स्मे इति॑ । अ॒द्य । स्तवे॑ । व॒ज्री । ऋची॑षमः ।

मि॒त्रः । न । यः । जने॑षु । आ । यशः॑ । च॒क्रे । असा॑मि । आ ॥२

इह । श्रुतः । इन्द्रः । अस्मे इति । अद्य । स्तवे । वज्री । ऋचीषमः ।

मित्रः । न । यः । जनेषु । आ । यशः । चक्रे । असामि । आ ॥२

“इह अस्मिन् यज्ञे “इन्द्रः श्रुतः प्रख्यातः। अद्य अस्मिन्दिवसे “अस्मे अस्माभिः स्तवे स्तूयते । कीदृशः । वज्री वज्रवान् ऋचीषमः । यद्याव इन्द्र ते शतं शतं भूमीरुत स्युः न त्वा वज्रिन्' ( ऋ. सं. ८. ७०. ५) इत्यादिकया स्तुत्या समानगुण इत्यर्थः । यः इन्द्रः “मित्रो “न सूर्य इव स्निग्ध इव वा “जनेषु स्तोतृजनेषु “यशः अन्नं कीर्तिं वा “चक्रे करोति । कीदृशम् । “असामि असाधारणम् । स इन्द्रोऽस्माभिः स्तूयत इति पूर्वेण संबन्धः ॥


म॒हो यस्पतिः॒ शव॑सो॒ असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः ।

भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यं ॥३

म॒हः । यः । पतिः॑ । शव॑सः । असा॑मि । आ । म॒हः । नृ॒म्णस्य॑ । तू॒तु॒जिः ।

भ॒र्ता । वज्र॑स्य । धृ॒ष्णोः । पि॒ता । पु॒त्रम्ऽइ॑व । प्रि॒यम् ॥३

महः । यः । पतिः । शवसः । असामि । आ । महः । नृम्णस्य । तूतुजिः ।

भर्ता । वज्रस्य । धृष्णोः । पिता । पुत्रम्ऽइव । प्रियम् ॥३

"यः इन्द्रः “महः महतः “शवसः बलस्य “पतिः ईश्वरः “असाम्या । आङ् मर्यादायाम् । आ समाप्तेः । अनन्तगुण इत्यर्थः। “महः महतः “नृम्णस्य धनस्य च “तूतजिः स्तोतृभ्यः प्रेरकः । किंच “धृष्णोः शत्रूणां धर्षकस्य “वज्रस्य स्वकीयस्यायुधस्य “भर्ता य इन्द्रो धारयिता । स इन्द्रोऽस्मान् पात्विति शेषः। तत्र दृष्टान्तः । “पिता “पुत्रमिव “प्रियम् । यथा पितेप्सितं सुतं पाति तद्वत् ॥


यु॒जा॒नो अश्वा॒ वात॑स्य॒ धुनी॑ दे॒वो दे॒वस्य॑ वज्रिवः ।

स्यंता॑ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ॥४

यु॒जा॒नः । अश्वा॑ । वात॑स्य । धुनी॒ इति॑ । दे॒वः । दे॒वस्य॑ । व॒ज्रि॒ऽवः॒ ।

स्यन्ता॑ । प॒था । वि॒रुक्म॑ता । सृ॒जा॒नः । स्तो॒षि॒ । अध्व॑नः ॥४

युजानः । अश्वा । वातस्य । धुनी इति । देवः । देवस्य । वज्रिऽवः ।

स्यन्ता । पथा । विरुक्मता । सृजानः । स्तोषि । अध्वनः ॥४

हे "वज्रिवः वज्रवन्निन्द्र । एको मत्वर्थीयोऽनुवादकः । “देवः द्योतमानस्त्वं “देवस्य द्योतमानस्य “वातस्य वायोः “धुनी प्रेरकौ । वायोरपि शीघ्रगामिनावित्यर्थः। “अश्वा अश्वौ त्वदीयौ हरिनामकौ “युजानः स्वरथे संयोजयन् । कीदृशौ । “विरुक्मता विरोचनवता “पथा मार्गेण “स्यन्ता स्यन्तौ गच्छन्तौ । “अध्वनः युद्धे गमनमार्गान् “सृजानः उत्पादयन् “स्तोषि सततं स्तूयसे ॥


त्वं त्या चि॒द्वात॒स्याश्वागा॑ ऋ॒ज्रा त्मना॒ वह॑ध्यै ।

ययो॑र्दे॒वो न मर्त्यो॑ यं॒ता नकि॑र्वि॒दाय्यः॑ ॥५

त्वम् । त्या । चि॒त् । वात॑स्य । अश्वा॑ । आ । अ॒गाः॒ । ऋ॒ज्रा । त्मना॑ । वह॑ध्यै ।

ययोः॑ । दे॒वः । न । मर्त्यः॑ । य॒न्ता । नकिः॑ । वि॒दाय्यः॑ ॥५

त्वम् । त्या । चित् । वातस्य । अश्वा । आ । अगाः । ऋज्रा । त्मना । वहध्यै ।

ययोः । देवः । न । मर्त्यः । यन्ता । नकिः । विदाय्यः ॥५

यच्छब्दसंबन्धादुत्तरोऽर्धर्चः पूर्वं व्याख्यायते । "ययोः त्वदीययोः "यन्ता नियन्ता निवारयिता “देवो “न देवानां मध्ये कश्चिदपि देवो नास्ति "मर्त्यः मनुष्याणां मध्ये कश्चिदपि नास्ति “नकिः न कश्चिदपि “विदाय्यः वेत्ता । जवस्य बलस्येति वा शेषः । हे इन्द्र “त्वं “वातस्य वायोर्बलेन जवेन च युक्तौ “ऋज्रा ऋजुगामिनौ “त्या “चित् तावपि “अश्वा त्वदीयावश्वौ “त्मना आत्मनैव । सारथिनिरपेक्षेणेत्यर्थः । वहध्यै वहनार्थम् । अभिप्रेतदेशप्रापणायेत्यर्थः । “आगाः अभिमुख्येन गच्छसि ॥ ॥ ६ ॥


अध॒ ग्मंतो॒शना॑ पृच्छते वां॒ कद॑र्था न॒ आ गृ॒हं ।

आ ज॑ग्मथुः परा॒काद्दि॒वश्च॒ ग्मश्च॒ मर्त्यं॑ ॥६

अध॑ । ग्मन्ता॑ । उ॒शना॑ । पृ॒च्छ॒ते॒ । वा॒म् । कत्ऽअ॑र्था । नः॒ । आ । गृ॒हम् ।

आ । ज॒ग्म॒थुः॒ । प॒रा॒कात् । दि॒वः । च॒ । ग्मः । च॒ । मर्त्य॑म् ॥६

अध । ग्मन्ता । उशना । पृच्छते । वाम् । कत्ऽअर्था । नः । आ । गृहम् ।

आ । जग्मथुः । पराकात् । दिवः । च । ग्मः । च । मर्त्यम् ॥६

“अध अथ यज्ञसमाप्त्यनन्तरम् "उशना भार्गव ऋषिः हे इन्द्राग्नी “ग्मन्ता स्वस्थानं प्रति गच्छन्तौ “वां युवां “पृच्छते पृच्छति स्म । यद्वा । उशनेति विभक्तिव्यत्ययः। उशनसमिन्द्रस्य सखिभूतं भार्गवमिन्द्रं च युवां सर्वो यजमानः पृच्छति । किं पृष्टवानिति उच्यते । युवां “कदर्था कदर्थौ किंप्रयोजनवन्तौ सन्तौ नः अस्मदीयम् । आकारः प्रतीत्यस्यार्थे । “गृहं प्रति “पराकात् । दूरनामैतत् । दूरात् “आ “जग्मथुः आगतवन्तौ स्थः । तदेवोक्तम् । “दिवश्च द्युलोकाच्च “ग्मश्च भूलोकाच्च “मर्त्यं मनुष्यं मां प्रत्यागतवन्तौ । युवयोः कृतार्थत्वादत्रागमनमस्मदनुग्रहार्थमेव न स्वार्थमिति ब्रुवन्ननुव्रजतीत्यर्थः ॥


आ न॑ इंद्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तं ।

तत्त्वा॑ याचाम॒हेऽवः॒ शुष्णं॒ यद्धन्नमा॑नुषं ॥७

आ । नः॒ । इ॒न्द्र॒ । पृ॒क्ष॒से॒ । अ॒स्माक॑म् । ब्रह्म॑ । उत्ऽय॑तम् ।

तत् । त्वा॒ । या॒चा॒म॒हे॒ । अवः॑ । शुष्ण॑म् । यत् । हन् । अमा॑नुषम् ॥७

आ । नः । इन्द्र । पृक्षसे । अस्माकम् । ब्रह्म । उत्ऽयतम् ।

तत् । त्वा । याचामहे । अवः । शुष्णम् । यत् । हन् । अमानुषम् ॥७

हे “इन्द्र त्वम् । न इति तृतीयार्थे षष्ठी । “नः अस्माभिः “उद्यतम् उत्क्षिप्तम् । दत्तमित्यर्थः । “अस्माकम् अस्मदीयं “ब्रह्म हविर्लक्षणमन्नम् । आङ् मर्यादायाम् । आ तृप्तेरित्यर्थः । “पृक्षसे आत्मना संपर्चय । ‘पृची संपर्के' इति धातो रूपम् । आभक्षयेत्यर्थः । किंच वयमपि “त्वा एवंभूतं त्वां “तत्। यदुत्कृष्टमस्तीति शेषः । तत्तादृशमन्नम् “अवः तद्रक्षणं च “याचामहे प्रार्थयामहे । तथा “यत् “शुष्णं बलम् “अमानुषं मनुष्यादन्यं राक्षसादिकं “हन् हन्ति तदुत्कृष्टं बलं च याचामहे । यद्वा । हे इन्द्र त्वं शुष्णमेतन्नामानममानुषं मनुष्यव्यतिरिक्तमसुरं हन् हतवानसि । हत्वा च यद्येन रक्षणेन त्रैलोक्यं पालितवानसि तदवः पालनमस्माकमपि भवेदिति त्वां याचामह इति वाक्यार्थः ॥


अ॒क॒र्मा दस्यु॑र॒भि नो॑ अमं॒तुर॒न्यव्र॑तो॒ अमा॑नुषः ।

त्वं तस्या॑मित्रह॒न्वध॑र्दा॒सस्य॑ दंभय ॥८

अ॒क॒र्मा । दस्युः॑ । अ॒भि । नः॒ । अ॒म॒न्तुः । अ॒न्यऽव्र॑तः । अमा॑नुषः ।

त्वम् । तस्य॑ । अ॒मि॒त्र॒ऽह॒न् । वधः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ ॥८

अकर्मा । दस्युः । अभि । नः । अमन्तुः । अन्यऽव्रतः । अमानुषः ।

त्वम् । तस्य । अमित्रऽहन् । वधः । दासस्य । दम्भय ॥८

“अकर्मा अविद्यमानयागादिकर्मा “दस्युः उपक्षपयिता “अभि आभिमुख्येन स्वरूपतः “नः अस्मान् “अमन्तुः अज्ञाता । यद्वा । अत्र अवेत्युपसर्गस्य वकारलोपो द्रष्टव्यः । अवमन्तुरवमन्ताभिभविता । “अन्यव्रतः श्रुतिस्मृतिव्यतिरिक्तकर्मा “अमानुषः मनुष्यसंव्यवहाराद्बाह्यः । असुरप्रकृतिरित्यर्थः । य एवंभूतोऽस्ति हे "अमित्रहन् शत्रूणां हन्तरिन्द्र “त्वं “दासस्य उपक्षपयितव्यस्य “वधः हन्ता सन् “दम्भय तं शत्रुं हिन्धि ॥


त्वं न॑ इंद्र शूर॒ शूरै॑रु॒त त्वोता॑सो ब॒र्हणा॑ ।

पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नवं॑त क्षो॒णयो॑ यथा ॥९

त्वम् । नः॒ । इ॒न्द्र॒ । शू॒र॒ । शूरैः॑ । उ॒त । त्वाऽऊ॑तासः । ब॒र्हणा॑ ।

पु॒रु॒ऽत्रा । ते॒ । वि । पू॒र्तयः॑ । नव॑न्त । क्षो॒णयः॑ । य॒था॒ ॥९

त्वम् । नः । इन्द्र । शूर । शूरैः । उत । त्वाऽऊतासः । बर्हणा ।

पुरुऽत्रा । ते । वि । पूर्तयः । नवन्त । क्षोणयः । यथा ॥९

हे “शूर विक्रान्त “इन्द्र “त्वं “शूरैः भटैः मरुद्भिः सहितः सन् “नः अस्मान् पाहीति शेषः । “उत अपि च “त्वोतासः त्वया रक्षिता वयं “बर्हणा परिबर्हणायां शत्रूणां हिंसायां समर्था भवेम।। किंच “ते त्वदीयाः पूर्तयः कामानां पूरणानीप्सितार्थप्रदानानि “पुरुत्रा बहून् स्तोतॄन् "वि “नवन्त विविधं व्याप्नुवन्ति । “क्षोणयः । मनुष्यनामैतत् । मनुष्याः स्वकीयं स्वामिनं सेवार्थं यथा व्याप्नुवन्ति तद्वत् ॥


त्वं तान्वृ॑त्र॒हत्ये॑ चोदयो॒ नॄन्का॑र्पा॒णे शू॑र वज्रिवः ।

गुहा॒ यदी॑ कवी॒नां वि॒शां नक्ष॑त्रशवसां ॥१०

त्वम् । तान् । वृ॒त्र॒ऽहत्ये॑ । चो॒द॒यः॒ । नॄन् । का॒र्पा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ ।

गुहा॑ । यदि॑ । क॒वी॒नाम् । वि॒शाम् । नक्ष॑त्रऽशवसाम् ॥१०

त्वम् । तान् । वृत्रऽहत्ये । चोदयः । नॄन् । कार्पाणे । शूर । वज्रिऽवः ।

गुहा । यदि । कवीनाम् । विशाम् । नक्षत्रऽशवसाम् ॥१०

हे “वज्रिवः वज्रधर “शूर इन्द्र “त्वं कार्पाणे । असिः कृपाणः । तेन साध्यं युद्धं कार्पाणम् । तस्मिन् “वृत्रहत्ये शत्रुहननार्थं "नॄन् नरान् “तान् प्रसिद्धान् मरुद्गणान् “चोदयः चोदयसि प्रेरयसि । "यदि यदा त्वं “कवीनां मेधाविनां “नक्षत्रशवसां देवान् प्रतिगच्छत्स्तोतृबलानां “विशां स्तोतृजनानां संबन्धीनि “गुहा गूढानि गुणैः संवृतानि स्तोत्राणि शृणोषीति शेषः । तदा प्रेरयसीति पूर्वेणान्वयः॥ ॥७॥


म॒क्षू ता त॑ इंद्र दा॒नाप्न॑स आक्षा॒णे शू॑र वज्रिवः ।

यद्ध॒ शुष्ण॑स्य दं॒भयो॑ जा॒तं विश्वं॑ स॒याव॑भिः ॥११

म॒क्षु । ता । ते॒ । इ॒न्द्र॒ । दा॒नऽअ॑प्नसः । आ॒क्षा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ ।

यत् । ह॒ । शुष्ण॑स्य । द॒म्भयः॑ । जा॒तम् । विश्व॑म् । स॒याव॑ऽभिः ॥११

मक्षु । ता । ते । इन्द्र । दानऽअप्नसः । आक्षाणे । शूर । वज्रिऽवः ।

यत् । ह । शुष्णस्य । दम्भयः । जातम् । विश्वम् । सयावऽभिः ॥११

हे “शूर विक्रान्त “वज्रिवः वज्रोपेत “इन्द्र “दानाप्नसः दानकर्मणः । स्तोतृभ्यः सततमभीष्टफलप्रदस्येत्यर्थः। “ते तव स्वभूतानि "मक्षु क्षिप्राणि अविलम्बितानि । क्षिप्रकरणयुक्तानीत्यर्थः । “आक्षाणे योद्धृभिर्व्याप्यमाने त्वय्यवस्थितानि “ता तानि कर्माणि स्तोतारः स्तुवन्तीति शेषः । “सयावभिः सहयातृभिर्मरुद्भिः सहितस्त्वं “शुष्णस्य असुरस्य “विश्वं “जातं सर्वमपत्यजातं “दम्भयः अदम्भयः । हिंसितवानसि । यद्वा । एवमादीनि यानि खलु कर्माणि सन्ति तानि स्तुवन्तीति पूर्वेण संबन्धः ॥


माकु॒ध्र्य॑गिंद्र शूर॒ वस्वी॑र॒स्मे भू॑वन्न॒भिष्ट॑यः ।

व॒यंव॑यं त आसां सु॒म्ने स्या॑म वज्रिवः ॥१२

मा । अ॒कु॒ध्र्य॑क् । इ॒न्द्र॒ । शू॒र॒ । वस्वीः॑ । अ॒स्मे इति॑ । भू॒व॒न् । अ॒भिष्ट॑यः ।

व॒यम्ऽव॑यम् । ते॒ । आ॒सा॒म् । सु॒म्ने । स्या॒म॒ । व॒ज्रि॒ऽवः॒ ॥१२

मा । अकुध्र्यक् । इन्द्र । शूर । वस्वीः । अस्मे इति । भूवन् । अभिष्टयः ।

वयम्ऽवयम् । ते । आसाम् । सुम्ने । स्याम । वज्रिऽवः ॥१२

हे “शूर विक्रान्त “इन्द्र “अस्मे अस्माकं स्वभूताः “वस्वीः महत्यः अभिष्टयः आभिमुख्येष्टय इज्याः । यद्वा । आभिमुख्येच्छा अभीप्सितप्रार्थनाः । “कुध्र्यक् कुत्सिताः । विफला इत्यर्थः । “मा “भूवन्। किं तर्हि हे “वज्रिवः वज्रिन्निन्द्र “ते तव प्रसादात् “वयंवयम् ऋत्विग्यजमानाः। द्विर्वचनमतित्वराप्रदर्शनार्थम् । “आसाम् इज्यानामिच्छानां वा संबन्धिनि “सुम्ने सुखे अवस्थिताः “स्याम भवेम । वयमभिष्टिजन्येन दृष्टादृष्टसुखेन युक्ताः शीघ्रं भवेमेत्याशास्मह इत्यर्थः ॥


अ॒स्मे ता त॑ इंद्र संतु स॒त्याहिं॑संतीरुप॒स्पृशः॑ ।

वि॒द्याम॒ यासां॒ भुजो॑ धेनू॒नां न व॑ज्रिवः ॥१३

अ॒स्मे इति॑ । ता । ते॒ । इ॒न्द्र॒ । स॒न्तु॒ । स॒त्या । अहिं॑सन्तीः । उ॒प॒ऽस्पृशः॑ ।

वि॒द्याम॑ । यासा॑म् । भुजः॑ । धे॒नू॒नाम् । न । व॒ज्रि॒ऽवः॒ ॥१३

अस्मे इति । ता । ते । इन्द्र । सन्तु । सत्या । अहिंसन्तीः । उपऽस्पृशः ।

विद्याम । यासाम् । भुजः । धेनूनाम् । न । वज्रिऽवः ॥१३

हे “इन्द्र “अस्मे अस्माकं स्वभूताः । ता सत्या इत्युभयत्र प्रथमाबहुवचनस्य छान्दस आकारः सन्त्विति निर्देशविशेषणत्वात् । “ता तास्तादृश्यः “उपस्पृशः। त्वामुपगम्य स्पृशन्तीत्युपस्पृशः स्तुतयः। “ते तव प्रसादात् "सत्या सत्याः सन्तु यथार्था भवन्तु । तव सद्गुणग्राहिण्य इत्यर्थः। अपि च “अहिंसन्तीः त्वामहिंसत्यश्च भवन्तु । सत्स्तुतित्वादनुद्वेजयन्त्यश्च भवन्त्वित्यर्थः। हे “वज्रिवः इन्द्र “यासां स्तुतीनां संबन्धिनः भुजः दृष्टादृष्टान् भोगान् “विद्याम वयं लभेमहि । तत्र दृष्टान्तः । “धेनूनां “न । गवां क्षीरादिभोगान् यथा गोस्वामी लभते तद्वत् । ताः सत्या भवन्त्विति पूर्वेणान्वयः॥


अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची॑भिर्वे॒द्यानां॑ ।

शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ॥१४

अ॒ह॒स्ता । यत् । अ॒पदी॑ । वर्ध॑त । क्षाः । शची॑भिः । वे॒द्याना॑म् ।

शुष्ण॑म् । परि॑ । प्र॒ऽद॒क्षि॒णित् । वि॒श्वऽआ॑यवे । नि । शि॒श्न॒थः॒ ॥१४

अहस्ता । यत् । अपदी । वर्धत । क्षाः । शचीभिः । वेद्यानाम् ।

शुष्णम् । परि । प्रऽदक्षिणित् । विश्वऽआयवे । नि । शिश्नथः ॥१४

हे इन्द्र “यत् यदा “क्षाः भूमिः "अहस्ता पाणिरहिता “अपदी चरणवर्जिता च । अमनुष्यकर्मकेत्यर्थः। “वेद्यानां स्तोत्रयोग्यानां त्वत्प्रभृतीनां देवानां संबन्धिभिः “शचीभिः कर्मभिः “वर्धत अवर्धत । धनधान्यादिभिः समृद्धेत्यर्थः। तदा त्वं “परि “प्रदक्षिणित् एवंभूतां पृथिवीं परिवेष्ट्य प्रदक्षिणं यथा भवति तथा स्थितं “शुष्णम् असुरं “विश्वायवे । तादर्थ्ये चतुर्थी । सर्वत्राप्रतिहतगामिन एतदाख्यस्यौर्वशेयराज्ञोऽर्थाय “नि “शिश्नथः नितरां ताडितवानसि । यद्वा । यदा शुष्णस्याच्छादनार्थं हस्तपादवर्जिता काचित्पृथिवी वेदितव्यानामसुराणां मायारूपैः कर्मभिः शुष्णमसुरं परिवेष्ट्य प्रदक्षिणं यथा भवति तथावस्थितावर्धत तदानीं तां मायोत्पादितां पृथिवीं विश्वायवे सर्वव्यापकस्य मरुद्गणस्य प्रवेशनार्थं नि शिश्नथः ॥


पिबा॑पि॒बेदिं॑द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसुः॒ सन् ।

उ॒त त्रा॑यस्व गृण॒तो म॒घोनो॑ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ॥१५

पिब॑ऽपिब । इत् । इ॒न्द्र॒ । शू॒र॒ । सोम॑म् । मा । रि॒ष॒ण्यः॒ । व॒स॒वा॒न॒ । वसुः॑ । सन् ।

उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । म॒घोनः॑ । म॒हः । च॒ । रा॒यः । रे॒वतः॑ । कृ॒धि॒ । नः॒ ॥१५

पिबऽपिब । इत् । इन्द्र । शूर । सोमम् । मा । रिषण्यः । वसवान । वसुः । सन् ।

उत । त्रायस्व । गृणतः । मघोनः । महः । च । रायः । रेवतः । कृधि । नः ॥१५

“पिबपिब इति वीप्सातित्वराप्रदर्शनार्थम् । हे “शूर वीर “इन्द्र त्वमभिषुतं “सोमं शीघ्रं पिब । यागकालातिपातो यावन्न भवति तावच्छीघ्रं सोमं पिबेत्यर्थः। “इत् इति पूरणः । हे “वसवान वसूनां धनानामानेतः त्वं “वसुः प्रशस्तः “सन् “मा “रिषण्यः यागकालातिक्रमजातेन दोषेणास्मान्मा हिंसीः । प्रशस्तस्य तव कर्मवैगुण्यकरणेन हिंसितुमयुक्तमित्यर्थः । “उत अपि च हे इन्द्र त्वं “गृणतः त्वां स्तुवतः स्तोतॄन् “मघोनः हविर्लक्षणधनवतो यजमानांश्च “त्रायस्व प्रमादजनितकर्मवैगुण्यदोषात् पालयस्व । किंच महश्च राय इत्युभयत्र तृतीयार्थे षष्ठी । “महः महता “रायः धनेन च’ “नः अस्मान् “रेवतः “कृधि धनवतः कुरु ॥ ॥ ८ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.२२&oldid=223694" इत्यस्माद् प्रतिप्राप्तम्