ऋग्वेदः सूक्तं १०.२१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.२१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.२० ऋग्वेदः - मण्डल १०
सूक्तं १०.२१
ऐन्द्रो विमदः, प्राजापत्यो वा,वासुक्रो वसुकृद्वा।
सूक्तं १०.२२ →
दे. अग्निः। आस्तारपङ्क्तिः



आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे ।
यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे ॥१॥
त्वामु ते स्वाभुवः शुम्भन्त्यश्वराधसः ।
वेति त्वामुपसेचनी वि वो मद ऋजीतिरग्न आहुतिर्विवक्षसे ॥२॥
त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव ।
कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥३॥
यमग्ने मन्यसे रयिं सहसावन्नमर्त्य ।
तमा नो वाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे ॥४॥
अग्निर्जातो अथर्वणा विदद्विश्वानि काव्या ।
भुवद्दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे ॥५॥
त्वां यज्ञेष्वीळतेऽग्ने प्रयत्यध्वरे ।
त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ॥६॥
त्वां यज्ञेष्वृत्विजं चारुमग्ने नि षेदिरे ।
घृतप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे ॥७॥
अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् ।
अभिक्रन्दन्वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ॥८॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

सायणभाष्यम्

‘आग्निं न' इत्यष्टर्चं पञ्चमं सूक्तमास्तारपङ्क्तिच्छन्दस्कम् । आद्यौ गायत्रौ पादौ ततो द्वौ जागतौ सास्तापङ्क्तिः । ऋषिदेवते पूर्ववत् । तथा चानुक्रान्तम्----’आग्निं नाष्टावास्तारपाङ्क्तम्' इति । पृष्ठ्यस्य चतुर्थेऽहनि ‘आग्निं न स्ववृक्तिभिरित्याज्यम्' (आश्व. श्रौ, ७. ११) इति । महाव्रत आग्निमारुते यावतीष्वृक्ष्विळान्दं साम स्तुवीरन् तदानीमादितस्तावत्य ऋचोऽनुरूपार्थाः । सूत्रितं च-’यदीळान्दं भूयसीषु चेत् स्तुवीरन्नाग्निं न स्ववृक्तिभिरिति तावतीनुरूपः' (ऐ. आ. ५. ३. २) इति ॥


आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे ।

य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे ॥१

आ । अ॒ग्निम् । न । स्ववृ॑क्तिऽभिः । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ।

य॒ज्ञाय॑ । स्ती॒र्णऽब॑र्हिषे । वि । वः॒ । मदे॑ । शी॒रम् । पा॒व॒कऽशो॑चिषम् । विव॑क्षसे ॥

आ । अग्निम् । न । स्ववृक्तिऽभिः । होतारम् । त्वा । वृणीमहे ।

यज्ञाय । स्तीर्णऽबर्हिषे । वि । वः । मदे । शीरम् । पावकऽशोचिषम् । विवक्षसे ॥

हे अग्ने “वः तव स्वभूते “विमदे एतदाख्य ऋषौ मयीयं स्तुतिः प्रवृत्तास्ति । “न इति संप्रत्यर्थे । अतो वयमिदानीं “स्ववृक्तिभिः स्वयंकृताभिर्दोषवर्जिताभिः स्तुतिभिः “होतारं देवानामाह्वातारं होमनिष्पादकं वा “अग्निं “त्वा त्वाम् “आ “वृणीमहे आभिमुख्येन संभजामहे । किमर्थम् । “स्तीर्णबर्हिषे यज्ञाय। तादर्थ्ये चतुर्थी । यज्ञार्थम् । कीदृशम् । “शीरम् ओषध्यादिषु सर्वत्रानुशायिनं “पावकशोचिषं शोधकदीप्तिम् । “विवक्षसे । महन्नामैतत् । हे अग्ने त्वमपि महान् भवसि । यद्वा । विमदे यज्ञस्य संबन्धिनः सोमस्य पानजन्यविविधमदार्थं त्वामावृणीमह इति योज्यम् ॥


त्वामु॒ ते स्वा॒भुवः॑ शुं॒भंत्यश्व॑राधसः ।

वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ॥२

त्वाम् । ऊं॒ इति॑ । ते । सु॒ऽआ॒भुवः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः ।

वेति॑ । त्वाम् । उ॒प॒ऽसेच॑नी । वि । वः॒ । मदे॑ । ऋजी॑तिः । अ॒ग्ने॒ । आऽहु॑तिः । विव॑क्षसे ॥

त्वाम् । ऊं इति । ते । सुऽआभुवः । शुम्भन्ति । अश्वऽराधसः ।

वेति । त्वाम् । उपऽसेचनी । वि । वः । मदे । ऋजीतिः । अग्ने । आऽहुतिः । विवक्षसे ॥

“स्वाभुवः स्वप्रकाशेन दीप्यमानाः “अश्वराधसः व्याप्तधनाः “ते यजमानाः हे अग्ने “त्वामु त्वामेव “शुम्भन्ति शोभयन्ति । यज्ञे हविर्भिर्दीपयन्तीत्यर्थः । किंच “उपसेचनी तवोपरि क्षरणशीला “ऋजीतिः ऋजुगामिनी हूयमाना “आहुतिः हे “अग्ने “त्वां “वेति गच्छति । किमर्थम् । “वः तव “मदे मदनिमित्ते । तृप्त्यर्थमित्यर्थः । किंच त्वमपि “विवक्षसे महान् भवसि ॥


त्वे ध॒र्माण॑ आसते जु॒हूभिः॑ सिंच॒तीरि॑व ।

कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो॑ धिषे॒ विव॑क्षसे ॥३

त्वे इति॑ । ध॒र्माणः॑ । आ॒स॒ते॒ । जु॒हूभिः॑ । सि॒ञ्च॒तीःऽइ॑व ।

कृ॒ष्णा । रू॒पाणि॑ । अर्जु॑ना । वि । वः॒ । मदे॑ । विश्वाः॑ । अधि॑ । श्रियः॑ । धि॒षे॒ । विव॑क्षसे ॥

त्वे इति । धर्माणः । आसते । जुहूभिः । सिञ्चतीःऽइव ।

कृष्णा । रूपाणि । अर्जुना । वि । वः । मदे । विश्वाः । अधि । श्रियः । धिषे । विवक्षसे ॥

“धर्माणः यज्ञस्य धारयितार ऋत्विजः “जुहूभिः संपूर्णाहुतिभिर्होमपात्रैः “त्वे त्वामेव “आसते उपासते सेवन्ते । तत्र दृष्टान्तः । “सिञ्चतीरिव । वृष्टिलक्षणाः पृथिवीं सिञ्चन्त्य आपोऽग्निं यथा स्वपितृत्वेन सेवन्ते तद्वत् । अग्नेरापः' (तै. आ. ८.१ ) इति श्रुतेस्तस्यापां पितृत्वम् । यद्वा । जुहूभिः सिञ्चतीरिव सिच्यमाना आहुतय इव धर्माणस्त्वया धार्यमाणा रश्मयस्त्वे त्वय्यासते निवसन्ति । हे अग्ने त्वं “कृष्णा कृष्णवर्णानि “अर्जुना अर्जुनानि श्वेतवर्णानि ज्वालान्तर्गतरूपाणि च “विश्वाः सर्वाः “श्रियः शोभाः “अधि “धिषे अधिकं यथा भवति तथा धारयसि । किमर्थम् । “वः युष्माकं सर्वेषां देवानां “विमदे विविधसोमपानजन्यमदार्थम् । यत एवमतः “विवक्षसे त्वं महान् भवसि ॥


यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य ।

तमा नो॒ वाज॑सातये॒ वि वो॒ मदे॑ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे ॥४

यम् । अ॒ग्ने॒ । मन्य॑से । र॒यिम् । सह॑साऽवन् । अ॒म॒र्त्य॒ ।

तम् । आ । नः॒ । वाज॑ऽसातये । वि । वः॒ । मदे॑ । य॒ज्ञेषु॑ । चि॒त्रम् । आ । भ॒र॒ । विव॑क्षसे ॥

यम् । अग्ने । मन्यसे । रयिम् । सहसाऽवन् । अमर्त्य ।

तम् । आ । नः । वाजऽसातये । वि । वः । मदे । यज्ञेषु । चित्रम् । आ । भर । विवक्षसे ॥

हे “अमर्त्य अमरणधर्मन् “सहसावन् बलवन् एवंभूत हे “अग्ने त्वं “यं “रयिं “मन्यसे सर्वेषु धनेषु यद्धनं वरिष्ठमिति जानासि “चित्रं चायनीयं “तं रयिं “नः अस्माकं “वाजसातये अन्नलाभाय “आ “भर आहर प्रयच्छ । किमर्थम् । “वः युष्माकं सर्वेषां देवानां “यज्ञेषु “विमदे विविधसोमादिहविर्जन्यमदनिमित्ते । यागेषु नानाप्रकारैर्हविर्भिर्युष्माकं तर्पणायेत्यर्थः । त्वमपि “विवक्षसे महान् भवसि ।।


अ॒ग्निर्जा॒तो अथ॑र्वणा वि॒दद्विश्वा॑नि॒ काव्या॑ ।

भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे॑ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ॥५

अ॒ग्निः । जा॒तः । अथ॑र्वणा । वि॒दत् । विश्वा॑नि । काव्या॑ ।

भुव॑त् । दू॒तः । वि॒वस्व॑तः । वि । वः॒ । मदे॑ । प्रि॒यः । य॒मस्य॑ । काम्यः॑ । विव॑क्षसे ॥

अग्निः । जातः । अथर्वणा । विदत् । विश्वानि । काव्या ।

भुवत् । दूतः । विवस्वतः । वि । वः । मदे । प्रियः । यमस्य । काम्यः । विवक्षसे ॥

“अथर्वणा एतन्नाम्नर्षिणा "जातः जनितः “अग्निः । कथमवगम्यते । ' त्वामग्ने पुष्करादध्यथर्वा निरमन्थत' (ऋ. सं. ६. १६. १३) इति मन्त्रान्तरात् । “विश्वानि समस्तानि "काव्या काव्यानि स्तोतृकर्माणि “विदत् वेत्ति । “विवस्वतः यजमानस्य “दूतः देवानामाह्वानार्थं “भुवत् भवति । किंच “यमस्य संयन्तुर्यजमानस्य “प्रियः इष्टः सन् “काम्यः कमनीयः प्रार्थनीयो भवतीत्यर्थः । शिष्टं स्पष्टम् ॥ ॥ ४ ॥


त्वां य॒ज्ञेष्वी॑ळ॒तेऽग्ने॑ प्रय॒त्य॑ध्व॒रे ।

त्वं वसू॑नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा॑ दधासि दा॒शुषे॒ विव॑क्षसे ॥६

त्वाम् । य॒ज्ञेषु॑ । ई॒ळ॒ते॒ । अग्ने॑ । प्र॒ऽय॒ति । अ॒ध्व॒रे ।

त्वम् । वसू॑नि । काम्या॑ । वि । वः॒ । मदे॑ । विश्वा॑ । द॒धा॒सि॒ । दा॒शुषे॑ । विव॑क्षसे ॥

त्वाम् । यज्ञेषु । ईळते । अग्ने । प्रऽयति । अध्वरे ।

त्वम् । वसूनि । काम्या । वि । वः । मदे । विश्वा । दधासि । दाशुषे । विवक्षसे ॥

हे “अग्ने “त्वां “प्रयति प्रकर्षेण गच्छति प्रवर्तमाने “अध्वरे यागे “यज्ञेषु यजनीयेषु हविःष्वासन्नेषु सत्सु “ईळते ऋत्विग्यजमानाः स्तुवन्ति । अपि च हे अग्ने “त्वं “विश्वा विश्वानि “काम्या काम्यानि कमनीयानि “वसूनि धनानि “दाशुषे हविर्दत्तवते यजमानाय “विमदे सोमादिहविर्जन्यतृप्तौ सत्यां “दधासि प्रयच्छसि । अतः कारणात् "विवक्षसे त्वं महान् भवसि ॥


त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे॑दिरे ।

घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ॥७

त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । चारु॑म् । अ॒ग्ने॒ । नि । से॒दि॒रे॒ ।

घृ॒तऽप्र॑तीकम् । मनु॑षः । वि । वः॒ । मदे॑ । शु॒क्रम् । चेति॑ष्ठम् । अ॒क्षऽभिः॑ । विव॑क्षसे ॥

त्वाम् । यज्ञेषु । ऋत्विजम् । चारुम् । अग्ने । नि । सेदिरे ।

घृतऽप्रतीकम् । मनुषः । वि । वः । मदे । शुक्रम् । चेतिष्ठम् । अक्षऽभिः । विवक्षसे ॥

हे “अग्ने “त्वां मनुष्या यजमानाः “यज्ञेषु यागेषु “नि “षेदिरे नियमेन स्थापयन्ति । कीदृशम् । “ऋत्विजं होतृनामकं “चारु रमणीयं “घृतप्रतीकम् आज्याहुतिपूर्णमुखं “शुक्रं ज्वलन्तम् “अक्षभिः व्याप्तैस्तेजोभिः “चेतिष्ठम् अतिशयेन ज्ञातारम् । किमर्थम् । “वि “वो “मदे तव सोमादिहविर्जन्यविविधतृप्त्यर्थम् । यस्मादेवं तस्मात् “विवक्षसे महान् भवसि ॥


अग्ने॑ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् ।

अ॒भि॒क्रंद॑न्वृषायसे॒ वि वो॒ मदे॒ गर्भं॑ दधासि जा॒मिषु॒ विव॑क्षसे ॥८

अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ । उ॒रु । प्र॒थ॒य॒से॒ । बृ॒हत् ।

अ॒भि॒ऽक्रन्द॑न् । वृ॒ष॒ऽय॒से॒ । वि । वः॒ । मदे॑ । गर्भ॑म् । द॒धा॒सि॒ । जा॒मिषु॑ । विव॑क्षसे ॥

अग्ने । शुक्रेण । शोचिषा । उरु । प्रथयसे । बृहत् ।

अभिऽक्रन्दन् । वृषऽयसे । वि । वः । मदे । गर्भम् । दधासि । जामिषु । विवक्षसे ॥

हे “अग्ने “बृहत् महांस्त्वं “शुक्रेण दीप्तेन “शोचिषा तेजसा “उरु “प्रथयसे विस्तीर्णं यथा भवति तथा प्रख्यातो भवसि । किंच “अभिक्रन्दन् आभिमुख्येन युद्धार्थं शत्रूनाह्वयन् “वृषायसे वृष इवाचरसि । युद्धकाले दर्पितवृष इव रोरुवद्भवसीत्यर्थः । त्वं माध्यमिकः सन् “जामिषु भगिनीभूतास्वोषधीषु “गर्भं बीजलक्षणं “दधासि वृष्टिद्वारेण धारयसि । एकस्मात् प्रजापतेः सकाशादुद्भूतत्वादन्योषध्योर्जामित्वमुपचर्यते । कस्मिन् सति । “वि “वो “मदे तव विविधसोमादिहविर्जन्यमदे संजाते सति । यस्मादेवं कृतवानसि तस्मात्त्वं “विवक्षसे महान् भवसि । विवक्षस इति महन्नाम वक्तेर्वा वहतेर्वा सनन्तस्य रूपमिति ॥ ॥ ५॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.२१&oldid=161305" इत्यस्माद् पुनः प्राप्तिः