ऋग्वेदः सूक्तं २.१८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.१७ ऋग्वेदः - मण्डल २
सूक्तं २.१८
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.१९ →
दे. इन्द्रः। त्रिष्टुप्।


प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः ।
दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंह्यो भूत् ॥१॥
सास्मा अरं प्रथमं स द्वितीयमुतो तृतीयं मनुषः स होता ।
अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ॥२॥
हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन ।
मो षु त्वामत्र बहवो हि विप्रा नि रीरमन्यजमानासो अन्ये ॥३॥
आ द्वाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः ।
आष्टाभिर्दशभिः सोमपेयमयं सुतः सुमख मा मृधस्कः ॥४॥
आ विंशत्या त्रिंशता याह्यर्वाङा चत्वारिंशता हरिभिर्युजानः ।
आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥५॥
आशीत्या नवत्या याह्यर्वाङा शतेन हरिभिरुह्यमानः ।
अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ॥६॥
मम ब्रह्मेन्द्र याह्यच्छा विश्वा हरी धुरि धिष्वा रथस्य ।
पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व ॥७॥
न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत ।
उप ज्येष्ठे वरूथे गभस्तौ प्रायेप्राये जिगीवांसः स्याम ॥८॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥९॥

[सम्पाद्यताम्]

सायणभाष्यम्

' प्राता रथः' इति नवर्चं सप्तमं सूक्तं गार्त्समदं त्रैष्टुभमैन्द्रम् । ' प्रातः ' इत्यनुक्रान्तम् । लैङ्गिको विनियोगः।।


प्रा॒ता रथो॒ नवो॑ योजि॒ सस्नि॒श्चतु॑र्युगस्त्रिक॒शः स॒प्तर॑श्मिः ।

दशा॑रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि॑र्म॒तिभी॒ रंह्यो॑ भूत् ॥

प्रातरितिं । रथः । नवः । योजि । सस्निः । चतुःऽयुगः । त्रिऽकशः । सप्तऽरश्मिः ।

दशऽअरित्रः । मनुष्यः । स्वःऽसाः । सः । इष्टिभिः । मतिऽभिः । रंह्यः । भूत् ॥ १ ॥

रथः रंहणाद्रथो यज्ञः । स च नवः । नूयते स्तूयतेऽत्रेति नवः स्तुतिमान् । सस्निः ॥ ‘स्ना शौचे'। ‘आदृगमहन’’ इति किन्प्रत्ययः । शुद्धः । एवंविधो यज्ञः प्रातः प्रातःकाले योजि अयोज्यस्माभिः । चतुर्युगः । युज्यन्त इति युगानि ग्रावाणः । चत्वारि युगानि यस्य स तथोक्तः । अध्वर्य्वाद्यृत्विगभिप्रायं वा । त्रिकशः । तिस्रः कशा वाचो मन्द्रमध्यमोत्कृष्टरूपो यस्य स तथोक्तः । सवनत्रयाभिप्रायं वा । सप्तरश्मिः । अश्नुवते व्याप्नुवन्ति कर्माणीति रश्मयश्छन्दांसि । सप्तसंख्याकानि गायत्र्यादीनि छन्दांसि यस्य स तथोक्तः । दशारित्रः । अरिभ्यः पापेभ्यस्त्रायन्त इत्यरित्रा ग्रहाः । दशसंख्याका ग्रहा यस्य स तादृशः । चमसाध्वर्य्वभिप्रायं वा। मनुष्यः मनुष्याणां हितः । स्वर्षाः स्वर्गस्य दाता । सः एवंविधो यज्ञः इष्टिभिः प्रायणीयातिथ्यादिभिः मतिभिः मननीयैः स्तोत्रैः रंह्यः शब्दनीयः भूत् अभूत् । यद्वा नवोऽभिनवः। सस्निः॥ सनोतेर्द्विवचनादि ॥ कामानां दाता ।। रथः । रमन्तेऽस्मिन्निति रथः स्यन्दनः प्रातःसवने च सोमपानार्थं योजि अश्वैरयोजि। कीदृशः । चतुर्युगः । त्रिकशः । तिस्रः कशा यस्य स तथोक्तः । सप्तरश्मिः सप्तरज्जुः । दशारित्रो दशचक्रः मनुष्यो मनुष्यहितः स्वर्षाः स्वर्गस्य संगमयिता इन्द्ररथः इष्टिभिर्यागैर्मतिभिः स्तोत्रैश्च प्राप्तव्यो भवति ॥


सास्मा॒ अरं॑ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑ष॒ः स होता॑ ।

अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ॑ जनन्त॒ सो अ॒न्येभिः॑ सचते॒ जेन्यो॒ वृषा॑ ॥

सः । अस्मै । अरम् । प्रथमम्। सः । द्वितीयम्। उतो इति । तृतीयम् । मनुषः । सः । होता।

अन्यस्याः। गर्भम् । अन्ये। ऊँ इति। जनन्त । सः । अन्येभिः । सचते। जेन्यः । वृषा ॥२॥

सः यज्ञः सोमो वा अस्मै इन्द्राय प्रथमं प्रातःसवने अरं पर्याप्तोऽभूत् । सः च द्वितीयं माध्यंदिने सवने पर्याप्तोऽभूत् । उतो अपि च सः तृतीयं तृतीये सवने पर्याप्तोऽभूत् । सर्वत्र कालाध्वनोः' इति द्वितीया । सः यज्ञः सोमो वा मनुषः मनुष्यस्य होता शुभानां वोढा भवति । किंच अन्ये ऋत्विजः अन्यस्याः पृथिव्या वेदात्मिकायाः वाचो वा गर्भं सन्तं सोमं यज्ञं वा जनन्त अजनयन्त । उ प्रसिद्धयर्थः । वृषा अभिमतफलवर्धकः जेन्यः जयसमर्थः सः। यज्ञः सोमो वा अन्येभिः अन्यैः इन्द्रादिभिर्देवैः सचते संगच्छते ।। ‘सच समवाये' । अनुदात्तेत् ॥


हरी॒ नु कं॒ रथ॒ इन्द्र॑स्य योजमा॒यै सू॒क्तेन॒ वच॑सा॒ नवे॑न ।

मो षु त्वामत्र॑ ब॒हवो॒ हि विप्रा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ॥

हरी इति । नु । कम्। रथे । इन्द्रस्य । योजम् । आऽयै । सुऽउक्तेन । वचसा । नवेन ।

मो इति । सु। त्वाम् । अत्र । बहवः । हि । विप्राः । नि । रीरमन् । यजमानासः । अन्ये ॥३॥

इन्द्रस्य संबन्धिनि रथे हरी एतन्नामकावश्वौ नु क्षिप्रं कं सुखेन 'आयै गमनाय ' नवेन अन्यैरकृतपूर्वेण वचसा वेदात्मकेन सूक्तेन साधनेन योजं युनज्मि ॥“ युजिर् योगे । लुङि ‘इरितो वा' इति च्लेरङादेशः । अत्र अस्मिन् यज्ञे ‘बहवः विप्राः मेधाविनः स्तोतारो भवन्ति हि । तथापि अन्ये मद्व्यतिरिक्ताः ‘यजमानासः यजमानाः त्वां सु सुष्ठु मो नि ‘रीरमन् नितरां मा रमयन्तु । अतोऽस्मदीयं यज्ञमागत्य सोमं पिबेति भावः । रीरमन् । रमतेर्ण्यन्तस्य लुङि चङि सन्वद्भावादभ्यासस्येत्वदीर्घौ । वाक्यभेदादत्र हियोगाभावेन निघातः ।


आ द्वाभ्यां॒ हरि॑भ्यामिन्द्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा॑नः ।

आष्टा॒भिर्द॒शभिः॑ सोम॒पेय॑म॒यं सु॒तः सु॑मख॒ मा मृध॑स्कः ॥

आ। द्वाभ्याम् । हरिऽभ्याम् । इन्द्र । याहि । आ। चतुःऽभिः । आ । षट्ऽभिः । हूयमानः ।

आ। अष्टाभिः । दशऽभिः । सोमऽपेयम् । अयम् । सुतः । सुऽमख । मा। मृधः । करिति कः।।४।।

हे इन्द्र होतृभिः हूयमानः त्वं द्वाभ्यां हरिभ्याम् अश्वाभ्यामिमं यज्ञं प्रति सोमपानार्थम् आ याहि । चतुर्भिः हरिभिः आ याहि । तथा षड्भिः आगच्छ सोमपेयम् ॥‘पा पाने' । कर्मणि अचो यत् । ‘ईद्यति' इतीत्वम् । पातव्यं सोमं प्रति अष्टाभिः अश्वैः ‘आ याहि ॥ ‘अष्टनो दीर्घात् (पा. सू. ६.. १. १७२) इति विभक्तेरुदात्तत्वम् ॥ दशभिः हरिभिरागच्छ । सुमख सुयज्ञ सुधन वा हे इन्द्र अयं सोमस्त्वदर्थमभिषुतः । अतो यज्ञस्य मृधः हिंसाः मा ‘कः मा कार्षीः । करोतेर्लुङि मन्त्रे घस इत्यादिना च्लेर्लुक्। गुणे कृते हल्ङ्यादिना सिपो लोपः । यद्यपीन्द्रस्य द्वावेव हरी तथापि तयोर्विभूतिभेदान्नानात्वम् । अतोऽश्वबहुत्वमविरुद्धम् ॥


आ विं॑श॒त्या त्रिं॒शता॑ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः ।

आ प॑ञ्चा॒शता॑ सु॒रथे॑भिरि॒न्द्रा ष॒ष्ट्या स॑प्त॒त्या सो॑म॒पेय॑म् ॥

आ। विंशत्या । त्रिंशता । याहि । अर्वाङ। आ। चत्वारिंशता । हरिऽभिः । युजानः ।

आ। पञ्चाशता । सुऽरथेभिः । इन्द्र । आ । षष्ट्या । सप्तत्या । सोमऽपेयम् ॥ ५ ॥

हे इन्द्र सोमपेयं पातव्यं सोमं प्रति अर्वाङ् अस्मदभिमुखः सन् विंशत्या विंशतिसंख्याकैरश्वैः आ याहि । त्रिंशता त्रिंशत्संख्याकैर्हरिभिरागच्छ । चत्वारिंशता चत्वारिंशत्संख्याकैः हरिभिः युजानः युज्यमानस्त्वं सोमपानं प्रति आ याहि । सुरथेभिः सुरंहणैः सुगमनैः पञ्चाशता हरिभिः आ याहि । तथा षष्ट्या षष्टिसंख्याकैर्हरिभिः सप्तत्या एतत्संख्याकैर्हरिभिः सोमपानं प्रत्यागच्छ ॥ ॥ २१ ॥


आशी॒त्या न॑व॒त्या या॑ह्य॒र्वाङा श॒तेन॒ हरि॑भिरु॒ह्यमा॑नः ।

अ॒यं हि ते॑ शु॒नहो॑त्रेषु॒ सोम॒ इन्द्र॑ त्वा॒या परि॑षिक्तो॒ मदा॑य ॥

आ। अशीत्या । नवत्या । याहि । अर्वाङ् । आ। शतेन । हरिऽभिः । उह्यमानः ।

अयम् । हि । ते । शुनऽहोत्रेषु । सोमः । इन्द्र । त्वाऽया। परिऽसिक्तः । मदाय ॥ ६ ॥

अशीत्या अशीतिसंख्याकैरश्वैः सोमपानार्थम् अर्वाङ् अस्मदभिमुखः सन् आ याहि । नवत्या एतत्संख्याकैरश्वैरागच्छ । शतेन शतसंख्याकैः हरिभिरुह्यमानः धार्यमाणस्त्वम् आ याहि । हे इन्द्र हि यस्मात् ते मदाय हर्षाय शुनहोत्रेषु । सुखेन हूयते सोमो यैरिति शुनहोत्राः पात्रविशेषाः । तेषु अयं सोमः त्वाया त्वत्कामनया परिषिक्तः ॥


मम॒ ब्रह्मे॑न्द्र या॒ह्यच्छा॒ विश्वा॒ हरी॑ धु॒रि धि॑ष्वा॒ रथ॑स्य ।

पु॒रु॒त्रा हि वि॒हव्यो॑ ब॒भूथा॒स्मिञ्छू॑र॒ सव॑ने मादयस्व ॥

मम । ब्रह्म । इन्द्र । याहि। अच्छ। विश्वा । हरी इति । धुरि । धिष्व । रथस्य ।

पुरुऽत्रा । हि । विऽहव्यः। बभूथ । अस्मिन् । शूर । सवने । मादयस्व ॥ ७ ॥

हे इन्द्र मम ब्रह्म अस्मदीयामेव स्तुतिम् अच्छ अभिलक्ष्य याहि । विश्वा व्याप्तौ हरी रथस्य धुरि युगप्रान्ते धिष्व संयोजय । पुरुत्रा पुरुभिर्बहुभिर्यजमानैस्त्वं विहव्यः विविधं ह्वातव्यः बभूथ बभूविथ ॥ बभूथाततन्थ जगृभ्म ववर्थ’ इति निपातनादिडभावः ॥ हे शूर अस्मिन् सवने यज्ञे मादयस्व सोमपानेन हृष्टो भव ॥


न म॒ इन्द्रे॑ण स॒ख्यं वि यो॑षद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत ।

उप॒ ज्येष्ठे॒ वरू॑थे॒ गभ॑स्तौ प्रा॒येप्रा॑ये जिगी॒वांसः॑ स्याम ॥

न । मे । इन्द्रेण । सख्यम् । वि। योषत् । अस्मभ्यम् । अस्य । दक्षिणा । दुहीत ।

उप । ज्येष्ठे । वरूथे। गभस्तौ । प्रायेऽप्राये । जिगीवांसः । स्याम ॥ ८॥

इन्द्रेण सह मे मम सख्यं यष्टृयष्टव्यलक्षणं सख्यं 'न वि योषन् कदाचिदपि न वियुज्यताम् ।। यौतेर्लेटि ' सिब्बहुलम् ' इति सिप् । अडागमः ।। अस्य इन्द्रस्य दक्षिणा इन्द्रकर्तृकं दानम् अस्मभ्यं दुहीत अभिमतफलं दुग्धाम् ।। दुहेर्लिङि रूपम् । ज्येष्ठे अतिशयेन प्रशस्ये वरूथे आपदां वारके वरणीये वा गभस्तौ बाहौ उप समीपे वर्तिनः स्याम । इन्द्रस्य हस्तस्पर्श- योग्या भवेमेत्यर्यः । किंच प्रायेप्राये सोमपानार्थमिन्द्रस्य यज्ञशालायां प्रवेशेप्रवेशे जिगीवांसः शत्रूणां जेतारो भवेम । यद्वा प्रायेप्राये । प्रकर्षेणेयते गम्यते योद्धृभिरिति प्रायं युद्धम् । तस्मिन् युद्धे जिगी- वांसः शत्रून् जितवन्तो भवेम ।।


नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।

शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृऽहत् । वदेम । विदथे । सुऽवीराः ।।९।

नूनं सा त इति व्याख्याता ।। ।। २२ ।।

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.१८&oldid=196984" इत्यस्माद् पुनः प्राप्तिः