सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.१४२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१४२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१४१ ऋग्वेदः - मण्डल १०
सूक्तं १०.१४२
शार्ङ्गाः - १-२ जरिता, ३-४ द्रोणः, ५-६ सारिसृक्कः, ७-८ स्तम्बमित्रः।
सूक्तं १०.१४३ →
दे. अग्निः। त्रिष्टुप्, १-२ जगती, ७-८ अनुष्टुप्।


अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम् ।
भद्रं हि शर्म त्रिवरूथमस्ति त आरे हिंसानामप दिद्युमा कृधि ॥१॥
प्रवत्ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्यृञ्जसे ।
प्र सप्तयः प्र सनिषन्त नो धियः पुरश्चरन्ति पशुपा इव त्मना ॥२॥
उत वा उ परि वृणक्षि बप्सद्बहोरग्न उलपस्य स्वधावः ।
उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥३॥
यदुद्वतो निवतो यासि बप्सत्पृथगेषि प्रगर्धिनीव सेना ।
यदा ते वातो अनुवाति शोचिर्वप्तेव श्मश्रु वपसि प्र भूम ॥४॥
प्रत्यस्य श्रेणयो ददृश्र एकं नियानं बहवो रथासः ।
बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिम् ॥५॥
उत्ते शुष्मा जिहतामुत्ते अर्चिरुत्ते अग्ने शशमानस्य वाजाः ।
उच्छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥६॥
अपामिदं न्ययनं समुद्रस्य निवेशनम् ।
अन्यं कृणुष्वेतः पन्थां तेन याहि वशाँ अनु ॥७॥
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।
ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥८॥


सायणभाष्यम्

‘ अयमग्ने' इत्यष्टर्चं चतुर्दशं सूक्तमाग्नेयम् । शार्ङ्ग इति पक्षिविशेषस्याख्या। शार्ङ्गजातयो जरितृप्रभृतयश्चत्वारश्चतुर्णां द्वृचानां क्रमेण द्रष्टारः । आदितो द्वे जगत्यौ । अथ चतस्रस्त्रिष्टुभः। ततो द्वे अनुष्टुभौ । तथा चानुक्रान्तम्- अयमष्टौ द्वृचाः शार्ङ्गा जरिता द्रोणः सारिसृक्तः स्तम्बमित्रश्चाग्नेयमाद्ये जगत्यौ चतस्रश्च त्रिष्टुभः' इति । गतो विनियोगः ॥


अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्यं॑ ।

भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥१

अ॒यम् । अ॒ग्ने॒ । ज॒रि॒ता । त्वे इति॑ । अ॒भू॒त् । अपि॑ । सह॑सः । सू॒नो॒ इति॑ । न॒हि । अ॒न्यत् । अस्ति॑ । आप्य॑म् ।

भ॒द्रम् । हि । शर्म॑ । त्रि॒ऽवरू॑थम् । अस्ति॑ । ते॒ । आ॒रे । हिंसा॑नाम् । अप॑ । दि॒द्युम् । आ । कृ॒धि॒ ॥१

अयम् । अग्ने । जरिता । त्वे इति । अभूत् । अपि । सहसः । सूनो इति । नहि । अन्यत् । अस्ति । आप्यम् ।

भद्रम् । हि । शर्म । त्रिऽवरूथम् । अस्ति । ते । आरे । हिंसानाम् । अप । दिद्युम् । आ । कृधि ॥१

हे अग्ने “त्वे त्वयि । ‘ सुपां सुलुक्' इति सप्तम्याः शेआदेशः । “अयम् ऋषिः “जरिता स्तोता “अभूदपि । अपिशब्द: संभावनायाम् । इदानीं स्तोतृत्वेन संभाव्यते । तत्र कारणमाह । है “सहसः “सूनो बलस्य पुत्र त्वत्तः “अन्यत् “आप्यम् आप्तव्यं “नहि “अस्ति न खलु विद्यते । अतः प्राप्तव्यं त्वामेव स्तुत्या प्राप्नोमि । “भद्रं कल्याणं “त्रिवरूथं दुःखत्रयस्य निवारकं “शर्म सुखं “हि यस्मात “ते तव “अस्ति विद्यते । अथवा शोभनं त्रिवरूथं त्रिभूमिकं गृहं तवास्ति हि। अतः “हिंसानां हिंस्यमानानामस्माकम् "आरे दूरे दिद्युं दीप्यमानामात्मीयां ज्वालाम् “अप “आ “कृधि अपाकुरु निवारय । करोतेश्छान्दसो विकरणस्य लुक् । ‘श्रुशृणुपॄकृवृभ्यः' इति हेर्धिभावः ॥ ।


प्र॒वत्ते॑ अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृं॑जसे ।

प्र सप्त॑यः॒ प्र स॑निषंत नो॒ धियः॑ पु॒रश्च॑रंति पशु॒पा इ॑व॒ त्मना॑ ॥२

प्र॒ऽवत् । ते॒ । अ॒ग्ने॒ । जनि॑म । पि॒तु॒ऽय॒तः । सा॒चीऽइ॑व । विश्वा॑ । भुव॑ना । नि । ऋ॒ञ्ज॒से॒ ।

प्र । सप्त॑यः । प्र । स॒नि॒ष॒न्त॒ । नः॒ । धियः॑ । पु॒रः । च॒र॒न्ति॒ । प॒शु॒पाःऽइ॑व । त्मना॑ ॥२

प्रऽवत् । ते । अग्ने । जनिम । पितुऽयतः । साचीऽइव । विश्वा । भुवना । नि । ऋञ्जसे ।

प्र । सप्तयः । प्र । सनिषन्त । नः । धियः । पुरः । चरन्ति । पशुपाःऽइव । त्मना ॥२

हे अग्ने “पितूयतः पितुमन्नं भक्ष्यमिच्छतः “ते तव “जनिम जन्म प्रादुर्भवनं “प्रवत् प्रकृष्टमुत्कृष्टं भवति । ‘ उपसर्गाच्छन्दसि धात्वर्थे ' इति वतिः । स त्वं “साचीव सचिव इव “विश्वा विश्वानि व्याप्तानि भुवनानि भूतजातानि “न्यृञ्जसे प्रसाधयसि । वशीकरोषीत्यर्थः । “सप्तयः सर्पणशीलाः “नः अस्माकं “धियः स्तुतयः तादृशं त्वां “प्र “सनिषन्त प्रकर्षेण संभजन्ते । एकः प्रशब्दः पूरकः । यद्वा । सप्तयः । लुप्तोपममेतत् । सर्पणशीला अश्वा यथाजिं प्रकर्षेण सँभजन्ते तथा अस्मदीया धिय इत्यर्थः । अनन्तरं “पुरः तव पुरस्तात् “त्मना आत्मना स्वयमेव “चरन्ति व्याप्य वर्तन्ते । “पशुपाइव यथा पशूनां पालका गोपालाः पालयितव्यानां पुरस्तात् संचरन्ति तद्वत् ॥


उ॒त वा उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः ।

उ॒त खि॒ल्या उ॒र्वरा॑णां भवंति॒ मा ते॑ हे॒तिं तवि॑षीं चुक्रुधाम ॥३

उ॒त । वा॒ । ऊं॒ इति॑ । परि॑ । वृ॒ण॒क्षि॒ । बप्स॑त् । ब॒होः । अ॒ग्ने॒ । उल॑पस्य । स्व॒धा॒ऽवः॒ ।

उ॒त । खि॒ल्याः । उ॒र्वरा॑णाम् । भ॒व॒न्ति॒ । मा । ते॒ । हे॒तिम् । तवि॑षीम् । चु॒क्रु॒धा॒म॒ ॥३

उत । वा । ऊं इति । परि । वृणक्षि । बप्सत् । बहोः । अग्ने । उलपस्य । स्वधाऽवः ।

उत । खिल्याः । उर्वराणाम् । भवन्ति । मा । ते । हेतिम् । तविषीम् । चुक्रुधाम ॥३

हे “स्वधावः दीप्तिमन् “अग्ने “बप्सत् दहन् । 'भस भर्त्सनदीप्त्योः ' । जौहोत्यादिकः । शतरि ‘ घसिभसोर्हलि च' (पा. सू. ६, ४. १०० ) इत्युपधालोपः । ‘ नाभ्यस्ताच्छतुः' इति नुमः प्रतिषेधः । “बहोः बहुलस्य “उलपस्य तृणजातस्य । कर्मणि षष्ठी । सर्वं वनम् “उत “वै अपि खलु "परि वृणक्षि परिवर्जयसि विनाशयसि । “उ इति पूरकः । “उत अपि च “उर्वराणाम् । सस्याढ्या भूमय उर्वराः । तासां संबन्धिनः प्रदेशाः “खिल्याः खिलाः प्राणिभिर्गन्तुं योग्याः “भवन्ति । त्वया दग्धा इति शेषः । “तविषीं महतीं “ते तव “हेतिं हननहेतुभूतां ज्वालां “मा “चुक्रुधाम मा क्रोधयाम । अपि तु स्तुतिभिः प्रसाधयामः ।। ऊतियूति इत्यादिना हन्तेः क्तिनि हेतिः । इत्यन्तोदात्तो निपात्यते । चुक्रुधामेति क्रुधेर्ण्यन्ताल्लुङि चङि रूपम् ॥


यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त्पृथ॑गेषि प्रग॒र्धिनी॑व॒ सेना॑ ।

य॒दा ते॒ वातो॑ अनु॒वाति॑ शो॒चिर्वप्ते॑व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ॥४

यत् । उ॒त्ऽवतः॑ । नि॒ऽवतः॑ । यासि॑ । बप्स॑त् । पृथ॑क् । ए॒षि॒ । प्र॒ग॒र्धिनी॑ऽइव । सेना॑ ।

य॒दा । ते॒ । वातः॑ । अ॒नु॒ऽवाति॑ । शो॒चिः । वप्ता॑ऽइव । श्मश्रु॑ । व॒प॒सि॒ । प्र । भूम॑ ॥४

यत् । उत्ऽवतः । निऽवतः । यासि । बप्सत् । पृथक् । एषि । प्रगर्धिनीऽइव । सेना ।

यदा । ते । वातः । अनुऽवाति । शोचिः । वप्ताऽइव । श्मश्रु । वपसि । प्र । भूम ॥४

“यत् यदा “उद्वतः उद्गतानुच्छ्रितान् “निवतः नीचीनास्तरुगुल्मादीन् हे अग्ने “बप्सत् दहन “यासि प्राप्नोषि तदानीं बह्वीभिर्ज्वलाभिः पृथक् विभिन्नः सन् “एषि गच्छसि । तत्र दृष्टान्तः । “प्रगर्धिनीव “सेना । ‘ गृधु अभिकाङ्क्षायाम् । परराष्ट्रं गच्छतो राज्ञः सेना तत्रत्यं धनजातमभिकाङ्क्षमाणा इतस्ततः संघशो गच्छति तद्वत् । “वातः वायुश्च “ते तव “शोचिः दीप्तिं “यदा यस्मिन् काले “अनुवाति अनुगुणं प्रवर्तते तदा “श्मश्रु । श्म शरीरम् । तन्न श्रितं स्थितं केशरोमादिकं “वप्तेव यथा वप्ता नापितो वपति मुण्डयति तथा “भूम भूमिं “प्र “वपसि प्रकर्षेण मुण्डयसि । सर्वं वनं निःशेषेण दहसीत्यर्थः ॥


प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं॑ नि॒यानं॑ ब॒हवो॒ रथा॑सः ।

बा॒हू यद॑ग्ने अनु॒मर्मृ॑जानो॒ न्य॑ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमिं॑ ॥५

प्रति॑ । अ॒स्य॒ । श्रेण॑यः । द॒दृ॒श्रे॒ । एक॑म् । नि॒ऽयान॑म् । ब॒हवः॑ । रथा॑सः ।

बा॒हू इति॑ । यत् । अ॒ग्ने॒ । अ॒नु॒ऽमर्मृ॑जानः । न्य॑ङ् । उ॒त्ता॒नाम् । अ॒नु॒ऽएषि॑ । भूमि॑म् ॥५

प्रति । अस्य । श्रेणयः । ददृश्रे । एकम् । निऽयानम् । बहवः । रथासः ।

बाहू इति । यत् । अग्ने । अनुऽमर्मृजानः । न्यङ् । उत्तानाम् । अनुऽएषि । भूमिम् ॥५

“अस्य अग्नेर्दहतः “श्रेणयः ज्वालापङ्क्तयः “प्रति ददृश्रे प्रतिदृश्यन्ते । - - -तद्वत् । अत्र सामर्थ्यादुपमानप्रतीतिः । हे “अग्ने “बाहू । तृतीयार्थे प्रथमा । बाहुभ्यां बाहुस्थानीयैर्ज्वालासमूहै। “अनुमर्मृजानः सर्वं वनं मृजञ्शोधयन् । दहन्नित्यर्थः । “न्यङ् न्यञ्चन् प्रह्वीभवन् “उत्तानाम् ऊर्ध्वाभिमुखां भूमिं “यत् यदा “अन्वेषि अनुगच्छसि तदानीमस्य श्रेणयो ददृश्र इत्यन्वयः ।।


उत्ते॒ शुष्मा॑ जिहता॒मुत्ते॑ अ॒र्चिरुत्ते॑ अग्ने शशमा॒नस्य॒ वाजाः॑ ।

उच्छ्वं॑चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदंतु ॥६

उत् । ते॒ । शुष्माः॑ । जि॒ह॒ता॒म् । उत् । ते॒ । अ॒र्चिः । उत् । ते॒ । अ॒ग्ने॒ । श॒श॒मा॒नस्य॑ । वाजाः॑ ।

उत् । श्व॒ञ्च॒स्व॒ । नि । न॒म॒ । वर्ध॑मानः । आ । त्वा॒ । अ॒द्य । विश्वे॑ । वस॑वः । स॒द॒न्तु॒ ॥६

उत् । ते । शुष्माः । जिहताम् । उत् । ते । अर्चिः । उत् । ते । अग्ने । शशमानस्य । वाजाः ।

उत् । श्वञ्चस्व । नि । नम । वर्धमानः । आ । त्वा । अद्य । विश्वे । वसवः । सदन्तु ॥६

हे “अग्ने “ते तव “शुष्माः शोषका ज्वालाः “उत् “जिहताम् उद्गच्छन्तु । तथा “ते तव “अर्चि: दीप्तिश्च उद्गच्छतु । “शशमानस्य स्तूयमानस्य । यद्वा । ‘ शश प्लुतगतौ । अस्मात्ताच्छीलिकश्चानश् । तस्य सार्वधातुकत्वे सति लसार्वधातुकत्वाभावात् ‘ चितः' इत्यन्तोदात्तत्वमेव शिष्यते । शशमानस्य सर्वं वनमाक्रम्य शीघ्रं गच्छतः । तव “वाजाः वेगा हे अग्ने उज्जिहताम् । स त्वं “वर्धमानः सन् 'उच्छ्वञ्चस्व वन उद्गच्छस्व ॥ ‘ श्वचि गतौ' । भौवादिकः। इदित्त्वान्नुम् ।। तथा “नि “नम प्रह्वीभव । उन्नतं वृक्षादिकं प्राप्य उच्छ्रितो भव । अवनतं गुल्मादिकं प्राप्यावनतो भवेत्यर्थः । ईदृशं “त्वा त्वाम् “अद्य अस्मिन् काले “विश्वे सर्वे “वसवः वासयितारो रश्मयो देवा वा “आ “सदन्तु आसीदन्तु प्राप्नुवन्तु । सदेर्व्यत्ययेन सीदादेशाभावः । शपि प्राप्ते व्यत्ययेन अब्वा कर्तव्यः ॥


अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नं ।

अ॒न्यं कृ॑णुष्वे॒तः पंथां॒ तेन॑ याहि॒ वशाँ॒ अनु॑ ॥७

अ॒पाम् । इ॒दम् । नि॒ऽअय॑नम् । स॒मु॒द्रस्य॑ । नि॒ऽवेश॑नम् ।

अ॒न्यम् । कृ॒णु॒ष्व॒ । इ॒तः । पन्था॑म् । तेन॑ । या॒हि॒ । वशा॑न् । अनु॑ ॥७

अपाम् । इदम् । निऽअयनम् । समुद्रस्य । निऽवेशनम् ।

अन्यम् । कृणुष्व । इतः । पन्थाम् । तेन । याहि । वशान् । अनु ॥७

इत्थं खाण्डववनस्य दाहे प्रवृत्तमग्निं जरितृप्रभृतयः स्वात्मनो रक्षणकामास्तुष्टुवुः । इदानीं च स्तम्बमित्रः स्वनिवासभूमेर्दहनाभावाय अग्नेरन्यत्र गमनं प्रार्थयते । “इदम् अस्मदीयं निवासस्थानम् “अपाम् उदकानां “न्ययनम् । नियन्ति नितरां गच्छन्त्यस्मिन्निति न्ययनं ह्रदः। तथा “समुद्रस्य उदधेश्च “निवेशनं गृहम् । यथा ह्रदः समुद्रस्य स्थानं च यथा दग्धुं न शक्यते तथा दाहयोग्यं न भवत्वित्यर्थः । “इतः अस्मादस्मदीयात् स्थानात् “अन्यं “पन्थां पन्थानं मार्गं हे अग्ने “कृणुष्व कुरुष्व । “तेन पथा “वशाननु यथाकामं “याहि गच्छ ।


आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहंतु पु॒ष्पिणीः॑ ।

ह्र॒दाश्च॑ पुं॒डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥८

आ॒ऽअय॑ने । ते॒ । प॒रा॒ऽअय॑ने । दूर्वाः॑ । रो॒ह॒न्तु॒ । पु॒ष्पिणीः॑ ।

ह्र॒दाः । च॒ । पु॒ण्डरी॑काणि । स॒मु॒द्रस्य॑ । गृ॒हाः । इ॒मे ॥८

आऽअयने । ते । पराऽअयने । दूर्वाः । रोहन्तु । पुष्पिणीः ।

ह्रदाः । च । पुण्डरीकाणि । समुद्रस्य । गृहाः । इमे ॥८

अनयापि स्वनिवासस्य दाहानर्हता प्रतिपाद्यते । हे अग्ने “ते तव "आयने आगमने “परायणे परागमने वा सति अस्यां निवासभूमौ “पुष्पिणीः पुष्पवत्यो “दूर्वाः “रोहन्तु प्ररोहन्तु । तथा “ह्रदाः अशोष्योदका जलाशयाः “च भवन्तु “पुण्डरीकाणि पद्मानि च तेषु ह्रदेषु जायन्ताम् । किं बहुना । “समुद्रस्य जलधेः "इमे अस्मिन्निवासप्रदेशे “गृहाः आश्रयभूता भवन्तु । यथा समुद्रावासभूमिः कदाचिदपि न दह्यते एवं कदाचिदप्यस्मत्स्थानं न दह्यतामित्यर्थः । एतदुक्तं भवति । दूर्वाकाण्डप्ररोहणप्रार्थनेन स्वाश्रयस्य शीतलत्वं ह्रदप्रार्थनेन तृष्णोपशमनकारणस्य जलस्य सत्त्वं पुण्डरीकसद्भावप्रार्थनेनोपभोग्यस्य फलादेः सत्ता समुद्रगृहत्वप्रार्थनेन दाहानर्हता चेत्येतत्सर्वं प्रतिपाद्यत इति ॥ ॥ ३० ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्येऽष्टमाष्टके सप्तमोऽध्यायः ॥


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१४२&oldid=203363" इत्यस्माद् प्रतिप्राप्तम्