ऋग्वेदः सूक्तं १०.७१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.७१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.७० ऋग्वेदः - मण्डल १०
सूक्तं १०.७१
बृहस्पतिराङ्गिरसः
सूक्तं १०.७२ →
ज्ञानम् । त्रिष्टुप्, ९ जगती


बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः ।
यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः ॥१॥
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।
अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि ॥२॥
यज्ञेन वाचः पदवीयमायन्तामन्वविन्दन्नृषिषु प्रविष्टाम् ।
तामाभृत्या व्यदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ॥३॥
उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥४॥
उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु ।
अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम् ॥५॥
यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति ।
यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥६॥
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥७॥
हृदा तष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजन्ते सखायः ।
अत्राह त्वं वि जहुर्वेद्याभिरोहब्रह्माणो वि चरन्त्यु त्वे ॥८॥
इमे ये नार्वाङ्न परश्चरन्ति न ब्राह्मणासो न सुतेकरासः ।
त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥९॥
सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः ।
किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय ॥१०॥
ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥११॥


सायणभाष्यम्

बृहस्पते ' इत्येकादशर्चं तृतीयं सूक्तम् आङ्गिरसस्य बृहस्पतेरार्षम् । नवमी जगती शिष्टा दश त्रिष्टुभः । अनेन सूक्तेनर्षिः परमपुरुषार्थसाधनं परब्रह्मज्ञानं स्तुतवान् । अतस्तद्देवत्यमिदम्। उक्तं हि बृहद्देवतायां - सुज्योतिः परमं ब्रह्म यद्योगात्समुपाश्नुते । तज्ज्ञानमभितुष्टाव सूक्तेनाथ बृहस्पतिः । ( बृहद्दे. ७. १०९ ) इति । अनुक्रान्तं च --- ‘ बृहस्पते बृहस्पतिर्ज्ञानं तुष्टाव नवमी जगती ' इति । सूक्तविनियोगो गतः । देवसुवाँ हविःषु बृहस्पतिर्वाचस्पतिरित्यस्य प्रथमानुवाक्या । सूत्रितं च ----- ‘ बृहस्पते प्रथमं वाचो अग्रं हंसैरिव सखिभिर्वावदद्भिः ' ( आश्व. श्रौ. ४. ११ ) इति ।


बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः ।

यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ॥१

बृह॑स्पते । प्र॒थ॒मम् । वा॒चः । अग्र॑म् । यत् । प्र । ऐर॑त । ना॒म॒ऽधेय॑म् । दधा॑नाः ।

यत् । ए॒षा॒म् । श्रेष्ठ॑म् । यत् । अ॒रि॒प्रम् । आसी॑त् । प्रे॒णा । तत् । ए॒षा॒म् । निऽहि॑तम् । गुहा॑ । आ॒विः ॥१

बृहस्पते । प्रथमम् । वाचः । अग्रम् । यत् । प्र । ऐरत । नामऽधेयम् । दधानाः ।

यत् । एषाम् । श्रेष्ठम् । यत् । अरिप्रम् । आसीत् । प्रेणा । तत् । एषाम् । निऽहितम् । गुहा । आविः ॥१

बृहस्पतिरनेन सूक्तेन विदितवेदार्थान् बालान् दृष्ट्वा स्मयमानः स्वात्मानं संबोध्याह । हे “बृहस्पते अन्तरात्मन् “प्रथमम् उत्पत्त्यनन्तरमितरवागुच्चारणात्प्रागेव “नामधेयं नाम “दधानाः पदार्थेषु निदधाना बालाः “यत् “प्रैरत प्रेरितवन्तः तत् “वाचोऽयं भवति । यत्तत तातेत्यादिकं वाक्यं पूर्वमभिधाय पश्चादन्या वाचो वदिष्यन्ति खलु तस्माद्वाचोऽग्रम् । अस्यां दशायामवस्थितान् बालान् पश्य । तथेदानीम् “एषां “श्रेष्ठं प्रशस्यतमं “यत् यच्च “अरिप्रं पापरहितं वेदार्थज्ञानम् “आसीत् “एषां तज्ज्ञानं “गुहा गुहायां “निहितं गोप्यं “तत् “प्रेणा । मकालोपश्छान्दसः। प्रेम्णाविर्भवति । वेदाभ्यासकाले सरस्वती स्वार्थमेभ्यः प्रकाशयतीत्यर्थः । एवं विस्मये बृहस्पते प्रथमं वाचो अग्रम् । (ऐ. आ. १. ३. ६ ) इत्यादिकमारण्यकमनुसंधेयम् ॥


सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त ।

अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥२

सक्तु॑म्ऽइव । तित॑ऽउना । पु॒नन्तः॑ । यत्र॑ । धीराः॑ । मन॑सा । वाच॑म् । अक्र॑त ।

अत्र॑ । सखा॑यः । स॒ख्यानि॑ । जा॒न॒ते॒ । भ॒द्रा । ए॒षा॒म् । ल॒क्ष्मीः । निऽहि॑ता । अधि॑ । वा॒चि ॥२

सक्तुम्ऽइव । तितऽउना । पुनन्तः । यत्र । धीराः । मनसा । वाचम् । अक्रत ।

अत्र । सखायः । सख्यानि । जानते । भद्रा । एषाम् । लक्ष्मीः । निऽहिता । अधि । वाचि ॥२

“तितउना । परिपूयतेऽनेनेति । यद्वा । तता विस्तृता भृष्टयवा अत्रेति तितउः। ‘ तनोतेर्डउः सन्वच्च ' (उ. सू. ५, २२ ) इति डउप्रत्ययः । सन्वद्भावादित्वम्। उक्त निर्वचनेन सूर्पेण “सक्तुमिव यथा कश्चित्सक्तुं दुर्धावं पुनाति तद्वत् प्रकृतितः प्रत्ययतश्च शब्दानुत्पुनन्तः “धीराः धीमन्तो विद्वांसः “यत्र यस्मिन् काले विद्वत्संघे वा “मनसा प्रज्ञायुक्तेन “वाचमक्रत अकृषत कुर्वन्ति । करोतेर्लुङि रूपम् । “अत्र तत्र काले “सखायः समानख्यानाः शास्त्रादिविषयज्ञानास्ते “सख्यानि तेषु भवानि ज्ञानानि “जानते जानन्ति । यद्वा । सखायो वाचा बद्धसख्यास्ते तस्यास्तस्या वाचः सख्यानि जानन्ति । वाक्ययुक्तानभ्युदयाँल्लभन्त इत्यर्थः। तस्मात् “एषां “वाचि “भद्रा कल्याणी “निहिता “लक्ष्मीः भवति । अधिः सप्तम्यर्थद्योतकः । अर्थज्ञानं वाचि पश्याम इत्यर्थः । ‘ तितउ परिपवनं भवति ततवद्वा तुन्नवद्वा तिलमात्रतुन्नमिति वा सक्तुमिव तितउना ' ( निरु. ४. १० ) इत्यादि निरुक्तमनुसंधेयम् ॥


वाग्देवत्यपशोर्वपापुरोडाशयोः यज्ञेन वाचः ' इत्यादिके द्वे क्रमेण याज्ये । सूत्रितं च -– ' यज्ञेन वाचः पदवीयमायन्निति द्वे देवीं वाचमजनयन्त देवाः ' ( आश्व. श्रौ. ३. ८) इति ॥

य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् ।

तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ॥३

य॒ज्ञेन॑ । वा॒चः । प॒द॒ऽवीय॑म् । आ॒य॒न् । ताम् । अनु॑ । अ॒वि॒न्द॒न् । ऋषि॑षु । प्रऽवि॑ष्टाम् ।

ताम् । आ॒ऽभृत्य॑ । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । ताम् । स॒प्त । रे॒भाः । अ॒भि । सम् । न॒व॒न्ते॒ ॥३

यज्ञेन । वाचः । पदऽवीयम् । आयन् । ताम् । अनु । अविन्दन् । ऋषिषु । प्रऽविष्टाम् ।

ताम् । आऽभृत्य । वि । अदधुः । पुरुऽत्रा । ताम् । सप्त । रेभाः । अभि । सम् । नवन्ते ॥३

विदितार्था धीराः “पदवीयम् । वेतेः ‘अचो यत्' । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः । पदेन यातव्यः पन्थाः पदवीयः । ते “वाचः मार्गं “यज्ञेन “आयन् प्राप्तवन्तः । “ऋषिषु अतीन्द्रियार्थदर्शिषु “प्रविष्टां “तां वाचम् “अविन्दन् अलभन्त । अनन्तरं “तां वाचम् “आभृत्य आहृत्य “पुरुत्रा बहुषु देशेषु “व्यदधुः व्यकार्षुः । सर्वान् मनुष्यानध्यापयामासुरित्यर्थः । एतादृशीं वाचं “रेभाः शब्दायमानाः पक्षिणः पक्षिरूपाणि गायत्र्यादीनि “सप्त छन्दांसि “अभि “सं “नवन्ते अभितः संगच्छन्ते ॥


उ॒त त्व॒ः पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्व॑ः शृ॒ण्वन्न शृ॑णोत्येनाम् ।

उ॒तो त्व॑स्मै त॒न्वं१॒॑ वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ः ॥४

उ॒त । त्वः॒ । पश्य॑न् । न । द॒द॒र्श॒ । वाच॑म् । उ॒त । त्वः॒ । शृ॒ण्वन् । न । शृ॒णो॒ति॒ । ए॒ना॒म् ।

उ॒तो इति॑ । त्व॒स्मै॒ । त॒न्व॑म् । वि । स॒स्रे॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ॥४

उत । त्वः । पश्यन् । न । ददर्श । वाचम् । उत । त्वः । शृण्वन् । न । शृणोति । एनाम् ।

उतो इति । त्वस्मै । तन्वम् । वि । सस्रे । जायाऽइव । पत्ये । उशती । सुऽवासाः ॥४

त्वशब्द एकवाची । एकः । उतशब्दोऽप्यर्थे । “पश्यन् अपि मनसा पथलोचयन्नपि “वाचं “न “ददर्श दर्शनफलाभावान्न पश्यति । “त्वः एकः “शृण्वन् अपि “एनां वाचं “न “शृणोति श्रवणफलाभावात् । इत्यनेनार्धेन अविद्वानभिहितः । तृतीयपादेन विदितवेदार्थमाह । “त्वस्मै एकस्मै अपि “तन्वम् आत्मीयं शरीरं “वि “सस्रे स्वयं वाग्विविधं गमयति । आत्मानं विवृणुते प्रकाशयतीत्यर्थः । तत्र दृष्टान्तः । “जायेव यथा उशती संभोगं कामयमाना “सुवासाः शोभनवसना जाया “पत्ये भर्त्रं ऋतुकाले संभोगार्थं स्वयमात्मानं विवृणुते । तद्वदेनां पश्यति शृणोति चेति विदितवेदार्थस्य प्रशंसा । ‘ अप्येकः पश्यन्न पश्यति वाचम् ' (निरु. १. १९) इत्यादि निरुक्तमत्र द्रष्टव्यम् ॥


उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु ।

अधे॑न्वा चरति मा॒ययै॒ष वाचं॑ शुश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पाम् ॥५

उ॒त । त्व॒म् । स॒ख्ये । स्थि॒रऽपी॑तम् । आ॒हुः॒ । न । ए॒न॒म् । हि॒न्व॒न्ति॒ । अपि॑ । वाजि॑नेषु ।

अधे॑न्वा । च॒र॒ति॒ । मा॒यया॑ । ए॒षः । वाच॑म् । शु॒श्रु॒ऽवान् । अ॒फ॒लाम् । अ॒पु॒ष्पाम् ॥५

उत । त्वम् । सख्ये । स्थिरऽपीतम् । आहुः । न । एनम् । हिन्वन्ति । अपि । वाजिनेषु ।

अधेन्वा । चरति । मायया । एषः । वाचम् । शुश्रुऽवान् । अफलाम् । अपुष्पाम् ॥५

“त्वम् “उत एकमपि “सख्ये विदुषां संसदि। या सत्कथा सा सखिकर्मत्वात्सख्यमित्युच्यते । सा च वाचा क्रियते । अतो वाक्संबन्धाद्वाक्सख्ये “स्थिरपीतम् । मधु यस्य हृदये स्थिरं भवति । यद्वा स्थिरपीतं स्थिरप्राप्तिम् । “आहुः । यद्वा । तस्मिञ्ज्ञातार्थमाहुः । लोके यथा ज्ञातार्थं पुरुषं पीतार्थमिति वदन्ति । किंच “एनं विज्ञातार्थं पुरुषं “वाजिनेषु । वाक् इना ईश्वर येषां ते वाजिना अर्था वाच आयत्ताः खलु । वाग्ज्ञेयेष्वर्थेषु “न “अपि “हिन्वन्ति । अपिशब्दोऽन्वर्थे । केचिदपि नानुगच्छन्ति । अयमेवातिशयेन विद्वानित्यर्थः । यद्वा । वाजिनेषु सारभूतेषु निरूपणीयेष्वर्थेष्वेनं न हिन्वन्ति न बहिः कुर्वन्ति । एनं पुरस्कृत्यैव सर्वं वेदार्थं विचारयन्तीत्यर्थः । इत्यर्थज्ञः प्रशस्तः । अनन्तरमुत्तरार्धेन केवलपाठको निन्द्यते। “एषः अविज्ञातार्थः पुरुषः “अधेन्वा धेनुत्वविवर्जितया कामानामदोग्ध्र्या देवमनुष्यस्थानेषु वाक्प्रतिरूपया “मायया “चरति । किं कुर्वन् । “अफलामपुष्पाम् । वाचोऽर्थः पुष्पफलम् । अर्थवर्जिताम् । यद्वा । वाचोऽर्थो याज्ञदैवते । यज्ञे भवं ज्ञानं याज्ञं देवतासु भवं ज्ञानं दैवतम् । तद्वर्जितां कर्मादिविषयज्ञानवर्जितां “वाचं “शुश्रवान् । केवलं पाठमात्रेणैव श्रुतवान् स चरति । यथा वन्ध्या पीना गौः किं द्रोणमात्रं क्षीरं दोग्धीति मायामुत्पादयन्ती चरति यथा वन्ध्यो वृक्षोऽकाले पल्लवादियुक्तः सन् पुष्प्यति फलतीति भ्रान्तिमुत्पादयंस्तिष्ठति तथा पाठं प्रबुवाणः चरतीत्यर्थः । ‘ अप्येकं वाक्सख्ये स्थिरपीतम्' (निरु. १.२० ) इत्यादि निरुक्तमत्रानुसंधेयम् ॥ ॥२३॥


यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।

यदीं॑ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॑म् ॥६

यः । ति॒त्याज॑ । स॒चि॒ऽविद॑म् । सखा॑यम् । न । तस्य॑ । वा॒चि । अपि॑ । भा॒गः । अ॒स्ति॒ ।

यत् । ई॒म् । शृ॒णोति॑ । अल॑कम् । शृ॒णो॒ति॒ । न॒हि । प्र॒ऽवेद॑ । सु॒ऽकृ॒तस्य॑ । पन्था॑म् ॥६

यः । तित्याज । सचिऽविदम् । सखायम् । न । तस्य । वाचि । अपि । भागः । अस्ति ।

यत् । ईम् । शृणोति । अलकम् । शृणोति । नहि । प्रऽवेद । सुऽकृतस्य । पन्थाम् ॥६

“सचिविदम् । सचिशब्दः सखिवाची। सखिविदम्। योऽध्येता स वेदस्य सखा संप्रदायोच्छेदनिवारकत्वेन वेदं प्रत्युपकारित्वात् । तादृशमुपकारिणमध्येतारं वेत्तीति सचिवित् । तमभिज्ञं “सखायम् अध्येतॄणां पुरुषाणां स्वार्थबोधनेनोपकारित्वात्सखिभूतं वेदं “यः पुमान् “तित्याज तत्याज परार्थविनियोगेन परित्यजति । त्यजतेर्लिटि ‘अपस्पृधेथामानृचुः । इत्यादिना निपातितः । “तस्य पुरुषस्य “वाचि सर्वस्यां लौकिक्यां शास्त्रीयायां वाच्यपि “भागः भजनीयः कश्चिदर्थः “न “अस्ति । “ईम् अयं पुरुषः “यत् वेदव्यतिरिक्तं “शृणोति तत् “अलकम् अलीकं व्यर्थमेव “शृणोति । “हि यस्मात्कारणात् “सुकृतस्य “पन्थां पन्थानं “न “प्रवेद श्रद्धाराहित्यानुष्ठानमार्गं न जानाति । तस्मात्तदीयश्रवणमपि निष्फलमित्यर्थः। द्वितीयचतुर्थपादयोरभिप्राय आरण्यके दर्शितः ‘न तस्यानूक्ते भागोऽस्ति' (ऐ. आ. ३. २. ४ ) इत्यादिना । तथा ‘ तं योऽनूत्सृजत्यभागो वाचि भवत्यभागो नाके तदेषाभ्युक्ता ' (तै. आ. २. १५. ५) इत्यध्वर्युभिश्च ॥


अ॒क्ष॒ण्वन्त॒ः कर्ण॑वन्त॒ः सखा॑यो मनोज॒वेष्वस॑मा बभूवुः ।

आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ॥७

अ॒क्ष॒ण्ऽवन्तः॑ । कर्ण॑ऽवन्तः । सखा॑यः । म॒नः॒ऽज॒वेषु॑ । अस॑माः । ब॒भू॒वुः॒ ।

आ॒द॒घ्नासः॑ । उ॒प॒ऽक॒क्षासः॑ । ऊं॒ इति॑ । त्वे॒ । ह्र॒दाःऽइ॑व । स्नात्वाः॑ । ऊं॒ इति॑ । त्वे॒ । द॒दृ॒श्रे॒ ॥७

अक्षण्ऽवन्तः । कर्णऽवन्तः । सखायः । मनःऽजवेषु । असमाः । बभूवुः ।

आदघ्नासः । उपऽकक्षासः । ऊं इति । त्वे । ह्रदाःऽइव । स्नात्वाः । ऊं इति । त्वे । ददृश्रे ॥७

“अक्षण्वन्तः अक्षिमन्तः । छन्दस्यपि दृश्यते ' इत्यक्षिशब्दादनङ्। ‘ अनो नुट्' इति नुट् । अनेन दृश्यते सर्वमित्यक्षि । यद्वा । तैजसत्वात् अन्येभ्योऽङ्गेभ्यो व्यक्ततरम् । तथा च श्रूयते - ‘ तस्मादेते व्यक्ततरे इव ' इति । तादृशाक्षियुक्ताः “कर्णवन्तः । कर्णो निकृत्तद्वारः। गर्भावस्थायामेव केनापि निर्मितबिल इत्यर्थः । यद्वा शरीरस्य शिरसो वोर्ध्वं गते उच्चैः स्थिते । कर्णविलक्षणाकाशवन्तः । तथा चाम्नायते - ऋच्छन्ती इव खे उदगन्ताम् ' इति । तादृशाः “सखायः । समानं ख्यानं ज्ञानं येषामिति सखायः । तेषु वाक्येषु बाह्येष्विन्द्रियेषु समानज्ञाना इत्यर्थः। ते “मनोजवेषु । मनसा गम्यन्ते ज्ञायन्त इति मनोजवाः प्रज्ञाद्याः । तेषु “असमाः अतुल्याः “बभूवुः भवन्ति । तेषु मध्ये केचित् “आदघ्नासः । आस्यशब्दस्य पृषोदरादित्वादाकारादेशः । आस्यदघ्ना आस्यप्रमाणोदका हृदा इवेति मध्यमप्रज्ञानाह। अथ “त्वे एके। सर्वनामत्वाज्जसः शीभावः। “उपकक्षासः । कक्षसमीपप्रमाणोदका हृदा इव । अल्पोदका इत्यर्थः । अनेनाल्पप्रज्ञानाह। तथा “त्वे एके “स्नात्वाः । स्नातेः कृत्यार्थे त्वन्प्रत्ययः (पा. सू. ३.४.१४ )। स च ‘ अर्हे कृत्यतृचश्च' ( पा. सू. ३.३.१६९ ) इत्यर्हार्थे च भवति । स्नानार्हा अक्षोभ्योदकाः “हृदाइव “ददृशे दृश्यन्ते । अनेन महाप्रज्ञानाह। उः पूरणः । ‘ अक्षिमन्तः कर्णवन्तः सखायोऽक्षि चष्टेः ' (निरु. १. ९) इत्यादिकं निरुक्तमत्र द्रष्टव्यम् ॥


हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः ।

अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ॥८

हृ॒दा । त॒ष्टेषु॑ । मन॑सः । ज॒वेषु॑ । यत् । ब्रा॒ह्म॒णाः । स॒म्ऽयज॑न्ते । सखा॑यः ।

अत्र॑ । अह॑ । त्व॒म् । वि । ज॒हुः॒ । वे॒द्याभिः॑ । ओह॑ऽब्रह्माणः । वि । च॒र॒न्ति॒ । ऊं॒ इति॑ । त्वे॒ ॥८

हृदा । तष्टेषु । मनसः । जवेषु । यत् । ब्राह्मणाः । सम्ऽयजन्ते । सखायः ।

अत्र । अह । त्वम् । वि । जहुः । वेद्याभिः । ओहऽब्रह्माणः । वि । चरन्ति । ऊं इति । त्वे ॥८

“सखायः समानख्यानाः “ब्राह्मणाः “हृदा बुद्धिमतां हृदयेन “तष्टेषु निश्चितेषु परिकल्पितेषु “मनसो “जवेषु गन्तव्येषु वेदार्थेषु गुणदोषनिरूपणाः “यत् यदा “संयजन्ते संगछन्ते । यजिरत्र संगतिकरणवाची । “अत्र अस्मिन् ब्राह्मणसंघे “त्वम् अविज्ञातार्थमेकं पुरुषं “वेद्याभिः वेदितव्याभिः विद्याभिः प्रवृत्तिभिर्वा “वि “जहुः विशेषेण परित्यजन्ति । “अह इति विनिश्चये । “ओहब्रह्माणः । ऊह्यमानं ब्रह्म विद्याश्रुतिमतिबुद्धिलक्षणं येषां ते तथोक्ताः । तादृशास्त एके विद्वांसः “वि “चरन्ति यथाकामं वेदार्थेषु विनिश्चयार्थं प्रवर्तन्ते । उः प्रसिद्धौ। ‘ हृदा तष्टेषु मनसां प्रजवेषु' (निरु. १३. १३ ) इत्यादिकं निरुक्तं द्रष्टव्यम् ॥


इ॒मे ये नार्वाङ्न प॒रश्चर॑न्ति॒ न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः ।

त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया॑ सि॒रीस्तन्त्रं॑ तन्वते॒ अप्र॑जज्ञयः ॥९

इ॒मे । ये । न । अ॒र्वाक् । न । प॒रः । चर॑न्ति । न । ब्रा॒ह्म॒णासः॑ । न । सु॒तेऽक॑रासः ।

ते । ए॒ते । वाच॑म् । अ॒भि॒ऽपद्य॑ । पा॒पया॑ । सि॒रीः । तन्त्र॑म् । त॒न्व॒ते॒ । अप्र॑ऽजज्ञयः ॥९

इमे । ये । न । अर्वाक् । न । परः । चरन्ति । न । ब्राह्मणासः । न । सुतेऽकरासः ।

ते । एते । वाचम् । अभिऽपद्य । पापया । सिरीः । तन्त्रम् । तन्वते । अप्रऽजज्ञयः ॥९

अनया वेदार्थानभिज्ञा निन्द्यन्ते । “इमे “ये अविद्वांसः “अर्वाक् अर्वाचीनमधोभाविन्यस्मिँल्लोके ब्राह्मणैः सह “न “चरन्ति ये “परः परस्तात् देवैः सह “न चरन्ति ते “ब्राह्मणासः ब्राह्मणाः वेदार्थतत्पराः “न भवन्ति । तथा “सुतेकरासः । सोमं सुतमभिषुतं कुर्वन्तीति सुतेकरा ऋत्विज्ञः । तेऽपि “न भवन्ति । अप्रजज्ञयः । जानते: ‘ आदृगमहनः' इति किप्रत्ययः । अविद्वांसः “त “एते मनुष्या: “वाचं लौकिकीम् “अभिपद्य प्राप्य तथा “पापया पापकारिण्या वाचा युक्तास्ते “सिरीः । ‘ छन्दसीवानिपौ ' इतीप्रत्ययः । ‘ सुपां सुलुक्° ' इति जसः सुः । सीरिणो भूत्वा “तन्त्रं कृषिलक्षणं “तन्वते विस्तारयन्ति । कुर्वन्तीत्यर्थः । सर्वथा वेदार्थो ज्ञेय इत्यभिप्रायः ॥


सोमप्रवहणे ‘ सर्वे नन्दन्ति' इत्येषा । सूत्रितं च --- सोम यास्ते मयोभुव इति तिस्रः सर्वे नन्दन्ति यशसागतेन ' ( आश्व. श्रौ. ४. ४ ) इति ॥

सर्वे॑ नन्दन्ति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा॑यः ।

कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षा॒मरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ॥१०

सर्वे॑ । न॒न्द॒न्ति॒ । य॒शसा॑ । आऽग॑तेन । स॒भा॒ऽसा॒हेन॑ । सख्या॑ । सखा॑यः ।

कि॒ल्बि॒ष॒ऽस्पृत् । पि॒तु॒ऽसनिः॑ । हि । ए॒षा॒म् । अर॑म् । हि॒तः । भव॑ति । वाजि॑नाय ॥१०

सर्वे । नन्दन्ति । यशसा । आऽगतेन । सभाऽसाहेन । सख्या । सखायः ।

किल्बिषऽस्पृत् । पितुऽसनिः । हि । एषाम् । अरम् । हितः । भवति । वाजिनाय ॥१०

“सखायः समानख्यानाः समानज्ञानाः “सर्वे सभ्या मनुष्याः “सभासहेन सभां सोढुं शक्नुवता “सख्या ऋत्विजां सखिभूतेन यज्ञं प्रति “आगतेन “यशसा यशस्विना सोमेन हेतुना “नन्दन्ति हृष्टा भवन्ति । स “हि स एव सोमः “एषां जनानां “किल्बिषस्पृत् । यः स्वस्मादन्यः पुरुषः श्रेष्ठतामश्नुते स किल्बिषं भवति बाध्यत्वेन । यथा पापं सदाचारैः बाधितव्यं भवति तद्वत् । पापरूपस्य शत्रोर्बाधकः । यद्वा । यज्ञे साध्वनुप्रवचनाकरणेन यत्किल्बिषमेषां जायते तद्यो बाधते स किल्बिषस्पृत् । तथा त्वं “पितुषणिः । पितुरित्यन्ननाम दक्षिणा वा । तमनेन सोमेन सनोति यजमानः संभजत इति तादृशः । तेषामन्नदक्षिणादातेत्यर्थः । किंच “हितः पात्रेषु निहितः सोमः “वाजिनाय । इन्द्रियं वीर्यं वाजिनम् । तेषां वीर्याय तत्कर्तुम् “अरम् अलं पर्याप्तः समर्थो “भवति । ‘ सर्वे नन्दन्ति यशसागतेनेत्यन्वाह यशो वै सोमो राजा ' इत्यादिकम् इन्द्रियं वै वीर्यं वाजिनमाजरसं हास्मै वाजिनं नापच्छिद्यते ' इत्यन्तं ब्राह्मणमत्रानुसंधेयम् (ऐ.ब्रा. १. १३) ॥


ऋ॒चां त्व॒ः पोष॑मास्ते पुपु॒ष्वान्गा॑य॒त्रं त्वो॑ गायति॒ शक्व॑रीषु ।

ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ॥११

ऋ॒चाम् । त्वः॒ । पोष॑म् । आ॒स्ते॒ । पु॒पु॒ष्वान् । गा॒य॒त्रम् । त्वः॒ । गा॒य॒ति॒ । शक्व॑रीषु ।

ब्र॒ह्मा । त्वः॒ । वद॑ति । जा॒त॒ऽवि॒द्याम् । य॒ज्ञस्य॑ । मात्रा॑म् । वि । मि॒मी॒ते॒ । ऊं॒ इति॑ । त्वः॒ ॥११

ऋचाम् । त्वः । पोषम् । आस्ते । पुपुष्वान् । गायत्रम् । त्वः । गायति । शक्वरीषु ।

ब्रह्मा । त्वः । वदति । जातऽविद्याम् । यज्ञस्य । मात्राम् । वि । मिमीते । ऊं इति । त्वः ॥११

अनया होत्राद्यृत्विक्कर्मणां विनियोगमाचष्टे । “त्वः एको होता “ऋचा "पोषं यथाविधि कर्मणि प्रयोगं “पुपुष्वान् । एको धातुरनुवादार्थः । बह्वीर्ऋचः पुष्यन् शंसन् “आस्ते । “त्वः एक उद्गाता “शक्वरीषु । शक्वर्य ऋचः । अभिर्ऋग्भिर्वृत्रं हन्तुमिन्द्रः समर्थोऽभूदिति शक्वर्यः । तासु “गायत्रं साम “गायति । “त्वः एकः “ब्रह्मा च “जातविद्यां जाते जाते कर्तव्ये प्रायश्चित्तादौ वेदयित्रीं वाचं “वदति । ब्रह्मा हि सर्वं वेदितुं योग्यो भवति खलु ।' चादिलोपे विभाषा' इति न निघातः । “त्वः एकोऽध्वर्युश्च “यज्ञस्य “मात्रां यज्ञो यथा मीयतेऽभिषवग्रहणादिकया क्रियया तां मात्रां यज्ञशरीरं “वि “मिमीते अत्यर्थं निर्मिमीते । ऋचामेकः पोषमास्ते पुपुष्वान् होतर्गंर्चनी ' ( निरु. १. ८) इत्यादिनिरुक्तानुसारेणार्थोऽभ्यधाथि । एवं बृहस्पतिर्विदितवेदार्थं तुष्टाव ॥ ॥ २४ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वर वैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्येऽष्टमाष्टके द्वितीयोऽध्यायः ॥


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.७१&oldid=202639" इत्यस्माद् पुनः प्राप्तिः