ऋग्वेदः सूक्तं २.१६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.१५ ऋग्वेदः - मण्डल २
सूक्तं २.१६
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.१७ →
दे. इन्द्रः। जगती, ९ त्रिष्टुप्


प्र वः सतां ज्येष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे ।
इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद्युवानमवसे हवामहे ॥१॥
यस्मादिन्द्राद्बृहतः किं चनेमृते विश्वान्यस्मिन्सम्भृताधि वीर्या ।
जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुम् ॥२॥
न क्षोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः ।
न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु ॥३॥
विश्वे ह्यस्मै यजताय धृष्णवे क्रतुं भरन्ति वृषभाय सश्चते ।
वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥४॥
वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे ।
वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥५॥
वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्यायुधा ।
वृष्णो मदस्य वृषभ त्वमीशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि ॥६॥
प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषु दाधृषिः ।
कुविन्नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे ॥७॥
पुरा सम्बाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी ।
सकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि ॥८॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥९॥


[सम्पाद्यताम्]

सायणभाष्यम्

' प्र वः सताम् ' इति नवर्चं पञ्चमं सूक्तं गार्त्समदमैन्द्रम् । अत्रानुक्रमणिका- प्र वो नवान्त्या त्रिष्टुप् ' इति । नवमी त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः ।। तृतीये पर्यायेऽच्छावाकशस्त्रे 'प्र वः सताम् ' इति सूक्तम् । ' अतिरात्रे ' इति खण्डे सूत्रितं-' प्र वः सतां प्रो द्रोणे हरयः कर्माग्मन्निति याज्या ' ( आश्व. श्रौ ६. ४) इति ।।

प्र वः॑ स॒तां ज्येष्ठ॑तमाय सुष्टु॒तिम॒ग्नावि॑व समिधा॒ने ह॒विर्भ॑रे ।

इन्द्र॑मजु॒र्यं ज॒रय॑न्तमुक्षि॒तं स॒नाद्युवा॑न॒मव॑से हवामहे ॥१

प्र । वः॒ । स॒ताम् । ज्येष्ठ॑तमाय । सु॒ऽस्तु॒तिम् । अ॒ग्नौऽइ॑व । स॒म्ऽइ॒धा॒ने । ह॒विः । भ॒रे॒ ।

इन्द्र॑म् । अ॒जु॒र्यम् । ज॒रय॑न्तम् । उ॒क्षि॒तम् । स॒नात् । युवा॑नम् । अव॑से । ह॒वा॒म॒हे॒ ॥१

प्र। वः । सतां । ज्येष्ठऽतमाय । सुऽस्तुतिं । अग्नौऽइव । संऽइधाने। हविः। भरे।।

इंद्रं । अजुर्यं। जरयंतं । उक्षितं । सनात्। युवनं । अवसे। हवामहे ॥१॥

गृत्समदो ब्रूते । हे यजमाना वो युष्मदर्थं सतां महतां देवानां ज्येष्ठतमायातिशयेन श्रेष्ठायेंद्राय तदर्थं । अग्नाविव समिधाने । इवशब्द एवार्थः । दीप्यमान एवाग्नौ हविः प्रभरे । संपादयामि । ततः परं सुष्टुतिं शोभनां स्तुतिं करोमि ॥ भर इति भृञ् भरणे ञित्त्वादुभयपदी। लटि रूपं ॥ अजुर्यमजरणीयं जरयंतं सर्वमन्यज्जरयंतमुक्षितं सोमेन सिक्तं सनात्सनातनं युवानं नित्यतरुणं तादृशमिंद्रमवसेऽस्माकं रक्षणाय तस्य तर्पणाय वा हवामहे । आह्वयामः ॥


यस्मा॒दिन्द्रा॑द्बृह॒तः किं च॒नेमृ॒ते विश्वा॑न्यस्मि॒न्सम्भृ॒ताधि॑ वी॒र्या॑ ।

ज॒ठरे॒ सोमं॑ त॒न्वी॒३॒॑ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतु॑म् ॥२

यस्मा॑त् । इन्द्रा॑त् । बृ॒ह॒तः । किम् । च॒न । ई॒म् । ऋ॒ते । विश्वा॑नि । अ॒स्मि॒न् । सम्ऽभृ॑ता । अधि॑ । वी॒र्या॑ ।

ज॒ठरे॑ । सोम॑म् । त॒न्वि॑ । सहः॑ । महः॑ । हस्ते॑ । वज्र॑म् । भर॑ति । शी॒र्षणि॑ । क्रतु॑म् ॥२

यस्मात्।इंद्रात्।बृहतः।किं।चन।।ऋते।विश्वनि।अस्मिन्।संऽभृता।अधि।वीर्या।

जठरे। सोमं । तन्वि । सहः । महः । हस्ते। वज्रं । भरति । शीर्षर्णि । क्रतुं ॥२॥

बृहतो महतो यस्मादिंद्रादृते किमपीमिदं जगच्चन । नास्तीत्यर्थः । चेति नेति निपातद्वयसमुदायश्चनेति । चेति चिदित्यर्थे नेति निषेधार्थे । ऐकपद्यं तु सांप्रदायिकं । उक्तार्थे मंत्रः । नेंद्रादृते पवते धाम किं चनेति ।। यद्वा इंद्रादृत ईमिदं जगत् किं । न क्षुद्रमत्यल्पमित्यर्थः । कुत एतत् तदेवोच्यते । अस्मिन्निंद्रे विश्वानि सर्वाणि वीर्याणि सामर्थ्यान्यधि संभृता । अधिकं संभृतान्यासते । यश्चेंद्रो जठरे स्वोदरे सोममभिषुतं सोमरसं भरति । बिभर्ति । किंच तन्वि तन्वां स्वकीये सर्वस्मिन् शरीरे सहो बलं महस्तेजश्च बिभर्ति । हस्ते वज्रमायुधं बिभर्ति । शीर्षणि शिरसि क्रतुं विज्ञानं भरति । बिभर्ति ॥ यद्वृत्तयोगादनिघातः । वाक्यभेदाद्वा निघाताभावः । शीर्षणि । शीर्षन् छंदसीति ॥


न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथः॑ ।

न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभि॒ः पत॑सि॒ योज॑ना पु॒रु ॥३

न । क्षो॒णीभ्या॑म् । प॒रि॒ऽभ्वे॑ । ते॒ । इ॒न्द्रि॒यम् । न । स॒मु॒द्रैः । पर्व॑तैः । इ॒न्द्र॒ । ते॒ । रथः॑ ।

न । ते॒ । वज्र॑म् । अनु॑ । अ॒श्नो॒ति॒ । कः । च॒न । यत् । आ॒शुऽभिः॑ । पत॑सि । योज॑ना । पु॒रु ॥३

न। क्षोणीभ्यां । परिऽभ्वे। ते । इंद्रियं । न। समुद्रैः। पर्वतैः। इंद्र । ते। रथः।

न ते।वज्रं। अनु। अश्नोति। कः। चन। यत्। आशुऽभिः। पतसि। योजना। पुरु॥३॥

हे इंद्र ते तवेंद्रियं बलं क्षोणीभ्यां द्यावापृथिवीभ्यां न परिभ्वे। न परिभवनीयं ॥ कृत्यार्थे तवैकेन्केन्यत्वन इति केन्प्रत्ययः । उदात्तस्वरितयोरिति स्वरितत्वं ॥ किंच ते रथः समुद्रैः पर्वतैश्च न परिभवनीयः । ते वज्रमायुधं कश्चन पुमान् नान्वश्नोति । न व्याप्नोति परिभवितुं ॥ अशू व्याप्तौ । व्यत्ययेन परस्मैपदं ॥ यद्यदासुरवधार्थ दिग्विजयकाले पुरु पुरूणि बहूनि योजना योजनानि पतसि । गच्छसि । तदा तव बलादि न परिभवनीयमिति समन्वयः ॥


विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भर॑न्ति वृष॒भाय॒ सश्च॑ते ।

वृषा॑ यजस्व ह॒विषा॑ वि॒दुष्ट॑र॒ः पिबे॑न्द्र॒ सोमं॑ वृष॒भेण॑ भा॒नुना॑ ॥४

विश्वे॑ । हि । अ॒स्मै॒ । य॒ज॒ताय॑ । धृ॒ष्णवे॑ । क्रतु॑म् । भर॑न्ति । वृ॒ष॒भाय॑ । सश्च॑ते ।

वृषा॑ । य॒ज॒स्व॒ । ह॒विषा॑ । वि॒दुःऽत॑रः । पिब॑ । इ॒न्द्र॒ । सोम॑म् । वृ॒ष॒भेण॑ । भा॒नुना॑ ॥४

विश्वे । हि। अस्मै । यजताय। धृष्णवे। क्रतुं । भरंति । वृषभायं । सश्चते ।।

वृषा। यजस्व । हविष। विदुःऽतरः। पिब। इंद्र। सोमं। वृषभेण । भानुना ॥४॥

हे यजमान विश्वे सर्वे जना यजताय सर्वैर्यजनीयाय धृष्णवे शत्रूणां धर्षणशीलाय वृषभाय कामानां वर्षित्रे सश्चते सज्जमानाय स्तुत्यादिकर्मवत्सु स्तोतृषु एतादृशायेंद्राय क्रतुं यज्ञादिलक्षणं कर्म भरंति हि । हरंति खलु । प्रणयंतीत्यर्थः । भरंति । हियोगादनिघातः । यस्मादेवं तस्माद्वृषा सोमरससेचनसमर्थो विदुष्टरः ॥ विद्वच्छब्दात्तरपि छांदसं संप्रसारणं । शासिवसिघसीनां चेति संहितायां षत्वं । विद्वत्तरस्तं हविषा तमिंद्रं यजस्व । इदानीमिंद्रं संबोध्याह। हे इंद्र वृषभेण कामानां वर्षकेण भानुना दीप्यमानेनाग्निना सह सोमं पिब ।।


वृष्ण॒ः कोशः॑ पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना॑य वृष॒भाय॒ पात॑वे ।

वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒ अद्र॑यो॒ वृष॑णं॒ सोमं॑ वृष॒भाय॑ सुष्वति ॥५

वृष्णः॑ । कोशः॑ । प॒व॒ते॒ । मध्वः॑ । ऊ॒र्मिः । वृ॒ष॒भऽअ॑न्नाय । वृ॒ष॒भाय॑ । पात॑वे ।

वृष॑णा । अ॒ध्व॒र्यू इति॑ । वृ॒ष॒भासः॑ । अद्र॑यः । वृष॑णम् । सोम॑म् । वृ॒ष॒भाय॑ । सु॒स्व॒ति॒ ॥५

वृष्णः । कोशः। पवते। मध्वः। ऊर्मिः। वृषभऽअन्नाय। वृषभाय। पातवे।

वृषणा। अध्वर्यू इति । वृषभासः । अद्रयः। वृषणं । सोमं। वृषभाय। सुस्वति ॥५॥

हे इंद्र वृष्णः फलस्य वर्षितुर्मध्वो मदकरस्य सोमस्य कोशो रस ऊर्मिरनुष्ठातृणां पातृणां च प्रेरकः सन् पवते । गच्छति ॥ पव गतौ । अनुदात्तेत् । किमर्थं । वृषभान्नाय । बलवर्धकाण्यन्नानि यस्य स तथोक्तः । तादृशाय वृषभाय कामानां वर्षित्र इंद्राय पातवे । पानार्थं पवत इति समन्वयः । किंच वृषणा सोमरससेचनसम-थावध्वर्यं अध्वर्युप्रतिप्रस्थातारौ वृषभासो वर्षका अद्रयोऽभिषवग्रावाणश्च वृषणं स्वर्गादिफलस्य सेक्तारं ममं वृषभाय देवानां श्रेष्ठाय तुभ्यं सुष्वति । सुन्वंति ॥ सुनोतेर्लटि बहुलं छंदसीति विकरणस्य सुः । अदभ्यस्तादिति झोऽदादशः ॥ ॥ १७॥


वृषा॑ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी॑ वृष॒भाण्यायु॑धा ।

वृष्णो॒ मद॑स्य वृषभ॒ त्वमी॑शिष॒ इन्द्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि ॥६

वृषा॑ । ते॒ । वज्रः॑ । उ॒त । ते॒ । वृषा॑ । रथः॑ । वृष॑णा । हरी॒ इति॑ । वृ॒ष॒भाणि॑ । आयु॑धा ।

वृष्णः॑ । मद॑स्य । वृ॒ष॒भ॒ । त्वम् । ई॒शि॒षे॒ । इन्द्र॑ । सोम॑स्य । वृ॒ष॒भस्य॑ । तृ॒प्णु॒हि॒ ॥६

वृषा । ते। वज्रः । उत । ते । वृषा। रर्थः। वृषणा। हरी इति । वृषभाणि। आयुधा।

वृष्णः । मदस्य । वृषभ। त्वं । ईशिषे । इंद्र। सोमस्य। वृषभस्य । तृप्णुहि ॥६॥

वृषभ कामानां वर्षक हे इंद्र ते तव वज्रो वृधा कामवर्षकः । तथा ते रथोऽपि वृषा । ते हरी एतन्नाम कावथो वृषणा वर्षकी । तवायुधा वज्रव्यतिरिक्तान्यायुधान्धाय वृषभाणि । वृष्णो वर्षकस्य मदस्य मदकरस्य सोमस्य त्वमवशिषे । स्वामी भवसि । हे इंद्र वृषभस्य वर्षकेण सोमस्य सोमेन तृप्णुहि । तृप्तो भव ॥ तृप प्रीणने स्वादिः । क्षुभ्नादिषु । पा° ८. ४. ३९.। नृमनतृप्नोतीति पठितं । तथापि सर्वविधीनां छंदसि विकल्पितत्वादत्र णत्वप्रतिषेधो न भवति । ।


प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः ।

कु॒विन्नो॑ अ॒स्य वच॑सो नि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒ न वसु॑नः सिचामहे ॥७

प्र । ते॒ । नाव॑म् । न । सम॑ने । व॒च॒स्युव॑म् । ब्रह्म॑णा । या॒मि॒ । सव॑नेषु । दधृ॑षिः ।

कु॒वित् । नः॒ । अ॒स्य । वच॑सः । नि॒ऽबोधि॑षत् । इन्द्र॑म् । उत्स॑म् । न । वसु॑नः । सि॒चा॒म॒हे॒ ॥७

प्र। ते । नावं । न। समने। वचस्युवं । ब्रह्मणा। यामि। सवनेषु । दधृषिः।

कुवित्। नः। अस्य। वर्चसः।निऽबोधिषत्। इंद्रं। उत्सं। न। वसुनः । सिचामहे॥७॥

दाधृषिस्त्वत्प्रसादाच्छत्रूणां धर्षकोऽहं समने संग्रामे वचस्युवं । अभि तन्वादित्वादुवङादेशः ॥ स्तोत्रमिच्छंतं नावं न नावमिवापद्भ्यस्तारकं ते त्वां सवनेषु त्रिषु ब्रह्मणः स्तोत्रेण प्रयामि । प्राप्नोमि । किंच अस्य वचसः । स्तुतिलक्षणमेतद्वाक्यं । कुविद्बहु निबोधिषत् । इंद्रो नितरां बुध्यतां ॥ बुध अवगमने । लेटि सिब्बहुलमिति सिप् । कुविद्योगादनिघातः । तिङि चोदात्तवतीति गतेर्निघातः ॥ वयं चोत्सं न जलस्य निधानभूतं कूपमिव वसुनो निधानभूतमिंद्रं सिचामहे । सोमेन सिंचामः । सिचिर् क्षरणे स्वरितेत् । आगमानुशासनस्यानित्य त्वान्नुमभावः ।


पु॒रा स॑म्बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी॑ ।

स॒कृत्सु ते॑ सुम॒तिभिः॑ शतक्रतो॒ सं पत्नी॑भि॒र्न वृष॑णो नसीमहि ॥८

पु॒रा । स॒म्ऽबा॒धात् । अ॒भि । आ । व॒वृ॒त्स्व॒ । नः॒ । धे॒नुः । न । व॒त्सम् । यव॑सस्य । पि॒प्युषी॑ ।

स॒कृत् । सु । ते॒ । सु॒म॒तिऽभिः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । सम् । पत्नी॑भिः । न । वृष॑णः । न॒सी॒म॒हि॒ ॥८

पुरा। संऽ वाधात्। अभि। आ। ववृत्स्व। नः । धेनुः । न। वत्सं। यवसस्य।पिप्युषी।

सकृत् । सु। ते । सुमतिऽभिः । शतक्रतो इति शतऽक्रतो। सं । पत्नीभिः । न । वृषणः । नसीमहि ॥६॥

हे इंद्र संबाधात् शत्रुजन्यात्संबाधात् पुरा नोऽस्मानभ्याववृत्स्व । आवर्तय । यथा संबाधोऽस्मान् न स्पृशति तथा कुवित्यर्थः । तत्र दृष्टांतः । धेनुर्न वत्सं । यथा यवसस्य घासेन पिप्युप्याप्यायिता धेनुर्वत्सं क्षुद्वा धात्परावर्तयति तद्वत् । हे शतक्रतो वयं सुमतिभिस्त्वद्विषयैः शोभनैः स्तोत्रैः सकृत् सकृदपि सु नसीमहि । सुष्ठु व्याप्येमहि । तत्र दृष्टांतः । वृषणो न। सेक्तारो युवानो यथा पत्नीभिर्व्याप्यंते तद्वत् ॥


नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥९

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥९

नूनं । सा । ते । प्रति । वरं। जरित्रे। दुहीयत् । इंद्र। दक्षिणा। मघोनी ।

शिक्ष। स्तोतृऽभ्यः। मा। अति। धक्।भगः। नः। बृहत्। वदेम।विदथे सुवीराः ॥९॥

हे इंद्र या दक्षिणा दक्षमुत्साहनं करोतीति दक्षिणा स्तोतृभ्यो देया ते त्वत्संबंधिनी मघोनी धनवत जरित्रे स्तोत्रे वरं श्रेष्ठमभिमतमर्थं नूनं प्रतिदुहीयत् । इदानीं प्रतिदोग्धि। संपादयतीत्यर्थः । तादृशीं दक्षिणां स्तोतृभ्योऽस्मभ्यं शिक्ष । प्रयच्छ । किंच भगो भजनीयस्त्वं माति धक् ॥ दहेर्दानार्थस्य लुङि मंत्रे घसेत्यादिना च्लेर्लुक् ॥ नोऽस्मानतिक्रम्यान्येभ्यो दक्षिणां मा दाः । प्रथममस्मभ्यं दत्त्वा पश्चादन्येभ्यो दीयतामित्यर्थः । यद्वा नोऽस्माकं कामान् मा धक् । मा धाक्षीः। अपेक्षितफलदानेन पूरयेत्यर्थः । सुवीराः शोभनपुत्रपौत्राः संतो वयं विदथे ऽस्मिन्यज्ञे बृहत् प्रभूतं स्तोत्रं वदेम । त्वामुद्दिश्य ब्रवाम । अत्र सा ते प्रतिदुग्धामिति प्रकृत्य वीरो वीरयत्यमित्रान् वेतेर्वा स्याद्गतिकर्मणो वीरयतेर्वेत्यंतं निरुक्तमनुसंधेयं । नि० १.७.॥॥६॥ ॥१॥

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.१६&oldid=208754" इत्यस्माद् पुनः प्राप्तिः