ऋग्वेदः सूक्तं २.३५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.३४ ऋग्वेदः - मण्डल २
सूक्तं २.३५
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.३६ →
दे. अपांनपात्। त्रिष्टुप्।


उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ।
अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि ॥१॥
इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत् ।
अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान ॥२॥
समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति ।
तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः ॥३॥
तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः ।
स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु ॥४॥
अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम् ।
कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥५॥
अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः पाहि सूरीन् ।
आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि ॥६॥
स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति ।
सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति ॥७॥
यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति ।
वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः ॥८॥
अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः ।
तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः ॥९॥
हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः ।
हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै ॥१०॥
तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम् ।
यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य ॥११॥
अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः ।
सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वन्द ऋग्भिः ॥१२॥
स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहन्ति ।
सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष ॥१३॥
अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम् ।
आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः ॥१४॥
अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम् ।
विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥१५॥


[सम्पाद्यताम्]

सायणभाष्यम्

' उपेम् ' इति पञ्चदशर्चं तृतीयं सूक्तं गार्त्समदं त्रैष्टुभम् अपांनपाद्देवताकम् । तथा चानुक्रान्तम्- ' उपेमपोनप्त्रीयम् ' इति । सूक्तविनियोगो लैङ्गिकः ।।


उपे॑मसृक्षि वाज॒युर्व॑च॒स्यां चनो॑ दधीत ना॒द्यो गिरो॑ मे ।

अ॒पां नपा॑दाशु॒हेमा॑ कु॒वित्स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ॥१

उप॑ । ई॒म् । अ॒सृ॒क्षि॒ । वा॒ज॒ऽयुः । व॒च॒स्याम् । चनः॑ । द॒धी॒त॒ । ना॒द्यः । गिरः॑ । मे॒ ।

अ॒पाम् । नपा॑त् । आ॒शु॒ऽहेमा॑ । कु॒वित् । सः । सु॒ऽपेश॑सः । क॒र॒ति॒ । जोषि॑षत् । हि ॥१

उप। ईं। असृक्षि। वाजऽयुः । वचस्यां । चनः। दधीत। नाद्यः । गिरः। मे।

अपां। नपात्। आशुऽहेमा। कुवित्। सः। सुऽपेशसः। करति । जोषिषत्। हि ॥१॥

वाजयुर्वाजमन्नमात्मन इच्छन्नहमीमेनां वचस्यां वचसः स्तोत्रस्येच्छामुपासृक्षि । उपासृजामि । उत्पादयामि। अपां नपातं स्तोतुं प्रवृत्तोऽस्मीत्यर्थः ॥ सृजेश्छांदसो लुङ । लिङ्सिचावात्मनेपदेष्विति सिचः कित्त्वाद्गुणाभावः ॥ स च नाद्यो नदीनां शब्दकारिणीनां मेघस्थानामपां संबंधी आशुहेमा आशु शीघ्रं गंता ॥ हि गतावित्यस्मादन्येभ्योऽपि दृश्यंत इति मनिन् ॥ एवंभूतोऽपां नपात् अपां पौत्रस्थानीयः । अद्भ्य ओषधिवनस्पतयो जायंते ओषधिवनस्पतिभ्य एषोऽग्निर्जायत इति तत्पौत्रत्वं । एतत्संज्ञको देवो गिरः । गृणातीति गीः स्तोता । तस्य मे मम कुवित् । बहुनामैतत् । बहुलं चनोऽन्नं दधीत । दधातु । विदधातु । प्रयच्छत्वित्यर्थः । अपि चास्मान् सुपेशसः शोभनरूपान् शोभनालंकारान्वा करति । करोतु ॥ करोतेर्व्यत्ययेन शप् । कःकरत्करतिकृधिकृतेष्वनदितेः । पा० ८. ३.५०.। इति विसर्जनीयस्य सत्वं ॥ हि यस्मादयं देवो जोषिषत्। स्तोत्राणि सेवते तस्मादस्मानेवमनुगृह्णात्वित्यर्थः ॥ जुषी प्रीतिसेवनयोः । लेट्यडागमः । विकरणः सिए । इडागमश्च । हि चेति निघातप्रतिषेधः ॥


इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मन्त्रं॑ वोचेम कु॒विद॑स्य॒ वेद॑त् ।

अ॒पां नपा॑दसु॒र्य॑स्य म॒ह्ना विश्वा॑न्य॒र्यो भुव॑ना जजान ॥२

इ॒मम् । सु । अ॒स्मै॒ । हृ॒दः । आ । सुऽत॑ष्टम् । मन्त्र॑म् । वो॒चे॒म॒ । कु॒वित् । अ॒स्य॒ । वेद॑त् ।

अ॒पाम् । नपा॑त् । अ॒सु॒र्य॑स्य । म॒ह्ना । विश्वा॑नि । अ॒र्यः । भुव॑ना । ज॒जा॒न॒ ॥२

इमं । सु। अस्मै । हृदः । आ । सुऽतष्टं। मंत्रं। वोचेम । कुवित् । अस्य। वेदत् ।।

अपां। नपात् । असुर्यस्य । मह्ना। विश्वानि । अर्यः । भुवना। जजान ॥२॥

अस्मा अपांनपात्संज्ञकाय देवाय हृदो हृदयात् सुतष्टं सुष्टु निर्मितमिमं मंत्रं सुष्ठु आभिमुख्येन वोचेम । ब्रवाम । अस्यास्माभिरुक्तमिमं मंत्रं कुविद्वेदत्। बहुलं जानातु ॥ वेत्तेर्लेट्यडागमः । निपातैर्यद्यदिहंतेति निघातप्रतिषेधः ॥ किं स्तोत्रमिति चेदुच्यते । अर्यः स्वाम्यपांनपात्संज्ञको वैद्युतोऽग्निरसुर्यस्य । असुरः शत्रून् क्षेप्ता। तस्य स्वभूतस्य बलस्य मह्ना महिना महत्त्वेन विश्वानि सर्वाणि भुवना भुवनानि वृष्ट्युदकानि वृष्ट्युत्पादनेन भूतजातानि वा जजान । जनयामास ॥


अपोनप्त्रीये वसतीवरीसमीप एकधनासु प्राप्तासु समन्या यंतीत्येषानुवक्तव्या । सूचितं च । समन्या यंत्युप यंत्यन्या इति तीर्थदेशे । आ° ५.१.। इति ॥ सारस्वते च शस्त्रे यद्यप्सु शम्या निपतेत् तदानीमपोनप्त्रीयश्चरुः कार्यः । तत्रैषैव याज्या । सूचितं च । समन्या यंत्युपयंत्यन्या इत्यातः समानं सर्वेषां । आ° १२. ६.। इति ।

सम॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति ।

तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा॑तं॒ परि॑ तस्थु॒रापः॑ ॥३

सम् । अ॒न्याः । यन्ति॑ । उप॑ । य॒न्ति॒ । अ॒न्याः । स॒मा॒नम् । ऊ॒र्वम् । न॒द्यः॑ । पृ॒ण॒न्ति॒ ।

तम् । ऊं॒ इति॑ । शुचि॑म् । शुच॑यः । दी॒दि॒ऽवांस॑म् । अ॒पाम् । नपा॑तम् । परि॑ । त॒स्थुः॒ । आपः॑ ॥३

सं। अन्याः । यंति । उप। यंति। अन्याः । समानं । ऊर्वं । नद्यः । पृणंति।

तं । ऊं इति। शुचिं। शुचयः। दीदिऽवांसं। अपां। नपातं। परि।तस्थुः। आपः ॥३॥

अन्या व आपो सं यंति । भूम्या संगच्छंते। अन्याश्च पूर्वं तत्रावस्थिता उपयंति। उपगच्छंति । ताः सर्वा आपः समानं सह नद्यो नदीभूता ऊर्वं समुद्रमध्ये वर्तमानं वडवानलं पृणंति ॥ पृण प्रीणने तौदादिकः ॥ तमु तमेवापां नपातं शुचिं निर्मलं दीदिवांसं दीप्यमानं ॥ दीदेतिश्छांदसो दीप्तिकर्मा । लिटः क्वसुः । वस्वेका जाद्धसामिति नियमादिडभावः । छंदसि वेति वक्तव्यमिति वचनाद्द्विर्वचनाभावः ॥ एवंभूतं शुचयः शुद्धा आपः परितस्थुः । परिवृत्य तिष्ठंति । एष हि वैद्युताग्निरूपेण मेघे वर्तमानोऽस्मानजीजनदिति बुद्ध्या वडवानलरूपेण वर्तमानं तं पर्युपासत इत्यर्थः । यद्वा अन्या एकधनाख्या आपः संयंति । चात्वालोत्करयोर्मध्ये वसतीवरीभिः संगच्छंते । अन्या वसतीवर्याख्या आपश्चोपयंति । उपगच्छंति । ऐकमत्यं प्राप्ता भवंति । एताश्च मिलित्वा यज्ञं साधयंत्यस्तत्साध्यवृष्टिद्वारा नद्यो भूत्वोर्वं पृणंतीत्यादि समानं । एवं हि आपो वा अस्पर्धंत वयं पूर्वं यज्ञं वक्ष्यामः । ऐ° ब्रा० २. २०.। इत्यादिकं ब्राह्मणविनियोगश्चानुगृह्यते ॥


तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑ना॒ः परि॑ य॒न्त्यापः॑ ।

स शु॒क्रेभि॒ः शिक्व॑भी रे॒वद॒स्मे दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु ॥४

तम् । अस्मे॑राः । यु॒व॒तयः॑ । युवा॑नम् । म॒र्मृ॒ज्यमा॑नाः । परि॑ । य॒न्ति॒ । आपः॑ ।

सः । शु॒क्रेभिः॑ । शिक्व॑ऽभिः । रे॒वत् । अ॒स्मे इति॑ । दी॒दाय॑ । अ॒नि॒ध्मः । घृ॒तऽनि॑र्निक् । अ॒प्ऽसु ॥४

तं । अस्मेराः। युवतयः । युवानं । मर्मृज्यमानाः। परि। यंति । आपः ।।

सः । शुक्रेभिः। शिक्वऽभिः। रेवत् । अस्मे इति। दीदाय। अनिध्मः। घृतऽर्निर्निक् । अप्ऽसु ॥४॥

तमपां नपातमग्निमस्मेरा अस्मयमाना दर्परहिता युवतयो युवानं युवराजमिव मर्मज्यमाना अत्यर्थमलंकुर्वाणा आपः ॥ मृजू शौचालंकारयोः ॥ परि यंति । परितो गच्छंति प्राप्नुवंति । घृतनिर्निक क्षरणशीलोदकनिर्नेजनः । यद्वा निर्निगिति रूपनाम । दीप्तरूपः सोऽपां नपादग्निरप्सु मेघांतर्गतासु समुद्रगतासु वा मध्येऽनिध्म इंधनरहित एव सन् अस्मे अस्माकं रेवद्धनयुक्तमन्नं यथा भवति तथा शुक्रेभिः शुभैर्निर्मलैः शिक्वभिस्तेजोभिर्दीदाय । दीप्यते ॥


अ॒स्मै ति॒स्रो अ॑व्य॒थ्याय॒ नारी॑र्दे॒वाय॑ दे॒वीर्दि॑धिष॒न्त्यन्न॑म् ।

कृता॑ इ॒वोप॒ हि प्र॑स॒र्स्रे अ॒प्सु स पी॒यूषं॑ धयति पूर्व॒सूना॑म् ॥५

अ॒स्मै । ति॒स्रः । अ॒व्य॒थ्याय॑ । नारीः॑ । दे॒वाय॑ । दे॒वीः । दि॒धि॒ष॒न्ति॒ । अन्न॑म् ।

कृताः॑ऽइव । उप॑ । हि । प्र॒ऽस॒र्स्रे । अ॒प्ऽसु । सः । पी॒यूष॑म् । ध॒य॒ति॒ । पू॒र्व॒ऽसूना॑म् ॥५

अस्मै। तिस्रः । अव्यथ्याय। नारीः । देवाय । देवीः । दिधिषंति । अन्नं ।

कृताःऽइव। उप। हि। प्रऽसर्स्रे। अप्ऽसु । सः। पीयूषं। धयति । पूर्वऽसूनां ॥५॥

नारीर्नेत्र्यस्तिस्रो देवीर्देव्य इळासरस्वतीभारत्याख्या अव्यथ्यायाव्यथनायास्मै देवायापां नपातेऽन्न सोमाख्यं दिधिषंति । धारयंति ॥ धिष शब्दे जौहोत्यादिकः । व्यत्ययेनांत्यादेशः । धातूनामनेकार्थत्वादत्र धारणार्थः ॥ अप्सूदकेषु कृता इवोपप्रसर्स्रे । प्रसरंति ॥ सृ गतौ । लिटीरयो रे इति रेआदेशः । छांदसो हलादिशेषाभावः ॥ यस्मादेवं तस्मात्पूर्वसूनां पूर्वं ब्रह्मणः सकाशादुत्पन्नानामपां पीयूषं सारभूतं सोमाख्यममृतं सोऽपांनपादग्निर्धयति । पिबति ॥ ॥ २२॥


अश्व॒स्यात्र॒ जनि॑मा॒स्य च॒ स्व॑र्द्रु॒हो रि॒षः स॒म्पृचः॑ पाहि सू॒रीन् ।

आ॒मासु॑ पू॒र्षु प॒रो अ॑प्रमृ॒ष्यं नारा॑तयो॒ वि न॑श॒न्नानृ॑तानि ॥६

अश्व॑स्य । अत्र॑ । जनि॑म । अ॒स्य । च॒ । स्वः॑ । द्रु॒हः । रि॒षः । स॒म्ऽपृचः॑ । पा॒हि॒ । सू॒रीन् ।

आ॒मासु॑ । पू॒र्षु । प॒रः । अ॒प्र॒ऽमृ॒ष्यम् । न । अरा॑तयः । वि । न॒श॒न् । न । अनृ॑तानि ॥६

अश्वस्य। अत्र। जनिम। अस्य। च। स्वः। द्रुहः। रिषः। संऽपृचः। पाहि। सूरीन्।

आमासु । पूर्षु। परः। अप्रऽमृष्यं । न। अरातयः। वि।नशन्।न। अनृतानि ॥६॥

अत्रास्मिन्नपांनपात्संज्ञके देवेऽश्वस्य जनिम जन्म भवति । अपांननप्त्रधिष्ठितात्समुद्रादुच्चैःश्रवसो जातत्वात् । किं बहुना । अस्य च स्वः सुष्ठ्वरणीयस्य सर्वस्य जगतो जन्मास्मिन्नेव भवति । अयं हि मेघमध्ये वर्तमानो वृष्टिद्वारेण सर्वं जगज्जनयति । तादृशोऽपांनपात्त्वं द्रुहो द्रोग्धुरपहर्तू रिषो हिंसकस्य च संपृचः संपर्कात्सूरीन स्तोतॄनस्मान्पाहि । रक्ष । आमास्वपरिपक्वासु पूर्षु पूरयितव्यास्वप्सु परः परस्ताद्वर्तमानमप्रमृष्यमप्रधृष्यमाणं देवमरातयोऽदातारः पुरुषा न विनशन्। न प्राप्नुवंति ॥ नशतिर्व्याप्तिकर्मा । लेट्यडागमः ॥ अनृतानि मायाविनो रक्षांसि च न प्राप्नुवंति ॥


स्व आ दमे॑ सु॒दुघा॒ यस्य॑ धे॒नुः स्व॒धां पी॑पाय सु॒भ्वन्न॑मत्ति ।

सो अ॒पां नपा॑दू॒र्जय॑न्न॒प्स्व१॒॑न्तर्व॑सु॒देया॑य विध॒ते वि भा॑ति ॥७

स्वे । आ । दमे॑ । सु॒ऽदुघा॑ । यस्य॑ । धे॒नुः । स्व॒धाम् । पी॒पा॒य॒ । सु॒ऽभु । अन्न॑म् । अ॒त्ति॒ ।

सः । अ॒पाम् । नपा॑त् । ऊ॒र्जय॑न् । अ॒प्ऽसु । अ॒न्तः । व॒सु॒ऽदेया॑य । वि॒ध॒ते । वि । भा॒ति॒ ॥७

स्वे । आ । दमे । सुऽदुघा। यस्य । धेनुः। स्वधां। पीपाय। सुऽभु । अन्नं । अत्ति ।

सः । अपां। नपात्।ऊर्जयन्।अप्ऽसु। अंतः। वसुऽदेयाय। विधते। वि। भाति ॥७॥

योऽपांनपात् स्वे दमे स्वकीये गृहेंऽतरिक्षलक्षण आसीदति । यस्य च धेनुर्माध्यमिका वाक् सुदुघा सुखेन दोग्धव्या भवति । स देवः स्वधां वृष्ट्युदकं पीपाय । वर्धयति ॥ प्यायी वृद्धौ । लिड्यङ्गोश्चेति पीभावः ॥ सुभु सुष्ठु भूतं वृष्टेः सकाशादुत्पन्नं हविर्लक्षणमन्नं चात्ति । भक्षयति । सोऽपांनपात्संज्ञको देवः ऊर्जयन् बलं कुर्वन् अप्स्वंतर्मेघस्थास्वप्सु मध्ये विधते परिचरते यजमानाय वसुदेयाय धनदानार्थं विभाति । विशेषेण दीप्यते ॥


यो अ॒प्स्वा शुचि॑ना॒ दैव्ये॑न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑ ।

व॒या इद॒न्या भुव॑नान्यस्य॒ प्र जा॑यन्ते वी॒रुध॑श्च प्र॒जाभिः॑ ॥८

यः । अ॒प्ऽसु । आ । शुचि॑ना । दैव्ये॑न । ऋ॒तऽवा॑ । अज॑स्रः । उ॒र्वि॒या । वि॒ऽभाति॑ ।

व॒याः । इत् । अ॒न्या । भुव॑नानि । अ॒स्य॒ । प्र । जा॒य॒न्ते॒ । वी॒रुधः॑ । च॒ । प्र॒ऽजाभिः॑ ॥८

यः । अप्ऽसु। आ। शुचिना। देव्यैन। ऋतऽवा। अजस्रः। उर्विया। विऽभाति ।

वयाः । इत् । अन्या। भुवनानि । अस्य। प्र। जायते । वीरुधः। च । प्रऽजाभिः ॥ ८॥

योऽपांनपादृतावा । ऋतमित्युदकनाम । तद्वान् सत्यवान्वा अजस्रो नित्यः एकरूपेण सदा वर्तमानः उर्विया उरुर्विस्तीर्णोऽप्सु मेघस्थासु मध्ये शुचिना शोचकेन दैव्येन देवसंबंधिना तेजसा आ समंताद्विभाति ।। विशेषेण प्रकाशते । अस्यापांनपातोऽन्या अन्यानि भुवनानि सर्वाणि भूतजातानि वया इत शाखा इव । वीरुध ओषधयः प्रजाभिः स्वकीयाभिः पुप्पफलादिभिः सहास्मादेव प्रजायंते ॥


पूर्वोक्ते सारस्वतसवस्यापोनप्त्रीये चरावपां नपादा हीत्येषानुवाक्या । सूत्रितं च । अपां नप्त्रे चरुमपां नपादा ह्यस्थादुपस्थं । आ° १२. ६.। इति ॥

अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः ।

तस्य॒ ज्येष्ठं॑ महि॒मानं॒ वह॑न्ती॒र्हिर॑ण्यवर्णा॒ः परि॑ यन्ति य॒ह्वीः ॥९

अ॒पाम् । नपा॑त् । आ । हि । अस्था॑त् । उ॒पऽस्थ॑म् । जि॒ह्माना॑म् । ऊ॒र्ध्वः । वि॒ऽद्युत॑म् । वसा॑नः ।

तस्य॑ । ज्येष्ठ॑म् । म॒हि॒मान॑म् । वह॑न्तीः । हिर॑ण्यऽवर्णाः । परि॑ । य॒न्ति॒ । य॒ह्वीः ॥९

अपां। नपात्। आ। हि। अस्थात्। उपऽस्थं। जिह्मानां। ऊर्ध्वः। विद्युतं । वसानः।

तस्य । ज्येष्ठं । महिमानं । वहंतीः । हिरण्यऽवर्णाः । परि । यंति । यह्वीः ॥९॥

अपांनपात्संज्ञकोऽग्निरुपस्थमपामुपस्थानमंतरिक्षमा ह्यस्थात् । आस्थितवान् आरूढवान् खलु । किं कुर्वन् । जिह्मानां कुटिलगतीनामपां मध्य ऊर्ध्वः स्वयमूर्ध्वं ज्वलन् विद्युतं विद्योतमानं मेघं वसान आच्छादयन् । अंतरिक्षमास्थाय वर्षणं कृतवान् । तस्य वर्षितुरपांनपातो ज्येष्ठं प्रशस्यतमं महिमानं माहात्म्यं वहंतीर्वहंत्यः सर्वत्र प्रापयंत्यो यह्वीर्यह्व्यो महत्यो हिरण्यवर्णाः । नदीनामैतत् । हिरण्यवन्निर्मलरूपा नद्यः परियंति । परितो गच्छंति । अपांनप्त्रा महती वृष्टिरस्माकं प्रवाहनायोत्पादितेति कृतज्ञतया तदीयं माहात्म्यं सर्वत्र प्रकटयंत्य इव नद्यः प्रवहंतीत्यर्थः ।।


हिर॑ण्यरूप॒ः स हिर॑ण्यसंदृग॒पां नपा॒त्सेदु॒ हिर॑ण्यवर्णः ।

हि॒र॒ण्यया॒त्परि॒ योने॑र्नि॒षद्या॑ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ॥१०

हिर॑ण्यऽरूपः । सः । हिर॑ण्यऽसन्दृक् । अ॒पाम् । नपा॑त् । सः । इत् । ऊं॒ इति॑ । हिर॑ण्यऽवर्णः ।

हि॒र॒ण्यया॑त् । परि॑ । योनेः॑ । नि॒ऽसद्य॑ । हि॒र॒ण्य॒ऽदाः । द॒द॒ति॒ । अन्न॑म् । अ॒स्मै॒ ॥१०

हिरण्यऽरूपः।सः। हिरण्यऽसंदृक्। अपां। नपात्। सः इत् ।ऊं इति। हिरण्यऽवर्णः।

हिरण्ययात्। परि। योनेः । निऽसद्य। हिरण्यऽदाः। ददति । अन्नं । अस्मै॥१०॥

सोऽपांनपात् हिरण्यरूपः । रूप्यत इति रूपं शरीरं । सुवर्णमयशरीरो हितरमणीयशरीरो वा। तथा हिरण्यसंदृक् । सम्यक् पश्यंतीति संदृश इंद्रियाणि । सुवर्णमयेंद्रियो हितरमणीयेंद्रियो वा । सेदु स एवापांनपात् हिरण्यवर्णो हिरण्यसदृशकांतियुक्तः । एवंभूतः सन् हिरण्ययात्सुवर्णमयाद्योनेः स्थानात् पर्युपरि निषद्योपविश्य राजत इति शेषः । अस्मा ईदृग्विधायापां नपाते हिरण्यदा दक्षिणारूपस्य सुवर्णस्य दातारो यजमाना अन्नं हविर्लक्षणं ददति । प्रयच्छंति ॥ ॥ २३॥


तद॒स्यानी॑कमु॒त चारु॒ नामा॑पी॒च्यं॑ वर्धते॒ नप्तु॑र॒पाम् ।

यमि॒न्धते॑ युव॒तय॒ः समि॒त्था हिर॑ण्यवर्णं घृ॒तमन्न॑मस्य ॥११

तत् । अ॒स्य॒ । अनी॑कम् । उ॒त । चारु॑ । नाम॑ । अ॒पी॒च्य॑म् । व॒र्ध॒ते॒ । नप्तुः॑ । अ॒पाम् ।

यम् । इ॒न्धते॑ । यु॒व॒तयः॑ । सम् । इ॒त्था । हिर॑ण्यऽवर्णम् । घृ॒तम् । अन्न॑म् । अ॒स्य॒ ॥११

तत् । अस्य । अनीकं । उत। चारु। नाम। अपीच्यं। वर्धते । नप्तुः । अपां।

यं। इंधते । युवतयः । सं। इत्था। हिरण्यवर्णं । घृतं । अन्नं । अस्य ॥११॥

अस्यापांनप्तुर्देवस्यानीकं रश्मिसमूहरूपं शरीरं चारु शोभनं । उत अपि च अस्य नाम संज्ञा च चारु शोभनं न पातयति न विनाशयतीति नपादिति तद्व्युत्पत्तेः । तदुभयमपीच्यं । अंतर्हितनामैतत् । मेघांतर्हितं सद्वर्धते । युवतयः संगमनस्वभावा आपो हिरण्यवर्णं हिरण्यसमानतेजसं यमपांनपातमित्यामुत्रांतरिक्षे समिंधते । सम्यक् दीपयंति । अस्य च देवस्य घृतं क्षरणशीलमुदकमन्नं भक्ष्यं । अबिंधनो ह्यसौ वैद्युतोऽग्निः ।


अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ ।

सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नै॒ः परि॑ वन्द ऋ॒ग्भिः ॥१२

अ॒स्मै । ब॒हू॒नाम् । अ॒व॒माय॑ । सख्ये॑ । य॒ज्ञैः । वि॒धे॒म॒ । नम॑सा । ह॒विःऽभिः॑ ।

सम् । सानु॑ । मार्ज्मि॑ । दिधि॑षामि । बिल्मैः॑ । दधा॑मि । अन्नैः॑ । परि॑ । व॒न्दे॒ । ऋ॒क्ऽभिः ॥१२

अस्मै । बहूनां । अवमाय । सख्ये । यज्ञैः । विधेम । नमसा। हविःऽभिः ।

सं।सानु । मार्ज्मि।दिधिषामि।बिल्मैः। दधामि।अन्नैः। परि। वंदे। ऋक्ऽभिः॥१२॥

अस्मे पुरोवर्तिने बहूनां देवानामवमायाद्याय सख्येऽस्माभिः समानख्यानायापां नपाते यज्ञैर्यागसाधनैर्हविर्भिश्चरुपुरोडाशादिभिर्नमसा नमस्कारेण च विधेम । परिचरेम । अस्यापांनपातः सानु समुच्छ्रितप्रदेशं संमार्ज्मि । सम्यक् शोधयामि अलंकरोमि वा ॥ मृजू शौचालंकारयोः । चादिलोपे विभाषेत्यस्य निघातप्रतिषेधः ॥ दिधिषामि धारयामि च बिल्मैर्भासनैः काष्ठैरेनं ॥ धिष शब्दे । अयं धारणार्थोऽपि । जुहोत्यादित्वात् शपः श्लुः । मिपो व्यत्ययेनाडागमः । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ दधामि धारयामि चैनं गार्हपत्यादिरूपेणान्नैर्हविर्लक्षणैः । तथा ऋग्भिर्मंत्रैः परिवंदे । परितः स्तौमि ॥


स ईं॒ वृषा॑जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हन्ति ।

सो अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये॑वे॒ह त॒न्वा॑ विवेष ॥१३

सः । ई॒म् । वृषा॑ । अ॒ज॒न॒य॒त् । तासु॑ । गर्भ॑म् । सः । ई॒म् । शिशुः॑ । ध॒य॒ति॒ । तम् । रि॒ह॒न्ति॒ ।

सः । अ॒पाम् । नपा॑त् । अन॑भिम्लातऽवर्णः । अ॒न्यस्य॑ऽइव । इ॒ह । त॒न्वा॑ । वि॒वे॒ष॒ ॥१३

सः । ईं। वृषा । अजनयत् । तासु । गर्भं। सः। ईं। शिशुः। धयति । तं । रिहंति।

सः । अपां। नपात् । अनभिम्लातऽवर्णः। अन्यस्यऽइव। इह। तन्वा। विवेष ॥१३॥

स ईं सोऽयमपानपात्संज्ञको देवो वृषा सेक्ता भूत्वा तासु मेघस्थास्वप्सु गर्भमजनयत् । स्वात्मानमेव गर्भरूपेण वर्षणार्थं कृतवानित्यर्थः । गर्भो भूत्वा च स ईं सोऽयं माध्यमिको वैद्युतोऽग्निस्तासां शिशुः पुत्रः सन् धयति । मेघस्थास्ताः पिबति । अबिंधनो ह्यसौ । तं पुत्रस्थानीयमद्भिरापश्च रिहंति । लिहंति ॥ लिह आस्वादने । कपिलकादित्वाल्लत्वविकल्पः ॥ सोऽयमपांनपात् वृष्ट्या सह भूमौ निपतितोऽनभिम्लातवर्णः । अभितो म्लातो स्नानः क्षीणो वर्णो यस्य तद्विपरीतोऽत्यर्थं दीप्यमानः सन् इहास्मिन लोकेऽन्यस्येव । इवशब्दो ऽवधारणे । अन्यस्य पार्थिवस्यैवाग्नेस्तन्वा शरीरेण काष्ठेंधनलक्षणेन विवेष । व्याप्तो बभूव ॥ विष्लृ व्याप्तौ ॥


अ॒स्मिन्प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि॑र्वि॒श्वहा॑ दीदि॒वांस॑म् ।

आपो॒ नप्त्रे॑ घृ॒तमन्नं॒ वह॑न्तीः स्व॒यमत्कै॒ः परि॑ दीयन्ति य॒ह्वीः ॥१४

अ॒स्मिन् । प॒दे । प॒र॒मे । त॒स्थि॒ऽवांस॑म् । अ॒ध्व॒स्मऽभिः॑ । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् ।

आपः॑ । नप्त्रे॑ । घृ॒तम् । अन्न॑म् । वह॑न्तीः । स्व॒यम् । अत्कैः॑ । परि॑ । दी॒य॒न्ति॒ । य॒ह्वीः ॥१४

अस्मिन् । पदे। परमे। तस्थिऽवांसं । अध्वस्मऽभिः । विश्वहा। दीदिऽवांसं।।

आपः। नप्त्रे । घृतं । अन्नं । वहंतीः । स्वयं । अत्कैः । परि। दीयंति। यह्वीः ॥१४॥

परम उत्कृष्टेऽस्मिन्पदेंऽतरिक्षलक्षणे स्थाने तस्थिवांसं स्थितवंतमध्वस्मभिर्ध्वसनरहितैस्तेजोभिर्विश्वहा सर्वाण्यहानि दीदिवांसं दीप्यमानमपां नपातं यह्वीर्यह्व्यो महत्य आपः स्वयमात्मनैवात्कैरतनशीलैः सततगंतृभिः स्वकीयैः रूपैः परिदीयंति । परिगच्छंति ॥ दीयतिर्गतिकर्मा । दीङ् क्षये । व्यत्ययेन परस्मैपदं ॥ किं कुर्वत्यः ।। नप्त्रे ऽपां नपाते घृतं क्षरणशीलोदकात्मकमन्नं वहंतीर्वहंत्यः ॥


अयां॑समग्ने सुक्षि॒तिं जना॒यायां॑समु म॒घव॑द्भ्यः सुवृ॒क्तिम् ।

विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥१५

अयां॑सम् । अ॒ग्ने॒ । सु॒ऽक्षि॒तिम् । जना॑य । अयां॑सम् । ऊं॒ इति॑ । म॒घव॑त्ऽभ्यः । सु॒ऽवृ॒क्तिम् ।

विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥१५

अयांसं । अग्ने। सुऽक्षितिं । जनाय। अयांसं । ऊं इति । मघवत्ऽभ्यः । सुऽवृक्तिं ।

विश्वं । तत् । भद्रं । यत् । अवंति । देवाः। बृहत् । वदेम। विदथे। सुऽवीराः ॥१५॥

हे अग्ने सुक्षितिं शोभननिवासं त्वामयांसं । उपागच्छं। किमर्थं । जनाय । अस्मदीयपुत्रादिजननार्थं । तथा मघवद्भ्यो हविर्लक्षणधनयुक्तेभ्यो यजमानेभ्यश्च सुवृक्तिं शोभनावर्जकं त्वद्विषयं स्तोत्रमयांसं । उपागच्छ ॥ यम उपरमे ॥ अतः कारणाद्यद्भद्रं सर्वे देवा अवंति रक्षंति विश्वं सर्वं तद्भद्रमस्माकं भवतु । सुवीराः सुपुत्रा वयं विदथे यज्ञे गृहे वा बृहत् प्रौढं स्तोत्रं वदेम । उच्चारयाम ॥ ॥ २४॥



निदाघमासातिगमे जन्म मध्ये भवत्यपाम् । नप्तारमाह तेनैनम् ऋषिर्गृत्समद स्तुवन् ।।बृहद्देवता २.५५ ।।

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.३५&oldid=208874" इत्यस्माद् पुनः प्राप्तिः