ऋग्वेदः सूक्तं २.२५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.२४ ऋग्वेदः - मण्डल २
सूक्तं २.२५
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.२६ →
दे. ब्रह्मणस्पतिः। जगती।


इन्धानो अग्निं वनवद्वनुष्यतः कृतब्रह्मा शूशुवद्रातहव्य इत् ।
जातेन जातमति स प्र सर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥१॥
वीरेभिर्वीरान्वनवद्वनुष्यतो गोभी रयिं पप्रथद्बोधति त्मना ।
तोकं च तस्य तनयं च वर्धते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥२॥
सिन्धुर्न क्षोदः शिमीवाँ ऋघायतो वृषेव वध्रीँरभि वष्ट्योजसा ।
अग्नेरिव प्रसितिर्नाह वर्तवे यंयं युजं कृणुते ब्रह्मणस्पतिः ॥३॥
तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति ।
अनिभृष्टतविषिर्हन्त्योजसा यंयं युजं कृणुते ब्रह्मणस्पतिः ॥४॥
तस्मा इद्विश्वे धुनयन्त सिन्धवोऽच्छिद्रा शर्म दधिरे पुरूणि ।
देवानां सुम्ने सुभगः स एधते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥५॥


सायणभाष्यम्

' इन्धानः ' इति पञ्चर्चं तृतीयं सूक्तं गार्त्समदं जागतं ब्राह्मणस्पत्यम् । तथा चानुक्रान्तम्- ' इन्धानः पञ्च जागतं तु ' इति । लैङ्गिको विनियोगः ।।


इन्धा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् ।

जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥१

इन्धा॑नः । अ॒ग्निम् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । कृ॒तऽब्र॑ह्मा । शू॒शु॒व॒त् । रा॒तऽह॑व्यः । इत् ।

जा॒तेन॑ । जा॒तम् । अति॑ । सः । प्र । स॒र्सृ॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥१

इन्धानः । अग्निम् । वनवत् । वनुष्यतः । कृतऽब्रह्मा । शूशुवत् । रातऽहव्यः । इत् ।

जातेन । जातम् । अति । सः । प्र । सुर्सॄते । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ।। १ ।।

अग्निम् इन्धानः ब्रह्मणस्पतेर्यागार्थमग्निं प्रज्वलयन् यजमानः वनुष्यतः हिंसिष्यतो हिंसां कुर्वतो वा शत्रून् वनवत् वनुयात् हिंस्यात् । ' वनुष्यतिर्हन्तिकर्मा ' इति यास्कः । इत् इति चार्थे । कृतब्रह्मा । ब्रह्म स्तोत्रं कृतं येन स तथोक्तः । रातहव्यः । रातं दत्तं हव्यं हविर्येन । एवंभूतः सन् शूशुवत् वर्धते । 'टुओश्वि गतिवृद्ध्योः' । अस्माण्ण्यन्तात् लुङि चङि रूपम् ।। तथा यजमानः जातेन पुत्रेण प्रजातं जनितमुत्पादितं स्वस्य पौत्रम् अति प्र सर्सृते अतीत्य भृशं प्रसरति । पौत्रमपि पश्यन् चिरकालं जीवेदित्यर्थः ।। सर्तेर्यङ्लुगन्तात् व्यत्ययेनात्मनेपदम् ।। यंयं यजमानं ब्रह्मणस्पतिः स्तोत्रहविषोः स्वीकरणेन युजं सखायं कृणुते कुरुते सः समान एव भवतीत्यर्थः ।।


वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना॑ ।

तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥२

वी॒रेभिः॑ । वी॒रान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । गोभिः॑ । र॒यिम् । प॒प्र॒थ॒त् । बोध॑ति । त्मना॑ ।

तो॒कम् । च॒ । तस्य॑ । तन॑यम् । च॒ । व॒र्ध॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥२

वीरेभिः । वीरान् । वनवत् । वनुष्युतः । गोभिः । रयिम् । पप्रथत् । बोधति । त्मना ।

तोकम् । च । तस्य । तनयम् । च । वर्धते । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ।।२।।

स यजमानः वीरेभिः वीरैः आत्मीयैः पुत्रैः 'वनुष्यतः हिंसतः वीरान् शत्रुपुत्रान् वनवत् वनुयात् हिंस्यात् । अपि च गोभिः सहितं धनं पप्रथत् प्रथयति विस्तारयति ।। प्रथयतेर्लुङि चङि एतद्रूपम् ।। तथा त्मना आत्मनैव बोधति सर्वं जानाति । अनन्याधीनज्ञानो भवतीत्यर्थः । किंच तस्य यजमानस्य तोकं पुत्रः तनयम् ।। विभक्तिव्यत्ययः ।। तनयस्तत्पुत्रः च वर्धते प्रवृद्धो भवति । यद्वा तोकं तनयं पुत्रं पौत्रं च ब्रह्मणस्पतिर्वर्धयति ।। वृधिरन्तर्भावितण्यर्थो द्रष्टव्यः । अन्यद्गतम् ।।


सिन्धु॒र्न क्षोद॒ः शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्रीँ॑र॒भि व॒ष्ट्योज॑सा ।

अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥३

सिन्धुः॑ । न । क्षोदः॑ । शिमी॑ऽवान् । ऋ॒घा॒य॒तः । वृषा॑ऽइव । वध्री॑न् । अ॒भि । व॒ष्टि॒ । ओज॑सा ।

अ॒ग्नेःऽइ॑व । प्रऽसि॑तिः । न । अह॑ । वर्त॑वे । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥३

सिन्धुः । न । क्षोदः । शिमीऽवान् । ऋघायतः । वृषाऽइव । वध्रीन् । अभि । वृष्टि । ओजसा ।

अग्नेःऽइव । प्रऽसितिः । न । अह । वर्तवे । यम्अयम्। युजम् । कृणुते । ब्रह्मणः । पतिः ।। ३ ।।

सिन्धुः स्यन्दनशीला नदी क्षोदः न क्षुद्यमानं कूलं यथा भिनत्ति तथा शमीवान् । शिमीति कर्मनाम । ब्रह्मणस्पतेः परिचरणात्मना कर्मणा युक्तो यजमानः ऋघायतः हिंसतः शत्रून् ओजसा बलेन अभि वष्टि हन्तुमभितः कामयते । ' वश कान्तौ ' । इदमपरं निदर्शनम् । वृषेव वध्रीन् । वध्रयो निष्पिष्टमुष्का निर्वीर्या बलीवर्दाः । तान् यथा वृषा सेचनसमर्थः सवीर्यो वृषभोऽभिभवति तद्वच्छत्रूनभिभवतीत्यर्थः । अपि चासावग्नेरिव प्रसितिः । प्रमीयते बध्यतेऽनयेति प्रसितिर्ज्वाला ॥ षिञ् बंधने । करणे क्तिन् ॥ यथाग्नेर्ज्वाला प्रतिहतप्रसरा एवमपि न वर्तवे । वारयितुं निवर्तयितुं वा नैव शक्यते । अहशब्दोऽवधारणे । वृणोतेरंतर्भावितण्यस्यर्थात् वर्ततेर्वा तुमर्थे तवेन्प्रत्ययः । अन्यद्गतं ॥


तस्मा॑ अर्षन्ति दि॒व्या अ॑स॒श्चत॒ः स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति ।

अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥४

तस्मै॑ । अ॒र्ष॒न्ति॒ । दि॒व्याः । अ॒स॒श्चतः॑ । सः । सत्व॑ऽभिः । प्र॒थ॒मः । गोषु॑ । ग॒च्छ॒ति॒ ।

अनि॑भृष्टऽतविषिः । ह॒न्ति॒ । ओज॑सा । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥४

तस्मै । अर्षंति । दिव्याः। असश्चतः। सः। सत्वऽभिः । प्रथमः। गोषु । गच्छति ।

अनिभृष्टऽतविषिः । हंति । ओजसा । यंऽयं । युजं । कृणुते । ब्रह्मणः । पतिः ॥४॥

तस्मै यजमानाय दिव्या दिवि भवा वृष्टिलक्षणा आपोऽसश्चतोऽसज्यमाना अनिरुद्धाः सत्योऽर्षंति । गच्छंति प्राप्नुवंति ॥ अर्तेर्लेटि रूपं ॥ तथा स यजमानः सत्वभिः । सत्वानः साधकाः परिचारकाः । तैः सहितः प्रथमोऽन्येभ्यो यजमानेभ्यः पूर्वभावी सन् गोषु गच्छति । गवादिधनं प्राप्नोतीत्यर्थः । किंच अनिभृष्टतविषिः । तविषीति बलनाम । अनिभृष्टा परैरबाधिता तविषी बलं यस्य तादृशः सन् ओजसा बलेन हंति शत्रून् ।।


तस्मा॒ इद्विश्वे॑ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ ।

दे॒वानां॑ सु॒म्ने सु॒भग॒ः स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥५

तस्मै॑ । इत् । विश्वे॑ । धु॒न॒य॒न्त॒ । सिन्ध॑वः । अच्छि॑द्रा । शर्म॑ । द॒धि॒रे॒ । पु॒रूणि॑ ।

दे॒वाना॑म् । सु॒म्ने । सु॒ऽभगः॑ । सः । ए॒ध॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥५

तस्मै । इत् । विश्वे । धुनयंत। सिंधवः । अच्छिद्रा। शर्म । दधिरे । पुरूणि ।

देवानां। सुम्ने। सुऽभगः। सः । एधते । यंऽयं । युजं । कृणुते । ब्रह्मणः । पतिः ॥५॥

तस्मा इत् तस्मा एव यजमानाय विश्वे सिंधवः सर्वाः स्यंदनशीला नद्यो धुनयंत । चलयंति । एतदभीष्टफलसिद्ध्यर्थं प्रवहंतीत्यर्थः । तथा अच्छिद्रा अच्छिद्राणि छिद्ररहितानि संततानि पुरूणि बहूनि शर्म शर्माणि सुखानि दधिरे । तस्मा एव धार्यंते । यद्वा शर्मेति गृहनाम । छिद्ररहितानि बहूनि सदनानि धार्यंते । सुभगः शोभनधनो देवानां सुम्ने देवैः प्रत्ते सुखे वर्तमानः सन् एधते । वर्धते । शिष्टं स्पष्टं ॥ ॥४॥

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.२५&oldid=208785" इत्यस्माद् पुनः प्राप्तिः