सामग्री पर जाएँ

निरुक्तशास्त्रम्/प्रथमोध्यायः

विकिस्रोतः तः
निरुक्तशास्त्रम्
प्रथमोध्यायः
[[लेखकः :|]]
द्वितीयोध्यायः →



MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION
श्रीयास्कमुनिविरचितं निरुक्तं प्रारभ्यते
अथ प्रथमोऽध्यायः
समाम्नायः समाम्नातः । स व्याख्यातव्यः । तमिमं समाम्नायं निघण्टव इत्याचक्षते । निघण्टवः कस्मात् । निगमा इमे भवन्ति । छन्दोभ्यः समाहृत्य समाहृत्य समाम्नाताः । ते निगन्तव एव सन्तो निगमनान्निघण्टव उच्यन्त इत्यौपमन्यवः । अपि वा हननादेव स्युः । समाहता भवन्ति । यद्वा समाहृता भवन्ति ।
तद् यानि चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च तानीमानि भवन्ति । तत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशन्ति । भावप्रधानमाख्यातम् । सत्त्वप्रधानानि नामानि । तद् यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्यातेनाचष्टे । व्रजति पचतीति । उपक्रमप्रभृत्यपवर्गपर्यन्तं मूर्तं सत्त्वभूतं सत्त्वनामभिः । व्रज्या पक्तिरिति । अद इति सत्त्वानामुपदेशः । गौरश्वः पुरुषो हस्तीति । भवतीति भावस्य । आस्ते शेते व्रजति तिष्ठतीति । इन्द्रियनित्यं वचनमौदुम्बरायणः १.१

तत्र चतुष्ट्वं नोपपद्यते । अयुगपदुत्पन्नानां वा
शब्दानामितरेतरोपदेशः । शास्त्रकृतो योगश्च । व्याप्तिमत्त्वात्तु शब्दस्याणीयस्त्वाच्च शब्देन संज्ञाकरणं व्यवहारार्थं लोके । तेषां मनुष्यवद् देवताभिधानम् । पुरुषविद्यानित्यत्वात् कर्मसंपत्तिर्मन्त्रो वेदे ।
षड्भावविकारा भवन्तीति वार्ष्यायणिः । जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति । जायत इति पूर्वभावस्यादिमाचष्टे । नापरभावमाचष्टे न प्रतिषेधति । अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणम् । विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद् विकारम् । वर्धत इति स्वाङ्गाभ्युच्चयम् । सांयौगिकानां वार्थानाम् । वर्धते विजयेनेति वा । वर्धते शरीरेणेति वा । अपक्षीयत इत्येतेनैव व्याख्यातः प्रतिलोमम् ।
विनश्यतीत्यपरभावस्यादिमाचष्टे । न पूर्वभावमाचष्टे न प्रतिषेधति १.२

अतोऽन्ये भावविकारा एतेषामेव विकारा भवन्तीति ह स्माह । ते यथावचनमभ्यूहितव्याः ।
न निर्बद्धा उपसर्गा अर्थान्निराहुरिति शाकटायनः ।
नामाख्यातयोस्तु कर्मोपसंयोगद्योतका भवन्ति । उच्चावचाः पदार्था भवन्तीति गार्ग्यः । तद् य एषु पदार्थः प्राहुरिमे तं नामाख्यातयोरर्थविकरणम् ।
आ इत्यर्वागर्थे । प्र परा इत्येतस्य प्रातिलोम्यम् । अभि इत्याभिमुख्यम् । प्रति इत्येतस्य प्रातिलोम्यम् । अति सु इत्यभिपूजितार्थे । निर् दुर् इत्येतयोः प्रातिलोम्यम् । नि अव इति विनिग्रहार्थीया । उद् इत्येतयोः प्रातिलोम्यम् । सम् इत्येकीभावम् । वि अप इत्येतस्य प्रातिलोम्यम् । अनु इति सादृश्यापरभावम् । अपि इति संसर्गम् । उप इत्युपजनम् । परि इति सर्वतोभावम् । अधि इत्युपरिभावमैश्वर्यं वा । एवमुच्चावचानर्थान्प्राहुः । त उपेक्षितव्याः १.३

अथ निपाता उच्चावचेष्वर्थेषु निपतन्ति । अप्युपमार्थे । अपि कर्मोपसंग्रहार्थे । अपि पदपूरणाः । तेषामेते चत्वार उपमार्थे भवन्ति ।
इवेति भाषायां च । अन्वध्यायं च ।
अग्निरिव । इन्द्र इव । इति ।
नेति प्रतिषेधार्थीयो भाषायाम् । उभयमन्वध्यायम् ।
नेन्द्रं देवममंसत ।
इति प्रतिषेधार्थीयः । पुरस्तादुपाचारस्तस्य यत्प्रतिषेधति ।
दुर्मदासो न सुरायाम् ।
इत्युपमार्थीयः । उपरिष्टादुपाचारस्तस्य येनोपमिमीते ।
चिदित्येषोऽनेककर्मा । आचार्यश्चिदिदं ब्रूयात् । इति पूजायाम् । आचार्यः कस्मादाचार्य आचारं ग्राहयति । आचिनोत्यर्थान् । आचिनोति बुद्धिमिति वा । दधिचित् । इत्युपमार्थे ।
कुल्माषांश्चिदाहर । इत्यवकुत्सिते । कुल्माषाः कुलेषु सीदन्ति।
नु इत्येषोऽनेककर्मा । इदं नु करिष्यति । इति हेत्वपदेशे । कथं नु करिष्यति । इत्यनुपृष्टे। नन्वेतदकार्षीत् । इति च ।
अथाप्युपमार्थे भवति ।
वृक्षस्य॒ नु ते पुरुहूत वयाः ।
वृक्षस्येव ते पुरुहूत शाखाः । वयाः शाखा वेतेः । वातायना भवन्ति । शाखाः खशयाः । शक्नोतेर्वा ।
अथ यस्यागमादर्थपृथक्त्वमह विज्ञायते न त्वौद्देशिकमिव विर्ग्रहेण पृथक्त्वात्स कर्मोपसंग्रहः ।
चेति समुच्चयार्थ उभाभ्यां संप्रयुज्यते ।
अहं च त्वं च वृत्रहन् । इति ।
एतस्मिन्नेवार्थे ।
देवेभ्यश्च पितृभ्य आ । इत्याकारः ।
वेति विचारणार्थे ।
हन्ताहं पृथिवीमिमां न दधानीह वेह वा । इति ।
अथापि समुच्चयार्थे भवति १.४

वायुर्वा त्वा मनुर्वा त्वा । इति ।
अह इति च ह इति च विनिग्रहार्थीया । पूर्वेण संप्रयुज्येते ।
अयमहेदं करोत्वयमिदम् । इदं ह करिष्यतीदं न करिष्यतीति ।
अथाप्युकार एतस्मिन्नेवार्थ उत्तरेण । मृषेमे वदन्ति सत्यमु ते वदन्तीति । अथापि पदपूरणः ।
इदमु । तदु ।
हीत्येषोऽनेककर्मा । इदं हि करिष्यति । इति हेत्वपदेशे ।
कथं हि करिष्यति । इत्यनुपृष्टे । कथं हि व्याकरिष्यति । इत्यसूयायाम् ।
किलेति विद्याप्रकर्षे । एवं किलेति । अथापि न ननु इत्येताभ्यां संप्रयुज्यतेऽनुपृष्टे । न किलैवम् । ननु किलैवम् ।
मेति प्रतिषेधे । मा कार्षीः । मा हार्षीरिति च ।
खल्विति च । खलु कृत्वा । खलु कृतम् । अथापि पदपूरणः । एवं खलु तद् बभूवेति ।
शश्वदिति विचिकित्सार्थीयो भाषायाम् । शश्वदेवम् । इत्यनुपृष्टे । एवं शश्वत् । इत्यस्वयं पृष्टे ।
नूनमिति विचिकित्सार्थीयो भाषायाम् । उभयमन्वध्यायं विचिकित्सार्थीयश्च पदपूरणश्च ।
अगस्त्य इन्द्राय हविर्निरूप्य मरुद्भ्यः संप्रदित्सांचकार । स इन्द्र एत्य परिदेवयांचक्रे १.५

न नूनमस्ति नो श्वः कस्तद्वेद् यदद्भुतम् ।
अन्यस्य॑ चित्तम॒भि संचरेण्यमुताधीतं विनश्यति ॥
न नूनमस्त्यद्यतनम् । नो एव श्वस्तनम् । अद्यास्मिन् द्यवि । धुरित्यह्नो नामधेयम् । द्योतत इति सतः ।
श्व उपाशंसनीयः कालः । ह्यो हीनः कालः । कस्तद्वेद यदद्भुतम् । कस्तद्वेद यदभूतम् । इदमपीतरदद्भुतमभूतमिव । अन्यस्य चित्तम् । अभिसंचरेण्यमभिसंचारि । अन्यो नानेयः । चित्तं चेततेः । उताधीतं विनश्यतीति । अप्याध्यातं विनश्यति आध्यातमभिप्रेतम् । अथापि पदपूरणः १.६

नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥
सा ते प्रतिदुग्धां वरं जरित्रे । वरो वरयितव्यो भवति । जरिता गरिता ।
दक्षिणा मघोनी मघवती । मघमिति धननामधेयम् ।
मंहतेर्दानकर्मणः । दक्षिणा दक्षतेः समर्धयतिकर्मणः । व्यृद्धं समर्धयतीति । अपि वा प्रदक्षिणागमनात् । दिशमभिप्रेत्य । दिग्घस्तप्रकृतिर्दक्षिणो हस्तः । दक्षतेरुत्साहकर्मणः । दाशतेर्वा स्याद् दानकर्मणः । हस्तो हन्तेः । प्राशुर्हनने । देहि स्तोतृभ्यः कामान् । मास्मानतिदंहीः । मास्मानतिहाय दाः । भगो नोऽस्तु । बृहद्वदेम स्वे वेदने । भगो भजतेः । बृहदिति महतो नामधेयम् । परिवृह्ळं भवति । वीरवन्तः कल्याणवीरा वा । वीरो वीरयत्यमित्रान् । वेतेर्वा स्याद्गतिकर्मणः वीरयतेर्वा ।
सीमिति परिग्रहार्थीयो वा पदपूरणो वा ।
प्र सीमादित्यो असृजत् ।
प्रासृजदिति वा । प्रासृजत् सर्वत इति वा ।
वि सीमतः सुरुचो वेन आवः । इति च ।
व्यवृणोत् सर्वत आदित्यः । सुरुच आदित्यरश्मयः । सुरोचनात् । अपि वा सीमेत्येतदनर्थकमुपबन्धमाददीत पंचमीकर्माणम् ।
सीम्नः सीमतः सीमातो मर्यादातः । सीमा मर्यादा । विषीव्यति देशाविति । त्व इति विनिग्रहार्थीयम् । सर्वनामानुदात्तम् । अर्धनामेत्येके १.७

ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां य॒ज्ञस्य मात्रां वि मिमीत उ त्वः ॥
इत्यृत्विक्कर्मणां विनियोगमाचष्टे । ऋचामेकः पोषमास्ते पुपुष्वान् । होता । ऋगर्चनी । गायत्रमेको गायति शक्वरीषु । उद्गाता । गायत्रं गायतेः स्तुतिकर्मणः । शक्वर्य ऋचः । शक्नोतेः । तद् यदाभिर्वृत्रमशकद्धन्तुं तच्छक्वरीणां शक्वरीत्वम् । इति विज्ञायते । ब्रह्मैको जाते जाते विद्यां वदति । ब्रह्मा । सर्वविद्यः । सर्वं वेदितुमर्हति । ब्रह्मा परिवृह्ळः श्रुततः । ब्रह्म परिवृह्ळं सर्वतः । यज्ञस्य मात्रां विमिमीत एकः । अध्वर्युः । अध्वर्युरध्वरयुः । अध्वरं युनक्ति । अध्वरस्य नेता । अध्वरं कामयत इति वा । अपि वाधीयाने युरुपबन्धः । अध्वर इति यज्ञनाम । ध्वरतिर्हिँसाकर्मा । तत्प्रतिषेधः । निपात इत्येके । तत्कथमनुदात्तप्रकृति नाम स्यात् । दृष्टव्ययं तु भवति ।
उत त्वं सख्ये स्थिरपीतमाहुः । इति द्वितीयायाम् ।
उतो त्वस्मै तन्वं १ वि सस्रे । इति चतुर्थ्याम् ।
अथापि प्रथमाबहुवचने १.८

अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥
अक्षिमन्तः कर्णवन्तः सखायः । अक्षि चष्टेः ।
अनक्तेरित्याग्रायणः ।
तस्मादेते व्यक्ततरे इव भवतः ।
इति ह विज्ञायते । कर्णः कृन्ततेः । निकृत्तद्वारो भवति ।
ऋच्छतेरित्याग्रायणः ।
ऋच्छन्तीव खे उदगन्ताम् ।
इति ह विज्ञायते । मनसां प्रजवेष्वसमा बभूवुः । आस्यदघ्ना अपरे । उपकक्षदघ्ना अपरे । आस्यमस्यतेः । आस्यन्दत एनदन्नमिति वा । दघ्नं दघ्यतेः स्रवतिकर्मणः । दस्यतेर्वा स्यात् । विदस्ततरं भवति । प्रस्नेया हृदा इवैके ददृशिरे । प्रस्नेया स्नानार्हाः । ह्रदो ह्रादतेः शब्दकर्मणः । ह्लादतेर्वा स्याच्छीतीभावकर्मणः ।
अथापि समुच्चयार्थे भवति ।
पर्याया इव त्वदाश्विनम् ।
आश्विनं च पर्यायाश्चेति ।
अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति पदपूरणास्ते मिताक्षरेष्वनर्थकाः । कमीमिद्विति १.९

निष्ट्वक्त्रासश्चिदिन्नरो भूरितोका वृकादिव ।
बिभ्यस्यन्तो ववाशिरे शिशिरं जीवनाय कम् ॥
शिशिरं जीवनाय । शिशिरं शृणातेः शम्नातेर्वा ।
एमेनं सृजता सुते । आसृजतैनं सुते ।
तमिद्वर्धन्तु नो गिरः ।
तं वर्धयन्तु नो गिरः स्तुतयः । गिरो गृणातेः ।
अयमु ते सम॑तसि ।
अयं ते समतसि ।
इवोऽपि दृश्यते । सु विदुरिव । सु विज्ञायेते इव ।
अथापि नेत्येष इदित्येतेन संप्रयुज्यते परिभये १.१०

हविर्भिरेके स्वरितः सचन्ते सुन्वन्त एके सवनेषु सोमा॑न् ।
शचीर्मदन्त उत दक्षिणाभिर्नेज्जिह्माय॑न्त्यो नरकं पताम । इति नरकं न्यरकं नीचैर्गमनम् । नास्मिन् रमणं स्थानमल्पमप्यस्तीति वा ।
अथापि न चेत्येष इदित्येतेन संप्रयुज्यतेऽनुपृष्टे । न चेत् सुरां पिबन्तीति ।
सुरा सुनोतेः । एवमुच्चावचेष्वर्थेषु निपतन्ति । त उपेक्षितव्याः १.११

इतीमानि चत्वारि पदजातान्यनुक्रान्तानि । नामाख्याते चोपसर्गनिपाताश्च ।
तत्र नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च । न सर्वाणीति गार्ग्यो वैयाकरणानां चैके तद् यत्र स्वरसंस्कारौ समर्थौ प्रादेशिकेन विकारेणान्वितौ स्याताम् । संविज्ञातानि तानि यथा गौरश्वः पुरुषो हस्तीति ।
अथ चेत् सर्वाण्याख्यातजानि नामानि स्युर्यः कश्च तत्कर्म कुर्यात् सर्वं तत् सत्त्वं तथाचक्षीरन् । यः कश्चाध्वानमश्नुवीताश्वः स वचनीयः स्यात् । यत् किञ्चित्तृंद्यात् तृणं तत् ।
अथापि चेत् सर्वाण्याख्यातजानि नामानि स्युर्यावद्भिर्भावैः संप्रयुज्येत तावद्भ्यो नामधेयप्रतिलम्भः स्यात् । तत्रैवं स्थूणा दरशया वा सञ्जनी च स्यात् १.१२

अथापि य एषां न्यायवान् कार्मनामिकः संस्कारो यथा चापि प्रतीतार्थानि स्युस्तथैनान्याचक्षीरन् ।
पुरुषं पुरिशय इत्याचक्षीरन् ।
अष्टेत्यश्वम् । तर्दनमिति तृणम् । अथापि निष्पन्नेऽभिव्याहारेऽभिविचारयन्ति । प्रथनात्पृथिवीत्याहुः । क एनामप्रथयिष्यत् । किमाधारश्चेति । अथानन्वितेऽर्थेऽप्रादेशिके विकारे पदेभ्यः पदेतरार्धान्त्संचस्कार शाकटायनः ।
एतेः कारितं च यकारादिं चान्तकरणमस्तेः शुद्धं च सकारादिं च ।
अथापि सत्त्वपूर्वो भाव इत्याहुः । अपरस्माद्भावात् पूर्वस्य प्रदेशो नोपपद्यत इति । तदेतन्नोपपद्यते १.१३ ।

यथो हि नु वा एतत् तद् यत्र स्वरसंस्कारौ समर्थौ प्रादेशिकेन विकारेणान्वितौ स्यातां सर्वं प्रादेशिकमित्येवं सत्यनुपालम्भ एष भवति ।
यथो एतद् यः कश्च तत्कर्म कुर्यात् सर्वं तत् सत्त्वं तथाचक्षीरन्निति पश्यामः समानकर्मणां नामधेयप्रतिलम्भमेकेषां नैकेषां यथा तक्षा परिव्राजको जीवनो भूमिज इति ।
एतेनैवोत्तरः प्रत्युक्तः ।
यथो एतद् यथा चापि प्रतीतार्थानि स्युस्तथैनान्याचक्षीरन्निति सन्त्यल्पप्रयोगाः कृतोऽप्यैकपदिका यथा व्रततिर्दमूना जाट्य आट्णारो जागरूको दर्विहोमीति ।।
यथो एतन्निष्पन्नेऽभिव्याहारेऽभिविचारयन्तीति भवति हि निष्पन्नेऽभिव्याहारे योगपरीष्टिः । प्रथनात्पृथिवीत्याहुः । क एनामप्रथयिष्यत् किमाधारश्चेति । अथ वै दर्शनेन पृथुः ।
अप्रथिता चेदप्यन्यैः । अथाप्येवं सर्व एव दृष्टप्रवादा उपालभ्यन्ते । यथो एतत्पदेभ्यः पदेतरार्धान्त्संचस्कारेति योऽनन्वितेऽर्थे संचस्कार स तेन गर्यःत् । सैषा पुरुषगर्हा न शास्त्रगर्हा इति ।
यथो एतदपरस्माद् भावात्पूर्वस्य प्रदेशो नोपपद्यत इति पश्यामः पूर्वोत्पन्नानां सत्त्वानामपरस्माद्भावान्नामधेयप्रतिलम्भमेकेषां नैकेषां यथा बिल्वादो लम्बचूडक इति । बिल्वं भरणाद्वा भेदनाद्वा १.१४

अथापीदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यते । अर्थमप्रतियतो नात्यन्तं स्वरसंस्कारोद्देशः । तदिदं विद्यास्थानं व्याकरणस्य कार्त्स्न्यम् । स्वार्थसाधकं च । यदि मन्त्रार्थप्रत्ययायानर्थकं भवतीति कौत्सः । अनर्थका हि मन्त्राः । तदेतेनोपेक्षितव्यम् ।
नियतवाचो युक्तयो नियतानुपूर्व्या भवन्ति ।
अथापि ब्राह्मणेन रूपसंपन्ना विधीयन्ते ।
उरु प्रथस्व । इति प्रथयति ।
प्रोहाणि । इति प्रोहति ।
अथाप्यनुपपन्नार्था भवन्ति ।
ओषधे त्राय॑स्वैनम् । स्वधिते मैनं हिंसीः । इत्याह हिंसन् ।
अथापि विप्रतिषिद्धार्था भवन्ति ।
एक एव रुद्रोऽवतस्थे न द्वितीयः ।
असंख्याता सहस्राणि ये रुद्रा अधि भूम्या॑म् ।
अशत्रुरिन्द्र जज्ञिषे ।
शतं सेना अजयत् साकमिन्द्रः । इति ।
अथापि जानन्तं संप्रेष्यति ।
अग्नये समिध्यमानायानुब्रूहि । इति ।
अथाप्याहादितिः सर्वमिति ।
अदितिर्द्यौरदितिरन्तरिक्षम् । इति ।
तदुपरिष्टाद् व्याख्यास्यामः ।
अथाप्यविस्पष्टार्था भवन्ति ।
अम्य॑क् । यादृश्मिन् । जारयायि । काणुका । इति १.१५

अर्थवन्तः शब्दसामान्यात् ।
एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृग्यजुर्वाभिवदति । इति च ब्राह्मणम् ।
क्रीळन्तौ पुत्रैर्नप्तृभिः । इति ।
यथो एतन्नियतवाचो युक्तयो नियतानुपूर्व्या भवन्तीति लौकिकेष्वप्येतत् । यथा । इन्द्राग्नी । पितापुत्रौ । इति । यथो एतद् ब्राह्मणेन रूपसंपन्ना विधीयन्त इत्युदितानुवादः स भवति ।
यथो एतदनुपपन्नार्था भवन्तीत्याम्नायवचनादहिंसा प्रतीयेत ।
यथो एतद् विप्रतिषिद्धार्था भवन्तीति लौकिकेष्वप्येतत् । यथा । असपत्नोऽयं ब्राह्मणः । अनमित्रो राजा । इति ।
यथो एतज्जानन्तं संप्रेष्यतीति जानन्तमभिवादयते । जानते मधुपर्कं प्राह इति । यथो एतददितिः सर्वमिति लौकिकेष्वप्येतत् । यथा । सर्वरसा अनुप्राप्ताः पानीयम् । इति ।
यथो एतदविस्पष्टार्था भवन्तीति नैष स्थाणोरपराधो यदेनमन्धो न पश्यति ।
पुरुषापराधः स भवति । यथा जानपदीषु विद्यातः पुरुषविशेषो भवति पारोवर्यवित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवति १.१६

अथापीदमन्तरेण पदविभागो न विद्यते ।
अवसाय पद्वते रुद्र मृळ । इति ।
पद्वदवसं गावः पथ्यदनम् । अवतर्गत्यर्थस्यासो नामकरणः । तस्मान्नावगृह्णन्ति ।
अवसायाश्वान् । इति ।
स्यतिरुपसृष्टो विमोचने । तस्मादवगृह्णन्ति ।
दूतो निर्ऋत्या इदमा जगाम । इति ।
पंचम्यर्थप्रेक्षा वा । षष्ठ्यर्थप्रेक्षा वा । आःकारान्तम् ।
परो निर्ऋत्या आ चक्ष्व । इति ।
चतुर्थ्यर्थप्रेक्षा । ऐकारान्तम् ।
परः सन्निकर्षः संहिता । पदप्रकृतिः संहिता । पदप्रकृतीनि सर्वचरणानां पार्षदानि । अथापि याज्ञे दैवतेन बहवः प्रदेशा भवन्ति । तदेतेनोपेक्षितव्यम् । ते चेद् ब्रूयुर्लिङ्गज्ञा अत्र स्म इति ।
इन्द्रं न त्वा शव॑सा देवता वायुं पृणन्ति । इति ।
वायुलिङ्गं चेन्द्रलिङ्गं चाग्नेये मन्त्रे ।
अग्निरिव मन्यो त्विषितः सहस्व । इति ।
तथाग्निर्मान्यवे मन्त्रे । त्विषितो ज्वलितः । त्विषिरित्यप्यस्य दीप्तिनाम भवति । अथापि ज्ञानप्रशंसा भवति । अज्ञाननिन्दा च १.१७

स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् ।
योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ॥
यद् गृहीतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥
स्थाणुस्तिष्ठतेः । अर्थोऽर्तेः । अरणस्थो वा १.१८

उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं१ वि सस्रे जायेव पत्य उशती सुवासाः ॥
अप्येकः पश्यन्न पश्यति वाचम् । अपि च शृण्वन्न शृणोत्येनाम् । इत्यविद्वांसमाहार्धम् । अप्येकस्मै तन्वं विसस्र इति स्वमात्मानं विवृणुते । ज्ञानं प्रकाशनमर्थस्याह । अनया वाचा । उपमोत्तमया वाचा । जायेव पत्ये कामयमाना सुवासाः ऋतुकालेषु सुवासाः कल्याणवासाः कामयमानाः । ऋतुकालेषु यथा स एनां पश्यति स शृणोति । इत्यर्थज्ञप्रशंसा । तस्योत्तरा भूयसे निर्वचनाय १.१९

उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु ।
अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम् ॥
अप्येकं वाक्सख्ये । स्थिरपीतमाहू रममाणं विपीतार्थम् । देवसख्ये । रमणीये स्थान इति वा । विज्ञातार्थम् । यं नाप्नुवन्ति वाग्ज्ञेयेषु बलवत्स्वपि । अधेन्वा ह्येष चरति मायया ।
वाक्प्रतिरूपया । नास्मै कामान्दुग्धे वाग्दोह्यान् देवमनुष्यस्थानेषु यो वाचं श्रुतवान् भवत्यफलामपुष्पामिति । अफलास्मा अपुष्पा वाग्भवतीति वा । किंचित्पुष्पफलेति वा । अर्थं वाचः पुष्पफलमाह । याज्ञदैवते पुष्पफले । देवताध्यात्मे वा । साक्षात्कृतधर्माण ऋषयो बभूवुः । तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान्संप्रादुः । उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुः । वेदं च वेदाङ्गानि च । विल्मं भिल्मं भासनमिति वा ।
एतावन्तः समानकर्माणो धातवः । धातुर्दधातेः । एतावन्त्यस्य सत्त्वस्य नामधेयानि । एतावतामर्थानामिदमभिधानम् । नैघंटुकमिदं देवतानाम् । प्राधान्येनेदमिति । तद् यदन्यदैवते मन्त्रे निपतति नैघंटुकं तत् ।
अश्वं न त्वा वारवन्तम् ।
अश्वमिव त्वा वालवन्तम् । वाला दंशवारणार्था भवन्ति । दंशो दशतेः ।
मृगो न भीमः कुचरो गिरिष्ठाः ।
मृग इव भीमः कुचरो गिरिष्ठाः । मृगो मार्ष्टेर्गतिकर्मणः । भीमो बिभ्यत्यस्मात् ।। भीष्मोऽप्येतस्मादेव । कुचर इति चरति कर्म कुत्सितम् । अथ चेद् देवताभिधानम् । क्वायं न चरतीति । गिरिष्ठा गिरिस्थायी । गिरिः पर्वतः ।
समुद्गीर्णो भवति । पर्ववान् पर्वतः । पर्व पुनः पृणातेः प्रीणातेर्वा । अर्धमासपर्व । देवानस्मिन्प्रीणन्तीति । तत् प्रकृतीतरत्सन्धिसामान्यात् । मेघस्थायि । मेघोऽपि
गिरिरेतस्मादेव ।
तद् यानि नामानि प्राधान्यस्तुतीनां देवतानां तद् दैवतमित्याचक्षते । तदुपरिष्टाद् व्याख्यास्यामः । नैघण्टुकानि नैगमानीहेह १.२०

समाम्नायस्तत्रचतुष्ट्वमतोऽन्येऽथ निपाता वायुर्वात्वा न नूनं नूनं सा त
ऋचान्त्वोऽक्षण्वन्तो निष्ट्वक्त्रासो हविर्भिरितीमान्यथापि यो यथो हि न्वथापीदमर्थवन्तोऽथापीदं स्थाणुरयमुत त्वः पश्यन्नुत त्वं सख्ये विंशतिः ॥
इति निरुक्ते पूर्वषट्के प्रथमोऽध्यायः समाप्तः