ऋग्वेदः सूक्तं २.३९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.३८ ऋग्वेदः - मण्डल २
सूक्तं २.३९
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.४० →
दे. अश्विनौ। त्रिष्टुप्
मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३



ग्रावाणेव तदिदर्थं जरेथे गृध्रेव वृक्षं निधिमन्तमच्छ ।
ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥१॥
प्रातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे ।
मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु ॥२॥
शृङ्गेव नः प्रथमा गन्तमर्वाक्छफाविव जर्भुराणा तरोभिः ।
चक्रवाकेव प्रति वस्तोरुस्रार्वाञ्चा यातं रथ्येव शक्रा ॥३॥
नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव ।
श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मान् ॥४॥
वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक् ।
हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥५॥
ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः ।
नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ॥६॥
हस्तेव शक्तिमभि संददी नः क्षामेव नः समजतं रजांसि ।
इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ॥७॥
एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् ।
तानि नरा जुजुषाणोप यातं बृहद्वदेम विदथे सुवीराः ॥८॥


सायणभाष्यम्

ग्रावाणेव ' इत्यष्टर्चं सप्तमं सूक्तं गार्त्समदं त्रैष्टुभमाश्विनं ' ग्रावाणेवाष्टावाश्विनम् ' इत्यनुक्रान्तत्वात् । प्रवर्ग्येऽभिष्टवे पूर्वे पटलेऽस्य विनियोगः । सूत्रितं च-' ग्रावाणेवेळे द्यावापृथिवी ' (आश्व. श्रौ. ४. ६) इति । प्रातरनुवाकाश्विनशस्त्रयोरपीदं सूक्तम् । सूत्रितं च-' ग्रावाणेव नासत्याभ्यामिति त्रीणि ' ( आश्व. श्रौ. ४ १५) इति ।।


ग्रावा॑णेव॒ तदिदर्थं॑ जरेथे॒ गृध्रे॑व वृ॒क्षं नि॑धि॒मन्त॒मच्छ॑ ।

ब्र॒ह्माणे॑व वि॒दथ॑ उक्थ॒शासा॑ दू॒तेव॒ हव्या॒ जन्या॑ पुरु॒त्रा ॥१

ग्रावा॑णाऽइव । तत् । इत् । अर्थ॑म् । ज॒रे॒थे॒ इति॑ । गृध्रा॑ऽइव । वृ॒क्षम् । नि॒धि॒ऽमन्त॑म् । अच्छ॑ ।

ब्र॒ह्माणा॑ऽइव । वि॒दथे॑ । उ॒क्थ॒ऽशसा॑ । दू॒ताऽइ॑व । हव्या॑ । जन्या॑ । पु॒रु॒ऽत्रा ॥१

ग्रावाणाऽइव। तत् । इत्। अर्थं। जरेथे इति। गृध्राऽइव। वृक्ष। निधिऽमंतं । अच्छ।

ब्रह्माणोऽइव। विदथे । उक्थऽशसा। दूताऽइव। हव्यो। जन्या। पुरुऽत्रा ॥१॥

हे अश्विनौ ग्रावाणेव अरातिं प्रति प्रेषितौ पाषाणाविव तदर्थं ॥ अर्तेर्धातोरर्थशब्दः । अर्थोऽर्तेरिति यास्कः । नि० १.१८. ॥ तमरातिमित्यर्थः । इदिति पूरणः । जरेथे । जरयेथे । अरातिं बाधेथां । यद्वा यथा गुरू ग्रावाणौ क्षिप्तौ तदानीमेव शीघ्रं गच्छतस्तथा तत् तमर्थं गंतारं जरेथे । शीघ्रं गत्वा स्तुतमित्यर्थः ॥ जरतिः स्तुतिकर्मा ॥ किंच गृध्रेव गृध्राविव पक्षिणाविव वृक्षं फलितं वृक्षं निधिमंतं धनवंतं यजमानमच्छ । आगच्छतमिति शेषः । विदथे यज्ञे ॥ विदथः सवनमिति यज्ञनामसु पाठात् ॥ उक्थशासोक्थशंसितारौ ब्रह्माणेव ब्राह्मणाविव । जन्या जनपदेषु दूतेव राज्ञा प्रेषितौ दूताविव पुरुत्रा बहुभिः पुरुषैर्हव्या ह्वातव्यौ युवां । अत्रोपमेयद्वित्वानुसारेणोपमानद्वित्वं ॥


प्रा॒त॒र्यावा॑णा र॒थ्ये॑व वी॒राजेव॑ य॒मा वर॒मा स॑चेथे ।

मेने॑ इव त॒न्वा॒३॒॑ शुम्भ॑माने॒ दम्प॑तीव क्रतु॒विदा॒ जने॑षु ॥२

प्रा॒तः॒ऽयावा॑ना । र॒थ्या॑ऽइव । वी॒रा । अ॒जाऽइ॑व । य॒मा । वर॑म् । आ । स॒चे॒थे॒ इति॑ ।

मेने॑ इ॒वेति॒ मेने॑ऽइव । त॒न्वा॑ । शुम्भ॑माने॒ इति॑ । दम्प॑ती इ॒वेति॒ दम्प॑तीऽइव । क्र॒तु॒ऽविदा॑ । जने॑षु ॥२

प्रातःऽयावाना। रथ्याऽइव। वीरा। अजाऽइव। यमा। वरं। आ । सचेथे इति ।

मेने इवेति मेनेऽइव । तन्वा । शुंभमाने इति । दंपती इवेति दंपतीऽइव । क्रतुऽविदा । जनेषु ॥२॥

हे अश्विनौ प्रातर्यावाणा प्रातरेव यज्ञार्थं गंतारौ रथ्येव रथिनाविव वीरौ स्वकर्मणि शूरौ। अजेवाजाविव छागाविव यमा यमलौ । मेने इव नार्याविव तन्वा शरीरेण शुंभमाने शोभमानौ । दंपतीव जायापती इव संगतौ जनेषु विषयेषु क्रतुविदा कर्मविदौ युवां वरं संभक्तारमासचेथे । आगच्छथ ॥


शृङ्गे॑व नः प्रथ॒मा ग॑न्तम॒र्वाक्छ॒फावि॑व॒ जर्भु॑राणा॒ तरो॑भिः ।

च॒क्र॒वा॒केव॒ प्रति॒ वस्तो॑रुस्रा॒र्वाञ्चा॑ यातं र॒थ्ये॑व शक्रा ॥३

शृङ्गा॑ऽइव । नः॒ । प्र॒थ॒मा । ग॒न्त॒म् । अ॒र्वाक् । श॒फौऽइ॑व । जर्भु॑राणा । तरः॑ऽभिः ।

च॒क्र॒वा॒काऽइ॑व । प्रति॑ । वस्तोः॑ । उ॒स्रा॒ । अ॒र्वाञ्चा॑ । या॒त॒म् । र॒थ्या॑ऽइव । श॒क्रा॒ ॥३

शृंगाऽइव । नः । प्रथमा। गंतं । अवाक् । शफौऽइव। जर्भुराणा । तरःऽभिः ।।

चक्रवाकाऽइव। प्रति । वस्तोः। उस्रा । अर्वांचा। यातं । रथ्याऽइव । शक्रा ॥३॥

हे अश्विनौ शृंगेव पशोः शृंगे इव प्रथमा देवानां प्रथमौ शफाविवाश्वादेः खुराविव तरोभिर्वेगैर्जर्भुराणा भृशं गच्छंतौ युवां नोऽस्मान्प्रत्यर्वागभिमुखमागंतं । आगच्छतं । किंच हे अश्विनौ वस्तोः प्रति अहः प्रति चक्रवाकेव चक्रवाकाविव हे उस्रा शत्रूणामुत्सारकौ गमनशीलौ वा रथ्येव रथिनाविव हे शक्रा स्वकर्मणि शक्तावर्वांचास्मदभिमुखौ यातं । गच्छतं ॥


ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये॑व न उप॒धीव॑ प्र॒धीव॑ ।

श्वाने॑व नो॒ अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रसः॑ पातम॒स्मान् ॥४

ना॒वाऽइ॑व । नः॒ । पा॒र॒य॒त॒म् । यु॒गाऽइ॑व । नभ्या॑ऽइव । नः॒ । उ॒प॒धी इ॒वेत्यु॑प॒धीऽइ॑व । प्र॒धी इ॒वेति॑ प्र॒धीऽइ॑व ।

श्वाना॑ऽइव । नः॒ । अरि॑षण्या । त॒नूना॑म् । खृग॑लाऽइव । वि॒ऽस्रसः॑ । पा॒त॒म् । अ॒स्मान् ॥४

नावाऽइव। नः । पारयतं । युगाऽइव । नभ्याऽइव। नः। उपधी इवेत्युपधीऽइव । प्रधी इवेति प्रधीऽइव ।

श्वानाऽइव।नः। अरिषण्या। तनूनां। खृगलाऽइव। विऽस्रसः। पातं। अस्मान्॥४॥

हे अश्विनौ नावेव नावाविव सिंधून् नोऽस्मान् दुर्गाणि पारयतं । युगेव यथा रथस्य युगे नभ्येव यथा च रथचक्रनाभिफलके। उपधी इव यथा तत्पार्श्वस्थे फलके प्रधी इव यथा वा चक्रबाह्यवलयौ रथं पारयतः तथा नोऽस्मान्दुर्गाणि पारयतं । किंच श्वानेव श्वानाविव यथा श्वानौ बाधकेभ्यो रक्षंतौ तनोर्हिंसामपनयतः तथा नोऽस्माकं तनूनामंगानामरिषण्यावहिंसकौ भवतं । खृगलेव यथा तनुत्राणे तनुहिंसाया रक्षतः तथा विस्रसो जराया अस्मान्युवां पातं ॥


वाते॑वाजु॒र्या न॒द्ये॑व री॒तिर॒क्षी इ॑व॒ चक्षु॒षा या॑तम॒र्वाक् ।

हस्ता॑विव त॒न्वे॒३॒॑ शम्भ॑विष्ठा॒ पादे॑व नो नयतं॒ वस्यो॒ अच्छ॑ ॥५

वाता॑ऽइव । अ॒जु॒र्या । न॒द्या॑ऽइव । री॒तिः । अ॒क्षी इ॒वेत्य॒क्षीऽइ॑व । चक्षु॑षा । आ । या॒त॒म् । अ॒र्वाक् ।

हस्तौ॑ऽइव । त॒न्वे॑ । शम्ऽभ॑विष्ठा । पादा॑ऽइव । नः॒ । न॒य॒त॒म् । वस्यः॑ । अच्छ॑ ॥५

वाताऽइव।अजुर्या।नद्याऽइव।रीतिः।अक्षी इवेत्यक्षी इव।चक्षुषा। आ। यातं।अर्वाक्।

हस्तौ ऽइव। तन्वे । शंऽभविष्ठा। पादाऽइव। नः। नयतं । वस्यः । अच्छ॥५॥

हे अश्विनौ वातेव वाताविवाजुर्या जरितुमशक्यौ नद्येव नद्याविव रीतिः ॥ व्यत्ययेनैकवचनं ॥ शीघ्रं गंतारौ युवां । अक्षी इव अक्षिणी इव चक्षुषा दर्शनेनार्वागस्मदभिमुखमायातं । आगच्छतं । किंच हस्तेव हस्ताविव पादेव पादाविव तन्वे शरीराय शंभविष्ठा सुखस्य भावयितृतमौ युवां नो ऽस्मान् वस्यो वसीयः श्रेष्ठं धनमच्छ प्रति नयतं । प्रापयतं ॥ ॥ ४॥


ओष्ठा॑विव॒ मध्वा॒स्ने वद॑न्ता॒ स्तना॑विव पिप्यतं जी॒वसे॑ नः ।

नासे॑व नस्त॒न्वो॑ रक्षि॒तारा॒ कर्णा॑विव सु॒श्रुता॑ भूतम॒स्मे ॥६

ओष्ठौ॑ऽइव । मधु॑ । आ॒स्ने । वद॑न्ता । स्तनौ॑ऽइव । पि॒प्य॒त॒म् । जी॒वसे॑ । नः॒ ।

नासा॑ऽइव । नः॒ । त॒न्वः॑ । र॒क्षि॒तारा॑ । कर्णौ॑ऽइव । सु॒ऽश्रुता॑ । भू॒त॒म् । अ॒स्मे इति॑ ॥६

ओष्ठौऽइव। मधु । आस्ने । वदंता । स्तनौऽइव। पिप्यतं । जीवसे । नः।

नासाऽइव।नः। तन्वः। रक्षितारा। कर्णौऽइव । सुऽश्रुता । भूतं । अस्मे इति ॥६॥

हे अश्विनौ ओष्ठाविवास्न आस्याय मधुररसवद्वचनं वदंतौ स्तनाविव नोऽस्मान् जीवसे जीवनाय पिप्यतं । प्याययतं । किंच नासेव नासिके इव नोऽस्माकं तन्वस्त नो रक्षितारा रक्षितारौ भूतं । भवतं । अपि च कर्णाविवास्मे अस्माकं सुश्रुता सुश्रवणे युवां भूतं । भवतं ॥


हस्ते॑व श॒क्तिम॒भि सं॑द॒दी न॒ः क्षामे॑व न॒ः सम॑जतं॒ रजां॑सि ।

इ॒मा गिरो॑ अश्विना युष्म॒यन्ती॒ः क्ष्णोत्रे॑णेव॒ स्वधि॑तिं॒ सं शि॑शीतम् ॥७

हस्ता॑ऽइव । श॒क्तिम् । अ॒भि । स॒न्द॒दी इति॑ स॒म्ऽद॒दी । नः॒ । क्षामा॑ऽइव । नः॒ । सम् । अ॒ज॒त॒म् । रजां॑सि ।

इ॒माः । गिरः॑ । अ॒श्वि॒ना॒ । यु॒ष्म॒ऽयन्तीः॑ । क्ष्णोत्रे॑णऽइव । स्वऽधि॑तिम् । सम् । शि॒शी॒त॒म् ॥७

हस्ताऽइव।शक्तिं। अभिःसंददी इति संऽददी।नः। क्षामऽइव।नः।सं। अजतं।रजांसि।

इमाः। गिरः। अश्विना। युष्मऽयंतीः। क्ष्णोत्रेणऽइव।स्वऽधिंतिं । सं। शिशीतं ॥७॥

हे अश्विनौ हस्तेव हस्ताविव शक्तिं सामर्थ्यं नोऽस्माकमभिसददी आभिमुख्येन सम्यक् प्रयच्छतौ भवतं । किंच क्षामेव रोदसी इव रजांसि स्थानान्युदकानि वा ॥ उदकं रज उच्यत इति यास्कः ॥ नोऽस्माकं समजतं । प्रेरयतं । अपि च अश्विना हे अश्विनौ इमा गिरोऽस्माभिः कृताः स्तुतीर्युष्मयंतीर्युवामिच्छंतीः स्वधितिमसिं क्ष्णोत्रेणेव तेजनशाणवत् संशिशीतं । सम्यक् तीक्ष्णीकुरुतं ॥


ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं॑ गृत्सम॒दासो॑ अक्रन् ।

तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥८

ए॒तानि॑ । वा॒म् । अ॒श्वि॒ना॒ । वर्ध॑नानि । ब्रह्म॑ । स्तोम॑म् । गृ॒त्स॒ऽम॒दासः॑ । अ॒क्र॒न् ।

तानि॑ । न॒रा॒ । जु॒जु॒षा॒णा । उप॑ । या॒त॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥८

एतानि । वां। अश्विना। वर्धनानि । ब्रह्म । स्तोमं । गृत्सऽमदासः। अक्रन्।

तानि । नरा। जुजुषाणा । उप। यातं । बृहत् । वदेम । विदथे । सुऽवीराः ॥८॥

अश्विना हे अश्विनौ वां युवयोरेतानि वर्धनानि वृद्धिसाधनानि ब्रह्म ब्रह्माणि मंत्रान् स्तोमं स्तोत्रं च गृत्समदासो गृत्समदा अक्रन्। अकुर्वन् । तानि ब्रह्माणि नरा नेतारौ जुजुषाणा भृशं प्रीयमाणौ युवामुपयातं । उपगच्छतं । किंच सुवीराः शोभनपुत्रा वयं विदथे यज्ञे युवां बृहद्वदेम । प्रभूतं स्तुमः ॥ ॥५॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.३९&oldid=208879" इत्यस्माद् पुनः प्राप्तिः