ऋग्वेदः सूक्तं २.४३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.४२ ऋग्वेदः - मण्डल २
सूक्तं २.४३
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
दे. शकुन्तः(= कपिञ्जलरूपीन्द्रः)। जगती, २ अतिशक्वरी अष्टिर्वा ।
मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३



प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः ।
उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥१॥
उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि ।
वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद ॥२॥
आवदँस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः ।
यदुत्पतन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥३॥



[सम्पाद्यताम्]

सायणभाष्यम्

' प्रदक्षिणित् ' इति तृचमेकादशं सूक्तं गार्त्समदं जागतम् । तथा चानुक्रान्तं-' प्रदक्षिणिज्जागतं मध्येऽतिशक्वर्यष्टिर्वा ' इति । द्वितीयातिशक्वरी अष्टिर्वा । इतरे जगत्यौ । कपिञ्जलरूपीन्द्रो देवता । वयसाममनोज्ञां वाचं श्रुत्वा ' प्रदक्षिणित् ' इति सूक्तं जपेत् । सूत्रं प्रागेवोदाहृतम् ।।


प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद॑न्त ऋतु॒था श॒कुन्त॑यः ।

उ॒भे वाचौ॑ वदति साम॒गा इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ॥१

प्र॒ऽद॒क्षि॒णित् । अ॒भि । गृ॒ण॒न्ति॒ । का॒रवः॑ । वयः॑ । वद॑न्तः । ऋ॒तु॒ऽथा । श॒कुन्त॑यः ।

उ॒भे इति॑ । वाचौ॑ । व॒द॒ति॒ । सा॒म॒गाःऽइ॑व । गा॒य॒त्रम् । च॒ । त्रैस्तु॑भम् । च॒ । अनु॑ । रा॒ज॒ति॒ ॥१

प्रऽदक्षिणित् । अभि । गृणन्ति । कारवः । वयः । वदन्तः । ऋतुऽथा । शकुन्तयः ।

उभे इति । वाचौ । वदति । सामगाःऽइव । गायत्रम् । च । त्रैस्तुभम् । च । अनु । राजति ॥१

शकुंतयः कपिञ्जलाः ऋतुथा कालेकाले वयोन्नं वदन्तः सूचयन्तः कारवः स्तोतारइव प्र- दक्षिणित् प्रदक्षिणं अभिगृणन्ति अभिवदन्तु बहुवचनं पूजार्थं किञ्च उभे वाचौ गानं च श्रौतं च सामगा इव गायत्रं च त्रैष्टुभं च सामनीव शकुन्तिर्वदति अनुराजति च शृण्वतोनुरक्तान्करोतीत्यर्थः ।। १ ।।


उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि ।

वृषे॑व वा॒जी शिशु॑मतीर॒पीत्या॑ स॒र्वतो॑ नः शकुने भ॒द्रमा व॑द वि॒श्वतो॑ नः शकुने॒ पुण्य॒मा व॑द ॥२

उ॒द्गा॒ताऽइ॑व । श॒कु॒ने॒ । साम॑ । गा॒य॒सि॒ । ब्र॒ह्म॒पु॒त्रःऽइ॑व । सव॑नेषु । शं॒स॒सि॒ ।

वृषा॑ऽइव । वा॒जी । शिशु॑ऽमतीः । अ॒पि॒ऽइत्य॑ । स॒र्वतः॑ । नः॒ । श॒कु॒ने॒ । भ॒द्रम् । आ । व॒द॒ । वि॒श्वतः॑ । नः॒ । श॒कु॒ने॒ । पुण्य॑म् । आ । व॒द॒ ॥२

उद्गाताऽइव । शकुने । साम । गायसि । ब्रह्मपुत्रःऽइव । सवनेषु । शंससि ।

वृषाऽइव । वाजी । शिशुऽमतीः । अपिऽइत्य । सर्वतः । नः । शकुने । भद्रम् । आ । वद । विश्वतः । नः । शकुने । पुण्यम् । आ । वद ॥२

शकुने हे कपिञ्जल उद्गातेव साम यथोद्गाता साम गायति तथा त्वं गायसि गानस्वनं करोषि ब्रह्मपुत्र इव यथा ब्राह्मणाच्छंसी सवनेषु शस्त्राणि शंसति तथा त्वं कालेषु शंससि श्रौतस्वरं करोषि वृषेव वाजी सेचनसमर्थोश्वः शिशुमतीर्वडवा अपीत्य अभिगत्य यथा शब्दं करोति तथा त्वमपि वद शिष्टं स्पष्टम्।। २ ।।


आ॒वदँ॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी॑नः सुम॒तिं चि॑किद्धि नः ।

यदु॒त्पत॒न्वद॑सि कर्क॒रिर्य॑था बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥३

आ॒ऽवद॑न् । त्वम् । श॒कु॒ने॒ । भ॒द्रम् । आ । व॒द॒ । तू॒ष्णीम् । आसी॑नः । सु॒ऽम॒तिम् । चि॒कि॒द्धि॒ । नः॒ ।

यत् । उ॒त्ऽपत॑न् । वद॑सि । क॒र्क॒रिः । य॒था॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥३

आऽवदन् । त्वम् । शकुने । भद्रम् । आ । वद । तूष्णीम् । आसीनः । सुऽमतिम् । चिकिद्धि । नः ।

यत् । उत्ऽपतन् । वदसि । कर्करिः । यथा । बृहत् । वदेम । विदथे । सुऽवीराः ॥३

शकुने हे कपिञ्जल आवदन्शब्दं कुर्वन्त्वं भद्रमावद मङ्गलं वद तूष्णीमासीनः तूष्णीं तिष्ठन्नपि नोस्माकं सुमतिं चिकिद्धि बुद्ध्यस्व यद्यदा उत्पतन्वदसि तदा कर्करिर्यथा कर्करिर्वदति कर्करिर्वाद्यविशेषः अन्यद्व्याख्यातचरम् ।। ३ ।।


।। इतिद्वितीयस्याष्टमेद्वादशोवर्गः ।। १२ ।।

।। इतिद्वितीयेमण्डले चतुर्थोनुवाकः ।। ४ ।।

।। इतिगार्त्समदं द्वितीयं मण्डलं समाप्तम् ।। २ ।।

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.४३&oldid=208883" इत्यस्माद् पुनः प्राप्तिः