ऋग्वेदः सूक्तं १०.५१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.५१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.५० ऋग्वेदः - मण्डल १०
सूक्तं १०.५१
१, ३, ५, ७, ९ देवाः, २, ४, ६, ८ सौचीकोऽग्निः
सूक्तं १०.५२ →
दे. २, ४, ६, ८ देवाः, १, ३, ५, ७, ९ अग्निः। त्रिष्टुप्


महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः ।
विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥१॥
को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् ।
क्वाह मित्रावरुणा क्षियन्त्यग्नेर्विश्वाः समिधो देवयानीः ॥२॥
ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु ।
तं त्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम् ॥३॥
होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्र देवाः ।
तस्य मे तन्वो बहुधा निविष्टा एतमर्थं न चिकेताहमग्निः ॥४॥
एहि मनुर्देवयुर्यज्ञकामोऽरंकृत्या तमसि क्षेष्यग्ने ।
सुगान्पथः कृणुहि देवयानान्वह हव्यानि सुमनस्यमानः ॥५॥
अग्नेः पूर्वे भ्रातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः ।
तस्माद्भिया वरुण दूरमायं गौरो न क्षेप्नोरविजे ज्यायाः ॥६॥
कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्याः ।
अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥७॥
प्रयाजान्मे अनुयाजाँश्च केवलानूर्जस्वन्तं हविषो दत्त भागम् ।
घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥८॥
तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः ।
तवाग्ने यज्ञोऽयमस्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥९॥


सायणभाष्यम्

‘महत्तत्' इति नवर्चं नवमं सूक्तम् । वज्रभूतेन वषट्कारेण देवानां हविर्वहनेन च हतेषु भ्रातृषु कनिष्ठः सौचीको नामाग्निर्वषट्कारहविर्वहनाभ्यां भीतो देवेभ्यो निर्गत्यापः प्राविशत् । स च मत्स्यैः प्रदर्शितः सन्नन्वेष्टुमागतैर्देवैः सहेदमादिसूक्तत्रयेण संवादं कृतवान् । अस्य सूक्तस्य द्वितीयादियुजश्चतस्रो विश्वे देवाः शास्तन' इति षडृचमुत्तरसूक्तं चेति दशर्चोऽग्निवाक्यम् । अयुजः प्रथमाद्याः पञ्चर्चो ‘यमैच्छाम मनसा' इत्येकादशर्चमुत्तरसूक्तं च देवानां वाक्यम् । तत्र ‘ तदद्य वाचः प्रथमं मसीय' इति द्वृचस्त्वग्नेर्वाक्यम् । अतोऽग्निवाक्येषु देवा देवताग्निर्ऋषिः । देवोक्तिष्वग्निर्देवता देवा ऋषयः । अनादेशपरिभाषयेदमुत्तरं च द्वे त्रैष्टुभे विशेषानभिधानात् । तथा चानुक्रान्तं -- वषट्कारेण वृक्णेषु भ्रातृषु सौचीकोऽग्निरपः प्रविश्य देवैः समवददुत्तरैस्त्रिभिर्महत्तन्नव तत्र युजोऽग्निवाक्यं विश्व इत्युत्तरं षट्कमयुजो देवानां यमैच्छामेत्युत्तरं चैकादशकं तदद्येति तु द्वृचोऽग्नेः' इति । गतो विनियोगः । सूक्तत्रयोक्तार्थे तैत्तिरीयब्राह्मणम्-' अग्नेस्त्रयो ज्यायांसो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त सोऽग्निरबिभेदित्थं वाव स्य आर्तिमारिष्यतीति स निलायत सोऽपः प्राविशत्तं देवताः प्रैषमैच्छन्' (तै. सं. २. ६. ६) इत्यादि । तत्राद्यया देवा अग्निमाहुः ॥


म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः ।

विश्वा॑ अपश्यद्बहु॒धा ते॑ अग्ने॒ जात॑वेदस्त॒न्वो॑ दे॒व एकः॑ ॥१

म॒हत् । तत् । उल्ब॑म् । स्थवि॑रम् । तत् । आ॒सी॒त् । येन॑ । आऽवि॑ष्टितः । प्र॒ऽवि॒वेशि॑थ । अ॒पः ।

विश्वाः॑ । अ॒प॒श्य॒त् । ब॒हु॒धा । ते॒ । अ॒ग्ने॒ । जात॑ऽवेदः । त॒न्वः॑ । दे॒वः । एकः॑ ॥

महत् । तत् । उल्बम् । स्थविरम् । तत् । आसीत् । येन । आऽविष्टितः । प्रऽविवेशिथ । अपः ।

विश्वाः । अपश्यत् । बहुधा । ते । अग्ने । जातऽवेदः । तन्वः । देवः । एकः ॥

“तदुल्बं वक्ष्यमाणं तत् प्रावरणं "महत् "स्थविरम् अत्यन्तं स्थूलं च "तत् तत् "आसीत् येन उल्बेन “आविष्टितः आवेष्टितः सन् हे अग्ने "प्रविवेशिथापः उदकानि प्रविष्टवानसि । हे "अग्ने “जातवेदः जातप्रज्ञ "ते "विश्वाः सर्वाः "तन्वः तनूः सर्वांण्यङ्गानि "बहुधा बहुप्रकारम् "एकः देवः “अपश्यत् दृष्टवान् ॥


को मा॑ ददर्श कत॒मः स दे॒वो यो मे॑ त॒न्वो॑ बहु॒धा प॒र्यप॑श्यत् ।

क्वाह॑ मित्रावरुणा क्षियंत्य॒ग्नेर्विश्वाः॑ स॒मिधो॑ देव॒यानीः॑ ॥२

कः । मा॒ । द॒द॒र्श॒ । क॒त॒मः । सः । दे॒वः । यः । मे॒ । त॒न्वः॑ । ब॒हु॒धा । प॒रि॒ऽअप॑श्यत् ।

क्व॑ । अह॑ । मि॒त्रा॒व॒रु॒णा॒ । क्षि॒य॒न्ति॒ । अ॒ग्नेः । विश्वाः॑ । स॒म्ऽइधः॑ । दे॒व॒ऽयानीः॑ ॥

कः । मा । ददर्श । कतमः । सः । देवः । यः । मे । तन्वः । बहुधा । परिऽअपश्यत् ।

क्व । अह । मित्रावरुणा । क्षियन्ति । अग्नेः । विश्वाः । सम्ऽइधः । देवऽयानीः ॥

इदमग्नेर्वाक्यम् । एको देवोऽपश्यदित्युक्ते पृच्छति । "को "मा मां "ददर्श दृष्टवान् । "स "देवः “कतमः "यो "मे मम "तन्वः तनूः “बहुधा बहुप्रकारं स्थिताः "पर्यपश्यत् परिदृष्टवान् । हे "मित्रावरुणा मित्रावरुणौ "अग्नेः मम “विश्वाः सर्वाः "समिधः दीप्ताः "देवयानीः देवयानसाधनभूताः तन्वो दृष्टा इत्युक्तं यदि दृष्टाश्चेत्तर्हि “क्व “क्षियन्ति क्व निवसन्तीत्येवं देवानां पुरतो वर्तमानौ मित्रावरुणावाहाग्निः ॥


ऐच्छा॑म त्वा बहु॒धा जा॑तवेदः॒ प्रवि॑ष्टमग्ने अ॒प्स्वोष॑धीषु ।

तं त्वा॑ य॒मो अ॑चिकेच्चित्रभानो दशांतरु॒ष्याद॑ति॒रोच॑मानं ॥३

ऐच्छा॑म । त्वा॒ । ब॒हु॒धा । जा॒त॒ऽवे॒दः॒ । प्रऽवि॑ष्टम् । अ॒ग्ने॒ । अ॒प्ऽसु । ओष॑धीषु ।

तम् । त्वा॒ । य॒मः । अ॒चि॒के॒त् । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । द॒श॒ऽअ॒न्त॒रु॒ष्यात् । अ॒ति॒ऽरोच॑मानम् ॥

ऐच्छाम । त्वा । बहुधा । जातऽवेदः । प्रऽविष्टम् । अग्ने । अप्ऽसु । ओषधीषु ।

तम् । त्वा । यमः । अचिकेत् । चित्रभानो इति चित्रऽभानो । दशऽअन्तरुष्यात् । अतिऽरोचमानम् ॥

एवमग्निना पृष्टा देवा अग्निं ब्रुवन्ति । हे "जातवेदः जातप्रज्ञ “अग्ने "त्वा त्वाम् अनु “ऐच्छाम । कीदृशं त्वाम् "अप्सु उदकेषु “ओषधीषु च "बहुधा "प्रविष्टम् । अन्विष्य च “तं तादृशमप्प्रविष्टं “त्वा त्वां "यमः देवः "अचिकेत् ज्ञातवान् हे "चित्रभानो चायनीयरश्मे । कुत्र स्थितं ज्ञातवानिति तदुच्यते । "दशान्तरुष्यात् । अन्तरुष्यं गूढमावासस्थानं तच्च स्थानं दशसंख्योपेतम् । तादृशं स्थानम् “अतिरोचमानम् अतीत्य प्रकाशमानम् । अग्नेर्हि गूढानि दश स्थानानि भवन्ति । पृथिव्यादयस्त्रयो लोका अग्निवाय्वादित्यास्त्रयो देवा आप ओषधयो वनस्पतयः प्राणिशरीरमिति दश स्थानानि ॥


हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा॑ यु॒नज॒न्नत्र॑ दे॒वाः ।

तस्य॑ मे त॒न्वो॑ बहु॒धा निवि॑ष्टा ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ॥४

हो॒त्रात् । अ॒हम् । व॒रु॒ण॒ । बिभ्य॑त् । आ॒य॒म् । न । इत् । ए॒व । मा॒ । यु॒नज॑न् । अत्र॑ । दे॒वाः ।

तस्य॑ । मे॒ । त॒न्वः॑ । ब॒हु॒धा । निऽवि॑ष्टाः । ए॒तम् । अर्थ॑म् । न । चि॒के॒त॒ । अ॒हम् । अ॒ग्निः ॥

होत्रात् । अहम् । वरुण । बिभ्यत् । आयम् । न । इत् । एव । मा । युनजन् । अत्र । देवाः ।

तस्य । मे । तन्वः । बहुधा । निऽविष्टाः । एतम् । अर्थम् । न । चिकेत । अहम् । अग्निः ॥

अनया देवा मां ज्ञातवन्त इति निश्चित्य गूहनस्य प्रयोजनमाह । हे "वरुण देव "अहं “होत्रात् होतव्यात् । हविर्वहनादित्यर्थः । तस्मात् "बिभ्यत् "आयम् आगतवानस्मि । अतः “मा माम् “एव एवं पूर्वप्रकारेण “अत्र अस्मिन् हविर्वहने “नेत् "युनजन् नैव योजयन्तु "देवाः । "तस्य तादृशस्य बिभ्यतः “मे “तन्वो "बहुधा “निविष्टाः अप्सु । "एतमर्थम् एतद्धविर्वहनकार्यम् "अग्निः “अहं न “चिकेत न बुध्ये नाङ्गीकरोमि ॥


एहि॒ मनु॑र्देव॒युर्य॒ज्ञका॑मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने ।

सु॒गान्प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा॑नः ॥५

आ । इ॒हि॒ । मनुः॑ । दे॒व॒ऽयुः । य॒ज्ञऽका॑मः । अ॒र॒म्ऽकृत्य॑ । तम॑सि । क्षे॒षि॒ । अ॒ग्ने॒ ।

सु॒ऽगान् । प॒थः । कृ॒णु॒हि॒ । दे॒व॒ऽयाना॑न् । वह॑ । ह॒व्यानि॑ । सु॒ऽम॒न॒स्यमा॑नः ॥

आ । इहि । मनुः । देवऽयुः । यज्ञऽकामः । अरम्ऽकृत्य । तमसि । क्षेषि । अग्ने ।

सुऽगान् । पथः । कृणुहि । देवऽयानान् । वह । हव्यानि । सुऽमनस्यमानः ॥

अग्निनैवमुक्ता देवाः पुनरग्निमाह्वयन्ति । हे "अग्ने “एहि आगच्छ। "मनुः मनुष्यो यष्टा मननीयो मनू राजा वा “देवयुः देवान् यष्टुमिच्छन् "यज्ञकामश्च भवति । अत एहि । किं कुर्वन् यज्ञकामो भवतीति चेदुच्यते । "अरंकृत्य केवलं तेजःपुञ्जमेवालंकुर्वन् । यद्वेदमुत्तरत्र संबध्यते । त्वं तु अलंकृत्यात्मानमलंकुर्वन् "तमसि अन्यैर्ज्ञातुमशक्येऽन्धकारे “क्षेषि निवससि । हे अग्ने आगत्य च “देवयानान् देवान प्रति यैर्मनुष्या गच्छन्ति तान् "पथः मार्गान् "सुगान् "कृणुहि कुरु। ‘कृवि हिंसाकरणयोश्च । ‘ धिन्विकृण्व्योरञ्च' इत्युप्रत्ययः । संमत्या नो यज्ञनिष्पत्तेर्देवयानाः सुपथा भवन्ति । "वह च “हव्यानि अस्मदीयानि "सुमनस्यमानः सौमनस्यमाचरंस्त्वम् ॥ ॥ १० ॥


अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒ अर्थ॑मे॒तं र॒थीवाध्वा॑न॒मन्वाव॑रीवुः ।

तस्मा॑द्भि॒या व॑रुण दू॒रमा॑यं गौ॒रो न क्षे॒प्नोर॑विजे॒ ज्यायाः॑ ॥६

अ॒ग्नेः । पूर्वे॑ । भ्रात॑रः । अर्थ॑म् । ए॒तम् । र॒थीऽइ॑व । अध्वा॑नम् । अनु॑ । आ । अ॒व॒री॒वु॒रिति॑ ।

तस्मा॑त् । भि॒या । व॒रु॒ण॒ । दू॒रम् । आ॒य॒म् । गौ॒रः । न । क्षे॒प्नोः । अ॒वि॒जे॒ । ज्यायाः॑ ॥

अग्नेः । पूर्वे । भ्रातरः । अर्थम् । एतम् । रथीऽइव । अध्वानम् । अनु । आ । अवरीवुरिति ।

तस्मात् । भिया । वरुण । दूरम् । आयम् । गौरः । न । क्षेप्नोः । अविजे । ज्यायाः ॥

अनयाग्निः स्वपलायननिमित्तमाह । हे देवाः “अग्नेः मम “पूर्वे पूर्वमुत्पन्नाः “भ्रातरः भूपतिभुवनपतिर्भूतानां पतिरिति त्रयोऽग्रजाः “एतम् "अर्थं हविर्वहनाख्यमर्थम् "अन्वावरीवुः अनुक्रमेण वृतवन्तः । तत्र वृणोतेर्यङ्लुगन्ताल्लुङि झेश्छन्दसो लुक् । ‘बहुलं छन्दसि' इत्युक्तम् । आवरणे दृष्टान्तः । “रथीवाध्वानम् । अध्वानं यथा रथी वृणोति तद्वत् । ते भ्रातरस्तथा कुर्वन्तो हताः । “तस्मात् मरणात् "भिया भीत्या हे "वरुण “दूरं देशम् "आयम् । किंच “क्षेप्नोः इषुक्षेप्तुः धनुषः “ज्यायाः सकाशातू “गौरो “न गौरमृग इव स यथा बिभेति चलति वा तद्वत् “अविजे अकम्पे । ‘ ओविजी भयचलनयोः । अनुदात्तेत्तौदादिकः । तस्य लङ्युत्तमे रूपम् ॥


कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा॑ यु॒क्तो जा॑तवेदो॒ न रिष्याः॑ ।

अथा॑ वहासि सुमन॒स्यमा॑नो भा॒गं दे॒वेभ्यो॑ ह॒विषः॑ सुजात ॥७

कु॒र्मः । ते॒ । आयुः॑ । अ॒जर॑म् । यत् । अ॒ग्ने॒ । यथा॑ । यु॒क्तः । जा॒त॒ऽवे॒दः॒ । न । रिष्याः॑ ।

अथ॑ । व॒हा॒सि॒ । सु॒ऽम॒न॒स्यमा॑नः । भा॒गम् । दे॒वेभ्यः॑ । ह॒विषः॑ । सु॒ऽजा॒त॒ ॥

कुर्मः । ते । आयुः । अजरम् । यत् । अग्ने । यथा । युक्तः । जातऽवेदः । न । रिष्याः ।

अथ । वहासि । सुऽमनस्यमानः । भागम् । देवेभ्यः । हविषः । सुऽजात ॥

इदं देवानां वाक्यम् । हे "अग्ने "यत् "आयुः आयुष्यम् "अजरं जरारहितमस्ति तत् "ते “कुर्मः । "युक्तः तेनायुषा संयुक्तस्त्वं हे "जातवेदः जातप्रज्ञ “यथा “न “रिष्याः न म्रियसे तथा कुर्मः। "अथ “वहासि वह "सुमनस्यमानः सौमनस्यं कुर्वन् वोढव्यं वहन् । तदेव दर्शयति । “हविषः यजमानप्रत्तस्य "भागम् । केभ्यः । "देवेभ्यः । हे "सुजात शोभनजन्मन्नग्ने ॥


प्र॒या॒जान्मे॑ अनुया॒जांश्च॒ केव॑ला॒नूर्ज॑स्वंतं ह॒विषो॑ दत्त भा॒गं ।

घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥८

प्र॒ऽया॒जान् । मे॒ । अ॒नु॒ऽया॒जान् । च॒ । केव॑लान् । ऊर्ज॑स्वन्तम् । ह॒विषः॑ । द॒त्त॒ । भा॒गम् ।

घृ॒तम् । च॒ । अ॒पाम् । पुरु॑षम् । च॒ । ओष॑धीनाम् । अ॒ग्नेः । च॒ । दी॒र्घम् । आयुः॑ । अ॒स्तु॒ । दे॒वाः॒ ॥

प्रऽयाजान् । मे । अनुऽयाजान् । च । केवलान् । ऊर्जस्वन्तम् । हविषः । दत्त । भागम् ।

घृतम् । च । अपाम् । पुरुषम् । च । ओषधीनाम् । अग्नेः । च । दीर्घम् । आयुः । अस्तु । देवाः ॥

अनेनाग्निर्हविर्वहने दातव्यान्युक्त्वा दत्तेति प्रतिजानाति । हे देवाः “मे मह्यं "प्रयाजान् प्रधानस्य प्रमुखे यष्टव्यानेतन्नामकान् हविर्भागान् तथा “अनुयाजान् अनु प्रधानात्पश्चाद्यष्टव्यानेतन्नामकान् "केवलान् असाधारणान् "दत्त प्रयच्छत । तथा "ऊर्जस्वन्तं प्रत्यभिघारणास्सारवन्तं "हविषः सर्वस्यापि चरुपुरोडाशादेः “भागं स्विष्टकृदाख्यं भागं दत्त । अथवोर्जस्वन्तं हविषो भागं प्रयाजानुयाजाख्यं दत्तेति योज्यम्। किंच “अपां सारभूतं ताभ्य उत्पन्नं वा “घृतम् आज्यभागादिसाधनम् “ओषधीनाम् ओषधीभ्य उत्पन्नं “पुरुषं “च भागं दत्त । किंच "अग्नेः मम "दीर्घमायुः “च “अस्तु । वषट्कारकृतवधभयं मा भूदित्यर्थः । अमुमितिहासं प्रस्तुत्य कौषीतकिब्राह्मणं- तस्मादाहुराग्नेयाः प्रयाजा आग्नेया अनुयाजा आग्नेयमाज्यमाग्नेयः पुरोडाशः' इति । शरीरदाया ह वा अग्नयो भवन्ति इति च ब्राह्मणं ‘ पुरुषाहुतिर्यस्य प्रियतमा' इति च ॥


तव॑ प्रया॒जा अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वंतो ह॒विषः॑ संतु भा॒गाः ।

तवा॑ग्ने य॒ज्ञो॒३॒॑ऽयम॑स्तु॒ सर्व॒स्तुभ्यं॑ नमंतां प्र॒दिश॒श्चत॑स्रः ॥९

तव॑ । प्र॒ऽया॒जाः । अ॒नु॒ऽया॒जाः । च॒ । केव॑ले । ऊर्ज॑स्वन्तः । ह॒विषः॑ । स॒न्तु॒ । भा॒गाः ।

तव॑ । अ॒ग्ने॒ । य॒ज्ञः । अ॒यम् । अ॒स्तु॒ । सर्वः॑ । तुभ्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः ॥

तव । प्रऽयाजाः । अनुऽयाजाः । च । केवले । ऊर्जस्वन्तः । हविषः । सन्तु । भागाः ।

तव । अग्ने । यज्ञः । अयम् । अस्तु । सर्वः । तुभ्यम् । नमन्ताम् । प्रऽदिशः । चतस्रः ॥

एवमग्निना याच्यमाना देवाः प्रतिब्रुवते । हे अग्ने "तव "प्रयाजा “अनुयाजाश्च "केवले असाधारणाः “ऊर्जस्वन्तः बलवन्तः "हविषः “भागाः सन्तु । हे अग्ने "अयं "सर्वः "यज्ञः च "तव “अस्तु । तथा “प्रदिशः प्रकृष्टा मुख्याः “चतस्रः दिशः “तुभ्यं “नमन्ताम् । अत एहि हविर्वहेति शेषः ॥ ॥ ११ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५१&oldid=175440" इत्यस्माद् पुनः प्राप्तिः