ऋग्वेदः सूक्तं २.१५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.१४ ऋग्वेदः - मण्डल २
सूक्तं २.१५
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.१६ →
दे. इन्द्रः। त्रिष्टुप्।


प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम् ।
त्रिकद्रुकेष्वपिबत्सुतस्यास्य मदे अहिमिन्द्रो जघान ॥१॥
अवंशे द्यामस्तभायद्बृहन्तमा रोदसी अपृणदन्तरिक्षम् ।
स धारयत्पृथिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार ॥२॥
सद्मेव प्राचो वि मिमाय मानैर्वज्रेण खान्यतृणन्नदीनाम् ।
वृथासृजत्पथिभिर्दीर्घयाथैः सोमस्य ता मद इन्द्रश्चकार ॥३॥
स प्रवोळ्हॄन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ ।
सं गोभिरश्वैरसृजद्रथेभिः सोमस्य ता मद इन्द्रश्चकार ॥४॥
स ईं महीं धुनिमेतोररम्णात्सो अस्नातॄनपारयत्स्वस्ति ।
त उत्स्नाय रयिमभि प्र तस्थुः सोमस्य ता मद इन्द्रश्चकार ॥५॥
सोदञ्चं सिन्धुमरिणान्महित्वा वज्रेणान उषसः सं पिपेष ।
अजवसो जविनीभिर्विवृश्चन्सोमस्य ता मद इन्द्रश्चकार ॥६॥
स विद्वाँ अपगोहं कनीनामाविर्भवन्नुदतिष्ठत्परावृक् ।
प्रति श्रोण स्थाद्व्यनगचष्ट सोमस्य ता मद इन्द्रश्चकार ॥७॥
भिनद्वलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत् ।
रिणग्रोधांसि कृत्रिमाण्येषां सोमस्य ता मद इन्द्रश्चकार ॥८॥
स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युं प्र दभीतिमावः ।
रम्भी चिदत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश्चकार ॥९॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥१०॥

[सम्पाद्यताम्]

सायणभाष्यम्

' प्र घा न्वस्य ' इति दशर्चं चतुर्थं सूक्तं गार्त्समदं त्रैष्टुभमैन्द्रम् । अत्रानुक्रमणिका- प्र घ दश ' इति ।दशरात्रे षष्ठेऽहनि निष्केवल्ये त्रीणि सूक्तानि । तत्रेदं द्वितीयम् । ' षष्ठस्य ' इति खण्डे सूत्रितम्-' एन्द्र याह्युप नः प्र घा न्वस्याभूरेक इति निष्केवल्यम् ' (आश्व श्रौ. ८. १) इति । त्र्येकमामके निष्केवल्ये ' प्र घा न्वस्य ' इत्येषा सूक्तमुखीया । उशनःस्तोमे सूत्रितं-' त्र्यर्यमा मनुषो देवताता प्र घा न्वस्य महतो महानि ' ( आश्व. श्रौ. ९. ५) इति ।।

प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचम् ।

त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्य मदे॒ अहि॒मिन्द्रो॑ जघान ॥१

प्र । घ॒ । नु । अ॒स्य॒ । म॒ह॒तः । म॒हानि॑ । स॒त्या । स॒त्यस्य॑ । कर॑णानि । वो॒च॒म् ।

त्रिऽक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ । अ॒स्य । मदे॑ । अहि॑म् । इन्द्रः॑ । ज॒घा॒न॒ ॥१

प्र। घ। नु । अस्य । महतः। महानि। सत्या। सत्यस्य । करणानि। वोचं ।

त्रिऽकद्रुकेषु । अपिबत् । सुतस्य । अस्य। मदे। अहिं। इंद्रः। जघान ॥१॥

गृत्समदो ब्रूते । महतो बलवतः सत्यस्य सत्यसंकल्पस्यास्येंद्रस्य सत्यानि यथार्थानि महानि महांति करणान्यस्मिन् सूक्ते वक्ष्यमाणानि कर्माणि तु अद्य प्रवोचं । प्रकर्षेण ब्रवीमि ॥ वच परिभाषणे । छंदसि लुङ्लिङ्लिट इति वर्तमाने लुङि अस्यतिवक्तिख्यातिभ्योऽङ्। वच उम् ॥ घेति प्रसिद्धौ । कानि तानि उच्यंते । त्रिकद्रुकेषु ज्योतिर्गौरायुरित्येवंरूपेष्वाभिप्लविकेष्वहःसु सुतस्याभिषुतं सोममिंद्रोऽपिबत् । ततः पीतस्यास्य सोमस्य मदे हर्षे संजाते सतींद्रोऽहिं वृत्रमसुरं जघान । हतवान् ॥


अ॒वं॒शे द्याम॑स्तभायद्बृ॒हन्त॒मा रोद॑सी अपृणद॒न्तरि॑क्षम् ।

स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥२

अ॒वं॒शे । द्याम् । अ॒स्त॒भा॒य॒त् । बृ॒हन्त॑म् । आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । अ॒न्तरि॑क्षम् ।

सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ॑त् । च॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥२

अवंशे। द्यां । अस्तभायत्। बृहंतं। आ। रोदसी इति । अपृणत्। अंतरिक्षं ।

सः। धारयत्। पृथिवीं । पप्रथत्। च। सोमस्य। ता। मदे । इंद्रः। चकार ॥२॥

अवंश आकाशे द्यां द्योतमानं सूर्यं द्युलोकं वास्तभायत् । इंद्रोऽस्तभ्नात्। अनवलंबनस्य तस्यावस्थापनमकरोदित्यर्थः । स्तंभु इति सौत्रो धातुः क्र्यादिः । लङि व्यत्ययो बहुलमित्यहावपि शायजादेशः ॥ बृहंतं महदंतरिक्षं रोदसी द्यावापृथिव्यौ चापृणत् । स्वतेजसा पूरितवान् । किंच स इंद्रः पृथिवीं विस्तीर्णां भूमिं धारयत् । अधारयत् । तथा पप्रथश्च । एनां भूमिमप्रथयत् ॥ प्रथ प्रख्याने । स्यंतस्स लुङि चङि रूपं । चङ्यन्यतरस्यामिति मध्योदात्तत्वं ॥ सोमस्य मदे हर्षे संजाते सति तानीमानि कर्माणींद्रश्चकार ॥


सद्मे॑व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीना॑म् ।

वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥३

सद्म॑ऽइव । प्राचः॑ । वि । मि॒मा॒य॒ । मानैः॑ । वज्रे॑ण । खानि॑ । अ॒तृ॒ण॒त् । न॒दीना॑म् ।

वृथा॑ । अ॒सृ॒ज॒त् । प॒थिऽभिः॑ । दी॒र्घ॒ऽया॒थैः । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥३

सद्मऽइव। प्राचः। वि। मिमाय। मानैः । वज्रेण। खानि। अतृणत् । नदीनां ।

वृथा। असृजत्। पृथिऽभिः। दीर्घऽयाथैः। सोमस्य। ता। मदे। इंद्रः। चकार ॥३॥

सद्मेव यथा यज्ञगृहान्मानैः षट्त्रिंशत्प्रक्रमप्राचीत्येवंरूपैः परिमाणैः प्राक्प्रवणान् कुर्वंति तद्वत सिंधून लोकान्वानृजून्वा मानैः परिमाणैः प्राचः प्राङ्मुखान्विमिमाय । इंद्रो विशेषेण निर्मितवान् । तथा नदीनां खानि निर्गमनद्वाराणि वज्रेण चातृणत् । अखनत् ॥ तृदि हिंसानादरयोः । रुधादि । लङ् । तथा च मंत्रः । इंद्रो अस्माँ अरदद्वज्रबाहुः ।३. ३३. ६.। इति । तथा दीर्घयाथैर्बहुकालं गंतव्यैः पथिभिर्मार्गैर्वृथासृजत् अनायासेन ता नदीः सृष्टवान् । सोमस्येति सिद्धार्थ इति ॥


स प्र॑वो॒ळ्हॄन्प॑रि॒गत्या॑ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे अ॒ग्नौ ।

सं गोभि॒रश्वै॑रसृज॒द्रथे॑भि॒ः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥४

सः । प्र॒ऽवो॒ळ्हॄन् । प॒रि॒ऽगत्य॑ । द॒भीतेः॑ । विश्व॑म् । अ॒धा॒क् । आयु॑धम् । इ॒द्धे । अ॒ग्नौ ।

सम् । गोभिः॑ । अश्वैः॑ । अ॒सृ॒ज॒त् । रथे॑भिः । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥४

सः । प्रऽवोळ्हॄन्। परिऽगत्य। दभीतेः । विश्वं । अधाक् । आयुधं । इद्धे । अग्नौ ।

सं। गोभिः। अश्वै । असृजत् । रथेभिः। सोमस्य। ता। मदे । इंद्रः । चकार ॥ ४ ॥

प्राक्किल चुमुरिधुनिप्रभृतयोऽसुरा दभीतेः पुरं संरुध्य परिगृह्य तस्मात्पुरान्निरगुरिति कथा । स इंद्रं दभीतेः । दभीतिर्नाम कश्चिद्राजर्षिः । तस्य प्रवोळ्डॄन् प्रवोढॄन् ॥ सहिवहोरोदवर्णस्येत्योत्वं । प्रकर्षेण तं दभीतिं वहतस्तानसुरान् मध्ये मार्गं परिगत्य तेषां विश्वं सर्वमायुधमिद्धेऽग्नौ दीप्यमाने वह्नावधाक् । अधाक्षीत्॥ दहेर्लुङि मंत्रे घसेत्यादिना च्लेर्लुक् ॥ पश्चात्तं दभीतिं गोभिरश्वै रथेभी रथैश्च समसृजत् । संयोजितवान् । सोमस्यादि सिद्धमिति ॥


अतिमूर्तिनाम्न्येकाहे मरुत्वतीये सूक्तमुखीया। अतिमूर्तिनेति खंडे सूचितं । स ईं महीं धुनिमेतोररम्णात । आ°९.८.। इति ॥

स ईं॑ म॒हीं धुनि॒मेतो॑ररम्णा॒त्सो अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति ।

त उ॒त्स्नाय॑ र॒यिम॒भि प्र त॑स्थु॒ः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥५

सः । ई॒म् । म॒हीम् । धुनि॑म् । एतोः॑ । अ॒र॒म्णा॒त् । सः । अ॒स्ना॒तॄन् । अ॒पा॒र॒य॒त् । स्व॒स्ति ।

ते । उ॒त्ऽस्नाय॑ । र॒यिम् । अ॒भि । प्र । त॒स्थुः॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥५

सः। ई। महीं। धुनिं। एतोः । अरम्णात्। सः । अस्नातॄन्। अपारयत् । स्वस्ति । ते। उत्ऽस्नाय। रयिं । अभि। प्र। तस्थुः । सोमस्य । ता। मदे। इंद्रः । चकार ॥५॥

स इंद्र ईमेनां महीं महतीं धुनिं । धुनोति स्तोतॄणां पापानीति धुनिः परुष्णी नदी । तामेतोः ॥ ईश्वरपदासंनिधानेऽपि तोसुन्प्रत्ययः । पा°३. ४.१३. ॥ ऋषीणां गमनार्थमरम्णात् । उपाशमयत् । महाजलां नदीमल्पोदकामकरोदित्यर्थः । ततः स इंद्रोऽलातॄन् स्नातुमशक्तान् तरणासमर्थानृषीन स्वस्ति क्षेमेणापारयत् । ते महर्षय उत्स्नाय तां नदीमुत्तीर्य यं रयिमपेक्ष्य गच्छंति तं रयिमभिलक्ष्य प्रतस्थुः । प्रतस्थिरे। शिष्टं सिद्धं ॥ ॥५॥


सोद॑ञ्चं॒ सिन्धु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षस॒ः सं पि॑पेष ।

अ॒ज॒वसो॑ ज॒विनी॑भिर्विवृ॒श्चन्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥६

सः । उद॑ञ्चम् । सिन्धु॑म् । अ॒रि॒णा॒त् । म॒हि॒ऽत्वा । वज्रे॑ण । अनः॑ । उ॒षसः॑ । सम् । पि॒पे॒ष॒ ।

अ॒ज॒वसः॑ । ज॒विनी॑भिः । वि॒ऽवृ॒श्चन् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥६

सः। उदंचं । सिंधु । अरिणात् । महिऽत्वा। वज्रेण । अनः । उषसः। सं । पिपेष।

अजवसः । जविनीभिः । विऽवृश्चन् । सोमस्य । ता। मदे । इंद्रः । चकार ॥६॥

स इंद्रः सिंधु प्रांचं संतं महित्वा स्वकीयेन महिम्नोदंचमरिणात् । उदङ्मुखमकरोत् । सिंधुशब्दश्छंदसि पुल्लिंगः ॥ उषस उषोदेव्या अनः शकटं वज्रेण संपिपेष । चूर्णीचकार । एतच्च दिवश्चिदा दुहितरं ।४. ३०. ९.। इत्यत्र स्पष्टं वक्ष्यते । किं कुर्वन् । अजवसो जवहीना दुर्बलाः सेना जविनीभिर्जवयुक्ताभिः सेनाभिर्विवृश्चन । विशेषेण भिंदन् । पिपेषेति समन्वयः ॥ ओव्रश्चू छेदने । शतरि ग्रहिज्यादिना संप्रसारणं । शिष्टं स्पष्टं ।


स वि॒द्वाँ अ॑पगो॒हं क॒नीना॑मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् ।

प्रति॑ श्रो॒णः स्था॒द्व्य१॒॑नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥७

सः । वि॒द्वान् । अ॒प॒ऽगो॒हम् । क॒नीना॑म् । आ॒विः । भव॑न् । उत् । अ॒ति॒ष्ठ॒त् । प॒रा॒ऽवृक् ।

प्रति॑ । श्रो॒णः । स्था॒त् । वि । अ॒नक् । अ॒च॒ष्ट॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥७

सः । विद्वान् । अपऽगोहं । कनीनां आविः । भवन्। उत्। अतिष्ठत् । पराऽवृक्।

प्रति। श्रोणः। स्थात्।वि। अनक्। अचष्ट । सोमस्य। ता। मदे । इंद्रः। चकार ॥ ७॥

पुरा किल कन्यकाश्चक्षुर्हीनं पादहीनं परावृजं जिघृक्षुमृषिं दृष्ट्वाभिदुद्रुवुः । ततः स ऋषिरिंद्रं स्तुत्वा चक्षुः पादं च लेभे । तदेतदाह । कनीनां कन्यकानामपगोहमपगोहनं तिरोभावं विद्वान् परावृगृषिराविर्भवन् सर्वेषां प्रत्यक्षो भवन् उदतिष्ठत् । श्रोणः पूर्वं पंगुरिदानीमिंद्रस्य प्रसादाद्विभग्नजानुस्ताः कन्याः प्रति स्थात् । पूर्वमंधो ऽधुना चक्षुर्लाभाद्व्यचष्ट । ताः कन्यका विशेषेण पश्यति स्म । तानीमानि कर्माणि स इंद्रश्चकार ॥


भि॒नद्व॒लमङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै॑रत् ।

रि॒णग्रोधां॑सि कृ॒त्रिमा॑ण्येषां॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥८

भि॒नत् । व॒लम् । अङ्गि॑रःऽभिः । गृ॒णा॒नः । वि । पर्व॑तस्य । दृं॒हि॒तानि॑ । ऐ॒र॒त् ।

रि॒णक् । रोधां॑सि । कृ॒त्रिमा॑णि । ए॒षा॒म् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥८

भिनत्। वलं। अंगिरःऽभिः । गृणानः । वि। पर्वतस्य। दृंहितानि। ऐरत् ।

रिणक् । रोधांसि। कृत्रिमाणि । एषां । सोमस्य । ता । मदे । इंद्रः। चकार ॥८॥

अंगिरोभिर्गृणानः स्तूयमानः स इंद्रो वलं वलनामकमसुरं भिनत् । अभिनत् । तथा गवां निरोधकस्य पर्वतस्य दृंहितानि शिलाभिर्दृढीकृतानि द्वाराणि व्यैरत् । उद्घाटितवान् । तदेवाह । एषां पर्वतानां कृत्रिमाणि क्रियया निर्वृत्तानि रोधांसि निरुद्धानि द्वाराणि रिणक् । उदघाटयत् । गतमन्यत् । ।


अतिमूर्तिनाम्न्येकाहे निष्केवल्ये सूक्तमुखीया स्वप्नेनेत्येषा । सूत्रितं । स्वप्नेनाभ्युप्या चुमुरिं धुनिं चेति सूक्तमुखीया । आ° ९. ८.। इति ॥

स्वप्ने॑ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं॑ च ज॒घन्थ॒ दस्युं॒ प्र द॒भीति॑मावः ।

र॒म्भी चि॒दत्र॑ विविदे॒ हिर॑ण्यं॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥९

स्वप्ने॑न । अ॒भि॒ऽउप्य॑ । चुमु॑रिम् । धुनि॑म् । च॒ । ज॒घन्थ॑ । दस्यु॑म् । प्र । द॒भीति॑म् । आ॒वः॒ ।

र॒म्भी । चि॒त् । अत्र॑ । वि॒वि॒दे॒ । हिर॑ण्यम् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥९

स्वप्नेन । अभिऽउप्य । चुमुरि। धुनिं । च । जघंथ। दस्युं । प्र। दभीतिं । आवः ।

रंभी। चित् । अत्र । विविदे । हिरण्यं । सोमस्य । ता । मदे । इंद्रः । चकार ॥९॥

स त्वं दस्युं सर्वस्योपक्षपयितारं चुमुरिं धुनिं च एतन्नामानावसुरौ स्वप्नेन दीर्घनिद्रयाभ्युप्य संयोज्य जघंथ । हतवानसि । ततस्ताभ्यां युध्यमानं दभीतिं राजर्षिं प्रावः । रक्षितवानसि । तथा च मंत्रवर्णः । त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहंतु। ७.१९.४.। इति ॥ आवः । अवते रक्षणार्थस्य लङि सिपि रूपं । रंभी चित् वेत्रधारी चास्य दौवारिकोऽत्रास्मिन्युद्धे तयोरसुरयोर्हिरण्यं धनं विविदे । लेभे । विद्लृ लाभे स्वरितेत् । तानीमानि कर्माणि सोमस्य मदे सति चकारेति ।


नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥१०

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥१०

नूनं । सा । ते । प्रति। वरं। जरित्रे। दुहीयत् । इंद्र। दक्षिणा। मघोनी।

शिक्ष। स्तोतृऽभ्यः। मा। अति।धक्। भगः।नः।बृहत्। वदेम। विदथे। सुवीराः ॥१०॥

हे इंद्र या दक्षिणा दक्षमुत्साहनं करोतीति दक्षिणा स्तोतृभ्यो देया ते त्वत्संबंधिनी मघोनी धनवत जरित्रे स्तोत्रे वरं श्रेष्ठमभिमतमर्थं नूनं प्रतिदुहीयत् । इदानीं प्रतिदोग्धि। संपादयतीत्यर्थः । तादृशीं दक्षिणां स्तोतृभ्योऽस्मभ्यं शिक्ष । प्रयच्छ । किंच भगो भजनीयस्त्वं माति धक् ॥ दहेर्दानार्थस्य लुङि मंत्रे घसेत्यादिना च्लेर्लुक् ॥ नोऽस्मानतिक्रम्यान्येभ्यो दक्षिणां मा दाः । प्रथममस्मभ्यं दत्त्वा पश्चादन्येभ्यो दीयतामित्यर्थः । यद्वा नोऽस्माकं कामान् मा धक् । मा धाक्षीः। अपेक्षितफलदानेन पूरयेत्यर्थः । सुवीराः शोभनपुत्रपौत्राः संतो वयं विदथे ऽस्मिन्यज्ञे बृहत् प्रभूतं स्तोत्रं वदेम । त्वामुद्दिश्य ब्रवाम । अत्र सा ते प्रतिदुग्धामिति प्रकृत्य वीरो वीरयत्यमित्रान् वेतेर्वा स्याद्गतिकर्मणो वीरयतेर्वेत्यंतं निरुक्तमनुसंधेयं । नि० १.७.॥॥६॥ ॥१॥

[सम्पाद्यताम्]

२.१५.९

संयुज्य तपसात्मानम् ऐन्द्रं बिभ्रन्महद्वपुः । अदृश्यत मुहूर्तेन दिवि च व्योम्नि चेह च ।। ६६। ।

तमिन्द्रमिति मत्वा तु दैत्यौ भीमपराक्रमौ । धुनिश्च चुमुरिश्चोभौ सायुधावभिपेततुः ।। ६७ ।।

विदित्वा स तयोर्भावम् ऋषिः पापं चिकीर्षतोः । यो जात इति सूक्तेन कर्माण्यैन्द्राण्यकीर्तयत् ।। ६८ ।।

उक्तेषु कर्मस्वैन्द्रेषु भीस्तावाशु विवेश ह । इदमन्तरमित्युक्त्वा ताविन्द्रस्तु निबर्हयत् ।। ६९ ।।

निहत्य तौ गृत्समदम् ऋषिं शक्रोऽभ्यभाषत । यथेष्टं मां सखे पश्य प्रियत्वं आगतोऽसि मे ।।बृहद्देवता ४.७० ।।

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.१५&oldid=208747" इत्यस्माद् पुनः प्राप्तिः