सामग्री पर जाएँ

ऋग्वेदः सूक्तं २.४१

विकिस्रोतः तः
← सूक्तं २.४० ऋग्वेदः - मण्डल २
सूक्तं २.४१
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.४२ →
दे. १-२ वायुः, ३ इन्द्रवायू, ४-६ मित्रावरुणौ, ७-९ अश्विनौ, १०-१२ इन्द्रः, १३-१५ विश्वे देवाः, १६-१८ सरस्वती, १९-२१ द्यावापृथिव्यौ हविर्धाने वा (१९ तृतीयपादस्य - अग्निर्वा)। गायत्री, १६-१७ अनुष्टुप्, १८ बृहती।
द्विदेवत्यसोमभक्षणम्
शुक्रसाम(नियुत्वान् इति)
ऐन्द्रवायवग्रह। द्विदेवत्यग्रह १
ऐन्द्रवायव + मैत्रावरुणग्रहौ। द्विदेवत्यग्रहः२
ऐन्द्रवायव + मैत्रावरुण +आश्विन् ग्रहाः। द्विदेवत्यग्रहः३
वराहमुखे सरस्वती, खजुराहो

वायो ये ते सहस्रिणो रथासस्तेभिरा गहि ।
नियुत्वान्सोमपीतये ॥१॥
नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते ।
गन्तासि सुन्वतो गृहम् ॥२॥
शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः ।
आ यातं पिबतं नरा ॥३॥
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ।
ममेदिह श्रुतं हवम् ॥४॥
राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे ।
सहस्रस्थूण आसाते ॥५॥
ता सम्राजा घृतासुती आदित्या दानुनस्पती ।
सचेते अनवह्वरम् ॥६॥
गोमदू षु नासत्याश्वावद्यातमश्विना ।
वर्ती रुद्रा नृपाय्यम् ॥७॥
न यत्परो नान्तर आदधर्षद्वृषण्वसू ।
दुःशंसो मर्त्यो रिपुः ॥८॥
ता न आ वोळ्हमश्विना रयिं पिशङ्गसंदृशम् ।
धिष्ण्या वरिवोविदम् ॥९॥
इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् ।
स हि स्थिरो विचर्षणिः ॥१०॥
इन्द्रश्च मृळयाति नो न नः पश्चादघं नशत् ।
भद्रं भवाति नः पुरः ॥११॥
इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् ।
जेता शत्रून्विचर्षणिः ॥१२॥
विश्वे देवास आ गत शृणुता म इमं हवम् ।
एदं बर्हिर्नि षीदत ॥१३॥
तीव्रो वो मधुमाँ अयं शुनहोत्रेषु मत्सरः ।
एतं पिबत काम्यम् ॥१४॥
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
विश्वे मम श्रुता हवम् ॥१५॥
अम्बितमे नदीतमे देवितमे सरस्वति ।
अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥१६॥
त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् ।
शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥१७॥
इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति ।
या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥१८॥
प्रेतां यज्ञस्य शम्भुवा युवामिदा वृणीमहे ।
अग्निं च हव्यवाहनम् ॥१९॥
द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम् ।
यज्ञं देवेषु यच्छताम् ॥२०॥
आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः ।
इहाद्य सोमपीतये ॥२१॥


सायणभाष्यम्

' वायो ये ते ' इत्येकविंशत्यृचं नवमं सूक्तं गार्त्समदं गायत्रम् । ' अम्बितमे ' इति षष्ठस्य तृचस्य आदितो द्वे अनुष्टुभौ तृतीया बृहती । ' वायो ये ते ' इत्यादिके द्वे ऋचौ वायव्यौ । ' शुक्रस्याद्य ' इत्येषा ऐन्द्रवायवी । ' अयं वां मित्रावरुणा ' इति पञ्चानां तृचानां मित्रावरुणौ अश्विनौ इन्द्रः विश्वे देवाः सरस्वती इति क्रमेण देवताः । ' प्रेतां यज्ञस्य ' इत्यन्त्यस्तृचो ब्राह्मणसूत्रयोर्हविर्धानप्रवर्तने द्यावापृथिव्यनिविद्धानत्वेन च विनियुक्तत्वात् द्यावापृथिव्यो हविर्धानदेवत्यो वा । ' अग्निं च हव्यवाहनम् ' इति पादोऽग्निदेवत्यो वा । तथा चानुक्रान्तं-' वायो सैका गायत्रमुक्ता देवताः प्रउगेणाद्ये तु तृचेऽनयैन्द्रवायवी द्यावापृथिव्योऽनयस्तृचो हाविर्धानो वा तृतीयः पादो वाग्नेयोऽम्बितमेऽनुष्टुभौ बृहती च ' इति । पृष्ठयाभिप्लवषडहयोर्द्वितीयेऽहनि प्रउगेऽन्त्यतृचवर्जमेतत्सूक्तम् । वायव्यतृचस्य ' वायो ये ते सहस्रिणः ' इत्याद्ये द्वे ऋचौ ऐन्द्रवायवतृचस्य ' शुक्रस्याद्य ' इत्येषा तृतीया । तथा च सूचितं- ' वायो ये ते सहस्रिण इति द्वे तीव्राः सोमास आ गहीत्येकोभा देवा दिविस्पृशेति द्वे शुक्रस्याद्य गवाशिर इत्येकायं वां मित्रावरुणेति पञ्च तृचाः ' (आश्व. श्रौ. ७. ६) इति । चातुर्विंशिकेऽहनि प्रातःसवने मैत्रावरुणशस्त्रे ' अयं वां मित्रावरुणा ' इति षळहस्तोत्रियसंज्ञकः । ' चतुर्विंशे होताजनिष्ट ' इति खण्डे सूत्रितम्-' अयं वां मित्रावरुणा पुरूरुणा चिद्ध्यस्ति ' ( आश्व. श्रौ. ७. २) इति । आभिप्लविकेष्वहःसु प्रातःसवने मैत्रावरुणशस्त्रेऽयमेव तृचः पञ्चदशादिस्तोमनिमित्तमावापनीयः । ' अयं वां मित्रावरुणा नो मित्रावरुणेति तृचाः ' ( आश्व. श्रौ. ७.५) इति सूत्रितत्वात् । आद्या मैत्रावरुणग्रहस्यानुवाक्या । सूत्रितं च-' मैत्रावरुणस्य अयं वां मित्रावरुणा ' ( आश्व. श्रौ. ५.५) इति । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसि ' गोमदू षु ' इति तृचो विनियुक्तः । ' गोमदू षु नासत्येति तृचा ' ( आश्व. श्रौ. ४.१५) इति सूत्रितत्वात् । अतिरात्रे प्रथमे पर्याये ब्राह्मणाच्छंसिशस्त्रे ' इन्द्रो अङ्ग महद्भयम् ' इति तृचः । ' अतिरात्रे पर्यायाणाम् ' इति खण्डे सूत्रितम्-' इन्द्रो अङ्ग महद्भयमभि न्यू षु वाचम् ' (आश्व. श्रौ. ६ .४) इति । आग्रयणे वैश्वदेवस्य हविषः ' विश्वे देवासः ' इत्यनुवाक्या । ' आग्रयणम् ' इति खण्डे सूत्रितं-' विश्वे देवास आ गत ये के च ज्मा महिनो अहिमायाः ' ( आश्व श्रौ. २. ९) इति । दशरात्रे प्रथमेऽहनि प्रउगशस्त्रे ' अम्बितमे नदीतमे ' इति सारस्वतः सप्तमस्तृचः । ' चतुर्थेऽहनि ' इति खण्डे सूत्रितम्--' अम्बितमे नदीतम इत्यानुष्टुभं प्रउगम् ' ( आश्व. श्रौ. ७.११) इति । व्यूढे दशरात्रे प्रथमे छन्दोमे वैश्वदेवशस्त्रे ' प्रेतां यज्ञस्य शंभुवा ' इति द्यावापृथिव्यनिविद्धानीयस्तृचः । ' अथ छन्दोमाः ' इति खण्डे सूत्रितं- ' प्रेतां यज्ञस्य शंभुवायं देवाय जन्मन इति तृचाः ' ( आश्व. श्रौ. ८.९) इति । हविर्धानप्रवर्तनेऽप्ययं तृचो विनियुक्तः । सूत्रितं च-' प्रेतां यज्ञस्य शंभुवा यमे इव यतमाने यदैतम् ' ( आश्व. श्रौ ४. ९; ऐ.ब्रा. १ २९) इति ।।


वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि ।

नि॒युत्वा॒न्सोम॑पीतये ॥१

वायो॒ इति॑ । ये । ते॒ । स॒ह॒स्रिणः॑ । रथा॑सः । तेभिः॑ । आ । ग॒हि॒ ।

नि॒युत्वा॑न् । सोम॑ऽपीतये ॥१

वायो इति । ये । ते । सहस्रिणः । रथासः । तेभिः । आ । गहि ।

नियुत्वान् । सोमऽपीतये ॥१

हे वायो ते त्वदीया ये सहस्रिणः सहस्रसंख्याका रथासः रथाः तेभिस्तैर्नियुत्वान् नियुद्भि- युक्तस्त्वं सोमपीतये सोमपानार्थमागह्यागच्छ नानारूपत्वात् वायोः सर्वाभिर्विभूतिभिः सहा- गमनं प्रार्थ्यत इति भावः ।। १ ।।


नि॒युत्वा॑न्वाय॒वा ग॑ह्य॒यं शु॒क्रो अ॑यामि ते ।

गन्ता॑सि सुन्व॒तो गृ॒हम् ॥२

नि॒युत्वा॑न् । वा॒यो॒ इति॑ । आ । ग॒हि॒ । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ ।

गन्ता॑ । अ॒सि॒ । सु॒न्व॒तः । गृ॒हम् ॥२

नियुत्वान् । वायो इति । आ । गहि । अयम् । शुक्रः । अयामि । ते ।

गन्ता । असि । सुन्वतः । गृहम् ॥२

हे वायो नियुत्वान् नियुतो वाहनानि वायोः तैर्युक्तस्त्वं आगह्यागच्छ अयं शुक्रो दीप्यमा नः सोमः ते तुभ्यं अयामि नियतो गृहीत आसीत् यमेःकर्मणि लुङ् सुन्वतः सोमाविषवं कुर्व- तो यजमानस्य गृहं गन्तासि याता भवसि ।। २ ।।


शु॒क्रस्या॒द्य गवा॑शिर॒ इन्द्र॑वायू नि॒युत्व॑तः ।

आ या॑तं॒ पिब॑तं नरा ॥३

शु॒क्रस्य॑ । अ॒द्य । गोऽआ॑शिरः । इन्द्र॑वायू॒ इति॑ । नि॒युत्व॑तः ।

आ । या॒त॒म् । पिब॑तम् । न॒रा॒ ॥३

शुक्रस्य । अद्य । गोऽआशिरः । इन्द्रवायू इति । नियुत्वतः ।

आ । यातम् । पिबतम् । नरा ॥३

हे नरा नेतारौ हे इन्द्रवायू अद्यास्मिन्नहनि नियुत्वतः विभक्तिव्यत्ययः नियुत्वन्तौ युवां गवाशिरः गव्यं पयः आशीराश्रयणसाधनं यस्य तस्य शुक्रस्य दीप्तस्य सोमस्य पानार्थं आया- तं आगच्छतं आगत्य सोमं पिबतम् ।। ३ ।।


अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा ।

ममेदि॒ह श्रु॑तं॒ हव॑म् ॥४

अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ ।

मम॑ । इत् । इ॒ह । श्रु॒त॒म् । हव॑म् ॥४

अयम् । वाम् । मित्रावरुणा । सुतः । सोमः । ऋतऽवृधा ।

मम । इत् । इह । श्रुतम् । हवम् ॥४

मित्रावरुणा हे मित्रावरुणौ वां युवाभ्यां अयं सोमः सुतः अभिषुतः क्रतावृधा हे सत्यस्य यज्ञस्य वावर्धकौ ममेत् ममैव इहास्मिन्यज्ञे हवमाह्वानं श्रुतं शृणुतम् ।। ४ ।।


राजा॑ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे ।

स॒हस्र॑स्थूण आसाते ॥५

राजा॑नौ । अन॑भिऽद्रुहा । ध्रु॒वे । सद॑सि । उ॒त्ऽत॒मे ।

स॒हस्र॑ऽस्थूणे । आ॒सा॒ते॒ इति॑ ॥५

राजानौ । अनभिऽद्रुहा । ध्रुवे । सदसि । उत्ऽतमे ।

सहस्रऽस्थूणे । आसाते इति ॥५

राजानौ ईश्वरौ दीप्यमानौ वा अनभिद्रुहा अनभिद्रोग्धारौ यौ मित्रावरुणौ ध्रुवे स्थिरे उत्तमे उत्कृष्टे सहस्रस्थूणे बहुस्तंभे सदसिस्थाने आसाते उपविशतः तावागच्छतमितिशेषः ।। ५ ।।


ता स॒म्राजा॑ घृ॒तासु॑ती आदि॒त्या दानु॑न॒स्पती॑ ।

सचे॑ते॒ अन॑वह्वरम् ॥६

ता । स॒म्ऽराजा॑ । घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । आ॒दि॒त्या । दानु॑नः । पती॒ इति॑ ।

सचे॑ते॒ इति॑ । अन॑वऽह्वरम् ॥६

ता । सम्ऽराजा । घृतासुती इति घृतऽआसुती । आदित्या । दानुनः । पती इति ।

सचेते इति । अनवऽह्वरम् ॥६

सम्राजौ आज्ञयैव सर्वेषां शास्तारौ घृतासुती घृतान्नौ तद्वां महित्वं घृतान्नावस्त्विति मन्त्रा न्तरात् आदित्या अदितेः पुत्रौ दानुनस्पती दानुनो दानस्य देवस्य वा धनस्य पती स्वामिनौ ता तौ मित्रावरुणौ अनह्वरमकुटिलं यजमानं सचेते सेवेते ।। ६ ।।


गोम॑दू॒ षु ना॑स॒त्याश्वा॑वद्यातमश्विना ।

व॒र्ती रु॑द्रा नृ॒पाय्य॑म् ॥७

गोऽम॑त् । ऊं॒ इति॑ । सु । ना॒स॒त्या॒ । अश्व॑ऽवत् । या॒त॒म् । अ॒श्वि॒ना॒ ।

व॒र्तिः । रु॒द्रा॒ । नृ॒ऽपाय्य॑म् ॥७

गोऽमत् । ऊं इति । सु । नासत्या । अश्वऽवत् । यातम् । अश्विना ।

वर्तिः । रुद्रा । नृऽपाय्यम् ॥७

अश्विना हे अश्विनौ हे नासत्या अनृतभाषणरहितो हे रुद्रा रोरूयमाणौ द्रवन्तौ युवां वर्ति- र्मार्गः तेन मार्गेण रथेन वा नृपाय्यं नृर्भिर्देवैः पातव्यं सोमं गोमत् गोमद्यथाभवति तथा अश्ववत् अश्ववच्च यथा भवति तथा यातं गच्छतं ऊष्विति पूरणो ।। ७ ।।


न यत्परो॒ नान्त॑र आद॒धर्ष॑द्वृषण्वसू ।

दु॒ःशंसो॒ मर्त्यो॑ रि॒पुः ॥८

न । यत् । परः॑ । न । अन्त॑रः । आ॒ऽद॒धर्ष॑त् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

दुः॒ऽशंसः॑ । मर्त्यः॑ । रि॒पुः ॥८

न । यत् । परः । न । अन्तरः । आऽदधर्षत् । वृषण्वसू इति वृषण्ऽवसू ।

दुःऽशंसः । मर्त्यः । रिपुः ॥८

वृषण्वसू हे धनस्य वर्षितारौ यद्धनं परो दूरस्थो दुःशंसः शंसनायोग्यो मर्त्यो रिपुः यन्ना- दधर्षत् नापहरेत् तथोक्तलक्षणेतरः अन्तरः समीपवर्ती मर्त्यो रिपुरपि यन्नादधर्षत् तद्धनमावोह्ळामिति शेषः ।। ८ ।।


ता न॒ आ वो॑ळ्हमश्विना र॒यिं पि॒शङ्ग॑संदृशम् । धिष्ण्या॑ वरिवो॒विद॑म् ॥९

ता । नः॒ । आ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ । र॒यिम् । पि॒शङ्ग॑ऽसन्दृशम् ।

धिष्ण्या॑ । व॒रि॒वः॒ऽविद॑म् ॥९

ता । नः । आ । वोळ्हम् । अश्विना । रयिम् । पिशङ्गऽसन्दृशम् ।

धिष्ण्या । वरिवःऽविदम् ॥९

हे धिष्ण्या धिषणार्हौ अश्विना हे अश्विनौ ता तौ युवां पिशंगसदृशं नानारूपं वरिवोविदं धनस्यलंभकरं रयिं पशुं नोस्मभ्यं आवोह्ळमावहतम् ॥ ९ ॥


इन्द्रो॑ अ॒ङ्ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत् ।

स हि स्थि॒रो विच॑र्षणिः ॥१०

इन्द्रः॑ । अ॒ङ्ग । म॒हत् । भ॒यम् । अ॒भि । सत् । अप॑ । चु॒च्य॒व॒त् ।

सः । हि । स्थि॒रः । विऽच॑र्षणिः ॥१०

इन्द्रः । अङ्ग । महत् । भयम् । अभि । सत् । अप । चुच्यवत् ।

सः । हि । स्थिरः । विऽचर्षणिः ॥१०

इन्द्रः महत् अधिकं अभीषत् अभिभवत् भयं भयकारणं अपचुच्यवत् अपच्यावयेत् हि यस्मात्कारणात् स स्थिरः केनापि चालयितुमशक्यः विचर्षणिर्विश्वस्य द्रष्टा अङ्गेति पूरणम् ॥ १० ॥


इन्द्र॑श्च मृ॒ळया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् ।

भ॒द्रं भ॑वाति नः पु॒रः ॥११

इन्द्रः॑ । च॒ । मृ॒ळया॑ति । नः॒ । न । नः॒ । प॒श्चात् । अ॒घम् । न॒श॒त् ।

भ॒द्रम् । भ॒वा॒ति॒ । नः॒ । पु॒रः ॥११

इन्द्रः । च । मृळयाति । नः । न । नः । पश्चात् । अघम् । नशत् ।

भद्रम् । भवाति । नः । पुरः ॥११

इन्द्रश्च परमैश्वर्यवानिन्द्रश्चेत् नोस्मान्मृळयाति सुखयेत् पश्चात्पृष्ठतः नोस्मान् अघं दुरितं ननशत् न प्राप्नोति नोस्माकं पुरः पुरस्तात् भद्रं कल्याणं च भवाति भवति ॥ ११॥


इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् ।

जेता॒ शत्रू॒न्विच॑र्षणिः ॥१२

इन्द्रः॑ । आशा॑भ्यः । परि॑ । सर्वा॑भ्यः । अभ॑यम् । क॒र॒त् ।

जेता॑ । शत्रू॑न् । विऽच॑र्षणिः ॥१२

इन्द्रः । आशाभ्यः । परि । सर्वाभ्यः । अभयम् । करत् ।

जेता । शत्रून् । विऽचर्षणिः ॥१२

विचर्षणिः विविधं द्रष्टा जेता शत्रून् असुरान्जेता तृन्नन्तत्वात्षष्ठ्यभावः इन्द्रः परमैश्वर्यवान् सर्वाभ्य आाशाभ्यो दिग्भ्योस्माकं अभयं करत्करोतु परीति पञ्चमीद्योतकः ॥ १२ ॥


विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव॑म् ।

एदं ब॒र्हिर्नि षी॑दत ॥१३

विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ । शृ॒णु॒त । मे॒ । इ॒मम् । हव॑म् ।

आ । इ॒दम् । ब॒र्हिः । नि । सी॒द॒त॒ ॥१३

विश्वे । देवासः । आ । गत । शृणुत । मे । इमम् । हवम् ।

आ । इदम् । बर्हिः । नि । सीदत ॥१३

विश्वेदेवासः हे विश्वेदेवाः आगत इहागच्छत मे मदीयं इमं हवमाह्वानं श्रृणुत इदं बर्हिरस्मिन् बर्हिषि आनिषीदत उपविशत ॥ १३ ॥


ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो॑त्रेषु मत्स॒रः ।

ए॒तं पि॑बत॒ काम्य॑म् ॥१४

ती॒व्रः । वः॒ । मधु॑ऽमान् । अ॒यम् । शु॒नऽहो॑त्रेषु । म॒त्स॒रः ।

ए॒तम् । पि॒ब॒त॒ । काम्य॑म् ॥१४

तीव्रः । वः । मधुऽमान् । अयम् । शुनऽहोत्रेषु । मत्सरः ।

एतम् । पिबत । काम्यम् ॥१४

हे विश्वेदेवाः तीव्रः तीव्रमदः मधुमान् मधुररसवान् मत्सरो मदकरः सोमोयं वो युष्मदर्थं । शुनहोत्रेषु गृत्समदेष्वस्मासु स्थितः काम्यं कमनीयमेतं सोमं पिबत ॥ १४ ॥


इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑स॒ः पूष॑रातयः ।

विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥१५

इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूष॑ऽरातयः ।

विश्वे॑ । मम॑ । श्रु॒त॒ । हव॑म् ॥१५

इन्द्रऽज्येष्ठाः । मरुत्ऽगणाः । देवासः । पूषऽरातयः ।

विश्वे । मम । श्रुत । हवम् ॥१५

हे इन्द्रज्येष्ठाः इंद्रपुरोगमा मरुद्गणाः मरुत्समूहरूपाः पूषरातयः पूषाख्यो देवो रातिर्दाता येषां ते पूषरातयः देवासः हे द्योतमाना देवाः विश्वे सर्वे यूयं मम मदीयं हवमाह्वानं श्रुतश्शृणुत इन्द्रज्येष्ठादयः संबोधनान्ताः ॥ १५ ॥


अम्बि॑तमे॒ नदी॑तमे॒ देवि॑तमे॒ सर॑स्वति ।

अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ॥१६

अम्बि॑ऽतमे । नदी॑ऽतमे । देवि॑ऽतमे । सर॑स्वति ।

अ॒प्र॒श॒स्ताःऽइ॑व । स्म॒सि॒ । प्रऽश॑स्तिम् । अ॒म्ब॒ । नः॒ । कृ॒धि॒ ॥१६

अम्बिऽतमे । नदीऽतमे । देविऽतमे । सरस्वति ।

अप्रशस्ताःऽइव । स्मसि । प्रऽशस्तिम् । अम्ब । नः । कृधि ॥१६

अंबितमे मातॄणां श्रेष्ठे नदीतमे नदीनां श्रेष्ठे देवितमे देवीनां श्रेष्ठे हे सरस्वति अप्रशस्ताइव धनाभावादसमृद्धा इव वयं स्मसि भवामः अंब हे मातः सरस्वति नोस्मभ्यं प्रशस्ति धनसमृद्धिं कृधि कुरु प्रयच्छेत्यर्थः ॥ १६ ॥


त्वे विश्वा॑ सरस्वति श्रि॒तायूं॑षि दे॒व्याम् ।

शु॒नहो॑त्रेषु मत्स्व प्र॒जां दे॑वि दिदिड्ढि नः ॥१७

त्वे इति॑ । विश्वा॑ । स॒र॒स्व॒ति॒ । श्रि॒ता । आयूं॑षि । दे॒व्याम् ।

शु॒नऽहो॑त्रेषु । म॒त्स्व॒ । प्र॒ऽजाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥१७

त्वे इति । विश्वा । सरस्वति । श्रिता । आयूंषि । देव्याम् ।

शुनऽहोत्रेषु । मत्स्व । प्रऽजाम् । देवि । दिदिड्ढि । नः ॥१७

हे सरस्वति देव्यां द्योतमानायां त्वे त्वयि विश्वा विश्वानि सर्वाण्यायूंषि अन्नानि आयुः सूनृतेत्यन्ननामसु पाठात् श्रिता आश्रितानि सा त्वं शुनहोत्रेषु गृत्समदेष्वस्मासु विषयेषु मत्स्व सोमपानेन तृप्य किंच हे देवि सरस्वति नः अस्मभ्यं प्रजां दिदिड्ढि पुत्रान्देहि ॥ १७ ॥


इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति ।

या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥१८

इ॒मा । ब्रह्म॑ । स॒र॒स्व॒ति॒ । जु॒षस्व॑ । वा॒जि॒नी॒ऽव॒ति॒ ।

या । ते॒ । मन्म॑ । गृ॒त्स॒ऽम॒दाः । ऋ॒त॒ऽव॒रि॒ । प्रि॒या । दे॒वेषु॑ । जुह्व॑ति ॥१८

इमा । ब्रह्म । सरस्वति । जुषस्व । वाजिनीऽवति ।

या । ते । मन्म । गृत्सऽमदाः । ऋतऽवरि । प्रिया । देवेषु । जुह्वति ॥१८

वाजिनीवति अन्नवति ऋतावरि उदकवति हे सरस्वति इमा इमानि ब्रह्म ब्रह्माणि हवींषि जुषस्व स्वीकुरु या यानि मम मननीयानि देवेषु प्रिया देवानां मध्ये तुभ्यं प्रियाणि देवेषु प्रिया- णि वा ते त्वदर्थं गृत्समदाजुह्वति ।। १८ ।।


प्रेतां॑ य॒ज्ञस्य॑ श॒म्भुवा॑ यु॒वामिदा वृ॑णीमहे ।

अ॒ग्निं च॑ हव्य॒वाह॑नम् ॥१९

प्र । इ॒ता॒म् । य॒ज्ञस्य॑ । श॒म्ऽभुवा॑ । यु॒वाम् । इत् । आ । वृ॒णी॒म॒हे॒ ।

अ॒ग्निम् । च॒ । ह॒व्य॒ऽवाह॑नम् ॥१९

प्र । इताम् । यज्ञस्य । शम्ऽभुवा । युवाम् । इत् । आ । वृणीमहे ।

अग्निम् । च । हव्यऽवाहनम् ॥१९

यज्ञस्य यागस्य शंभुवा सुखसंपादके हविर्धाने अनसी तद्रूपे द्यावापृथिव्यौ वा प्रेतां उत्तरवेदेः पश्चिमभागं प्रति गच्छतां अथ प्रत्यक्षकृतः युवामित् युवामेव आवृणीमहे प्रार्थयामहे हव्यवाहन- मग्निं च आवृणीमहे अग्निरत्र निपातभागिति ।। १९ ।।


द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म् ।

य॒ज्ञं दे॒वेषु॑ यच्छताम् ॥२०

द्यावा॑ । नः॒ । पृ॒थि॒वी इति॑ । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् ।

य॒ज्ञम् । दे॒वेषु॑ । य॒च्छ॒ता॒म् ॥२०

द्यावा । नः । पृथिवी इति । इमम् । सिध्रम् । अद्य । दिविऽस्पृशम् ।

यज्ञम् । देवेषु । यच्छताम् ॥२०

द्यावाद्यौश्च पृथिवी च उभे सिध्रं स्वर्गादेः साधकं दिविस्पृशं देवान्गच्छन्तं अद्यास्मिन्नहनि अस्माकं इमं यज्ञं देवेषु यच्छतां नियच्छताम्।। २० ।।


आ वा॑मु॒पस्थ॑मद्रुहा दे॒वाः सी॑दन्तु य॒ज्ञियाः॑ ।

इ॒हाद्य सोम॑पीतये ॥२१

आ । वा॒म् । उ॒पऽस्थ॑म् । अ॒द्रु॒हा॒ । दे॒वाः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ ।

इ॒ह । अ॒द्य । सोम॑ऽपीतये ॥२१

आ । वाम् । उपऽस्थम् । अद्रुहा । देवाः । सीदन्तु । यज्ञियाः ।

इह । अद्य । सोमऽपीतये ॥२१

अद्रुहा द्रोहवर्जिते हे हविर्धाने तद्रूपे द्यावापृथिव्यौ वां युवयोरुपस्थं समीपं यज्ञिया यज्ञार्हा देवाः इह यज्ञे अद्यास्मिन्नहनि सोमपीतये सोमपानाय आसीदन्तु ।। २१ ।।

टिप्पणी

सोमयागे बहिष्पवमानस्य अन्तिमे चरणे ऐन्द्रवायव, मैत्रावरुण एवं आश्विन् ग्रहाणां क्रमिकरूपेण ग्रहणं भवति। प्रथमेन वाग्देव्याः सिद्धिः अभीष्टमस्ति, द्वितीयेन चक्षुषः, तृतीयेन श्रोत्रयोः।


२.४१.१-३ वायो ये ते इति--

वायुरुपरि टिप्पणी

इन्द्रवायूरुपरि टिप्पणी

वायव्ये चैन्द्रवायवी पञ्चाथ प्राउगास्तृचाः । प्रेत्यृक्स्तौति हविर्धाने अग्निस्तत्र निपातभाक् । द्यावापृथिव्यौ द्यावेति हविर्धाने ततः परे ।।बृहद्देवता ४.९२ ।।

२.४१.२ नियुत्वान् वायवागहि इति

द्र. आरण्यकगेयः ८९

२.४१.४ अयं वां मित्रावरुणा इति

मित्रावरुणौ उपरि संक्षिप्त टिप्पणी


२.४१.७ गोमदूषु नासत्या इति

अश्विनौ उपरि टिप्पणी


२.४१.१६ अम्बितमे नदीतमे इति

मन्त्रेण न्यासः - नामरूपात्मकं सर्वं यस्यामावेश्य तं पुनः । ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥ - सरस्वतीरहस्योपनिषत् २.१०

प्रउगशब्दोपरि संदर्भाः


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.४१&oldid=333624" इत्यस्माद् प्रतिप्राप्तम्