सामग्री पर जाएँ

ऋग्वेदः सूक्तं २.१७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं २.१७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं २.१६ ऋग्वेदः - मण्डल २
सूक्तं २.१७
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.१८ →
दे. इन्द्रः। जगती, ८-९ त्रिष्टुप्


तदस्मै नव्यमङ्गिरस्वदर्चत शुष्मा यदस्य प्रत्नथोदीरते ।
विश्वा यद्गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्यैरयत् ॥१॥
स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानमातिरत् ।
शूरो यो युत्सु तन्वं परिव्यत शीर्षणि द्यां महिना प्रत्यमुञ्चत ॥२॥
अधाकृणोः प्रथमं वीर्यं महद्यदस्याग्रे ब्रह्मणा शुष्ममैरयः ।
रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक्पृथक् ॥३॥
अधा यो विश्वा भुवनाभि मज्मनेशानकृत्प्रवया अभ्यवर्धत ।
आद्रोदसी ज्योतिषा वह्निरातनोत्सीव्यन्तमांसि दुधिता समव्ययत् ॥४॥
स प्राचीनान्पर्वतान्दृंहदोजसाधराचीनमकृणोदपामपः ।
अधारयत्पृथिवीं विश्वधायसमस्तभ्नान्मायया द्यामवस्रसः ॥५॥
सास्मा अरं बाहुभ्यां यं पिताकृणोद्विश्वस्मादा जनुषो वेदसस्परि ।
येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्यवृणक्तुविष्वणिः ॥६॥
अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् ।
कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः ॥७॥
भोजं त्वामिन्द्र वयं हुवेम ददिष्ट्वमिन्द्रापांसि वाजान् ।
अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्निन्द्र वस्यसो नः ॥८॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥९॥


सायणभाष्यम्

' तदस्मै ' इति नवर्चं षष्ठं सूक्तं गार्त्समदमैन्द्रम् । अत्रानुक्रमणिका- तदस्मै द्वित्रिष्टुबन्तम् ' इति । अन्त्ये द्वे त्रिष्टुभौ शिष्टाः सप्त जगत्य । अतिरात्रे द्वितीये पर्यायेऽच्छावाकशस्त्रे ' तदस्मै ' इति सूक्तम् । ' अतिरात्रे पर्यायाणाम् ' इति खण्डे सूत्रितं- ' तदस्मै नव्यमस्य पिब यस्य जज्ञान इन्द्रेति याज्या ' (आश्व. श्रौ. ६. ४) इति ।।


तद॑स्मै॒ नव्य॑मङ्गिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते ।

विश्वा॒ यद्गो॒त्रा सह॑सा॒ परी॑वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत् ॥१

तत् । अ॒स्मै॒ । नव्य॑म् । अ॒ङ्गि॒र॒स्वत् । अ॒र्च॒त॒ । शुष्माः॑ । यत् । अ॒स्य॒ । प्र॒त्नऽथा॑ । उ॒त्ऽईर॑ते ।

विश्वा॑ । यत् । गो॒त्रा । सह॑सा । परि॑ऽवृता । मदे॑ । सोम॑स्य । दृं॒हि॒तानि॑ । ऐर॑यत् ॥१

तत् । अस्मै । नव्यम् । अङ्गिरस्वत् । अर्चत । शुष्माः । यत् । अस्य । प्रत्नऽथा । उत्ऽईरते ।

विश्वा । यत् । गोत्रा । सहसा । परिऽवृता । मदे । सोमस्य । दृंहितानि । ऐरयत् ।। १ ।।

गृत्समदो ब्रूते । हे स्तोतारः नव्यं नवतरमन्येष्वदृष्टपूर्वं तत् तादृशं स्तोत्रम् अङ्गिरस्वत् अङ्गिरस इव ' तस्मै इन्द्राय अर्चत ब्रूत । यत् यस्माज्जातमात्रस्य अस्य इन्द्रस्य शुष्माः शत्रूणां शोषकाणि तेजांसि प्रत्नथा ।। ' प्रत्नपूर्वविश्वेमात्थाल् छन्दसि ' इति इवार्थे थाल्प्रत्ययः ।। प्रत्नानि पुरा- तनानीव उदीरते उद्गच्छन्ति ।। ' ईर गतौ ' । अनुदात्तेत् । ' तिङि चोदात्तवति ' इति गतेर्निघातः ।। यस्माच्च विश्वा सर्वान् गोत्रा मेघान् । गा उदकानि त्रायन्ते रक्षन्तीति गोत्रा मेघाः । परीवृता वृत्रेणाक्रान्तान् ।। सर्वत्र सुपो डादेशः ।। तान् दृंहितानि तेन दृढीकृतान् मेघान् सोमस्य 'मदे हर्षे संजाते सति 'सहसा बलेन ऐरयत् उदघाटयत् । मेघभेदनेनापः प्रेरयामासेत्यर्थः । यद्वा विश्वा सर्वाणि परीवृता वलासुरेण आक्रान्तानि दृंहितानि पर्वतबिले निरुद्धानि गोत्रा ।। ' इनित्रकट्यचश्च ' इति समूहार्थे त्रप्रत्ययः ।। गवां वृन्दानि सहसैरयत् ।। तस्माद्बिलान्निरगमयत् । तस्मादर्चतेति समन्वयः ।। ऐरयत् । ' ईर गतौ ' । ण्यन्तस्य लङि रूपम् । यद्वृत्तयोगादनिघातः ।।


स भू॑तु॒ यो ह॑ प्रथ॒माय॒ धाय॑स॒ ओजो॒ मिमा॑नो महि॒मान॒माति॑रत् ।

शूरो॒ यो यु॒त्सु त॒न्वं॑ परि॒व्यत॑ शी॒र्षणि॒ द्यां म॑हि॒ना प्रत्य॑मुञ्चत ॥२

सः । भू॒तु॒ । यः । ह॒ । प्र॒थ॒माय॑ । धाय॑से । ओजः॑ । मिमा॑नः । म॒हि॒मान॑म् । आ । अति॑रत् ।

शूरः॑ । यः । यु॒त्ऽसु । त॒न्व॑म् । प॒रि॒ऽव्यत॑ । शी॒र्षणि॑ । द्याम् । म॒हि॒ना । प्रति॑ । अ॒मु॒ञ्च॒त॒ ॥२

सः । भूतु । यः । ह । प्रथमाय । धायसे । ओजः । मिमानः । महिमानम् । आ । अतिरत् ।

शूरः । यो । युत्सु । तन्वं । परिव्यत । शीर्षणि । द्याम् । महिना । प्रति । अमुञ्चत ।।२ ।।

सः इन्द्रः भूतु भवतु । वर्धतामित्यर्थः । 'यः इन्द्रः ओजः तेजो बलं मिमानः कुर्वाणः सन् प्रथमाय प्राथमिकाय धायसे ।। ' धेट् पाने ' ।। सोमपानाय महिमानम् आतिरत् अवर्धयत् ।। तिरतेर्व्यत्ययेन शः । यद्योगादनिघातः ।। शूरः शत्रूणां शातयिता यः इन्द्रः युत्सु युद्धेषु तन्वं स्वकीयं शरीरं परिव्यत वर्मणा परिवीतमकरोत् । स इन्द्रः महिना स्वकीयेन महिम्ना शीर्षणि स्वशिरसि द्यां प्रत्यमुञ्चत अधारयत् ।।


अधा॑कृणोः प्रथ॒मं वी॒र्यं॑ म॒हद्यद॒स्याग्रे॒ ब्रह्म॑णा॒ शुष्म॒मैर॑यः ।

र॒थे॒ष्ठेन॒ हर्य॑श्वेन॒ विच्यु॑ता॒ः प्र जी॒रयः॑ सिस्रते स॒ध्र्य१॒॑क्पृथ॑क् ॥३

अध॑ । अ॒कृ॒णोः॒ । प्र॒थ॒मम् । वी॒र्य॑म् । म॒हत् । यत् । अ॒स्य॒ । अग्रे॑ । ब्रह्म॑णा । शुष्म॑म् । ऐर॑यः ।

र॒थे॒ऽस्थेन॑ । हरि॑ऽअश्वेन । विऽच्यु॑ताः । प्र । जी॒रयः॑ । सि॒स्र॒ते॒ । स॒ध्र्य॑क् । पृथ॑क् ॥३

अध । अकृणोः । प्रथमम् । वीर्यम् । महत् । यत् । अस्य । अग्रे । ब्रह्मणा । शुष्मम् । ऐरयः ।

रथेऽस्थेन । हरिऽअश्वेन । विऽच्युताः । प्र । जीरयः । सिस्रते । सध्र्यक् । पृथक् ॥३

अध अपि च हे इन्द्र त्वं प्रथमं मुख्यं तत् वीर्यं सामर्थ्यम् अकृणोः अकरोः । किं तत् । ब्रह्मणा स्तोत्रेण स्तुतिसाधनभूतेन वेदवाक्येन अस्य वीर्यस्य स्तोतुर्जनस्य अग्रे पुरतः यत् शुष्मं शत्रूणां शोषकं बलम् ऐरयः उदगमयः । जीरयः जरयितारः बाधका असुराः रथेष्ठेन रथस्थितेन हर्यश्वेन त्वया विच्युताः स्वस्थानाच्च्याविताः सन्तः सध्र्यक् सध्रीचीनाः परस्परं संगताः पृथक् भीत्या वियुक्ताः सन्तः प्र सिस्रते प्रकर्षेण धावन्ति ।। ' स्रु गतौ ' । जुहोत्यादिः । ' बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् ।। सध्र्यगिति ' सहस्य सध्रिः ' इति सध्र्यादेशः । अद्रिसध्र्यो- रन्तोदात्तत्वेन .निपातनात् ' उदात्तस्वरितयोः - इति यणः स्वरितत्वम् ।।


अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने॑शान॒कृत्प्रव॑या अ॒भ्यव॑र्धत ।

आद्रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त्सीव्य॒न्तमां॑सि॒ दुधि॑ता॒ सम॑व्ययत् ॥४

अध॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । म॒ज्मना॑ । ई॒शा॒न॒ऽकृत् । प्रऽव॑याः । अ॒भि । अव॑र्धत ।

आत् । रोद॑सी॒ इति॑ । ज्योति॑षा । वह्निः॑ । आ । अ॒त॒नो॒त् । सीव्य॑न् । तमां॑सि । दुधि॑ता । सम् । अ॒व्य॒य॒त् ॥४

अध । यः । विश्वा । भुवना । अभि । मज्मना । ईशानऽकृत् । प्रऽवयाः । अभि । अवर्धत ।

आत् । रोदसी इति । ज्योतिषा । वह्निः । आ । अतनोत् । सीव्यन् । तमांसि । दुधिता । सम् । अव्ययत् ॥४

अध अपि च प्रवयाः प्रवृद्धान्नः पुरातनो वा यः इन्द्रः विश्वा भुवना सर्वान् लोकान् मज्मना बलेनाभिभूय ईशानकृत् आत्मानं सर्वस्याधिपतिं कुर्वन् । यद्वा अग्न्यादीन् देवान् तत्तल्लोका- धिपतीन् कुर्वन् अभ्यवर्धत सर्वतः प्रवृद्धोऽभवत् । आत् अनन्तरं वह्निः जगतां वोढा स इन्द्रः ज्योतिषा स्वीयेन तेजसा रोदसी द्यावापृथिव्यौ आतनोत् व्याप्नोत् । किंच तमांसि तमोरूपाणि रक्षांसि दुधिता दुःस्थितानि दुर्गतानि सीव्यन् विस्तारयन् समव्ययत् आवृणोत् । जगद्व्याप्य वर्तत इत्यर्थः ।।


स प्रा॒चीना॒न्पर्व॑तान्दृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ ।

अधा॑रयत्पृथि॒वीं वि॒श्वधा॑यस॒मस्त॑भ्नान्मा॒यया॒ द्याम॑व॒स्रसः॑ ॥५

सः । प्रा॒चीना॑न् । पर्व॑तान् । दृं॒ह॒त् । ओज॑सा । अ॒ध॒रा॒चीन॑म् । अ॒कृ॒णो॒त् । अ॒पाम् । अपः॑ ।

अधा॑रयत् । पृ॒थि॒वीम् । वि॒श्वऽधा॑यसम् । अस्त॑भ्नात् । मा॒यया॑ । द्याम् । अ॒व॒ऽस्रसः॑ ॥५

सः । प्राचीनान् । पर्वतान् । दृंहत् । ओजसा । अधराचीनम् । अकृणोत् । अपाम् । अपः ।

अधारयत् । पृथिवीम् । विश्वऽधायसम् । अस्तभ्नात् । मायया । द्याम् । अवऽस्रसः ॥५

सः इन्द्रः प्राचीनान् इतस्ततः प्रकर्षेणाञ्चतो गच्छतः सपक्षान् पर्वतान् ओजसा बलेन दृंहत् । पक्षच्छेदं कृत्वा भूमौ दृढीचकार । अचलानकरोदित्यर्थः । अपां मेघस्थितानामुदकानाम् अपः स्यन्दनलक्षणं कर्म अधराचीनम् । अधःप्रदेशमञ्चति गच्छतीत्यधराचीनम् । तादृशम् अकृणोत् । मेघभेदनं कृत्वापो भूमावपातयदित्यर्थः । किंच विश्वधायसं विश्वस्य धात्रीं पृथिवीं बलेन अधारयत् । मायया प्रज्ञयोपायेन द्यां द्युलोकम् अवस्रसः ।। ' स्रंसु गतौ ' । संपदादिलक्षणो भावे क्विप् ।। अवपतनात् अस्तभ्नात् ।। ।। १९ ।।


सास्मा॒ अरं॑ बा॒हुभ्यां॒ यं पि॒ताकृ॑णो॒द्विश्व॑स्मा॒दा ज॒नुषो॒ वेद॑स॒स्परि॑ ।

येना॑ पृथि॒व्यां नि क्रिविं॑ श॒यध्यै॒ वज्रे॑ण ह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॑ ॥६

सः । अ॒स्मै॒ । अर॑म् । बा॒हुऽभ्या॑म् । यम् । पि॒ता । अकृ॑णोत् । विश्व॑स्मात् । आ । ज॒नुषः॑ । वेद॑सः । परि॑ ।

येन॑ । पृ॒थि॒व्याम् । नि । क्रिवि॑म् । श॒यध्यै॑ । वज्रे॑ण । ह॒त्वी । अवृ॑णक् । तु॒वि॒ऽस्वनिः॑ ॥६

सः । अस्मै । अरम् । बाहुऽभ्याम् । यम् । पिता । अकृणोत् । विश्वस्मात् । आ । जनुषः । वेदसः । परि ।

येन । पृथिव्याम् । नि । क्रिविम् । शयध्यै । वज्रेण । हत्वी । अवृणक् । तुविऽस्वनिः ॥६

सः तादृश इन्द्रः अस्मै जगते अरम् अलं पर्याप्तो बभूव । रक्षकत्वेन स्वामी बभूवेत्यर्थः । पिता सर्वस्य पालकः प्रजापतिः विश्वस्मात् सर्वस्मात् जनुषः जनात् परि ततोऽप्युत्कृष्टात वेदसः ज्ञानात् तद्विशिष्टं बाहुभ्यां स्वकीयाभ्यां बाहुभ्यां यम् आ अकृणोत् । तुविष्वणिः बहुकीर्तिः महास्वनो वा स इन्द्रः येन ज्ञानेन 'क्रिविम् एतन्नामानममुरं वज्रेण हत्वी ।। ' स्नात्व्यादयश्च ' इति त्वी।। हत्वा ताडयित्वा पृथिव्यां भूमौ शयध्यै शयनाय दीर्घनिद्रायै नि अवृणक् ।। वृणक्तिर्हिंसाकर्मा ।। न्यवधीत् ।।


अ॒मा॒जूरि॑व पि॒त्रोः सचा॑ स॒ती स॑मा॒नादा सद॑स॒स्त्वामि॑ये॒ भग॑म् ।

कृ॒धि प्र॑के॒तमुप॑ मा॒स्या भ॑र द॒द्धि भा॒गं त॒न्वो॒३॒॑ येन॑ मा॒महः॑ ॥७

अ॒मा॒जूःऽइ॑व । पि॒त्रोः । सचा॑ । स॒ती । स॒मा॒नात् । आ । सद॑सः । त्वाम् । इ॒ये॒ । भग॑म् ।

कृ॒धि । प्र॒ऽके॒तम् । उप॑ । मा॒सि॒ । आ । भ॒र॒ । द॒द्धि । भा॒गम् । त॒न्वः॑ । येन॑ । म॒महः॑ ॥७

अमाजूःऽइव । पित्रोः । सचा । सती । समानात् । आ । सदसः । त्वाम् । इये । भगम् ।

कृधि । प्रऽकेतम् । उप । मासि । आ । भर । दद्धि । भागम् । तन्वः । येन । ममहः ॥७

हे इन्द्र अमाजूः यावज्जीवं गृह एव जीर्यन्ती पित्रोः सचा मातापितृभ्यां सह भवन्ती तयोः शुश्रूषणपरा पतिमलभमाना सती दुहिता समानात् आत्मनः पित्रोश्च साधारणात् 'सदसः गृहात् ।। ' अधिकरणे चोपसंख्यानम् ' इति पञ्चमी ।। गृह उपस्थायैव यथा भागं याचति तथा स्तोताहं भगं भजनीयं धनं त्वाम् इये ।। ई गत्यादिषु । लिट्युत्तम इति व्यत्ययेनात्मनेपदम् । इयङादेशः ।। त्वां याचे । तत्र देयं धनं प्रकेतं प्रकर्षेण ज्ञातव्यं विश्वजनीयं कृधि कुरु । तत्र उप मासि एतावदिदं धनमिति कुरु । आ भर तत्र धनं संपादय । भागं भजनीयं धनं तन्वः शरीराय सह्यमिति यावत् दद्धि देहि । येन धनेन ममहः स्तोतॄनिमान् पूजयसि ।।


भो॒जं त्वामि॑न्द्र व॒यं हु॑वेम द॒दिष्ट्वमि॒न्द्रापां॑सि॒ वाजा॑न् ।

अ॒वि॒ड्ढी॑न्द्र चि॒त्रया॑ न ऊ॒ती कृ॒धि वृ॑षन्निन्द्र॒ वस्य॑सो नः ॥८

भो॒जम् । त्वाम् । इ॒न्द्र॒ । व॒यम् । हु॒वे॒म॒ । द॒दिः । त्वम् । इ॒न्द्र॒ । अपां॑सि । वाजा॑न् ।

अ॒वि॒ड्ढि । इ॒न्द्र॒ । चि॒त्रया॑ । नः॒ । ऊ॒ती । कृ॒धि । वृ॒ष॒न् । इ॒न्द्र॒ । वस्य॑सः । नः॒ ॥८

भोजम् । त्वाम् । इन्द्र । वयम् । हुवेम । ददिः । त्वम् । इन्द्र । अपांसि । वाजान् ।

अविड्ढि । इन्द्र । चित्रया । नः । ऊती । कृधि । वृषन् । इन्द्र । वस्यसः । नः ॥८


हे इन्द्र भोजं पालयितारं भोजयितारं वा त्वां वयं हुवेम ।। ह्वयतेर्लिङि ' बहुलं छन्दसि इति संप्रसारणम् ।। हे इन्द्र त्वम् अपांसि कर्माणि वाजान् अन्नानि ददिः ।। 'दाण् दाने ' ' आदृगमहनजनः०' इति किप्रत्ययः । लिड्वद्भावादभ्यासादिकार्यम्। 'न लोकाव्ययनिष्ठा०' इति षष्ठी- प्रतिषेधः ।। दाता खलु । हे इन्द्र चित्रया नानाप्रकारया ऊती ऊत्या पालनेन नः अस्मान् अविड्ढि रक्ष ।' वृषन् कामानां वर्षक हे इन्द्र नः अस्मान् वस्यसः अतिशयेन वसुमतः कृधि कुरु ।।


नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥९

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥९

नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।

शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥९

हे इंद्र या दक्षिणा दक्षमुत्साहनं करोतीति दक्षिणा स्तोतृभ्यो देया ते त्वत्संबंधिनी मघोनी धनवत जरित्रे स्तोत्रे वरं श्रेष्ठमभिमतमर्थं नूनं प्रतिदुहीयत् । इदानीं प्रतिदोग्धि। संपादयतीत्यर्थः । तादृशीं दक्षिणां स्तोतृभ्योऽस्मभ्यं शिक्ष । प्रयच्छ । किंच भगो भजनीयस्त्वं माति धक् ॥ दहेर्दानार्थस्य लुङि मंत्रे घसेत्यादिना च्लेर्लुक् ॥ नोऽस्मानतिक्रम्यान्येभ्यो दक्षिणां मा दाः । प्रथममस्मभ्यं दत्त्वा पश्चादन्येभ्यो दीयतामित्यर्थः । यद्वा नोऽस्माकं कामान् मा धक् । मा धाक्षीः। अपेक्षितफलदानेन पूरयेत्यर्थः । सुवीराः शोभनपुत्रपौत्राः संतो वयं विदथे ऽस्मिन्यज्ञे बृहत् प्रभूतं स्तोत्रं वदेम । त्वामुद्दिश्य ब्रवाम । अत्र सा ते प्रतिदुग्धामिति प्रकृत्य वीरो वीरयत्यमित्रान् वेतेर्वा स्याद्गतिकर्मणो वीरयतेर्वेत्यंतं निरुक्तमनुसंधेयं । नि० १.७.॥॥६॥ ॥१॥


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.१७&oldid=208755" इत्यस्माद् प्रतिप्राप्तम्