ऋग्वेदः सूक्तं २.३२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं २.३१ ऋग्वेदः - मण्डल २
सूक्तं २.३२
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.३३ →
दे. १ द्यावापृथिवी, २-३ इन्द्रस्त्वष्टा वा, ४-५ राका, ६-७ सिनीवाली, ८ लिङ्गोक्ताः । जगती, ६-८ अनुष्टुप्


अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः ।
ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे ॥१॥
मा नो गुह्या रिप आयोरहन्दभन्मा न आभ्यो रीरधो दुच्छुनाभ्यः ।
मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत्त्वेमहे ॥२॥
अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम् ।
पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥३॥
राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥४॥
यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥५॥
सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।
जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥६॥
या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥७॥
या गुङ्गूर्या सिनीवाली या राका या सरस्वती ।
इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥८॥



सायणभाष्यम्

' अस्य मे ' इत्यष्टर्चं दशमं सूक्तं गृत्समदस्यार्ष षष्ठयाद्यास्तिस्रोऽनुष्टुभः । शिष्टाः पञ्च जगत्यः । प्रथमा द्यावापृथिवीया ततो द्वे ऐन्द्र्यौ त्वाष्ट्र्यौ वा । ततो द्वे राकादेवत्ये द्वे सिनीवालीदेवत्यो अन्त्या गुङ्ग्वादिषड्देवताका । तथा चानुक्रान्तम्-' अस्य मेऽष्टौ जागतं त्र्यनुष्टुबन्तम् । द्यावापृथिव्यैका द्वे ऐन्द्र्यौ त्वाष्ट्र्यौ वा द्वे द्वे राकासिनीवाल्योरन्त्या लिङ्गोक्तदेवता ' इति । आभिप्लविके चतुर्थेऽहनि वैश्वदेवशस्त्रे आद्यस्तृचो द्यावापृथिवीयनिविद्धानः । तथा च सूत्रितम्-' अस्य मे द्यावापृथिवी इति तिस्रस्ततं मे अप इति वैश्वदेवम् ' ( आश्व. श्रौ. ७. ७) इति ।।


अ॒स्य मे॑ द्यावापृथिवी ऋताय॒तो भू॒तम॑वि॒त्री वच॑स॒ः सिषा॑सतः ।

ययो॒रायुः॑ प्रत॒रं ते इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां॑ म॒हो द॑धे ॥१

अ॒स्य । मे॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । ऋ॒त॒ऽय॒तः । भू॒तम् । अ॒वि॒त्री इति॑ । वच॑सः । सिसा॑सतः ।

ययोः॑ । आयुः॑ । प्र॒ऽत॒रम् । ते इति॑ । इ॒दम् । पु॒रः । उप॑स्तुते॒ इत्युप॑ऽस्तुते । व॒सु॒ऽयुः । वा॒ । म॒हः । द॒धे॒ ॥१

अस्य। मे। द्यावापृथिवी इति। ऋतऽयतः।भूतं । अवित्री इति । वचसः। सिसासतः।

ययोः। आयुः । प्रऽतरं । ते इति । इदं । पुरः। उपस्तुते इत्युपऽस्तुते। वसुऽयुः । वां। महः। दधे ॥१॥

द्यावापृथिवी हे द्यावापृथिव्यौ ऋतायत ऋतं यज्ञमात्मन इच्छतः सिषासतो युवां संभक्तुमिच्छतोऽस्य वचसः ॥ वक्तीति वचाः स्तोता । असुन् ॥ स्तोतुरस्य मे ममावित्री अवित्र्यौ पालयित्र्यौ भूतं । भवतं । ययोर्द्यावापृथिव्योरायुरन्नं प्रतरं प्रकृष्टतरमुत्पद्यत इति शेषः । इदमिदानीं ते द्यावापृथिव्यावुपस्तुते तत्र तत्र स्थितैः स्तोतृभिः स्तुते वां युवां वसूयुर्धनकामोऽहं महो महतः ॥ विभक्तिव्यत्ययः ॥ महता स्तोत्रेण पुरो दधे । पुरस्करोमि । ।


मा नो॒ गुह्या॒ रिप॑ आ॒योरह॑न्दभ॒न्मा न॑ आ॒भ्यो री॑रधो दु॒च्छुना॑भ्यः ।

मा नो॒ वि यौः॑ स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत्त्वे॑महे ॥२

मा । नः॒ । गुह्याः॑ । रिपः॑ । आ॒योः । अह॑न् । द॒भ॒न् । मा । नः॒ । आ॒भ्यः । री॒र॒धः॒ । दु॒च्छुना॑भ्यः ।

मा । नः॒ । वि । यौः॒ । स॒ख्या । वि॒द्धि । तस्य॑ । नः॒ । सु॒म्न॒ऽय॒ता । मन॑सा । तत् । त्वा॒ । ई॒म॒हे॒ ॥२

मा। नः।गुह्याः। रिपः। आयोः। अहन्। दभन्। मा।नः। आभ्यः।रीरधः। दुच्छुनाभ्यः।

मा। नः।वि।यौः। सख्या।विद्धि। तस्य।नः। सुम्नऽयता।मनसा।तत्। त्वा।ईमहे ॥२॥

हे इंद्र त्वष्टर्वा आयोर्मनुष्यस्य शत्रुभूतस्य गुह्या गोप्या ज्ञातुमशक्या रिपो हिंसारूपा माया नोऽस्मान् अहन् । उपलक्षणमेतत् । अहनि रात्रौ च मा दभन् । मा हिंसिषुः । तथा नोऽस्मानाभ्यो दुच्छुनाभ्यः । शुनमिति सुखनाम । दुःशुना दुच्छुनाः । दुःखकारिणीभ्यः शत्रुसेनाभ्यो मा रीरधः । वशं मा नैषीः ॥ रध्यतिर्वशगमन इति यास्कः । रध हिंसासंराद्ध्योः । अस्माण्यंताल्लुङि चङि रूपं । अपि च नोऽस्माकं सख्या सख्यानि सखित्वानि मा वि यौः । त्वया वियुक्तानि मा कार्षीः । अपि तु नोऽस्माकं तस्य तत् सखित्वं सुम्नायता सुखमस्माकमिच्छता मनसा विद्धि । जानीहि ॥ क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चेतुर्थ्यर्थे षष्ठी । तत् वा तादृशं त्वामीमहे । अभिमतफलं याचामहे ॥ सुपां सुलुगिति तच्छब्दादुत्तरस्या विभक्तेर्लुक् ।


अहे॑ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा॑नां धे॒नुं पि॒प्युषी॑मस॒श्चत॑म् ।

पद्या॑भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा॑ ॥३

अहे॑ळता । मन॑सा । श्रु॒ष्टिम् । आ । व॒ह॒ । दुहा॑नाम् । धे॒नुम् । पि॒प्युषी॑म् । अ॒स॒श्चत॑म् ।

पद्या॑भिः । आ॒शुम् । वच॑सा । च॒ । वा॒जिन॑म् । त्वाम् । हि॒नो॒मि॒ । पु॒रु॒ऽहू॒त॒ । वि॒श्वहा॑ ॥३

अहेळता। मनसा। श्रुष्टिं । आ। वह। दुहानां । धेनुं । पिप्युषीं । असश्चतं ।

पद्याभिः । आशुं । वर्चसा । च। वाजिनं । त्वां। हिनोमि। पुरुऽहूत । विश्वहा ॥३॥

हे इंद्र त्वष्टर्वा अहेळता अक्रुध्यता मनसा श्रुष्टिं सुखकरीं दुहानां दोग्ध्रीं पिप्युषीं प्रवृद्धां पीनां ॥ प्यायी वृद्धौ । लिटः क्वसुः । लिड्यङोश्चेति पीभावः । उगितश्चेति ङीप् । संप्रसारणमिति संप्रसारणं । शासिवसिघसीनां चेति षत्वं । असश्चतमसक्तावयवां एवंभूतां धेनुं गामावह । आभिमुख्येन प्रापय । अपि च हे पुरुहूत बहुभिराहूतेंद्र त्वष्टर्वा पद्याभिः पादगतिभिराशुं व्यापनशीलं वचसा वाचा च वाजिनं वेगवंतं त्वां विश्वहा सर्वेष्वहःसु हिनोमि । स्तुतिभिः प्रेरयामि ॥ हि गतौ वृद्धौ च ॥


पत्नीसंयाजेषु गृहपतेः प्राक् राकासिनीवाल्यौ यष्टव्ये । तत्र राकायागस्य राकामहमित्यादिके याज्यानुवाक्ये । सूत्रितं च । राकामहं सिनीवालि कुहूमहमिति द्वे द्वे याज्यानुवाक्ये । आ°१.१०.। इति । तथाग्निमारुतेष्वेते धाय्ये । सूत्रितं च । राकामहमिति द्वे । आ०५.२०.। इति ॥

रा॒काम॒हं सु॒हवां॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑ ।

सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्य॑म् ॥४

रा॒काम् । अ॒हम् । सु॒ऽहवा॑म् । सु॒ऽस्तु॒ती । हु॒वे॒ । शृ॒णोतु॑ । नः॒ । सु॒ऽभगा॑ । बोध॑तु । त्मना॑ ।

सीव्य॑तु । अपः॑ । सू॒च्या । अच्छि॑द्यमानया । ददा॑तु । वी॒रम् । श॒तऽदा॑यम् । उ॒क्थ्य॑म् ॥४

राकां । अहं। सुऽहवां। सुऽस्तुती । हुवे। शृणोतु । नः । सुभगा। बोधतु । त्मना।

सीव्यतु। अपः । सूच्या। अच्छिद्यमानया। ददातु। वीरं। शतऽदायं । उक्थ्यं ॥४॥

संपूर्णचंद्रा पौर्णमासी राका । तां देवीं सुहवां स्वाह्वानामाह्वानप्रयोजनकारिणीं सुष्टुती शोभनया स्तुत्याहं हुवे । आह्वयामि ॥ सुष्टुतिशब्दात्तृतीयैकवचनस्य सुपां सुलुगिति पूर्वसवर्ण ईकारः ॥ सा च सुभगा शोभनधना नोऽस्माकमाह्वानं शृणोतु । श्रुत्वा च त्मना आत्मना स्वयमेव बोधतु । अस्मदभिप्रायं बुध्यतां । बुद्ध्वा चापः कर्म पुत्रोत्पादनलक्षणं सूच्या सूचीस्थानीययाच्छिद्यमानयाविच्छिन्नयानुग्रहबुद्ध्या सीव्यतु । संतनोतु। यथा वस्त्रादिकं सूच्या स्यूतं चिरं तिष्ठति एवमिदं करोतु । कृत्वा च वीरं विक्रांतं शतदायं बहुधनं बहुप्रदं वोक्थ्यं प्रशस्यं पुत्रं ददातु ॥


यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि ।

ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा॑णा ॥५

याः । ते॒ । रा॒के॒ । सु॒ऽम॒तयः॑ । सु॒ऽपेश॑सः । याभिः॑ । ददा॑सि । दा॒शुषे॑ । वसू॑नि ।

ताभिः॑ । नः॒ । अ॒द्य । सु॒ऽमनाः॑ । उ॒प॒ऽआग॑हि । स॒ह॒स्र॒ऽपो॒षम् । सु॒ऽभ॒गे॒ । ररा॑णा ॥५

याः । ते राके। सुऽमतयः । सुऽपेशसः । याभिः । ददासि । दाशुषे । वसूनि ।

ताभिः।नः। अद्य। सुऽमनाः। उपऽआगहि। सहस्रऽपोषं । सुभगे।रराणा ॥५॥

हे राके देवि सुपेशसः शोभनरूपास्ते तव याः सुमतयः शोभनबुद्धयः याभिर्मतिभिर्दाशुषे हविर्दत्तवते यजमानाय वसूनि धनानि ददासि । प्रयच्छसि । अद्येदानीं ताभिर्मतिभिः सहिता त्वं सुमनाः शोभनमना भूत्वोपागहि । उपागच्छ ॥ गमेश्छांदसः शपो लुक्। अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । असिद्धवदत्रा भादित्यस्यासिद्धत्वाद्धेर्लुगभावः । किं कुर्वती । हे सुभगे शोभनधने सहस्रपोषं सहस्रसंख्याकस्य धनस्य पुष्टिं रराणा ददती ॥ रा दाने । व्यत्ययेन शानच् । छांदसः शपः श्लुः । अभ्यस्तानामादिरित्याद्युदात्तत्वं ।


सिनीवाल्या यागे सिनीवालीत्यादिके द्वे याज्यानुवाक्ये । सूत्रं पूर्वमुदाहृतं । ।

सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ ।

जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥६

सिनी॑वालि । पृथु॑ऽस्तुके । या । दे॒वाना॑म् । असि॑ । स्वसा॑ ।

जु॒षस्व॑ । ह॒व्यम् । आऽहु॑तम् । प्र॒ऽजाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥६

सिनीवालि। पृथुऽस्तुके । या । देवानां । असि । स्वसा ।

जुषस्व । हव्यं । आऽहुतं । प्रऽजां । देवि। दिदिड्ढि। नः ॥६॥

दृष्टचंद्रामावास्या सिनीवाली । हे सिनीवालि पृथुष्टुके पृथुजघने पृथुसंहते वा या त्वं देवानां स्वसासि स्वयंसंचारिणी भगिनी वा भवसि सा त्वमाहुतमाभिमुख्येनाग्नौ प्रक्षिप्तं हव्यमस्मदीयं हविर्जुषस्व । सेवस्व । किंच हे देवि सिनीवालि नोऽस्माकं प्रजां पुत्रादिकां दिदिड्ढि ।उपचिनु अतिसर्जय वा । देहीत्यर्थः । दिह उपचये । लोटि छांदसः शपः श्लुः । दिश अतिसर्जन इत्यस्माद्वा ॥


या सु॑बा॒हुः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री ।

तस्यै॑ वि॒श्पत्न्यै॑ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥७

या । सु॒ऽबा॒हुः । सु॒ऽअ॒ङ्गु॒रिः । सु॒ऽसूमा॑ । ब॒हु॒ऽसूव॑री ।

तस्यै॑ । वि॒श्पत्न्यै॑ । ह॒विः । सि॒नी॒वा॒ल्यै । जु॒हो॒त॒न॒ ॥७

या । सुऽबाहुः । सुऽअंगुरिः । सुऽसूमा । बहुऽसूवरी ।।

तस्यै । विश्पत्न्यै । हविः । सिनीवाल्यै । जुहोतन ॥७॥

या सिनीवाली सुबाहुः शोभनबाहुः स्वंगुरिः शोभनांगुलिः सुषूमा सुष्टु प्रसवित्री ॥ षूङ् प्राणिप्रसवे । अन्येभ्योऽपि दृश्यंत इति मनिन्। कृदुत्तरपदप्रकृतिस्वरत्वं ॥ बहुसूवरी बह्वीनां प्रजानां सवित्री॥ तेनैव सूत्रेण क्वनिप् । वनो र चेति ङीब्रेफौ । कृदुत्तरपदप्रकृतिस्वरत्वं । तस्यै सिनीवाल्यै विश्पत्न्यै विशां पालयित्र्यै ॥ विभाषा सपूर्वस्येति पत्युर्नकारांतादेशः । अयस्मयादित्वेन भत्वाद्विशो जश्त्वाभावः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वं ॥ हे ऋत्विग्यजमाना हविर्जुहोतन । जुहुत ॥ तप्तनप्तनथनाश्चेति तनबादेशः ॥


या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती ।

इ॒न्द्रा॒णीम॑ह्व ऊ॒तये॑ वरुणा॒नीं स्व॒स्तये॑ ॥८

या । गु॒ङ्गूः । या । सि॒नी॒वा॒ली । या । रा॒का । या । सर॑स्वती ।

इ॒न्द्रा॒णीम् । अ॒ह्वे॒ । ऊ॒तये॑ । व॒रु॒णा॒नीम् । स्व॒स्तये॑ ॥८

या । गुंगूः । या। सिनीवाली। या। राका । या । सरस्वती।

इंद्राणीं । अह्वे। ऊतये । वरुणानीं । स्वस्तये ॥८॥

अत्र गुंगूशब्देन राकासिनीवाल्योः साहचर्यात्कुहूरुच्यते । या गुंगूः कुहूस्तामह्वे । आह्वयामि । एवमुत्तरत्रापि योज्यं । इंद्राणीमिंद्रस्य पत्नीमूतये रक्षणार्थमह्वे । आह्वयामि । तथा वरुणानीं वरुणस्य पत्नीं स्वस्तये ऽविनाशायाह्वयामि ॥ इंद्रवरुणेत्यादिना ङीष् आनुगागमश्च ॥ ॥ १५॥ ॥३॥


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.३२&oldid=208866" इत्यस्माद् प्रतिप्राप्तम्