ऋग्वेदः सूक्तं २.२०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.१९ ऋग्वेदः - मण्डल २
सूक्तं २.२०
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.२१ →
दे. इन्द्रः। त्रिष्टुप्,३ विराड्रूपा


वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर्न रथम् ।
विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन् ॥१॥
त्वं न इन्द्र त्वाभिरूती त्वायतो अभिष्टिपासि जनान् ।
त्वमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति त्वा ॥२॥
स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता ।
यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तं च प्रणेषत् ॥३॥
तमु स्तुष इन्द्रं तं गृणीषे यस्मिन्पुरा वावृधुः शाशदुश्च ।
स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः ॥४॥
सो अङ्गिरसामुचथा जुजुष्वान्ब्रह्मा तूतोदिन्द्रो गातुमिष्णन् ।
मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥५॥
स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः ।
अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद्दासस्य स्वधावान् ॥६॥
स वृत्रहेन्द्रः कृष्णयोनीः पुरंदरो दासीरैरयद्वि ।
अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत् ॥७॥
तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ ।
प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून्पुर आयसीर्नि तारीत् ॥८॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥९॥



[सम्पाद्यताम्]

सायणभाष्यम्

' वयं ते वयः ' इति नवर्चं नवमं सूक्तं गार्त्समदं त्रैष्टुभमैन्द्रम् । ' वयं ते ' इत्यनुक्रान्तम् । सूक्तविनियोगो लिङ्गादवधार्यताम् ।


व॒यं ते॒ वय॑ इन्द्र वि॒द्धि षु ण॒ः प्र भ॑रामहे वाज॒युर्न रथ॑म् ।

वि॒प॒न्यवो॒ दीध्य॑तो मनी॒षा सु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒ नॄन् ॥१

व॒यम् । ते॒ । वयः॑ । इ॒न्द्र॒ । वि॒द्धि । सु । नः॒ । प्र । भ॒रा॒म॒हे॒ । वा॒ज॒ऽयुः । न । रथ॑म् ।

वि॒प॒न्यवः॑ । दीध्य॑तः । म॒नी॒षा । सु॒म्नम् । इय॑क्षन्तः । त्वाऽव॑तः । नॄन् ॥१

वयं। ते ।वयः। इंद्र। विद्धि । सु। नः । प्र। भरामहे । वाजऽयुः । न। रथं ।

विपन्यवः । दीध्यतः । मनीषा। सुम्नं । इयक्षंतः । त्वाऽवतः । नॄन् ॥१॥

हे इंद्र ते तुभ्यं वयं वयः सोमलक्षणमन्नं प्रभरामहे । प्रकर्षेण संपादयामः । तत्र दृष्टांतः । वाजयुर्न । यथान्नमात्मन इच्छन् पुमान् रथं शकटं संपादयति तद्वत् । एवं हविःसंपादकान् नोऽस्मान् सु सुष्ठु विद्धि । जानीहि ॥ विदेज्ञानार्थस्य लोटि रूपं । वाक्यादित्वादनिघातः । किं कुर्वतो वयं । विपन्यवः । तव स्तोत्रं कुर्वाणाः । मनीषा मनस इषया स्तुत्या दीध्यतो दीप्यमानाः ॥ दीधीङ् दीप्तिदेवनयोः । व्यत्ययेन शतृ ॥ त्वावतः ॥ युष्मदस्मद्भ्यां छंदसि सादृश्य उपसंख्यानमिति वतुप् ॥ त्वत्सदृशान् नॄन् नेतॄन अग्न्यादीन् सुम्नं सुखमियक्षतः । याचमानाः । यद्वा सुखं सुखेन नॄन नेतॄन् अग्न्यादीन्देवानियक्षतः ॥ इयक्षतिर्गतिकमी ॥ हविषा तान् प्राप्नुवंतो वयं भरामह इति समन्वयः ।।


त्वं न॑ इन्द्र॒ त्वाभि॑रू॒ती त्वा॑य॒तो अ॑भिष्टि॒पासि॒ जना॑न् ।

त्वमि॒नो दा॒शुषो॑ वरू॒तेत्थाधी॑र॒भि यो नक्ष॑ति त्वा ॥२

त्वम् । नः॒ । इ॒न्द्र॒ । त्वाभिः॑ । ऊ॒ती । त्वा॒ऽय॒तः । अ॒भि॒ष्टि॒ऽपा । अ॒सि॒ । जना॑न् ।

त्वम् । इ॒नः । दा॒शुषः॑ । व॒रू॒ता । इ॒त्थाऽधीः॑ । अ॒भि । यः । नक्ष॑ति । त्वा॒ ॥२

त्वं । नः । इंद्र । त्वाभिः । ऊती । त्वाऽयतः । अभिष्टिऽपा । असि। जनान् ।।

त्वं । इनः । दाशुषः । वरूता । इत्थाऽधीः । अभि । यः । नक्षति । त्वा ॥२॥

हे इंद्र त्वं त्वाभिस्त्वदीयाभिरूती ऊतिभिः पालनादिभिर्नोऽस्मान् पाहि । किंच त्वायतः ॥ सुप आत्मनः क्यच् । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ त्वत्कामान् जनान् अभिष्टिपा ॥ सुपां सुलुगिति सोराकारः ॥ अभिष्टयोऽभिगंतारः शत्रवः । तेभ्यः पाता रक्षकोऽसि । भवसि । दाशुषो हविर्दत्तवतो यजमानस्य त्वमिनः । ईश्वरः खलु । वरूता ॥ ग्रसितस्कभितस्तभितेति निपातनादीकारस्य ऊकारः । बाधकानां निवारको ऽसि । किंच त्वं तस्य स्तोतुरित्थाधीरेवंविधोपद्रवोपशमरूपकर्मासि । यस्त्वा त्वामभिनक्षति हविषा परिचरति ॥


स नो॒ युवेन्द्रो॑ जो॒हूत्र॒ः सखा॑ शि॒वो न॒राम॑स्तु पा॒ता ।

यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती पच॑न्तं च स्तु॒वन्तं॑ च प्र॒णेष॑त् ॥३

सः । नः॒ । युवा॑ । इन्द्रः॑ । जो॒हूत्रः॑ । सखा॑ । शि॒वः । न॒राम् । अ॒स्तु॒ । पा॒ता ।

यः । शंस॑न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती । पच॑न्तम् । च॒ । स्तु॒वन्त॑म् । च॒ । प्र॒ऽनेष॑त् ॥३

सः । नः। युवा। इंद्रः । जोहूत्रः। सखा। शिवः। नरां । अस्तु । पाता ।

यः । शंसंतं । यः। शशमानं । ऊती। पचंतं । च। स्तुवंतं । च। प्रऽनेषत् ॥३॥

युवा तरुणो यष्टॄणां फलस्य शमयिता वा जोहवः स्तोतृभिराहातव्यो होतव्यो वा सखा सखिभूतः शिवः सुखकरः स इंद्रो नरां ॥ नृशब्दस्यामि छांदसो गुणः नरशब्दस्य वाम्यागमानुशासनस्यानित्यत्वान्नुडभावः । कर्मनेतॄणामस्माकं पाता पालको भवति । यः शस्त्राणि शंसंतं यश्च शशमानं ॥ शश प्लुतगतौ ॥ क्रियाः कुर्वाणं पुरोडाशादिकं हवींषि पचंतं स्तुवंतं सामभिः स्तोत्रं कुर्वाणं । स्तुतशस्त्रयोः प्रगीताप्रगीतमंत्रसाध्यत्वेन भेदस्य प्रतिपादितत्वात् अत्र पृथङ्निर्देशः । एवमयं यजमानमूती ऊत्या रक्षणेन प्रनेषत् ॥ नयतेर्लिटि सिब्बहुलमिति सिप् । अडागमः । तिङि चोदात्तवतीति गतेर्निघातः । कर्मणां पारं प्रापयेत् ॥


तमु॑ स्तुष॒ इन्द्रं॒ तं गृ॑णीषे॒ यस्मि॑न्पु॒रा वा॑वृ॒धुः शा॑श॒दुश्च॑ ।

स वस्व॒ः कामं॑ पीपरदिया॒नो ब्र॑ह्मण्य॒तो नूत॑नस्या॒योः ॥४

तम् । ऊं॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । तम् । गृ॒णी॒षे॒ । यस्मि॑न् । पु॒रा । व॒वृ॒धुः । शा॒श॒दुः । च॒ ।

सः । वस्वः॑ । काम॑म् । पी॒प॒र॒त् । इ॒या॒नः । ब्र॒ह्म॒ण्य॒तः । नूत॑नस्य । आ॒योः ॥४

तं । ऊं इति । स्तुषे । इंद्र । तं । गृणीषे । यस्मिन् । पुरा। ववृधुः । शाशदुः । च।

सः । वस्वः । कामं । पीपरत् । इयानः । ब्रह्मण्यतः । नूतनस्य। आयोः ॥४॥

तमु तमेवेंद्रं स्तुषे । स्तौमि । तथा तमिंद्रं गृणीषे । शंसामि ॥ उभयत्र पुरुषव्यत्ययः ॥ यस्मिन्निंद्रे पुरा पूर्वं स्तोतारो वावृधुः । प्रवृद्धा अभवन् । शाशदुश्च । शत्रून् हिंसितवंतश्च ॥ शद्लृ शातने। लिटि तुजादीनामित्यभ्यासस्य दीर्घः ॥ इयानः स्तोतृभिर्याच्यमानः स इंद्रो ब्रह्मण्यतः स्तोत्रमिच्छतो नूतनस्यायोर्मनुष्यस्य यजमानस्य वस्वो वसुनः काममभिलाषं पीपरत् । अभिलषितफलदानेन पूरयतु ॥


सो अङ्गि॑रसामु॒चथा॑ जुजु॒ष्वान्ब्रह्मा॑ तूतो॒दिन्द्रो॑ गा॒तुमि॒ष्णन् ।

मु॒ष्णन्नु॒षस॒ः सूर्ये॑ण स्त॒वानश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥५

सः । अङ्गि॑रसाम् । उ॒चथा॑ । जु॒जु॒ष्वान् । ब्रह्मा॑ । तू॒तो॒त् । इन्द्रः॑ । गा॒तुम् । इ॒ष्णन् ।

मु॒ष्णन् । उ॒षसः॑ । सूर्ये॑ण । स्त॒वान् । अश्न॑स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि॑ ॥५

सः। अंगिरसां । उचथा। जुजुष्वान् । ब्रह्म । तूतोत् । इंद्रः । गातुं । इष्णन ।

मुष्णन् । उषसः । सूर्येण । स्तवान् । अश्नस्य । चित् । शिश्नथत् । पूर्व्याणि ॥५॥

अंगिरसां संबंधीन्युचथोक्थानि जुजुष्वान् ॥ जुषी प्रीतिसेवनयोरित्यस्य लिटि क्वसो रूपं ॥ सेवमानः स इंद्रो गातुं पणिभिरुपद्रुतानामंगिरसां मार्गमिष्णन् प्रेरयन् ब्रह्म तेषां स्तोत्रं कामप्रदानेन तूतोत् ॥ तु वृद्धावित्यस्य लङि बहुलं छंदसीति विकरणस्य श्लुः ॥ अवर्धयत् । किंच स्तवान् स्तोतृभिः स्तूयमानः सूर्येण स्वात्मभूतेनोषसो मुष्णन् अपहरन्। उदिते हि सूर्य उषसो व्यावर्तते । तादृशः स इंद्रोऽश्नस्य । अश्नुते स्वतेजसा सर्वं जगदित्यश्नः कश्चिदसुरः । तस्य पूर्व्याणि पुरातनानि पुराणि बलानि वा शिश्नथत् । अश्नथयत् । शिथिलीचकार ॥ ॥ २५॥


स ह॑ श्रु॒त इन्द्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः ।

अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वाञ्छिरो॑ भरद्दा॒सस्य॑ स्व॒धावा॑न् ॥६

सः । ह॒ । श्रु॒तः । इन्द्रः॑ । नाम॑ । दे॒वः । ऊ॒र्ध्वः । भु॒व॒त् । मनु॑षे । द॒स्मऽत॑मः ।

अव॑ । प्रि॒यम् । अ॒र्श॒सा॒नस्य॑ । स॒ह्वान् । शिरः॑ । भ॒र॒त् । दा॒सस्य॑ । स्व॒धाऽवा॑न् ॥६

सः । ह। श्रुतः । इंद्रः । नाम । देवः । ऊर्ध्वः । भुवत् । मनुषे। दस्मऽतमः।

अव। प्रियं । अर्शसानस्य । सह्वान् । शिरः । भरत् । दासस्य । स्वधाऽवान् ॥६॥

देवो द्योतमानः श्रुतः कीर्तिमान् अत एव दस्मतमः सर्वैरतिशयेन दर्शनीयः स इंद्रो मनुषे मनोरर्थमूर्ध्वो भुवत् । कामप्रदाने प्रवृत्त उन्मुखो भवतु ॥ नाम प्रसिद्धौ । हेति पूरणः ॥ तदुच्यते । साह्वान् शत्रूनभिभवन् स्वधावान् बलवानिंद्रोऽर्शसानस्य लोकं बाधमानस्य दासस्यैतन्नामकस्यासुरस्य प्रियं शिरोऽवभरत् । अधः पातयतु ॥ हरतेर्लेट्यडागमः । हृग्रहोर्भः ॥


स वृ॑त्र॒हेन्द्रः॑ कृ॒ष्णयो॑नीः पुरंद॒रो दासी॑रैरय॒द्वि ।

अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत् ॥७

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । कृ॒ष्णऽयो॑नीः । पु॒र॒म्ऽद॒रः । दासीः॑ । ऐ॒र॒य॒त् । वि ।

अज॑नयत् । मन॑वे । क्षाम् । अ॒पः । च॒ । स॒त्रा । शंस॑म् । यज॑मानस्य । तू॒तो॒त् ॥७

सः । वृत्रहा । इंद्रः । कृष्णऽयोनीः । पुरंऽदरः । दासीः । ऐरयत् । वि।

अजनयत् । मनवे । क्षां । अपः । च । सत्रा। शंसं । यजमानस्य । तूतोत् ॥ ७॥

वृत्रहा वृत्रस्य हंता पुरंदरः शंबरपुरां दारयिता स इंद्रः कृष्णयोनीर्निकृष्टजातीर्दासीरुपक्षपयित्रीरासुरीः सेना व्यैरयत् । व्यनुदत् । किंच मनवे मनोरथं क्षां पृथिवीमप उदकानि चाजनयत् । यजमानस्य सचा महांतं शंसमभिलाषं तूतोत्। कामप्रदानेन पूरयतु ॥ तु वृद्धाविति सौत्रो धातुः। शपः श्लुः । तुजादित्वाद्दीर्घः ॥ यद्वा सचा महत् शंसं शंसनीयं शस्त्रं कामप्रदानेन वर्धयतु । यद्वा कृष्णयोनीः कृष्णाख्येनासुरेण निषिक्तरेतस्का दासीभार्या व्यैरयत् । व्यनुदत् । तथा मंत्रः । यः कृष्णगर्भा निरहनृजिश्वना ।१.१०१.१.। इति ॥


तस्मै॑ तव॒स्य१॒॑मनु॑ दायि स॒त्रेन्द्रा॑य दे॒वेभि॒रर्ण॑सातौ ।

प्रति॒ यद॑स्य॒ वज्रं॑ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय॑सी॒र्नि ता॑रीत् ॥८

तस्मै॑ । त॒व॒स्य॑म् । अनु॑ । दा॒यि॒ । स॒त्रा । इन्द्रा॑य । दे॒वेभिः॑ । अर्ण॑ऽसातौ ।

प्रति॑ । यत् । अ॒स्य॒ । वज्र॑म् । बा॒ह्वोः । धुः । ह॒त्वी । दस्यू॑न् । पुरः॑ । आय॑सीः । नि । ता॒री॒त् ॥८

तस्मै तवस्यं । अनु। दायि । सत्रा। इंद्राय । देवेभिः । अर्णऽसातौ।

प्रति। यत्। अस्य । वज्रं। बाहोः।धुः। हत्वी। दस्यून्। पुरः। आयसीः। नि। तारीत् ॥८॥

देवेभिर्देवनशीलैः स्तोतृभिरर्णसातावुदकलाभे निमित्ते तस्मा इंद्राय तवस्यं तवसे बलाय हितं बलवर्धनं हविः सत्रा संततं सर्वेष्वहःसु अनु अनुक्रमेण सवनत्रये दायि। अदायि । यद्वा तवस्यं । यद्बलं प्रवृद्धाय दीयते तत्तवस्यं । देवेभिर्देवैरुदकभजनेऽनुक्रमेण तद्बलं तस्मा इंद्रायादायि । तथा मंत्रः । अनु ते दायि मह इंद्रियायेति । यद्यदास्येंद्रस्य बाह्वोर्वज्रं प्रति धुः । स्तोतारोऽसुरवधसूचकेन स्तोत्रेण प्रतिनिदधुः । स्तूयमानो हींद्रो दस्युवधार्थं वज्रमादत्ते ॥ दधुः। दधातेर्लुङि गातिस्थेति सिचो लुक्। आत इति झेर्जुस् ॥ ततस्तेन वज्रेण दस्यूनसुरान् हत्वी हत्वा तदीया आयसीरयोमयीः पुरो नितारीत । नितरामनाशयत् ॥


नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥९

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥९

नूनं। सा । ते । प्रति । वरं। जरित्रे। दुहीयत् । इंद्र । दक्षिणा। मघोनी।

शिक्ष । स्तोतृभ्यः। मा। अति। धक्। भगः ।नः। बृहत्। वदेम। विदथे । सुवीराः ॥९॥

हे इंद्र या दक्षिणा दक्षमुत्साहनं करोतीति दक्षिणा स्तोतृभ्यो देया ते त्वत्संबंधिनी मघोनी धनवत जरित्रे स्तोत्रे वरं श्रेष्ठमभिमतमर्थं नूनं प्रतिदुहीयत् । इदानीं प्रतिदोग्धि। संपादयतीत्यर्थः । तादृशीं दक्षिणां स्तोतृभ्योऽस्मभ्यं शिक्ष । प्रयच्छ । किंच भगो भजनीयस्त्वं माति धक् ॥ दहेर्दानार्थस्य लुङि मंत्रे घसेत्यादिना च्लेर्लुक् ॥ नोऽस्मानतिक्रम्यान्येभ्यो दक्षिणां मा दाः । प्रथममस्मभ्यं दत्त्वा पश्चादन्येभ्यो दीयतामित्यर्थः । यद्वा नोऽस्माकं कामान् मा धक् । मा धाक्षीः। अपेक्षितफलदानेन पूरयेत्यर्थः । सुवीराः शोभनपुत्रपौत्राः संतो वयं विदथे ऽस्मिन्यज्ञे बृहत् प्रभूतं स्तोत्रं वदेम । त्वामुद्दिश्य ब्रवाम । अत्र सा ते प्रतिदुग्धामिति प्रकृत्य वीरो वीरयत्यमित्रान् वेतेर्वा स्याद्गतिकर्मणो वीरयतेर्वेत्यंतं निरुक्तमनुसंधेयं । नि० १.७.॥॥६॥ ॥१॥


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.२०&oldid=208758" इत्यस्माद् पुनः प्राप्तिः