ऋग्वेदः सूक्तं २.३४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.३३ ऋग्वेदः - मण्डल २
सूक्तं २.३४
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.३५ →
दे. मरुत्। जगती, १५ त्रिष्टुप्


धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः ।
अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥१॥
द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्त वृष्टयः ।
रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥२॥
उक्षन्ते अश्वाँ अत्याँ इवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः ।
हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥३॥
पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः ।
पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥४॥
इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः ।
आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः ॥५॥
आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन ।
अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम् ॥६॥
तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवेदिवे ।
इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः ॥७॥
यद्युञ्जते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः ।
धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम् ॥८॥
यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः ।
वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः ॥९॥
चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः ।
यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः ॥१०॥
तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे ।
हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥११॥
ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो व्युष्टिषु ।
उषा न रामीररुणैरपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥१२॥
ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः ।
निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥१३॥
ताँ इयानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि ।
त्रितो न यान्पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे ॥१४॥
यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम् ।
अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ॥१५॥


सायणभाष्यम्

' धारावराः ' इति पञ्चदर्शचं द्वितीयं सूक्तं गार्त्समदं मारुतम् । अन्त्या त्रिष्टुप् शिष्टा जगत्यः ' । तथा चानुक्रान्तं- धारावरा मारुतं त्रिष्टुबन्तम् इति । पृष्ठ्याभिप्लवषडहयोस्तृतीयेऽहन्याग्निमारुतशस्त्रस्य इदं मारुतनिविद्धानम् । सूत्रितं च-- वैश्वानराय धिषणां धारावरा मरुतस्त्वमग्ने प्रथमो अङ्गिरा इत्याग्निमारुतम् ' ( आश्व. श्रौ. ७. ७) इति ।।


धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्ण्वो॑जसो मृ॒गा न भी॒मास्तवि॑षीभिर॒र्चिनः॑ ।

अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणो॒ भृमिं॒ धम॑न्तो॒ अप॒ गा अ॑वृण्वत ॥

धारावराः। मरुतः । धृष्णुऽओजसः । मृगाः । न । भीमाः । तविषीभिः । अर्चिनः ।

अग्नयः । न। शुशुचानाः। ऋजीषिणः । भृमिं। धमंतः । अप। गाः। अवृण्वत ॥१॥

धारावरा उदकधारयांतरिक्षमावृण्वंतः । यद्वा धाराणां धृतानां स्थिराणां वृक्षादीनां निवारयितारश्चालयितारः । धृष्ण्वोजसः परेषां धर्षकेण बलेन युक्ताः । अत एव मृगा न भीमाः । सिंहा इव भयंकराः । तविषीभिरात्मीयैर्बलैर्वृष्टिप्रदानादिनार्चिनः सर्वं जगत्पूजयंतः । अग्नयो न शुशुचाना दीप्ता वह्नय इव दीप्यमानाः ॥ शुच दीप्तौ । लिटः कानच् ॥ ऋजीषिणः । ऋजीषमुदकं तद्वंतः । यद्वा ऋजीषोऽपगतसारः सोमः । तेन युक्ताः । तृतीयसवने ह्याग्निमारुते मरुतः स्तूयते । तत्र च सवनद्वयेऽभिषुतं गतसारं सोममभिषुण्वंति । अतस्तेषां तद्युक्तत्वं । एवंभूता मरुतो भृमिं भ्राम्यंतं मेघं धमंतो वर्षणार्थमितस्ततः प्रेरयंतो गास्तदंतर्गता वर्ष्या अपोऽपावृण्वत । अपावृताः कुर्वंति । यथा सर्वैर्दृश्यंते तथा प्रवर्षंतीत्यर्थः । यद्वा भृम्याख्यो वीणाविशेषः । तं धमंतो वादयंतो गा वलनाम्नासुरेणापिहिता अपावृण्वत । अपगतावरणा अकुर्वन् ॥


द्यावो॒ न स्तृभि॑श्चितयन्त खा॒दिनो॒ व्य१॒॑भ्रिया॒ न द्यु॑तयन्त वृ॒ष्टयः॑ ।

रु॒द्रो यद्वो॑ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्याः॑ शु॒क्र ऊध॑नि ॥

द्यावः। न। स्तृऽभिः। चितयंत । खादिनः। वि। अभ्रियाः। न । द्युतयंत। वृष्टयः ।

रुद्रः। यत्। वः । मरुतः। रुक्मऽवक्षसः। वृषा । अजनि। पृश्न्याः। शुक्रे। ऊधनि॥२॥

स्तृभिः । नक्षत्रनामैतत् । यदाह यास्कः । ऋक्षाः स्तृभिरिति नक्षत्राणां । नि०३.२०. । इति । नक्षत्रैर्द्यावो न यथा द्युलोकाश्चितयंत चेतयंति स्वात्मानं ज्ञापयंति ॥ चिती संज्ञाने ॥ प्रकाशंत इत्यर्थः । तथा खादिनः शत्रूणां खादका मरुतः स्वकीयैराभरणैर्ज्ञायते । यद्वा खादः कटकं । तद्युक्ताः संतः प्रकाशंते । तथा वृष्टयो वर्षका मरुतोऽभ्रिया न । अभ्रेषु भवा विद्युत इव वि द्युतयंत । सर्वं जगद्विद्योतयंति । प्रकाशयंति ॥ अभशब्दाद्भवार्थे समुद्राभ्राद्घः इति घप्रत्ययः ॥ शेषः प्रत्यक्षकृतः । रुक्मवक्षसः । रुक्मं रोचमाणाभरणं वक्षस्युरसि येषां तादृशा हे मरुतो यद्यदा वो युष्मान् वृषा सेचनसमर्थों रुद्रो महादेवः पृश्न्याः । पृश्निमाध्यमिका वाक् । तस्याः संबंधिनि शुक्रे निर्मल ऊधन्युद्वते प्रदेशेऽजेनि । अजनयत् । तदानीमिति पूर्वत्र संबंधः । यद्वा पृश्निर्नानावर्णेयं भूमिः पुरा गोरूपधरासीत् तस्यां महेशो वृषो भूत्वा मरुत उत्पादयामासेत्याचक्षते । तदत्रोच्यते । हे मरुतो यद्यस्माद्वो युष्मान् वृषा वृषरूपो रुद्रः पृश्न्या गोः शुक्रे निर्मल ऊधन्यूधसि पयस उत्पत्तिस्थानेऽजनि । अजीजनत् । तस्माद्यूयमेवंमहानुभावा जाता इत्यर्थः । तथा च तैत्तिरीयकं । पृश्नियै वै पयसो । मरुतो जाताः । तै० सं० २. २.११. ४.। इति ॥


उ॒क्षन्ते॒ अश्वाँ॒ अत्याँ॑ इवा॒जिषु॑ न॒दस्य॒ कर्णै॑स्तुरयन्त आ॒शुभिः॑ ।

हिर॑ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या॑थ॒ पृष॑तीभिः समन्यवः ॥

उक्षंते । अश्वान्। अत्यान्ऽइव। आजिषु । नदस्य । कर्णैः । तुरयंते । आशुऽभिः।

हिरण्यऽशिप्राः । मरुतः । दविध्वतः । पृक्षं । याथ। पृषतीभिः। सऽमन्यवः ॥३॥

मरुतोऽश्वान् व्याप्तान् लोकानुक्षंते । सिंचंति ॥ अशू व्याप्तौ। औणादिकः क्वन्प्रत्ययः ॥ आजिषु संग्रामेष्वत्यानिव सततगामिनस्तुरगान् यथा स्वेदापनोदायोदकैः सिंचंति तद्वत् । अपि च ते मरुत आशुभिः शीघ्रगमनैरश्वैर्नदस्य शब्दवतो मेघस्य कर्णैः कृतैर्मध्यप्रदेशैस्तुरयंते । वर्षणार्थं वृष्ट्युत्पादनाय त्वरितं गच्छंति ॥ तुर त्वरणे ॥ शेषः प्रत्यक्षकृतः । हे हिरण्यशिप्राः । शिप्रं शिरस्त्राणं । सुवर्णमयशिरस्त्राणाः समन्यवः समानमनस्काः समानक्रोधा वा हे मरुतो दविध्वतो महीरुहादिकं कंपयंतो यूयं ॥ धूञ् कंपन इत्यस्माद्दाधर्त्यादावेतद्रूपं निपात्यते ॥ पृषतीभिर्युष्मद्रथे योजिताभिः श्वेतबिंद्वंकिताभिमृगीभिर्वडवाभिर्वा पृक्षं । अन्ननामैतत् । हविर्लक्षणान्नवंतं यजमानं ॥ अर्शआदित्वादच् ॥ याथ । गच्छथ ॥


पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा॑नवः ।

पृष॑दश्वासो अनव॒भ्ररा॑धस ऋजि॒प्यासो॒ न व॒युने॑षु धू॒र्षदः॑ ॥

पृक्षे। ता। विश्वा । भुव॑ना। ववक्षिरे। मित्राय । वा। सदं। आ। जीरऽदानवः ।। पृषत्ऽअश्वासः। अनवभऽराधसः। ऋजिप्यासः। न। वयुनेषु । धूःऽसदः ॥४॥ पृक्षे पृक्षवते हविर्लक्षणान्नयुक्ताय यजमानाय ता तानि विश्वा सर्वाणि भुवनान्युदकानि मित्राय । वाशब्द उपमार्थः । मित्रायेव सदं सदा आ ववक्षिरे । मरुत आवहंति । यद्वा वाशब्दोऽवधारणे । मित्रभूताय यजमानायैव पृक्षे ऽन्ने निमित्तभूते सति वृष्ट्युदकान्यावहंति । कीदृशा मरुतः । जीरदानवः । क्षिप्रदानाः । पृषदश्वासः पृषद्भिः श्वेतबिंदुभिर्युक्ता अश्वा येषां ते तथोक्ताः । अनवभराधसः ॥ भृशु भ्रंशु अधःपतने । अवभ्रंशनमवभ्रः । डोऽन्यत्राधि दृश्यते । पा० ६.२. ४८. ४.। इति डप्रत्ययः । नास्त्यवभ्रो यस्येति बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं । अनवभ्रं भ्रंशनरहितं राधो धनं येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ऋजिप्यासो न। ऋजु अकुटिलं प्राप्नुवंतो गच्छंतोऽश्वा इव वयुनेषु गंतृषु मध्ये धूर्षदो धुरि मेघस्य वहने सीदंतो निषण्णा इत्यर्थः ॥


इन्ध॑न्वभिर्धे॒नुभी॑ र॒प्शदू॑धभिरध्व॒स्मभिः॑ प॒थिभि॑र्भ्राजदृष्टयः ।

आ हं॒सासो॒ न स्वस॑राणि गन्तन॒ मधो॒र्मदा॑य मरुतः समन्यवः ॥

इंधन्वऽभिः । धेनुऽभिः। रप्शदूधऽभिः। अध्वस्मऽभिः। पथिऽभिः। भाजत्ऽऋष्टयः।

आ । हंसासो। न । स्वसराणि । गंतन। मधोः । मदाय । मरुतः । सऽमन्यवः ॥५॥

समन्यवः समानमनकाः समानक्रोधाः समानतेजसो वा हे मरुतो भाजदृष्टयो दीप्यमानायुधा यूयमिंधन्वभिः समिंधनवद्भिः ॥ इंधनशब्दाच्छंदसीवनिपाविति मत्वर्थीयो वनिप् । छांदसो वर्णलोपः ॥ धेनुभिः प्रीणयितृभिश्च रप्शदूधभिः । विरप्शीति महन्नाम । महोधस्कैः । ऊधांसि जलस्रोतोमार्गः । यदा रप खप व्यक्तायां वाचि । शब्दायमानोच्छ्रितप्रदेशैरध्वस्मभिर्ध्वसनरहितैः पथिभिः पतंति गच्छंतीति पंथानो मेघाः ।। एवंभूतैर्मेघैः सह मागैरेव वागंतन । आगच्छत । किमर्थं । मधोर्मदाय । सोमस्य मदार्थं। तत्र दृष्टांतः । इंसासो न । यथा हंसाः स्वसराणि स्वकीयानि निवासस्थानानि प्राप्नुवंति तद्वत् ॥ ॥१९॥


आ नो॒ ब्रह्मा॑णि मरुतः समन्यवो न॒रां न शंस॒ः सव॑नानि गन्तन ।

अश्वा॑मिव पिप्यत धे॒नुमूध॑नि॒ कर्ता॒ धियं॑ जरि॒त्रे वाज॑पेशसम् ॥

आ। नः । ब्रह्माणि । मरुतः । सऽमन्यवः । नरां। न। शंसः। सवनानि । गंतन।

अश्वाँऽइव। पिप्यत ।धेनुम्। ऊधनि। कर्त । धियं । जरित्रे। वाजऽपेशसं ॥६॥

समन्यवः समाजमनसः समानक्रोधा वा हे मरुतो नोऽस्माकं ब्रह्माणि ॥ अन्ननामैतत् ॥ अन्नानि सवनान्यभिषुतसोमलक्षणानि हवींष्यागंतन । आगच्छत ॥ गमेर्लोटि छांदसः शपो लुक् । तप्तनप्ननथनाश्चेति तस्य तनबादेशः । अत एव ङित्त्वाभावादनुनासिकलोपाभावः ॥ तत्र दृष्टांतः । नरां न शंसः । नरामस्माकं शंसः। शंसनीयं स्तोत्रं यथागच्छथ तद्वत् ॥ नरशब्दात् षष्ठीबहुवचनस्यानित्यमागमशासनमिति नुडभावः। शंसः कर्मणि घञंत आद्युदात्तः । सुपां सुलुगित्यमः सुआदेशः ॥ आगत्य च धेनुमुदकदानेन प्रीणयितारमश्वामिवोधनि पिप्यत । यथाश्वाः पीनावयवा भवंति तद्वन्मेघं वर्षणसमर्थमाप्यायितं कुरुतेत्यर्थः । अपि च जरित्रे स्तोत्रे वाजपेशसं वाजैरन्नैराश्लिष्टं ॥ पिश अवयवे ॥ धियं कर्म कर्त। कुरुत ॥ करोतेश्छांदसः शपो लुक् । पूर्ववत्तशब्दस्य तबादेशः ।।


तं नो॑ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे ।

इषं॑ स्तो॒तृभ्यो॑ वृ॒जने॑षु का॒रवे॑ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑ ॥

तं । नः । दात । मरुतः । वाजिनं । रथे । आपानं । ब्रह्म । चितयत्। दिवेऽदिवे।

इषं। स्तोतृऽभ्यः । वृजनेषु । कारवे । सनिं । मेधां। अरिष्टं। दुस्तरं । सहः ॥७॥

हे मरुतः तं पुत्रं नोऽस्मभ्यं दात । दत्त प्रयच्छत ॥ छांदसः शपो लुक् ॥ कीदृशं । वाजिनमन्नवंतं बलवंतं वा। रथे रंहणे युष्मदीय आगमने निमित्तभूते सति दिवेदिवे प्रतिदिवसं चितयत् प्रज्ञापयत् युष्मद्गुणप्रख्यापकं । ब्रह्म स्तोत्रमापानमाप्नुवंतं । अपि च इषमन्नं स्तोतृभ्योऽस्मभ्यं दात । प्रयच्छत । तथा वृजनेषु संग्रामेषु कारवे स्तोत्रे ॥ वचनव्यत्ययः ॥ मेधां युद्धप्रज्ञानं सनिं धनदातृत्वं चारिष्टं शत्रुभिरहिंसितं दुस्तरं शत्रुभिस्तरीतुमशक्यं सहो बलं च प्रयच्छत ॥


यद्यु॒ञ्जते॑ म॒रुतो॑ रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे॑षु॒ भग॒ आ सु॒दान॑वः ।

धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना॑य रा॒तह॑विषे म॒हीमिष॑म् ॥

यत् । युंजते । मरुतः । रुक्मऽवक्षसः। अश्वान्। रथेषु । भगे। आ । सुऽदानवः ।

धेनुः । न । शिश्वे। स्वसरेषु । पिन्वते । जनाय। रातऽहविषे। महीं। इषं ॥८॥

रुक्मवक्षसो रोचमानाभरणोरस्काः सुदानवः शोभनदाना मरुतो यद्यदा रथेषु भगे भजनीये स्थाने । धुरीत्यर्थः । अश्वानायुंजते । आभिमुख्येन युक्तान्कुर्वंति । तदानीमेव रातहविषे दत्तहविष्काय यजमानाय महीं महतीमिषमन्नं तत्कारणभूतमुदकं वा स्वसंरेषु स्वकीयेषु गृहेषु पिन्वते । सिंचंति किरंति ॥ पिवि सेचने ॥ तत्र दृष्टांतः । धेनुर्न शिश्वे । यथा धेनुः प्रस्रुतस्तनी सती स्वकीयाय वत्साय क्षीरं प्रयच्छति तद्वत् ।।


यो नो॑ मरुतो वृ॒कता॑ति॒ मर्त्यो॑ रि॒पुर्द॒धे व॑सवो॒ रक्ष॑ता रि॒षः ।

व॒र्तय॑त॒ तपु॑षा च॒क्रिया॒भि तमव॑ रुद्रा अ॒शसो॑ हन्तना॒ वधः॑ ॥

यः । नः । मरुतः । वृकऽताति । मर्त्यः । रिपुः । दधे। वसवः । रक्षत। रिषः।

वर्तयत । तपुषा। चक्रिया। अभि। तं । अव। रुद्राः। अशसः। हंतन। वधरिति ॥९॥

हे मरुतः यो मर्यो मनुष्यो वृकताति आदाता वृकः ॥ वृक आदाने । वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छदास । पा०५. ४. ४१.। इति स्वार्थिकस्तातिल्प्रत्ययः ॥ तादृशः सन् नोऽस्माकं रिपुर्दधे। रिपुतयात्मानं धारयति । हे वसवो वासयितारो मरुतो रिषो हिंसकादस्मान्रक्षत । पालयत । अस्माकं शत्रुभूतं मर्त्यं तपुषा तापयित्र्या चक्रिया ऋष्ट्याख्यया शक्त्याभिवर्तयत । अभितो निवर्तयत । हे रुद्रा रुद्रपुत्राः । यद्वा रोरूयमाणा द्रवंतः अशसो भक्षकस्य ॥ अश भोजन इत्यस्मादौणादिकोऽसिप्रत्ययः ॥ तादृशस्य राक्षसादेर्वधर्हननसाधनमायुधमवहंतन । अवयुत्यास्मत्तः पृथक्कृत्य नाशयत ॥ हंतेर्लोटि तप्तनप्तनथनाश्चेति तनम् ॥


चि॒त्रं तद्वो॑ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो॑ दु॒हुः ।

यद्वा॑ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा॑य जुर॒ताम॑दाभ्याः ॥

चित्रं। तत्। वः। मरुतः। याम। चेकिते। पृश्न्याः। यत्। ऊधः। अपि। आपयः। दुहुः।

यत्। वा। निदे। नवमानस्य। रुद्रियाः । त्रितं। जराय। जुरतां । अदाभ्याः ॥१०॥

हे महतो वो युष्माकं चित्रं चायनीयं याम प्रापणं चेकिते । सर्वैर्ज्ञायते । इदानीं परोक्षवदाह । अपि शब्दः प्रसिद्धौ । यद्यदा खलु पृश्न्या माध्यमिकाया वाचः संबंधिनमूधरुद्धतं मेघमापयः प्रापयितारो मरुतो दुहुः । दुहंति ॥ दुहेश्छांदसो लिट् । छंदसि चेति वक्तव्यमिति द्विर्वचनाभावः ॥ यद्वा यदा च नवमानस्य स्तुवतस्त्रितस्य निदे निंदकाय शत्रवे हिंसां कृतवंत इति शेषः ॥ निदि कुत्सायां। क्विप् चेति क्विप् ॥ तदानीं हे अदाभ्या अहिंस्या रुद्रिया रुद्रस्य पुत्रा मरुतस्त्रितमृर्षि जुरतां हिंसतां शत्रूणां जराय जरणाय विनाशाय अभूतेति शेषः ॥ ॥ २० ॥


तान्वो॑ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॑वामहे ।

हिर॑ण्यवर्णान्ककु॒हान्य॒तस्रु॑चो ब्रह्म॒ण्यन्त॒ः शंस्यं॒ राध॑ ईमहे ॥

तान्। वः । महः । मरुतः। एवऽयाव्नः । विष्णोः । एषस्य । प्रऽभृथे। हवामहे ।

हिरण्यऽवर्णान्। ककुहान्। यतऽस्रुचः। ब्रह्मण्यंतः। शंस्यं। राधः । ईमहे ॥११॥

हे मरुत एवयाव्न एवं गंतव्यं स्तोत्रं यज्ञं वा गंतॄन महो महतो महानुभावांस्तान्वो युष्मान्विष्णोर्व्यापकस्य ग्रहचमसादिषु सर्वत्र व्याप्य वर्तमानस्यैषस्यैषणीयस्य प्रार्थनीयस्य सोमस्य प्रभृथे प्रभरणेऽभिषवादिभिः प्रकर्षेण संपादने सति हवामहे । आह्वयामहे । आहूय च हिरण्यवर्णान् हितरमणीयवर्णान्वा ककुहान् श्रेष्ठान् स्तुत्यान्वा एवंभूतांस्तान् यतस्रुचो यागायोद्यतस्रुचो ब्रह्मण्यंतः । ब्रह्म स्तोत्रं । तदिच्छंतो वयं शंस्यं प्रशंसनीयं राधो धनमीमहे । याचामहे ॥


ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू॑हिरे॒ ते नो॑ हिन्वन्तू॒षसो॒ व्यु॑ष्टिषु ।

उ॒षा न रा॒मीर॑रु॒णैरपो॑र्णुते म॒हो ज्योति॑षा शुच॒ता गोअ॑र्णसा ॥

ते। दशऽग्वाः। प्रथमाः । यज्ञं। ऊहिरे। ते। नः । हिन्वंतु। उषसः। विऽउष्टिषु ।

उषाः। न।रामीः। अरुणैः। अप।ऊर्णुते। महः। ज्योतिषा।शुचता।गोऽअर्णसा ॥१२॥

ते मरुतो दशग्वाः । ये दशभिर्मासैः सिद्धिं गता अंगिरसस्तद्रूपा भूत्वा प्रथमा आदित्येभ्यः प्रथमभाविनः संतो यज्ञमूहिरे। अवहन्। आदित्यानामंगिरसां च स्वर्गगमनं प्रति स्पर्धमानानां मध्ये पूर्वमेवांगिरसो यागाननुष्ठाय स्वर्गं प्राप्ताः । तथा च श्रूयते । आदित्याश्चैवेहासन्नंगिरसश्च तेऽग्रेऽग्निनाग्निमयजंतेति । तादृशास्त उषसो व्युष्टिषु विवासेषु प्रभातेषु सत्सु नोऽस्मान् हिन्वंतु । प्रेरयंतु ॥ हि गतौ वृद्धौ च ॥ रामीः कृष्णवर्णा रात्रीरुषा न यथोषा अरुणैरारोचमानैः स्वतेजोभिरपोर्णुते। अपवृणोत्यपसारयति । तथा महो महता शुचता दीप्यमानेन गोअर्णसा गच्छदुदकेन ज्योतिषा सूर्याख्येन तमो निवारयंति । सूर्यमंडलमावृण्वतो वृत्रादीन् हत्वा सर्वं जगत्प्रकाशयंतीत्यर्थः ॥


ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी॑ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः ।

नि॒मेघ॑माना॒ अत्ये॑न॒ पाज॑सा सुश्च॒न्द्रं वर्णं॑ दधिरे सु॒पेश॑सम् ॥

ते। क्षोणीभिः। अरुणेभिः। न। अंजिऽभिः। रुद्राः। ऋतस्य। सदनेषु । ववृधुः।

निऽमेघमानाः । अत्येन । पाज॑सा । सुऽचंद्रं । वर्णं । दधिरे। सुऽपेशसं ॥१३॥

रुद्रा रुद्रपुत्रास्ते मरुतः क्षोणीभिः शब्दकारिभिर्वीणाख्यैर्वीणाविशेषैररुणेभिर्नांजिभिः ॥ नशब्दः समुच्चये ॥ आरोचमानैररुणवर्णेर्वा रूपाभिव्यंजकैरलंकारैश्च समन्विताः संत ऋतस्योदकस्य सदनेषु निवासभूतेषु मेघेषु वावृधुः । वर्धंते । अपि च अत्येन सततगामिना शीघ्रं व्याप्नुवता पाजसात्मीयेन बलेन निमेघमाना नितरां मेघादुदकं चिंतयंतस्ते सुश्चंद्रं शोभनाह्लादनं सुपेशसं ॥ पेश इति रूपनाम ॥ शोभनरूपं वर्णं दधिरे। कांतिं धारयंति ॥


ताँ इ॑या॒नो महि॒ वरू॑थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि ।

त्रि॒तो न यान्पञ्च॒ होतॄ॑न॒भिष्ट॑य आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से ॥

तान्। इयानः। महि। वरूथं। ऊतये। उप। घ। इत्। एना। नमसा। गृणीमसि।

त्रितः।न।यान्।पंच होतॄन्।अभिष्टये।आऽववर्तत्।अवरान्।चक्रिया।अवसे ॥१४॥

तान् मरुतो महि महद्वरूथं वरणीयं प्रशस्तं धनं तन्मरुत ऊतये रक्षणार्थमियान इयाना याचमाना वयं ॥ सुपां सुलुगिति जसः सुः ॥ एनानेन नमसा नमस्कारेण स्तोत्रेण वोपेत् उपेत्य गृणीमसि । स्तुमः ॥ घेति पादपूरणः । एनेत्यत्र सुपां सुलुगिति तृतीयाया आजादेशः । नशब्दः समुच्चये ॥ त्रित ऋषिश्च यानेतान् मरुतः पंच होतॄन् अध्यात्मप्राणापानादिपंचवृत्त्यात्मना वर्तमानान् अत एव होमनिष्पादकान् अवरान् मुख्यानभिष्टये ऽभिलषितसिद्ध्यर्थं चक्रिया नाभिचक्रेणावसेऽवितुं संगंतुमाववर्तत् । स्वस्मान्निर्जिगमिषन्प्राणान् स्वात्माभिमुखमावर्तयत् । यद्वा चक्रियः ऋष्ट्याख्येनायुधेन युक्तान् अवसे स्तुत्यादिभिस्तर्पयितुमावर्तयत् । तान् स्तुम इति संबंधः ॥ ववर्तदिति वृतेर्ण्यंताल्लुङि चङि रूपं ॥


यया॑ र॒ध्रं पा॒रय॒थात्यंहो॒ यया॑ नि॒दो मु॒ञ्चथ॑ वन्दि॒तार॑म् ।

अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु ॥

यया। रध्रं। पारयथ । अति । अंहः । यया। निदः । मुंचथ। वंदितारं।

अर्वाची। सा। मरुतः । या। वः । ऊतिः । ओ इति । सु। वाश्राऽइव । सुऽमतिः । जिगातु ॥१५॥

हे मरुतो ययोत्या रध्रमाराधकं यजमानमंहः पापमति पारयथ । अतिक्रमयथ । ययोत्या वंदितारं स्तोतारं निदो निंदितुः शत्रोः सकाशोन्मुंचथ । मोचयथ । हे मरुतो वो युष्मदीया योतिः सार्वाच्यस्मदभिमुखा भवतु । तथा सुमतिर्युष्मदीया शोभना मतिरनुग्रहात्मिका बुद्धिश्च वाश्रेव हंभांरवं कुर्वती धेनुरिव वत्सं सुष्ठु ओ जिगातु । एवं गच्छतु । अस्मान् प्रति सर्वथागच्छत्वित्यर्थः ॥ ॥२१॥


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.३४&oldid=196999" इत्यस्माद् पुनः प्राप्तिः