ऋग्वेदः सूक्तं २.२१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.२० ऋग्वेदः - मण्डल २
सूक्तं २.२१
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.२२ →
दे. इन्द्रः। जगती, ६ त्रिष्टुप्


विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते ।
अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ॥१॥
अभिभुवेऽभिभङ्गाय वन्वतेऽषाळ्हाय सहमानाय वेधसे ।
तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ॥२॥
सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः ।
वृतंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या ॥३॥
अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः ।
रध्रचोदः श्नथनो वीळितस्पृथुरिन्द्रः सुयज्ञ उषसः स्वर्जनत् ॥४॥
यज्ञेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः ।
अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत ॥५॥
इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।
पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् ॥६॥


[सम्पाद्यताम्]

सायणभाष्यम्

' विश्वजिते ' इति षडृचं दशमं सूक्तं गार्त्समदमैन्द्रम् । अन्त्या त्रिष्टुप् । शिष्टाः पञ्च जगत्यः ।। तृतीये पर्याये होतुः शस्त्रे एतत्सूक्तम् । सूत्रितं च-' विश्वजिते तिष्ठा हरी रथ आयुज्यमानेति याज्या ' ( आश्व. श्रौ. ६.४) इति ।।


वि॒श्व॒जिते॑ धन॒जिते॑ स्व॒र्जिते॑ सत्रा॒जिते॑ नृ॒जित॑ उर्वरा॒जिते॑ ।

अ॒श्व॒जिते॑ गो॒जिते॑ अ॒ब्जिते॑ भ॒रेन्द्रा॑य॒ सोमं॑ यज॒ताय॑ हर्य॒तम् ॥१

वि॒श्व॒ऽजिते॑ । ध॒न॒ऽजिते॑ । स्वः॒ऽजिते॑ । स॒त्रा॒ऽजिते॑ । नृ॒ऽजिते॑ । उ॒र्व॒रा॒ऽजिते॑ ।

अ॒श्व॒ऽजिते॑ । गो॒ऽजिते॑ । अ॒प्ऽजिते॑ । भ॒र॒ । इन्द्रा॑य । सोम॑म् । य॒ज॒ताय॑ । ह॒र्य॒तम् ॥१

विश्वऽजिते। धनऽजिते। स्वःऽजिते । सत्राऽजिते। नृऽजिते । उर्वराऽजिते।

अश्वऽजिते। गोऽजिते। अप्ऽजिते । भर। इंद्राय। सोमं। यजताय। हर्यतं ॥१॥

हे अध्वर्यो इंद्राय सोमं भर । संपादय । कीदृशाय । विश्वजिते । सर्वस्य जेत्रे । तदेव प्रपंचयति । धनजिते शत्रुविजयेन तदीयधनानां जेत्रे । स्वर्जिते स्वर्गस्य जेत्रेऽधिपतये । सत्राजिते सत्रा संततं जयशीलाय महतो जेत्रे वा । नृजिते नृणां नायकानां जेत्रे । उर्वराजिते । उर्वरा सर्वसस्याढ्या भूः । तस्या जेत्रे । अश्वजिते गोजिते बलेनापहृतानां गवां जेत्रे । अब्जिते वृत्रेणाक्रांतानामपां जैत्रे । यजताय यजनीयाय । तस्मा इंद्राय हर्यतं ॥ हर्य गतिकांत्योः। भृमृदृशीत्यादिना कर्मण्यतच् ॥ कमनीयं स्पृहणीयं वा सोमं भरतेति समन्वयः ॥


अ॒भि॒भुवे॑ऽभिभ॒ङ्गाय॑ वन्व॒तेऽषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ।

तु॒वि॒ग्रये॒ वह्न॑ये दु॒ष्टरी॑तवे सत्रा॒साहे॒ नम॒ इन्द्रा॑य वोचत ॥२

अ॒भि॒ऽभुवे॑ । अ॒भि॒ऽभ॒ङ्गाय॑ । व॒न्व॒ते । अषा॑ळ्हाय । सह॑मानाय । वे॒धसे॑ ।

तु॒वि॒ऽग्रये॑ । वह्न॑ये । दु॒स्तरी॑तवे । स॒त्रा॒ऽसहे॑ । नमः॑ । इन्द्रा॑य । वो॒च॒त॒ ॥२

अभिऽभुवे । अभिऽभंगाय। वन्वते । अषाळ्हाय । सहमानाय । वेधसे।

तुविऽग्रये । वह्नये । दुस्तरीतवे । सत्राऽसहे । नमः । इंद्राय । वोचत ॥२॥

अभिभुवे सर्वस्याभिभवित्रेऽभिभंगायासुराणां भंजकाय वन्वते ॥ वन षण संभक्तौ । व्यत्ययेन उप्रत्ययः ॥ शत्रूणां धनानां संभजकाय । अषाळ्हाय ॥ सहेः कर्मणि निष्ठा । उत्वाभावग्छांदसः ॥ शत्रुभिरनभिभूताय । सहमानाय सर्वसहाय वेधसे सर्वस्य विधात्रे । तुविग्रये पूर्णग्रीवाय ॥ यदा गॄ शब्दे । औणादिकः कर्मणि कप्रत्ययः । तुविभिर्बहुभिः स्तोतव्याय । वह्नये सर्वस्य वोढ्रे दुष्टरीतवेऽन्यैर्दुस्तराय दुर्हिंसाय । सत्रासहे सर्वदाभिभवित्रे महतोऽभिभवित्रे वा एवंविधायेंद्राय नमो नमःशब्दपूर्वकं स्तोत्रं वोचत । हे स्तोतारो यूयं ब्रूत ॥ ब्रूञो लुङि ब्रुवो वचिः । अस्यतिवक्तिख्यातिभ्योऽङ्ङ्गित्यङादेशः । वच उमित्युम् । गुणः ॥


स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो अनु॒ जोष॑मुक्षि॒तः ।

वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा॑रि॒त इन्द्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या॑ ॥३

स॒त्रा॒ऽस॒हः । ज॒न॒ऽभ॒क्षः । ज॒न॒म्ऽस॒हः । च्यव॑नः । यु॒ध्मः । अनु॑ । जोष॑म् । उ॒क्षि॒तः ।

वृ॒त॒म्ऽच॒यः । सहु॑रिः । वि॒क्षु । आ॒रि॒तः । इन्द्र॑स्य । वो॒च॒म् । प्र । कृ॒तानि॑ । वी॒र्या॑ ॥३

सत्राऽसहः । जनऽभक्षः। जनंऽसहः । च्यवनः। युध्मः । अनु। जोषं । उक्षितः ।

वृत्तंऽचयः । सहुरिः । विक्षु । आरितः । इंद्रस्य। वोचं । प्र। कृतानि । वीर्या ॥३॥

सत्रासहो बहूनामभिभविता जनभक्षो जनानां यजमानानां कामप्रदानेन संभक्ता तैः संभजनीय इति । जनंसहो बलिनां जनानामभिभविता च्यवनः शत्रूणां च्यावयिता स्वस्थानात् । युध्मो योद्धा जोषमनु प्रीतिमनु उक्षितः सिक्तः सोमेन । वृतंचयो वृतस्याभीष्टस्याचेता संचेता दातेत्यर्थः । यद्वा वर्तते पुनःपुनरभिमुखमागच्छतीति वृत् शत्रुः । तं चयते हिनस्तीति वृतंचयः । चयतिर्हिंसाकर्मा । तथा च ब्राह्मणं । यो वै भागिनं भागान्नुदते चयते वैनं स यदि वैनं न चयते ऽथ पुत्रमथ पौत्रं चयते त्वेवैनं । ऐ° ब्रा° २. ७.। इति । सहुरिः ॥ जसिसहोरुरिन्नित्युरिन्प्रत्ययः । अभिभविता शत्रूणां विक्षु प्रजास्वारितः पालकत्वेन प्रापितो भवति । तादृशस्येंद्रस्य कृतानि वृत्रहननादिरूपाणि वीर्या सामर्थ्यानि प्रवोचं । प्रकर्षेण वदामि ॥


अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो ग॑म्भी॒र ऋ॒ष्वो अस॑मष्टकाव्यः ।

र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिन्द्रः॑ सुय॒ज्ञ उ॒षस॒ः स्व॑र्जनत् ॥४

अ॒न॒नु॒ऽदः । वृ॒ष॒भः । दोध॑तः । व॒धः । ग॒म्भी॒रः । ऋ॒ष्वः । अस॑मष्टऽकाव्यः ।

र॒ध्र॒ऽचो॒दः । श्नथ॑नः । वी॒ळि॒तः । पृ॒थुः । इन्द्रः॑ । सु॒ऽय॒ज्ञः । उ॒षसः॑ । स्वः॑ । ज॒न॒त् ॥४

अननुऽदः । वृषभः । दोधतः । वधः । गंभीरः । ऋष्वः । असमष्टऽकाव्यः ।

रध्रऽचोदः । श्नथनः। वीळितः । पृथुः । इंद्रः। सुऽयज्ञः । उषसः। स्वः । जनत् ॥४॥

अनानुदः । अनु पश्चाद्ददातीत्यनुदः । आतश्चोपसर्ग इति कर्तरि कः । स नास्ति यस्य स तथोक्तः । प्रभूतधनदानेन समानो नास्तीत्यर्थः । अत एव वृषभः कामानां वर्षिता । दोधतः ॥ दुधिहिंसाकर्मा ॥ हिंसकस्यासुरस्य वधो हंता गंभीरो महत्त्वेन गांभीर्योपेतः । ऋष्वो महान् यद्वा दर्शनीयः सर्वैः । असमष्टकाव्यः । अशु व्याप्तौ। कर्मणि निष्ठा। ऊदित्वादिड्विकल्पः। नञ्समासः । अन्यैरव्याप्तकर्मा । रध्रचोदः ॥ रध हिंसासंराड्योः ॥ रध्राणां समृद्धानां प्रेरकः । यद्वा हिंसकानां शत्रूणां चोदकः। श्नथनः शत्रूणां बलापहारेण शातयिता । वीळितो दृढांगः पृथुः स्वतेजसा जगद्व्याप्य वर्तमानः सुयज्ञः सुकर्मा । एतादृश इंद्र उषसः स्वः सूर्यं ज्योतिः । स्वः सूर्य इति हि ब्राह्मणं । सूर्यं च जनत् । प्रादुश्चकार ॥


य॒ज्ञेन॑ गा॒तुम॒प्तुरो॑ विविद्रिरे॒ धियो॑ हिन्वा॒ना उ॒शिजो॑ मनी॒षिणः॑ ।

अ॒भि॒स्वरा॑ नि॒षदा॒ गा अ॑व॒स्यव॒ इन्द्रे॑ हिन्वा॒ना द्रवि॑णान्याशत ॥५

य॒ज्ञेन॑ । गा॒तुम् । अ॒प्ऽतुरः॑ । वि॒वि॒द्रि॒रे॒ । धियः॑ । हि॒न्वा॒नाः । उ॒शिजः॑ । म॒नी॒षिणः॑ ।

अ॒भि॒ऽस्वरा॑ । नि॒ऽसदा॑ । गाः । अ॒व॒स्यवः॑ । इन्द्रे॑ । हि॒न्वा॒नाः । द्रवि॑णानि । आ॒श॒त॒ ॥५

यज्ञेन। गातुं । अप्ऽतुरः । विविद्रिरे। धियः । हिन्वानाः । उशिजः । मनीषिणः।

अभिऽस्वरा। निऽसदा। गाः। अवस्यवः। इंद्रे। हिन्वानाः। द्रविणानि। आशत ॥५॥

धियो हिन्वानाः स्तुतीरिंद्रे प्रेरयंत उशिज इंद्रं कामयमाना मनीषिणो मेधाविनोंऽगिरसोऽप्तुरोऽपां प्रेरकादिंद्राद्गातुं गवां मार्गं यज्ञेन तपसा विविद्रिरे। लेभिरे। ततोऽवस्यवो रक्षणमिच्छत इंद्रे गाः स्तुतीर्हिन्वानाः ॥ हि गतिवृद्ध्योः स्वादिः । प्रेरयंतस्तेंऽगिरसोऽभिस्वरा अभितः स्वरः स्वरणं शब्दनं यस्य तेन स्तोत्रेण निषदोपसदेन च द्रविणानि गोधनान्याशत । प्राप्नुवन् । अश्नोतेर्लुङि बहुलं छंदसीति विकरणस्य लुक् ।


इन्द्र॒ श्रेष्ठा॑नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे ।

पोषं॑ रयी॒णामरि॑ष्टिं त॒नूनां॑ स्वा॒द्मानं॑ वा॒चः सु॑दिन॒त्वमह्ना॑म् ॥६

इन्द्र॑ । श्रेष्ठा॑नि । द्रवि॑णानि । धे॒हि॒ । चित्ति॑म् । दक्ष॑स्य । सु॒ऽभ॒ग॒त्वम् । अ॒स्मे इति॑ ।

पोष॑म् । र॒यी॒णाम् । अरि॑ष्टिम् । त॒नूना॑म् । स्वा॒द्मान॑म् । वा॒चः । सु॒दि॒न॒ऽत्वम् । अह्ना॑म् ॥६

इंद्र । श्रेष्ठानि । द्रविणानि। धेहि। चित्तिं । दक्षस्य । सुभगऽत्वं । अस्मे इति ।

पोषं। रयीणां । अरिष्टिं । तनूनां। स्वाद्मानं । वाचः । सुदिनऽत्वं । अह्नां ॥६॥

हे इंद्र श्रेष्ठान्युत्तमानि द्रविणानि धनान्यस्मभ्यं धेहि । निधेहि । दक्षस्य ॥ दक्षेर्भावे घञ् ॥ कर्मकरणसामर्थ्यस्य चित्तिं ख्यातिं धेहि । अस्मे अस्मभ्यं सुभगत्वं शोभनधनवत्त्वं सौभाग्यं वा निधेहि । रयीणां त्वया दत्तानां धनानां पोषं समृद्धिं धेहि । तनूनामंगानां । यद्वा तायत एभिः कुलमिति तन्वः पुत्राः । तनोतेः करण उप्रत्ययः ॥ तेषामरिष्टिमहिंसां धेहि । तथास्मदीयाया वाचः स्वाद्मानं स्वादुतां । अह्नां सुदिनत्वं शोभनदिनत्वं च धेहि । येषु हींद्रादयो देवा इज्यंते तानि सुदिनानि । तेषां भावः सुदिनत्वं ॥ ॥ २७॥


२.२१.६ सुदिनत्वमह्नाम्

टिप्पणी

योगवासिष्ठ ६.२.४.४२( अहंकार के लीन होने पर अह के प्रकट होने का कथन ), पद्म ३.२६.९५( अह व सुदिन तीर्थों का संक्षिप्त माहात्म्य : सूर्य लोक की प्राप्ति)

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.२१&oldid=208781" इत्यस्माद् पुनः प्राप्तिः