ऋग्वेदः सूक्तं २.४०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.३९ ऋग्वेदः - मण्डल २
सूक्तं २.४०
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.४१ →
दे. सोमापूषणौ, ६ (अन्त्यार्धर्चस्य) अदितिः । त्रिष्टुप्।
मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३



सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः ।
जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् ॥१॥
इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा ।
आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु ॥२॥
सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् ।
विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥३॥
दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे ।
तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे ॥४॥
विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति ।
सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम ॥५॥
धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु ।
अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः ॥६॥


सायणभाष्यम्

' सोमापूषणा ' इति षडृचमष्टमं सूक्तं गार्त्समदं त्रैष्टुभं सोमापूषदेवताकम् । तथा चानुक्रान्तं- ' सोमापूषणा षट् सोमापौष्णमन्त्योऽर्धर्चोऽप्यदितेः ' इति । ' अवतु देव्यदितिः ' इत्यस्य अनयार्धर्चस्य अदितिर्देवता। सोमापौष्णे पशौ वपापुरोडाशहविषामाद्यास्तिस्रः क्रमेणानुवाक्या उत्तरास्तिस्रो याज्याः । ' अग्नीषोमौ ' इति खण्डे सूत्रितं-' सोमापूषणा जनना रयीणाम् ' ( आश्व. श्रौ. ३. ८) इति ।।


सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः ।

जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥१

सोमा॑पूषणा । जन॑ना । र॒यी॒णाम् । जन॑ना । दि॒वः । जन॑ना । पृ॒थि॒व्याः ।

जा॒तौ । विश्व॑स्य । भुव॑नस्य । गो॒पौ । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥१

सोमपूषणा । जनना। रयीणां । जनना। दिवः । जनना। पृथिव्याः।

जातौ। विश्वस्य । भुवनस्य । गोपौ । देवाः । अकृण्वन् । अमृतस्य । नाभिं ॥१॥

सोमापूषणा हे सोमापूषणौ युवां रयीणां धनानां जनना जनयितारौ दिवः द्युलोकस्यापि जनना जनयितारौ पृथिव्याः प्रथितायाश्च जनयितारौ भवथः । किंच जातौ जातमात्रावेव युवां विश्वस्य भुवनस्य कृत्स्नस्य जगतः गोपौ गोप्तारौ देवाः अमृतस्य अमरणस्य नाभिं हेतुम् अकृण्वन् अकार्षुः ।।


इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमां॑सि गूहता॒मजु॑ष्टा ।

आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो॑मापू॒षभ्यां॑ जनदु॒स्रिया॑सु ॥२

इ॒मौ । दे॒वौ । जाय॑मानौ । जु॒ष॒न्त॒ । इ॒मौ । तमां॑सि । गू॒ह॒ता॒म् । अजु॑ष्टा ।

आ॒भ्याम् । इन्द्रः॑ । प॒क्वम् । आ॒मासु॑ । अ॒न्तरिति॑ । सो॒मा॒पू॒षऽभ्या॑म् । ज॒न॒त् । उ॒स्रिया॑सु ॥२

इमौ। देवौ। जायमानौ। जुषंत। इमौ। तमांसि। गूहतां । अजुष्टा।

आभ्यां । इंद्रः। पक्वं । आमासु । अंतरिति । सोमापूषऽभ्याँ। जनत् । उस्रियासु ॥२॥

इमौ सोमापूषणौ देवौ द्योतमानौ जायमानावुत्पन्नमात्रावेव जुषंत । सर्वे देवा अजुषंत । सेवितवंत इति यावत् । किंच इमौ सोमापूषणावजुष्टासेव्यानि तमांसि सर्वस्व गूहतां । नाशयतः । किंच आभ्यामेताभ्यां सोमापूषभ्यां सहेंद्र आमासु तरुणीषुस्रियासु गोष्वंतर्मध्य ऊधःप्रदेशे पक्वं परिपक्वं पयो जनत् । जनयति ॥


सोमा॑पूषणा॒ रज॑सो वि॒मानं॑ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम् ।

वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नं॒ तं जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् ॥३

सोमा॑पूषणा । रज॑सः । वि॒ऽमान॑म् । स॒प्तऽच॑क्रम् । रथ॑म् । अवि॑श्वऽमिन्वम् ।

वि॒षु॒ऽवृत॑म् । मन॑सा । यु॒ज्यमा॑नम् । तम् । जि॒न्व॒थः॒ । वृ॒ष॒णा॒ । पञ्च॑ऽरश्मिम् ॥३

सोमपूषणा । रजसः । विऽमानं । सप्तऽचक्रं । रथं । अविश्वऽमिन्वं ।

विषुऽवृतं । मनसा । युज्यमानं । तं । जिन्वथः । वृषणा । पंचऽरश्मिं ॥३॥

वृषणा वृषणौ कामानां वर्षितारौ सोमापूषणा हे सोमापूषणौ रजसो लोकस्य । लोका रजांस्युच्यंत इति यास्कः । विमानं परिच्छेदकं । सर्वमानमित्यर्थः । सप्तचक्रं सप्तर्तुचक्रं । त्रयोदशो मासः सप्तम ऋतुः । अस्ति त्रयोदशो मास इति श्रुतेः । अविश्वमिन्वं विश्वस्यापरिच्छेद्यं विषुवृतं विष्वक् सर्वत्र परिवर्तमानं पंचरश्मिं पंचर्तुरश्मिं । हेमंतशिशिरयोः समासेनर्तवः पंच । तथा च श्रूयते । द्वादश मासाः पंचर्तवो हेमंतशिशिरयोः समासेन । ऐ° ब्रा० १.१.। इति । मनसा युज्यमानं मनोमात्रेण युज्यमानं । तं प्रसिद्धं रथं जिन्वथः । अस्मान्प्रति प्रेरयथः ॥


दि॒व्य१॒॑न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे ।

ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ॥४

दि॒वि । अ॒न्यः । सद॑नम् । च॒क्रे । उ॒च्चा । पृ॒थि॒व्याम् । अ॒न्यः । अधि॑ । अ॒न्तरि॑क्षे ।

तौ । अ॒स्मभ्य॑म् । पु॒रु॒ऽवार॑म् । पु॒रु॒ऽक्षुम् । रा॒यः । पोष॑म् । वि । स्य॒ता॒म् । नाभि॑म् । अ॒स्मे इति॑ ॥४

दिवि। अन्यः । सदनं । चक्रे । उच्चा। पृथिव्यां । अन्यः । अधि। अंतरिक्षे।

तौ। अस्मभ्यं। पुरुऽवारं। पुरुऽक्षुं।रायः । पोषं। वि।स्यतां। नाभिं। अस्मे इति॥४॥

अन्यः तयोरेकः पूषा उच्चा उच्चैरुच्छ्रिते दिवि द्युलोके सदनं स्थानं चक्रे चकार । अन्यः अपरः सोमः पृथिव्याम् ओषधिरूपेण अध्यन्तरिक्षे अन्तरिक्षे च चन्द्ररूपेण सदनं चक्रे । तौ सोमापूषणौ युवां पुरुवारं बहुभिर्वरणीयं पुरुक्षुं बहुकीर्तिं रायस्पोषं धनस्य पुष्टिम् । पश्वात्मकं धनमित्यर्थः । तथा च ब्राह्मणं-' पशवो वै रायस्पोषः ' (तै. सं. ५.४.६. २) इति । अस्मे अस्माकं नाभिं विश्वस्य भोगस्य हेतुभूतम् अस्मभ्यं वि ष्यताम् विमुञ्चताम् । प्रयच्छतामित्यर्थः


विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति ।

सोमा॑पूषणा॒वव॑तं॒ धियं॑ मे यु॒वाभ्यां॒ विश्वा॒ः पृत॑ना जयेम ॥५

विश्वा॑नि । अ॒न्यः । भुव॑ना । ज॒जान॑ । विश्व॑म् । अ॒न्यः । अ॒भि॒ऽचक्षा॑णः । ए॒ति॒ ।

सोमा॑पूषणौ । अव॑तम् । धिय॑म् । मे॒ । यु॒वाभ्या॑म् । विश्वाः॑ । पृत॑नाः । ज॒ये॒म॒ ॥५

विश्वानि । अन्यः । भुवना। जजान। विश्वं । अन्यः । अभिऽचक्षाणः । एति ।

सोमपूषणौ। अवतं । धियं । मे। युवाभ्यां। विश्वाः । पृतनाः । जयेम ॥५॥

हे सोमापूषणौ अन्यो युवयोरेकः सोमो विश्वानि भुवना भुवनानि भूतानि जजान । अजनयत् । तथा च मंत्रः । सोमः पवते जनिता मतीनां । ऋग्वे° ९. ९६.५.। इति । अन्योऽपरः पूषादित्यो विश्वमभिचक्षाणो ऽभिपश्यन्नेति । गच्छति । तौ युवां सोमापूषणो मे धियं कर्म ॥ धीः शचीति कर्मनामसु पाठात् ॥ अवतं ।। रक्षतं । किंच वयं युवाभ्यां हेतुभ्यां विश्वाः पृतनाः सर्वाः शत्रुसेना जयेम । अभिभवेम ॥


धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वो र॒यिं सोमो॑ रयि॒पति॑र्दधातु ।

अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥६

धिय॑म् । पू॒षा । जि॒न्व॒तु॒ । वि॒श्व॒म्ऽइ॒न्वः । र॒यिम् । सोमः॑ । र॒यि॒ऽपतिः॑ । द॒धा॒तु॒ ।

अव॑तु । दे॒वी । अदि॑तिः । अ॒न॒र्वा । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥६

धियं । पूषा। जिन्वतु । विश्वंऽइन्वः । रयिं । सोमः । रयिऽपतिः । दधातु ।।

अवतु । देवी। अदितिः । अनर्वा। बृहत् । वदेम। विदथे । सुऽवीराः ॥६॥

पूषादित्यो विश्वमिन्वो विश्वस्य प्रीणयिता धियमस्माकं कर्म जिन्वतु । तर्पयतु । रयिपतिर्धनपतिः सोमो रयिं धनं दधातु । अस्मभ्यं ददातु। किंच देवी द्योतमानानर्वाप्रत्यृता केनापि प्रातिकूल्यमप्रापितादितिरवतु । अस्मान् रक्षतु । अन्यत् सिद्धं ॥ ॥६॥


।।
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.४०&oldid=208880" इत्यस्माद् पुनः प्राप्तिः